TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

वेतालपञ्चविंशति - कथा १६

`बेताल पचीसी'  पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं ।


कथा १६
अथ गत्वा पुनः स्कन्धे वेतालम् शिंशपाद्रुमात् ।
सः त्रिविक्रमसेनः तम् आदाय उदचलत् ततः ॥१॥

आगच्छन्तम् च तम् भूपम् सः वेतालः अब्रवीत् पुनः ।
राजन् शृणु कथाम् एकाम् उदाराम् कथयामि ते ॥२॥

अस्ति इह हिमवान् नाम नगैन्द्रः सर्वरत्नभूः ।
यः गौरीगङ्गयोः तुल्यः प्रभवः हरकान्तयोः ॥३॥

शूरासंस्पृष्टस्प्र्ष्ठः च यः मध्ये कुलभूभृताम् ।
अभिमानौन्नतः सत्यम् गीयते भुवनत्रये ॥४॥

तस्य अस्ति सानुनि अनुअर्थम् तत् काञ्चनपुरम् पुरम् ।
न्यासीकृतम् इव अर्केण रश्मिवृन्दम् विभाति यत् ॥५॥

जीमूतकेतुः इति आसीत् तस्मिन् पुरवरे पुरा ।
विद्याधर- ईश्वरः श्रीमान् मेरौ इव शतक्रतुः ॥६॥

तस्य आसीत् स्वगृहौद्याने कल्पवृक्षः अन्वय- आगतः ।
यथा- अर्थनामा प्रथितः यः मनःरथदायकः ॥७॥

तम् प्रार्थ्य देवता- आत्मानम् सः राजा तत् प्रसादतः ।
प्राप जातिस्मरम् पुत्रम् बोधिसत्त्वांशसंभवम् ॥८॥

दानवीरम् महासत्त्वम् सर्वभूतानुकम्पिनम् ।
गुरुशुश्रूषणपरम् नाम्ना जीमूतवाहनम् ॥९॥

संप्राप्तयौवनम् तम् च यौवराज्ये अभिषिक्तवान् ।
तनयम् प्रेरितः सद्भिः तत्गुणैः सचिवैः च सः ॥१०॥

यौवराज्यस्थितः च एषः जातु जीमूतवाहनः ।
हितएषिभिः उपागत्य जगदे पितृमन्त्रिभिः ॥११॥

देव कल्पतरुः यः अयम् अस्ति वः सर्वकामदः ।
अधृष्यः सर्वभूतानाम् सः एषः पूज्यः सदा तव ॥१२॥

न अस्मिन् सति हि शक्रः अपि बाधेत अस्मान् कुतः अपरः ।
एतत् श्रुत्वा सः जीमूतवाहनः अन्तरचिन्तयत् ॥१३॥

अहो बत ईदृशम् इमम् संप्राप्य अमरपादपम् ।
न आसादितम् किम् अपि अस्मात् पूर्वैः नः तादृशम् फलम् ॥१४॥

केवलम् कैःचित् अपि अर्थैः अर्थितैः कृपणौचितैः ।
आत्मा च एषः महा- आत्मा च नीतौ द्वौ अपि लाघवम् ॥१५॥

तत् अहम् साधयीष्यामि कामम् अस्मात् मनःगतम् ।
इति निश्चित्य सः ययौ महासत्त्वः अन्तिकम् पितुः ॥१६॥

तत्र संविहिताशेषशुश्रूषापरितोषितम् ।
सुख- आसीनम् तम् एकान्ते पितरम् सः व्यजिज्ञपत् ॥१७॥

तत त्वम् एव जानासि यत् एतस्मिन् भवाम्बुधौ ।
आशरीरम् इदम् सर्वम् वीचिविभ्रमचञ्चलम् ॥१८॥

विशेषेन अचिरस्थायिप्रकाशप्रविलायिनी ।
संध्या विद्युत् च लक्ष्मीः च दृष्टा कुत्र कदा स्थिरा ॥१९॥

एकः परौपकारः तु संसारे अस्मिन् अनश्वरः ।
यः धर्मयशसी सूते युगान्तशतसाक्षिणी ॥२०॥

तत् तात क्षणिकेषु एषु भोगेषु अस्माभिः ईदृशः ।
एषः कल्पतरुः कस्य कृते मोघः अभिरक्ष्यते ॥२१॥

यैः वा मम मम इति एवम् आग्रहेन एषः रक्षितः ।
पूर्वैः ते कुत्र कुत्र अयम् तेषाम् कः च एषः कः अस्य वा ॥२२॥

तस्मात् परौपकारएकफलसिद्ध्यै त्वताज्ञया ।
तात एनम् विनियुञ्जे अहम् कामदम् कल्पपादपम् ॥२३॥

एवम् अस्तु इति पित्रा च दत्तानुज्ञः अथ तेन सः ।
जीमूतवाहनः गत्वा कल्पद्रुमम् उवाच तम् ॥२४॥

अभीष्टाः पूरिताः कामाः पूर्वेषाम् देव नः त्वया ।
तत् मम एकम् इमम् कामम् अनन्यम् परिपूरय ॥२५॥

अदरिद्राम् यथा पृथ्वीम् इमाम् द्रक्ष्ये तथा कुरु ।
भद्रम् ते व्रज दत्तः असि लोकाय अर्थार्थिने मया ॥२६॥

