TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

वेतालपञ्चविंशति - कथा २२

`बेताल पचीसी'  पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं ।


कथा २२
ततः राजा पुनः गत्वा वेतालम् शिंशपा- अग्रतः ।
सः त्रिविक्रमसेनः तम् प्राप्य अंस- आरोपितम् व्यधात् ॥१॥

आयान्तम् तम् च राजानम् सः वेतालः अब्रवीत् पथि ।
राजन् साधुः सुसत्त्वः त्वम् तत् अपूर्वाम् कथाम् शृणु ॥२॥

बभूव पूर्वम् कुसुमपुर- आख्यनगर- ईश्वरः ।
पृथ्वीतले अस्मिन् धरणीवराहः नाम भूपतिः ॥३॥

तस्य ब्राह्मणभूयिष्ठे राष्ट्रे ब्रह्मस्थलाभिधः ।
अग्रहारः अभवत् तत्र विष्णुस्वामी इति अभूत् द्विजः ॥४॥

तस्य अनुरूपा भार्या अभूत् यथा स्वाहा हविः भुजः ।
तस्याम् च तस्य चत्वारः क्रमात् उत्पेदिरे सुताः ॥५॥

अधीतवेदेषु उत्क्रान्तशैशवेषु च तेषु सः ।
विष्णुस्वामी दिवम् प्रायात् भार्यया अनुगतः तया ॥६॥

ततः ते तत्र तत्पुत्राः सर्वे अपि आनाय्य दुःस्थिताः ।
गोत्रजैः हृतसर्वस्वाः मन्त्रयांचक्रिरे मिथः ॥७॥

न अस्ति इह गतिः अस्माकम् तत् व्रजामः वयम् न किम् ।
इतः मातामहगृहम् ग्रामम् यञ्जस्थलाभिधम् ॥८॥

एतत् एव विनिश्चित्य प्रस्थिताः भैक्ष्यभोजनाः ।
मातामहगृहम् प्रापुः ते अथ तत् बहुभिः दिनैः ॥९॥

तत्र मातामहाभावात् मातुलैः दत्तसंश्रयाः ।
भुञ्जानाः तत्गृहे तस्थुः स्वाध्यायाभ्यासतत्पराः ॥१०॥

कालक्रमात् च तेषाम् ते मातुलानाम् अकिम्चनाः ।
अवज्ञापात्रताम् जग्मुः भोजन- आच्छादन- आदिषु ॥११॥

ततः स्वजनसंस्फूर्जतवमानहत- आत्मनाम् ।
तेषाम् रहः सचिन्तानाम् ज्येष्ठः भ्राता अब्रवीत् इदम् ॥१२॥

भो भ्रातरः किम् क्रियते सर्वम् आचेष्टते विधिः ।
न शक्यम् पुरुषस्य इह क्वचित् किम्चित् कदाचन ॥१३॥

अहम् हि उद्वेगतः भ्राम्यन् प्राप्तः अद्य पितृकानने ।
विपन्नस्थितम् अद्राक्षम् त्रस्ताङ्गम् पुरुषम् भुवि ॥१४॥

अचिन्तयम् च दृष्ट्वा तम् अहम् ताम् स्पृहयन् गतिम् ।
धन्यः अयम् एवम् विश्रान्तः दुःखभारम् विमुच्य यः ॥१५॥

इति संचिन्त्य तत् कालम् कृत्वा मरणनिश्चयम् ।
वृक्षाग्रसङ्गिना पाशेन आत्मानम् उदलम्बयम् ॥१६॥

यावत् च मे विसंज्ञस्य तदा निर्यान्ति न असवः ।
तावत् त्रुटितपाशः अत्र पतितः अस्मि महीतले ॥१७॥

लब्धसंज्ञः च केनापि पुंसा क्षिप्रात् कृपालुना ।
आश्वास्यमानम् आत्मानम् अपश्यम् पटमारुतैः ॥१८॥

सखे कथय विद्वान् अपि एवम् कम् प्रति खिद्यसे ।
सुखम् हि सुकृतात् दुःखम् दुःकृतात् एति न अन्यतः ॥१९॥

दुःखात् यदि तव उद्वेगः सुकृतम् तत् समाचर ।
कथम् तु नारकम् दुःखम् आत्मत्यागेन वाञ्छसि ॥२०॥

इति उक्त्वा माम् समाश्वास्य सः च क्व अपि गतः पुमान् ।
अहम् च इह आगतः त्यक्त्वा तादृशम् मरणौद्यमम् ॥२१॥

तत् एवम् न इच्छति विधौ न मर्तुम् अपि लभ्यते ।
इदानीम् च तनुम् तीर्थे तपसा दाहयामि अहम् ॥२२॥

येन निःधनतादुःखभागी न स्याम् अहम् पुनः ।
इति उक्तवन्तम् ज्येष्ठम् तम् कनिष्ठाः भ्रातरः अब्रुवन् ॥२३॥

अर्थैः विना कथम् प्राज्ञः अपि आर्य दुःकेन बाध्यसे ।
किम् न वेत्सि यत् अर्थानाम् शरदभ्रचला गतिः ॥२४॥

आहृत्य रक्ष्यमाणा अपि यत्नेन अन्तविरागिणी ।
असत्मैत्री च वेश्या च श्रीः च कस्य कदा स्थिरा ॥२५॥

तत् उद्योगेन सः गुणः कःअपि उपार्ज्यः मनस्विना ।
आनीयन्ते हटात् बद्ध्वा येन अर्थहरिणाः मुहुः ॥२६॥

