TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

वेतालपञ्चविंशति - कथा २५

`बेताल पचीसी'  पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं ।


कथा २५
ततः तस्य अन्तिकम् भिक्षोः क्षान्तिशीलस्य भूपतिः ।
सः त्रिविक्रमसेनः अत्र प्राप स्कन्धे शवम् वहन् ॥१॥

ददर्श तम् च श्रमणम् मार्गाभिमुखम् एककम् ।
कृष्णपक्षक्षपारौद्रे श्मशाने तरुमूलगम् ॥२॥

असृग्लिप्तस्थले गौरेण अस्थिचूर्णेन निर्मिते ।
मण्डले दिक्षु विन्यस्तपूर्णशोणितकुम्भके ॥३॥

महातैलप्रदीप- आढ्ये हुतपार्श्वस्थवह्निनि ।
संभृतौचितसंभारे स्वैष्टदैवतपूजने ॥४॥

उपागात् च सः तम् राजा सः अपि भिक्षुः विलोक्य तम् ।
आनीतमटकम् हर्षात् उत्थाय उवाच संस्तुवन् ॥५॥

दुःकरः मे महाराज विहितः अनुग्रहः त्वया ।
त्वा दृशाः क्व क्व चेष्टा इयम् देशकालौ क्व च ईदृशौ ॥६॥

निःकम्पम् सत्यम् एव आहुः मुख्यम् त्वाम् कुलभूभृताम् ।
एवम् आत्मानपेक्षेण परार्थः येन साध्यते ॥७॥

एतत् एव महत्त्वम् च महताम् उच्यते बुधैः ।
प्रतिपन्नात् अचलनम् प्राणानाम् अत्यये अपि यत् ॥८॥

इति ब्रुवन् सः सिद्धार्थमानी भिक्षुः महीपतेः ।
तस्य अवतारयामास स्कन्धात् तम् मटकम् तदा ॥९॥

स्नपयित्वा समालभ्य बद्धमाल्यम् विधाय च ।
मटकम् मण्डलस्य अन्तः स्थापयामास तस्य तत् ॥१०॥

भस्मौद्धूलितगात्रः च केशयज्ञौपवीतभृत् ।
प्रावृतप्रेतवसनः भूत्वा ध्यानस्थितः क्षणम् ॥११॥

तस्मिन् मन्त्रबल- आहूतम् प्रवेश्य नृकलेवरे ।
तम् वेतालवरम् भिक्षुः पूजयामास सः क्रमात् ॥१२॥

ददौ तस्मै कपालार्घपात्रेण अर्घ्यम् सुनिःमलैः ।
नरदन्तैः ततः पुष्पम् सुगान्धि च विलेपनम् ॥१३॥

दत्त्वा मानुषनेत्रैः च धूपम् मांसैः बलिम् तथा ।
समाप्य पूजाम् राजानम् तम् उवाच सः पार्श्वगम् ॥१४॥

राजन् इह अस्य मन्त्राधिराजस्य कृतसंविधेः ।
प्रणामम् अङ्गैः अष्टाभिः निपत्य कुरु भूतले ॥१५॥

येन अभिप्रेतसिद्धिम् ते दास्यति एषः वरप्रदः ।
श्रुत्वा एतत् स्मृतवेतालवचाः राजा अब्रवीत् सः तम् ॥१६॥

न अहम् जानामि तत् पूर्वम् प्रदर्शयतु मे भवान् ।
ततः तथा एव तत् अहम् करिष्ये भगवन् इति ॥१७॥

ततः दर्शयितुम् यावत् सः भिक्षुः पतितः भुवि ।
तावत् खड्गप्रहारेण सः राजा अस्य शिरः अच्छिनत् ॥१८॥

आचकर्ष च हृत्पद्मम् उदरात् अस्य पाटितम् ।
वेतालाय च तस्मै तत्शिरःहृत्कमलम् ददौ ॥१९॥

साधुवादे ततः दत्ते प्रीतैः भूतगणैः ततः ।
तुष्टः अब्रवीत् सः वेतालः नृपम् तम् नृकलेवरात् ॥२०॥

राजन् विद्याधरैन्द्रत्वम् भिक्षोः आसीत् यत् ईप्सितम् ।
तत् तावत् भूमिसाम्राज्यभोगान्ते ते भविष्यति ॥२१॥

क्लेशितः असि मया यत् त्वम् तत् अभीष्टम् वरम् वृणु ।
इति उक्तवन्तम् वेतालम् सः राजा तम् अभाषत ॥२२॥