इति उक्तवति जीमूतवाहने रचिताञ्जलौ ।
त्यक्तः त्वया एषः जातः अस्मि इति उदभूत् वाक् तरोः ततः ॥२७॥

क्षणात् च उत्पत्य सः दिवम् कल्पवृक्षः तथा वसु ।
ववर्ष भुवि न एव आसीत् कः अपि अस्याम् दुःगतः यथा ॥२८॥

ततः तस्य तया तीवृ- असर्वसत्त्वानुकम्पया ।
जीमूतवाहनस्य अत्र त्रैलोक्ये पप्रथे यशः ॥२९॥

तेन तत्गोत्रजाः सर्वे मात्सर्यात् असहिष्णवः ।
तम् लोकसात्कृत- आर्तिघ्नकल्पवृक्षविनाकृतम् ॥३०॥

जेयम् सपितृकम् मत्वा संभूय कृतनिश्चयाः ।
युद्धाय समनह्यन्त तत् राज्यापजिहीर्षया ॥३१॥

तत् दृष्ट्वा प्राह पितरम् स्वम् सः जीमूतवाहनः ।
तात कस्य अपरस्य अस्ति शक्तिः त्वयि धृत- आयुधे ॥३२॥

किम् तु अस्य पापकस्य अर्थे शरीरस्य विनाशिनः ।
हत्वा बन्धून् अकृपनः राज्यम् कः नाम वाञ्छति ॥३३॥

तत् किम् राज्येन नः कार्यम् गत्वा अन्यत्र क्वचित् वयम् ।
धर्मम् एव चरिष्यामः लोकद्वयसुख- आवहम् ॥३४॥

मोदन्ताम् कृपणाः एते दायादाः राज्यलोलुपाः ।
इति उक्तवन्तम् जीमूतकेतुः तम् सः पिता अब्रवीत् ॥३५॥

अहम् त्वतर्थम् इच्छामि राज्यम् पुत्र त्वम् एव चेत् ।
तत् जहासि कृपा- आविष्टः तत् मे वृद्धस्य तेन किम् ॥३६॥

एवम् कृताभ्यनुज्ञेन पित्रा मात्रा च सः अन्वितः ।
मलयाद्रिम् अगात् त्यक्तराज्यः जीमूतवाहनः ॥३७॥

तत्र चन्दनसंछन्नवहत् निःझरकन्दरे ।
शुश्रूषमाणः पितरम् सः तस्थौ कल्पित- आश्रमः ॥३८॥

मित्रम् च अस्य अत्र संपेदे मित्रावसुः इति श्रुतः ।
विश्वावसोः सुतः सिद्धराजस्य एतत्निवासिनः ॥३९॥

एकदा च अत्र सः भ्राम्यन् विवेश उपवनस्थितम् ।
द्रष्टुम् आयतनम् देव्याः गौर्याः जीमूतवाहनः ॥४०॥

तत्र उपवीणयन्तीम् च ददर्श वरकन्यकाम् ।
सखीजनान्विताम् शैलतनया- आराधनौद्यताम् ॥४१॥

आकर्ण्यमानसंगीतमञ्जुवीणारवाम् मृगैः ।
दृष्टलोचनलावन्यलज्जितैः इव निःचलैः ॥४२॥

दधता तारकम् कृष्णम् अर्जुनेन स्वचक्षुषा ।
पाण्डवीयाम् इव चमूम् कर्णमूलम् विविक्षतीम् ॥४३॥

परःपरविमर्देन मुखैन्दोः इव दर्शनम् ।
अतृप्तौ इव वाञ्छन्तौ बिभ्रन्तीम् संमुखौ स्तनौ ॥४४॥

धातुः घटयतः मुष्टिग्रहेण इव निपीडिते ।
वलीमग्नाङ्गुलीमुद्रे मध्ये क्षाममनःरमाम् ॥४५॥

दृष्टया च तया सद्यः सः अभूत् जीमूतवाहनः ।
तन्व्या मुषितचित्तः अन्तः दृष्टिमार्गप्रविष्टया ॥४६॥

सा अपि तम् भूषितौद्यानम् दृष्ट्वा उत्कण्ठाविकारदम् ।
कामाङ्गदाहवैराग्यात् वनम् मधुम् इव आश्रितम् ॥४७॥

तथा अनुरागविवशा भेजे कन्या विहस्तताम् ।
यथा सखी इव वीणा अस्याः व्याकुला आलापताम् ययौ ॥४८॥

ततः सः पप्रच्छ सखीम् तस्याः जीमूतवाहनः ।
किम् धन्यम् नाम सख्याः ते कः वंशः अलंकृतः अनया ॥४९॥

तत् श्रुत्वा सा सखी प्राह नाम्ना मलयवती असौ ।
मित्रावसुस्वसा सिद्धराजविश्वावसोः सुता ॥५०॥

एवम् उक्त्वा सहृदया सा तम् जीमूतवाहनम् ।
नामान्वयौ च पृष्ट्वा अस्य मुनिपुत्रम् सह- आगतम् ॥५१॥

ताम् ब्रवीति स्म मलयवतीम् स्मितमिताक्षरम् ।
सखि विद्याधरैन्द्रस्य न अस्य आतिथ्यम् करोषि किम् ॥५२॥

जगत्पूज्यः अतिथिः हि एषः प्राप्तः इति उदिते तया ।
सा अभूत् विद्याधरसुता तूष्णीम् लज्जा- आनत- आनना ॥५३॥