इति उक्तः भ्रातृभिः धैर्यम् क्षणात् ज्येष्ठः अवलम्ब्य सः ।
उवाच कः गुणः तादृकर्जनीयः भवेत् इति ॥२७॥

ततः विचित्य सर्वे ते वदन्ति स्म परस्परम् ।
विचिन्त्य पृथ्वीम् विज्ञानम् किम्चित् शिक्षामहे वयम् ॥२८॥

निश्चित्य एतत् च संकेतस्थानम् उक्त्वा समागमे ।
एकएकशः ते चत्वारः चतस्रः प्रययुः दिशः ॥२९॥

याति काले च मिलिताः ते संकेतनिकेतने ।
किम् केन शिक्षितम् इति भ्रातरः अन्यःअन्यम् अब्रुवन् ॥३०॥

अथ अत्र एकः अब्रवीत् ईदृक् विज्ञानम् शिक्षितम् मया ।
येन अस्थिशकलम् प्राप्य प्राणिनः यस्य कस्यचित् ॥३१॥

उत्पादयामि अहम् तस्मिन् मांसम् ततुचितम् क्षणात् ।
एतत् तस्य वचः श्रुत्वा द्वितीयः तेषु अभाषत ॥३२॥

अहम् तत्र एव संजातमांसे अस्थिशकले किल ।
जाने जनयितुम् लोमत्वचम् तत्प्राणिसंभवि ॥३३॥

ततः तृतीयः अपि अवदत् जाने तत्र एव च अस्मि अहम् ।
तत्प्रानि- अवयवान् स्रष्टुम् जातत्वङ्मांसलोमनि ॥३४॥

चतुर्थः च ततः अवादीत् उत्पन्न अवयव- आकृतिम् ।
तम् एव प्राणिनम् प्रानैः युक्तम् कर्तुम् अवैमि अहम् ॥३५॥

एवम् उक्त्वा मिथः स्वस्वविज्ञानप्रथनाय ते ।
चत्वारः अपि अस्थिखण्डाय प्रययुः भ्रातरः अटवीम् ॥३६॥

तत्र सिंहस्य ते प्रापुः अस्थिखण्डम् विधेः वशात् ।
अविज्ञातविशेषाः च गृह्नन्ति स्म तथा एव तत् ॥३७॥

एकः च तत् समुचितैः ततः मांसैः अयोजयत् ।
द्वितीयः अजनयत् तस्य तद्वत् त्वक्लोमसंहतीः ॥३८॥

तृतीयः च अखिलैः अङ्गैः तत्योग्यैः तत् अपूरयत् ।
चतुर्थः च ददौ तस्य सिंहीभूतस्य जीवितम् ॥३९॥

उदतिष्ठत् अथ उद्धूतसटाभारः अतिभैरवः ।
सः दंष्ट्रासंकटमुखः सिंहः खरनखाङ्कुशः ॥४०॥

धावित्वा च स्वनिर्मात्क़्न् तान् एव चतुरः अपि सः ।
अवधीत् केसरी तृप्तः विवेश च वनम् ततः ॥४१॥

एवम् ते सिंहनिर्माणदोषात् नष्टाः द्विजातयः ।
दुष्टम् हि जन्तुम् उत्थाप्य कस्य आत्मनि सुखम् भवेत् ॥४२॥

इत्थम् च उपार्जितः यत्नात् गुणः अपि विधुरे विधौ ।
संपत्तये न न परम् जायते तु विपत्तये ॥४३॥

मूले हि अविकृते दैवे सिक्ते प्रज्ञानवारिणा ।
नय- आलवालः फलति प्रायः पौरुषपादपः ॥४४॥

इति तस्याम् निशि मार्गे वेतालेन अंसतः कथाम् तेन ।
आख्याय सः त्रिविक्रमसेनः राजा पुनः जगदे ॥४५॥

राजन् तेषु अपराध्यति चतुर्षु कः तत्र सिंहनिर्माणे ।
यत् न्यवधीत् तत्क्ळ्प्तः वद समयः सः अत्र पूर्वः ते ॥४६॥

इति वेतालात् श्रुत्वा राजा सः अचिन्तयत् विमौनस्य ।
इच्छति गन्तुम् अयम् मे यातु आनेष्यामि अमुम् भूयः ॥४७॥

इति हृदि निश्चित्य सः तम् महीपतिः प्रत्युवाच वेतालम् ।
यः तस्य जीवदायी सिंहस्य सः पापभाक् तेषु ॥४८॥

प्राणिविशेषम् अबुद्ध्वा मांसत्वक्लोमगात्रनिर्माणम् ।
युक्तिबलात् तु कृतम् यैः तेषाम् दोषः अस्ति न अज्ञानात् ॥४९॥

येन तु सिंह- आकारम् दृष्ट्वा विद्याप्रकाशनौत्केन ।
प्राणाः तस्य वितीर्णाः तेन कृताः ब्रह्महत्याः ताः ॥५०॥

एतत् सः राज्ञः वचनम् निशम्य स्वधाम वेतालवरः जगाम ।
तस्य अंसतः तत् पुनः एव मायी राजा अपि तम् सः अनुससार भूयः ॥५१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:44.1770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

payment for honour

  • प्रतिष्ठार्थ प्रदान (प्रतिष्ठारक्षणार्थ प्रदान) 
  • (payment of a protested bill or draft by someone other than the primary debtor made with the purpose of saving the credit of such debtor) 
  • न. समानार्थ प्रदान 
  • मानार्थ अदायगीभुगतान 
More meanings
RANDOM WORD

Did you know?

नजर लागते किंवा दृष्ट लागते म्हणजे काय? त्यावर उपाय काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.