लज्जावती इयम् मत्तः अर्चा गृह्यताम् इति वादिनी ।
एका अथ तत् सखी तस्मै सार्घ्याम् मालाम् उपानयत् ॥५४॥

सः च आदाय एव जीमूतवाहनः प्रेमनिःभरः ।
कण्ठे मलयवत्याः ताम् मालाम् तस्याः समर्पयत् ॥५५॥

सा अपि तिर्यक्प्रसृतया पश्यन्ती स्निग्धया दृशा ।
नीलौत्पलमयीम् मालाम् इव तस्मिन् न्यवेशयत् ॥५६॥

इति अन्यःअन्यकृताशब्दस्वयम्वरविशेषयोः ।
तयोः एत्य जगाद एका चेटी ताम् सिद्धकन्यकाम् ॥५७॥

जननी राजपुत्रि त्वाम् स्मरति आगच्छ माचिरम् ।
तत् श्रुत्वा आकृष्य कामैषुकीलिताम् इव कृच्छ्रतः ॥५८॥

सौत्काम् प्रियमुखात् दृष्टिम् कथम्चित् सा ययौ गृहम् ।
जीमूतवाहनः अपि आगात् तत् नत- आत्मा स्वमाश्रमम् ॥५९॥

सा अथ स्वाम् जननीम् दृष्टा प्राण- ईशविरह- आतुरा ।
गत्वा मलयवती आशु पपात शयनीयके ॥६०॥

अथ अन्तर्गतकामाग्निधूमेन इव आविल- ईक्षणा ।
अश्रुधाराम् प्रमुञ्चन्ती संतापक्वथिताङ्गका ॥६१॥

सखीभिः चन्दनैः लिप्ता वीजिता च अब्जिनिदलैः ।
रतिम् न भेजे शयने न अङ्के सख्याः न भूतले ॥६२॥

गते अथ वासरे क्वापि रक्तया सह संध्यया ।
हसत्प्राचीमुखम् चन्द्रे समाक्रम्य च चुम्बति ॥६३॥

स्मरेण प्रेर्यमाणा अपि दूतीसंप्रेषण- आदि सा ।
लज्जया न अशकत् कर्तुम् जीवितस्पृहया उज्झिता ॥६४॥

निनाय च निशाम् इन्दुविषमाम् अब्जिनी इव ताम् ।
बद्धमोहालिपटले हृदि संकोचम् एत्य सा ॥६५॥

तावत् च तत्वियोग- आर्तः सः अपि जीमूतवाहनः ।
शयनस्थः अपि पतितः हस्ते कुसुमधन्वनः ॥६६॥

नूतनौद्भिन्नरागः अपि प्रोन्मिषत्पाण्डुरछविः ।
ह्रीमूकः अपि वदन् पीडाम् कामजाम् अनयत् निशाम् ॥६७॥

प्रातः च अत्युत्सुकः भूयः तत् गौरी- आयतनम् ययौ ।
यत्र दृष्टा अभवत् तेन सा सिद्धाधिपपुत्रिका ॥६८॥

तत्र तेन सः मित्रेण मुनिपुत्रेण पृष्ठतः ।
आगत्य आश्वास्यते यावत् मदनानलविह्वलः ॥६९॥

तावत् तत्र एव सा अपि आगात् निर्गत्य एका एव निःजने ।
गुप्तम् मलयवती आत्मत्यागाय विरहासहा ॥७०॥

अलक्षयन्ती कान्तम् स्वम् पादपान्तरितम् च सा ।
उदश्रुलोचना बाला देवीम् गौरीम् व्यजिज्ञपत् ॥७१॥

त्वत्भक्त्या देवि संवृत्तः न अस्मिन् जन्मनि चेत् मम ।
जीमूतवाहनः भर्ता तत् भूयात् सः अन्यजन्मनि ॥७२॥

इति उक्त्वा रचयामास स्वौत्तरीयेण तत् क्षणम् ।
अशोकतरुशाखायाम् पाशम् सा गिरिजा- अग्रतः ॥७३॥

हा नाथ विश्वविख्यातकरुणेन अपि न त्वया ।
कथम् अस्मि परित्राता देव जीमूतवाहन ॥७४॥

एवम् उक्त्वा गले यावत् सा तम् पाशम् नियच्छति ।
उच्चचार दिवः तावत् भारती देवी- उदीरिता ॥७५॥

पुत्रि मा साहसम् कार्षीः चक्रवर्ती पतिः तव ।
विद्याधरैन्द्रः जीमूतवाहनः हि भविष्यति ॥७६॥

इति उक्तवत्याम् देव्याम् सः श्रुत्वा एव सवयस्यकः ।
जीमूतवाहनः हृष्टाम् प्रियाम् उपजगाम ताम् ॥७७॥

सः एषः देव्या वरः पश्य वितीर्णः सत्यः एव ते ।
इति जल्पति बालाम् ताम् तत्मित्रे मुनिपुत्रके ॥७८॥

जीमूतवाहनः तत् तत् ब्रुवन् प्रणयपेशलम् ।
स्वहस्तेन एव तम् तस्याः कण्ठात् पाशम् अपानयत् ॥७९॥

ततः अकस्मात् सुधावर्षम् इव मन्वानयोः तयोः ।
भुवम् मलयवत्याम् च लिखन्त्याम् ह्रीतया दृशा ॥८०॥

चिन्वाना आगत्य सहसा सखी हृष्टा जगाद ताम् ।
सखि कल्याणिनी दिष्ट्या वर्धसे अभीष्टसिद्धितः ॥८१॥

अद्य एव हि महाराजः तव विश्वावसुः पिता ।
कुमारमित्रावसुना विज्ञप्तः संनिधौ मम ॥८२॥

इह आगतः जगत्मान्यः तात कल्पतरुप्रदः ।
विद्याधरैन्द्रतनयः यः अयम् जीमूतवाहनः ॥८३॥

अतिथित्वात् सः नः पूज्यः वरः च अन्यः न तादृशः ।
तस्मात् मलयवत्या असौ कन्यारत्नेन पूज्यताम् ॥८४॥

तथा इति श्रद्धिते राज्ञा भ्राता मित्रावसुः सः ते ।
तादर्थ्येन महाभागस्य अस्य आश्रमपदम् गतः ॥८५॥

जाने सद्यः च भावी ते विवाहः तत् स्वमन्दिरम् ।
आयाहि यातु च एषः अपि महाभागः स्वम् आस्पदम् ॥८६॥

इति उक्ता सा तया सख्या राजपुत्री शनैः ततः ।
ययुः सहर्षा सौत्का च मुहुःवलितकंधरा ॥८७॥

जीमूतवाहनः अपि आशु गत्वा स्व- आश्रमम् आगतात् ।
मित्रावसोः यथा- अभीष्टम् कार्यम् श्रुत्वा अभिनन्द्य च ॥८८॥

जातिस्मरः समाचख्यौ तस्मै स्वम् पूर्वजन्म सः ।
यत्र मित्रम् सः तस्य आसीत् सा च भार्या एव तत्स्वसा ॥८९॥

ततः मित्रावसुः प्रीतः तत्पित्रोः परितुष्यतोः ।
आवेद्य गत्वा पितरौ कृतार्थः स्वौ अनन्दयत् ॥९०॥

निनाय च तदा एव स्वान् गृहान् जीमूतवाहनम् ।
चक्रे च उत्सवसंभारम् स्वसिद्धिउचितवैभवम् ॥९१॥

तस्मिन् एव च धन्ये अह्नि तस्य विद्याधरप्रभोः ।
स्वसुः मलयवत्याः च विवाहम् समपादयन् ॥९२॥

ततः नव- ऊढया साकम् तया जीमूतवाहनः ।
तस्थौ मलयवत्या सः तत्र सिद्धमनःरथः ॥९३॥

एकदा कौतुकात् च अत्र सः मित्रावसुना सह ।
मलयाद्रौ भ्रमन् अप्धेः वेलावनम् उपेयिवान् ॥९४॥

तत्र अस्थिराशीन् सुबहून् दृष्ट्वा मित्रावसुम् सः तम् ।
केषाम् एते अस्थिसंघाताः प्राणिनाम् इति पृष्टवान् ॥९५॥

ततः मित्रावसुः श्यालः तम् कारुणिकम् अब्रवीत् ।
शृणु वृत्तान्तम् अत्र इमम् संक्षेपात् वर्णयामि ते ॥९६॥

नागमाता पुरा कद्रूः विनताम् तार्क्ष्यमातरम् ।
निनाय किल दासत्वम् सव्याजपणनिर्जिताम् ॥९७॥

तेन वैरेण गरुडः ताम् उन्मोच्य अपि मातरम् ।
बली भक्षयितुम् नागान् कद्रूपुत्रान् प्रचक्रमे ॥९८॥

सदा प्रविश्य पातालम् सः अथ कान्चित् जघास तान् ।
कान्चित् ममर्द केचित् तु स्वयम् त्रासात् विपेदिरे ॥९९॥

तत् दृष्ट्वा एकपदे सर्वक्षयम् आशङ्क्य नागराट् ।
वासुकिः प्रार्थनापूर्वम् तार्क्ष्यस्य समयम् व्यधात् ॥१००॥

एकम् एकम् अहम् नागम् आहारार्थम् खगैन्द्र ते ।
प्रति- अहम् प्रेषयामि अत्र पुलिने दक्षिणौदधेः ॥१०१॥

त्वया तु न प्रवेष्टव्यम् पाताले अस्मिन् कथम्चन ।
कः हि स्वार्थः विनष्टेषु नागेषु एकपदे तव ॥१०२॥

इति उक्ते नागराजेन समयम् प्रत्यपद्यत ।
स्वार्थदर्शी तथा इति एव गरुडः गुरुविक्रमः ॥१०३॥

तदाप्रभृति च एकएकम् नागम् भुङ्क्ते दिने दिने ।
वासुकिप्रेषितम् सः अत्र खगैन्द्रः पुलिने अम्बुधेः ॥१०४॥

अतः तत्भक्ष्यमाणानाम् नागनाम् अस्थिसंचयाः ।
एते अत्र गिरिशृङ्ग- आभाः वृद्धिम् कालक्रमात् गताः ॥१०५॥

इति मित्रावसोः वक्त्रात् सान्तःदुःखः निशम्य सः ।
निजगाद दयाधैर्यनिधिः जीमूतवाहनः ॥१०६॥

शोच्यः सः वासुकिः राजा यः स्वहस्तेन विद्विषे ।
उपहारीकरोति स्वाः प्रजाः क्लीबः दिने दिने ॥१०७॥

धृत- आननसहस्रः सन् एकेन अपि आननेन सः ।
माम् आदौ भुङ्क्ष्व तार्क्ष्य इति भाषितुम् न अशकत् कथम् ॥१०८॥

कथम् च अभ्यर्थयामास निःसत्त्वः स्वकुलक्षयम् ।
तार्क्ष्यम् नागाङ्गनाक्रन्दनित्य- आकर्णननिःघृणः ॥१०९॥

तार्क्ष्यः अपि काश्यपिः वीरः कृष्णाधिष्ठानपावनः ।
ईदृशम् कुरुते पापम् अहो मोहस्य गाढता ॥११०॥

इति उक्त्वा सः महासत्त्वः हृदि चक्रे मनःरथम् ।
अपि असारेण देहेन सारम् अत्र आप्नुयाम् अहम् ॥१११॥

एकस्य अपि अद्य नागस्य कुर्याम् जीवितरक्षणम् ।
अबान्धवस्य भीतस्य दत्त्वा आत्मानम् गरुत्मते ॥११२॥

इति संचिन्तयति एव तस्मिन् जीमूतवाहने ।
मित्रावसोः पितुः पार्श्वात् क्षत्ता आह्वानार्थम् आययौ ॥११३॥

व्रज त्वम् अहम् एष्यामि पश्चात् इति ततः च तम् ।
मित्रावसुम् सः जीमूतवाहनः व्यसृजत् गृहम् ॥११४॥

गते तस्मिन् सः च अत्र एकः वाञ्छितार्थौन्मुखः भ्रमन् ।
कृपालुः अशृनोत् दूरात् करुणम् रुदितध्वनिम् ॥११५॥

गत्वा ददर्श च उत्तुङ्गशिलातलसमीपगम् ।
युवानम् एकम् पुरुषम् दुःखितम् सुन्दर- आकृतिम् ॥११६॥

पुंसा राजभटेन इव त्यक्तम् आनीय तत् क्षणम् ।
निवर्तयन्तम् रुदतीम् वृद्धाम् सानुनयम् स्त्रियम् ॥११७॥

कः अयम् स्यात् इति यावत् च जिज्ञासुः सः अत्र तिष्ठति ।
करुणा- आकुलितः छन्नः शृण्वन् जीमूतवाहनः ॥११८॥

तावत् सा तत्र वृद्धा स्त्री दुःखभारातिपीडिता ।
प्रावर्तत युवानम् तम् दृष्ट्वा दृष्ट्वा अनुशोचितुम् ॥११९॥

हा शङ्खचूड हा दुःखशतसंप्राप्त हा गुणिन् ।
कुलएकतन्तो हा पुत्र क्व त्वाम् द्रक्ष्यामि अहम् पुनः ॥१२०॥

वत्स त्वत्मुखचन्द्रे अस्मिन् गते अस्तम् सः पिता तव ।
सोकान्धकारपतितः कथम् वृद्धः भविष्यति ॥१२१॥

अथ अर्ककरसंस्पर्शात् अङ्गम् दूयेत यत् तव ।
कथम् शक्ष्यति तत् सोढुम् तार्क्ष्यभक्षणजाम् रुजम् ॥१२२॥

विस्तीर्णे नागलोके अपि धात्रा नागाधिपेन च ।
लब्धः त्वम् किम् अभव्यायाः विचित्य एकसुतः मम ॥१२३॥

इति ताम् विलपन्तीम् च सः युवा तनयः अब्रवीत् ।
दुःख- आर्तम् अपि माम् अम्ब किम् दुःखयसि हा भृशम् ॥१२४॥

निवर्तस्व गृहान् एषः प्रणामः पश्चिमः तव ।
इह आगमनवेला हि भवेत् जातु गरुत्मतः ॥१२५॥

तत् श्रुत्वा हा हता अस्मि इह कः मे पास्यति पुत्रकम् ।
इत चक्रन्द सा वृद्धा दिक्षु क्षिप्त- आर्तलोचना ॥१२६॥

तावत् च बोधिसत्त्वांशः सः तत् जीमूतवाहनः ।
श्रुत्वा दृष्ट्वा च कृपया गाढ- आक्रान्तः व्यचिन्तयत् ॥१२७॥

हन्त अयम् शङ्खचूड- आख्यः नागः वासुकिना बत ।
आहारहेतोः तार्क्ष्यस्य तपस्वी प्रेषितः अधुना ॥१२८॥

इयम् च एतस्य जननी स्नेहेन इह अन्वक् आगता ।
एततेकसुता वृद्धा दुःखदीनप्रलापिनी ॥१२९॥

तत् एनम् एकम् आर्तम् चेत् देहेन एकान्तनाशिना ।
रक्षामि न अमुना नागम् तत् मे धिक् जन्म निःफलम् ॥१३०॥

इति आलोच्य उपगम्य एव मुदा जीमूतवाहनः ।
वृद्धाम् उवाच ताम् मातः पुत्रम् रक्षामि अहम् तव ॥१३१॥

तत् श्रुत्वा भावितभया वृद्धा गरुडशङ्खिनी ।
संत्रस्ता तार्क्ष्य माम् भुङ्क्ष्व माम् भुङ्क्ष्व इति जगाद सा ॥१३२॥

शङ्खचूडः ततः अवादीत् न एषः तार्क्ष्यः अम्ब मा त्रसीः ।
क्व अयम् चन्द्रः इव आह्लादी क्व सः तार्क्ष्यः भयंकरः ॥१३३॥

इति उक्ते शङ्खचूडेन प्राह जीमूतवाहनः ।
विद्याधरः अहम् आयातः राक्षितुम् सुतम् अम्ब ते ॥१३४॥

दास्यामि हि शरीरम् स्वम् वस्त्रछन्नम् गरुत्मते ।
क्षुधिताय प्रयाहि त्वम् आदाय एनम् सुतम् गृहम् ॥१३५॥

तत् श्रुत्वा सा अब्रवीत् वृद्धा मा एवम् त्वम् हि अधिकः मम ।
पुत्रः यस्य ईदृशे काले कृपा- अस्मासु इयम् ईदृशी ॥१३६॥

एतत् श्रुत्वा सः जीमूतवाहनः पुनः अब्रवीत् ।
न मे मनःरथस्य अस्य भङ्गम् कर्तुम् इह अर्हथ ॥१३७॥

ग्रहात् एवम् ब्रुवाणम् च शङ्खचूडः जगाद तम् ।
दर्शिता एव महासत्त्व त्वया सत्यम् कृपालुता ॥१३८॥

न तु अहम् त्वत्शरीरेण रक्ष्यामि स्वशरीरकम् ।
रत्नव्ययेन पाषाणम् कः हि रक्षितुम् अर्हति ॥१३९॥

मादृशैः तु जगत् पूर्णम् स्व- आत्ममात्रानुकम्पिभिः ।
अनुकम्प्यम् जगत् येषाम् विरलाः ते भवादृशाः ॥१४०॥

न च अहम् मलिनीकर्तुम् शङ्खपालकुलम् शुचि ।
कलङ्कः इव तीक्ष्णांशुबिम्बम् शक्ष्यामि सत्मते ॥१४१॥

इति तम् प्रतिषिध्य एव शङ्खचूडः स्वमातरम् ।
जगाद अम्ब निवर्तस्व कान्तारात् दुःगमात् इतः ॥१४२॥

न पश्यसि किम् अत्र एतत् नागासृक्कर्दमौक्षितम् ।
कृतान्तलीलापर्यङ्करौद्रम् वध्यशिलातलम् ॥१४३॥

अहम् च अप्धितटे गत्वा नत्वा गोकर्णम् ईश्वरम् ।
आगच्छामि द्रुतम् यावत् न आयाति गरुडः अत्र सः ॥१४४॥

इति उक्त्वा कृपण- आक्रन्दाम् प्रणम्य आपृच्छ्य मातरम् ।
सः गोकर्णप्रणामार्थम् शङ्खचूडः ययौ ततः ॥१४५॥

अस्मिन् चेत् अन्तरे प्राप्तः तार्क्ष्यः सिद्धः मम ईप्सितः ।
परार्थ इति जीमूतवाहनः अपि अकरोत् हृदि ॥१४६॥

तावत् च आसन्नपक्षीन्द्रपक्षानिलचलान् तरून् ।
विलोक्य अत्र सः मा मा इति निवारणपरान् इव ॥१४७॥

मत्वा गरुडवेलाम् च प्राप्ताम् जीमूतवाहनः ।
परार्थप्राणदः वध्यशिलाम् अध्यारुरोह ताम् ॥१४८॥

पवन- आघूर्णिते च अप्धौ स्फुरद्रत्नप्रभादृशा ।
तम् सत्त्वातिशयम् तस्य पश्यति इव सविस्मयम् ॥१४९॥

आगत्य आच्छादितनभाः निपत्य एतत्शिलातलात् ।
चञ्च्वा गरुत्मान् आहत्य महासत्त्वम् जहार तम् ॥१५०॥

स्रुतासृक्धारम् उत्खातशिरःरत्नम् च तम् जवात् ।
नीत्वा भक्षयितुम् शृङ्गे मलयाद्रेः प्रचक्रमे ॥१५१॥

एवम् एव परार्थाय देहः स्यात् प्रतिजन्म मे ।
मा भूताम् स्वर्गमोक्षौ तु परौपकृतिवर्जितौ ॥१५२॥

इति तार्क्ष्याद्यमानस्य तस्य अनुध्यायतः तदा ।
विद्याधरैन्दोः अपतत् पुष्पवृष्टिः नभःतलात् ॥१५३॥

अत्रान्तरे सः तत् रक्तधारास्रवशिरःमणिः ।
तस्याः मलयवत्याः च तत्पत्न्याः प्रापतत् पुरः ॥१५४॥

सा तत् दृष्ट्वा परिज्ञाय चूडारत्नम् सुविह्वला ।
अन्तिकस्था श्वशुरयोः ताभ्याम् साश्रुः अदर्शयत् ॥१५५॥

तौ च जायापती सूनोः शिरःरत्नम् विलोक्य तम् ।
किम् एतत् इति संभ्रान्तौ सहसा एव बभूवतुः ॥१५६॥

ततः स्वविद्या- अनुध्यानात् यथावृत्तम् अवेत्य तत् ।
राजा जीमूतकेतुः सा राज्नी कनकवती अपि ॥१५७॥

वध्वा मलयवत्या तौ प्रावर्तेताम् सह द्रुतम् ।
गन्तुम् तत्र एव तौ यत्र तार्क्ष्यजीमूतवाहनौ ॥१५८॥

तावत् सः शङ्खचूडः अत्र नत्वा गोकर्णम् आगतः ।
ददर्श रुधिरार्द्रम् तत् विग्नः वध्यशिलातलम् ॥१५९॥

हा हतः अस्मि महापापः ध्रुवम् तेन महा- आत्मना ।
आत्मा गरुत्मते दत्तः मत्कृते सुकृपालुना ॥१६०॥

तत् अन्विष्यामि नीतः सः क्षणे अस्मिन् क्व अहिवैरिणा ।
मज्जेयम् न अयशःपङ्के जीवन्तम् चेत् तम् आप्नुयाम् ॥१६१॥

इति उदश्रुः वदन् सः अथ साधुः दृष्ट्वा निःअन्तराम् ।
पतिताम् भुवि तत्रक्तधाराम् अनुसरन् ययौ ॥१६२॥

अत्रान्तरे भक्षयन् तम् दृष्ट्वा जीमूतवाहनम् ।
हृष्टम् विरम्य गरुडः चिन्तयामास तत् क्षणम् ॥१६३॥

अहो अपूर्वः कः अपि एषः भक्ष्यमानः अपि यः मया ।
प्रहृष्यति महासत्त्वः न तु प्राणैः वियुज्यते ॥१६४॥

बिभर्ति लुप्तशेषे च गात्रे रोमाञ्चकञ्चुकम् ।
किम् च उपकारिणि इव अस्य मयि दृष्टिः प्रसीदति ॥१६५॥

तत् न एषः नागः कः अपि एषः साधुः पृच्छामि न अद्मि अमुम् ।
इति तार्क्ष्यम् विमृश्यन्तम् प्राह जीमूतवाहनः ॥१६६॥

पक्षीन्द्र किम् निवृत्तः असि न हि मे मांसशोणितम् ।
देहे न अस्ति न च अद्य अपि परितृप्तः असि बुङ्क्ष्व तत् ॥१६७॥

एतत् श्रुत्वा अतिस- आश्चर्यः तम् पप्रच्छ सः पक्षिराट् ।
नागः न एव असि तत् ब्रूहि महा- आत्मन् कः भवान् इति ॥१६८॥

नागः एव अस्मि कः अयम् ते प्रश्नः प्रकृतम् आचर ।
प्रस्तुतार्थविरुद्धम् हि कः अभिदध्यात् अबालिशः ॥१६९॥

एवम् प्रतिवदति एव तार्क्ष्यम् जीमूतवाहने ।
प्राप्तः सः शङ्खचूडः अत्र दूरात् एव अभ्यभाषत ॥१७०॥

मा मा कृथाः महापापम् साहसम् विनता- आत्मज ।
कः अयम् भ्रमः ते न हि एषः नागः नागः अहम् एषः ते ॥१७१॥

इति उक्त्वा द्रुतम् आगत्य मध्ये स्थित्वा तयोः द्वयोः ।
दृष्ट्वा च तार्क्ष्यम् विभ्रान्तम् शङ्खचूडः अब्रवीत् पुनः ॥१७२॥

किम् भ्राम्यसि फणाः किम् मे जिह्वे द्वे च न पश्यसि ।
विद्याधरस्य किम् च अस्य सौम्याम् पश्यसि न आकृतिम् ॥१७३॥

शङ्खचूडे वदति एवम् भार्या च पितरौ च तौ ।
जीमूतवाहनस्य अत्र सर्वे सत्वरम् आययुः ॥१७४॥

विलुप्ताङ्गम् च तम् दृष्ट्वा पितरौ तस्य तत् क्षणम् ।
चक्रन्दतुः तौ हा पुत्र हा हा जीमूतवाहन ॥१७५॥

हा कारुणिक हा वत्स परार्थप्रत्तजीवित ।
हा कथम् वैनतेय इदम् अविमृश्य कृतम् त्वया ॥१७६॥

एतत् श्रुत्वा एव तार्क्ष्यः अत्र सः अनुतप्तः व्यचिन्तयत् ।
हा कथम् बोधिसत्त्वांशः संमोहात् भक्षितः मया ॥१७७॥

जीमूतवाहनः सः अयम् परार्थप्राणदायकः ।
यस्य भ्रमति कृत्स्ने अस्मिन् त्रैलोक्ये कीर्तिघोषणा ॥१७८॥

तत् मे मृते अस्मिन् पापस्य प्राप्तम् अग्निप्रवेशनम् ।
अधर्मविषवृक्षस्य पच्यते स्वादु किम् फलम् ॥१७९॥

इति चिन्ता- आकुले तार्क्ष्ये दृष्ट्वा बन्धून् निपत्य सः ।
व्रणव्यथायाम् पञ्चत्वम् प्राप जीमूतवाहनः ॥१८०॥

ततः विलपतोः तत्र तत्पित्रोः शोकदीनयोः ।
उत्क्रुश्य मुहुः आत्मानम् शङ्खचूडे च निन्दति ॥१८१॥

भार्या मलयवती अस्य नभः दृष्ट्वा अश्रुगद्गदम् ।
पूर्वप्रसन्नाम् वरदाम् इति उपालभत अम्बिकाम् ॥१८२॥

विद्याधराधिपः भाविचक्रवर्ती पतिः तव ।
भविता इति अहम् आदिष्टा देवि गौरी तदा त्वया ॥१८३॥

तत् मिथ्यावादिनी जाता त्वम् अपि असि कथम् मयि ।
इति उक्तवत्याम् तस्याम् सा गौरी प्रत्यक्षताम् अगात् ॥१८४॥

न मे मिथ्या वचः पुत्री इति उक्त्वा सा स्वकमण्डलोः ।
अमृतेन आशु जीमूतवाहनम् सिञ्चति स्म तम् ॥१८५॥

तेन सः अक्षतसर्वाङ्गः पूर्वाधिकतरद्युतिः ।
जीवन् सद्यः समुत्तस्थौ कृती जीमूतवाहनः ॥१८६॥

उत्थितम् प्रणतम् तम् च सर्वेषु प्रणमत्सु सा ।
उवाच देवी तुष्टा अस्मि देहदानेन ते अमुना ॥१८७॥

तत् एषा त्वा अभिषिञ्चामि पुत्र आत्मीयेन पाणिना ।
विद्याधराणाम् आकल्पम् चक्रवर्तिपदे अधुना ॥१८८॥

एवम् वदन्ती जीमूतवाहनम् कलशाम्बुधिः ।
तम् अभ्यषिञ्चत् शर्वानी पूजिता च तिरःदधे ॥१८९॥

निपेतुः च अत्र तत् कालम् दिव्याः कुसुमवृष्टयः ।
नदन्ति स्म च स- आनन्दम् देवदुन्दुभयः दिवि ॥१९०॥

अथ उवाच सः तम् प्रह्वः तार्क्ष्यः जीमूतवाहनम् ।
चक्रवर्तिन् अहम् प्रीतः पुरुषातिशये त्वयि ॥१९१॥

अपूर्वौदारमतिना त्रिजगत्कौतुक- आवहम् ।
ब्रह्मा- अण्डभित्तिलिखितम् येन चित्रम् इदम् कृतम् ॥१९२॥

तत् माम् प्रशाधि मत्तः च वृणुष्व अभीप्सितम् वरम् ।
इति उक्तवन्तम् गरुडम् महासत्त्वः जगाद सः ॥१९३॥

न भक्ष्याः सानुतापेन भूत्वा नागाः पुनः त्वया ।
ते अपि अस्थिशेषाः जीवन्तु ये त्वया पूर्वभक्षिताः ॥१९४॥

एवम् अस्तु न भोक्ष्ये अहम् नागान् शान्तमतः परम् ।
प्राक् ये च भुक्ताः ते जीवन्तु इति तार्क्ष्यः अपि उवाच सः ॥१९५॥

ततः अस्तिशेषाः ये अपि आसन् नागाः तत्पूर्वभक्षिताः ।
ते अपि सर्वे समुत्तस्थुः तत्वरामृतजीविताः ॥१९६॥

सुरैः नगैः मुनिगनैः स- आनन्दैः मिलितैः अथ ।
सः लोकत्रितयाभिख्याम् उवाह मलयाचलः ॥१९७॥

तत् कालम् तम् च जीमूतवाहनौदन्तम् अद्भुतम् ।
गौर्याः प्रसादात् विविदुः सर्वे विद्याधर- ईश्वराः ॥१९८॥

आगत्य ते च चरणावनताः हिमाद्रिम् निन्युः क्षणात् मुदितबन्धुसुहृत्समेतम् ।
तम् पार्वतीस्वकरक्ळ्प्तमहा- अभिषेकम् सत्चक्रवर्तिनम् अथ प्रतिमुक्ततार्क्ष्यम् ॥१९९॥

तत्र सः पित्रा मात्रा मित्रावसुना च मलयवत्या च ।
निजगृहगत- आगतेन च संयुक्तः शङ्खचूडेन ॥२००॥

लोकौत्तरचरिताद्भुतसिद्धाम् जीमूतवाहनः सुचिरम् ।
अभजत रत्नौपचिताम् विद्याधरचक्रवर्तिधुरम् ॥२०१॥

इति अत्युदारसरसाम् आख्याय कथाम् तदा सः वेतालः ।
पुनः एव तम् त्रिविक्रमसेनम् पप्रच्छ राजानम् ॥२०२॥

तत् ब्रूहि शङ्खचूडः किम् वा जीमूतवाहनः अभ्यधिकः ।
सत्त्वेन तयोः उभयोः पूर्वौक्तः च अत्र समयः ते ॥२०३॥

इति अस्मात् वेतालात् श्रुत्वा मौनम् विहाय शापभयात् ।
तम् उवाच सः त्रिविक्रमसेनः नृपतिः निःउद्वेगः ॥२०४॥

बहुजन्मसिद्धम् एतत् चित्रम् जीमूतवाहनस्य कियत् ।
श्लाघ्यः सः शङ्खचूडः मरणौत्तीर्णः अपि यः रिपवे ॥२०५॥

अन्यप्रत्त- आत्मानम् प्राप्य सुदूरम् गताय तार्क्ष्याय ।
पश्चात् धावन् गत्वा स्वम् देहम् उपानयत् प्रसभम् ॥२०६॥

एतत् निशम्य एव नृपस्य तस्य वाक्यम् सः वेतालवरः जगाम ।
पुनः स्वधाम एव ततंसपृष्ठात् नृपः अपि तम् सः अनुययौ तथा एव ॥२०७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:43.8500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

sulfonic acid

  • सल्फोनिक आम्ल 
RANDOM WORD

Did you know?

जननशांतीचे महत्व स्पष्ट करा ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site