त्वम् चेत् प्रसन्नः कः नाम न सिद्धः अभिमतः वरः ।
तथा अपि अमोघवचनात् इदम् त्वत्तः अहम् अर्थये ॥२३॥

आद्याः प्रश्नकथाः एताः नाना- आख्यानमनःरमाः ।
चतुर्विंशतिः एषा च पञ्चविंशी समाप्तिगा ॥२४॥

सर्वाः ख्याताः भवन्तु एताः पूजनीयाः च भूतले ।
इति तेन अर्थितः राज्ञा वेतालः निजगाद सः ॥२५॥

एवम् अस्तु विशेषम् च शृणु वच्मि अत्र भूतले ।
याः चतुर्विंशतिः पूर्वाः या एषा च एका समापिनी ॥२६॥

कथा- आवली इयम् वेतालपञ्चविंशतिक- आख्यया ।
ख्याता जगति पूज्या च शिवा च एव भविष्यति ॥२७॥

यः श्लोकमात्रम् अपि अस्याः कथयिष्यति स- आदरः ।
यः वा श्रोष्यति तौ सद्यः मुक्तपापौ भविष्यतः ॥२८॥

यक्षवेतालकूष्माण्डडाकिनीराक्षस- आदयः ।
न तत्र प्रभविष्यन्ति यत्र एषा कीर्तयिष्यते ॥२९॥

इति उक्त्वा सः ययौ तस्मात् निर्गत्य नृकलेवरात् ।
यथा अभिरुचितम् धाम वेतालः योगमायया ॥३०॥

ततः तत्र सुरैः सार्धम् राज्ञः तस्य महेश्वरः ।
साक्षात् आविरभूत् तुष्टः प्रणतम् च आदिदेश तम् ॥३१॥

साधु वत्स हतः अद्य अयम् यत् त्वया कूटतापसः ।
विद्याधरमहाचक्रवर्तिताहठकामुकः ॥३२॥

त्वम् आदौ विक्रमादित्यः सृष्टः अभूः स्वांशतः मया ।
म्लेच्छरूपावतीर्णानाम् असुराणाम् प्रशान्तये ॥३३॥

अद्य च उद्दामदुःवृत्तदमनाय मया पुनः ।
त्वम् त्रिविक्रमसेन- आख्यः हीरः सृष्टः अत्र भूपतिः ॥३४॥

अतः सद्वीपपातालाम् स्थापयित्वा महीम् वशे ।
विद्याधराणम् अचिरात् अधिराजः भविष्यसि ॥३५॥

भुक्त्वा दिव्यान् चिरम् भोगान् उद्विग्नः स्वैच्छया एव तान् ।
त्यक्त्वा मम एव सायुज्यम् अन्ते यास्यसि असंशयम् ॥३६॥

अपराजितनामानम् खड्गम् च एतम् गृहाण मे ।
यस्य प्रसादात् सर्वम् त्वम् प्राप्स्यसि एतत् यथा उदितम् ॥३७॥

इति उक्त्वा खड्गरत्नम् तत् दत्त्वा तस्मै महीभृते ।
वाक्पुष्पाभ्यर्चितः तेन देवः शंभुः तिरःदधे ॥३८॥

अथ दृष्ट्वा समाप्तम् कार्यम् अशेषम् निशि प्रभातायाम् ।
प्रविवेश सः त्रिविक्रमसेनः स्वपुरम् नृपः प्रतिष्ठानम् ॥३९॥

तत्र क्रमावगतरात्रिविचेष्टिताभिः
अभ्यर्चितः प्रकृतिभिः विततौत्सवाभिः ।
स्नानप्रदानगिरिशार्चननृत्तगीतवाद्य- आदिभिः
तत् अखिलम् सः दिनम् निनाय ॥४०॥

अल्पैः एव च वासरैः सः नृपतिः शार्वस्य वीर्यात् असेः
सद्वीपाम् सरसा तलाम् च बुभुजे निःकण्टकाम् मेदिनीम् ।
संप्राप्य अथ हर- आज्ञया सुमहतीम् विद्याधराधीशताम्      
भुक्त्वा ताम् सुचिरम् जगाम भगवत्सायुज्यम् अन्ते कृती ॥४१॥       

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:44.3670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पाण्यावरची रेघ

  • ज्याप्रमाणें पाण्यावरील रेघ किंवा बुडबुडा फार वेळ टिकत नाहीं त्याप्रमाणें क्षणभंगुर, आशाश्वत वस्तु. ‘चिंतारसी कां चित्र जिवाचेम पाण्यावरच्या रेघांनी।’ -वाग्वैजयंती. गोविंदाग्रज. 
RANDOM WORD

Did you know?

चातुर्मासाचे महत्व स्पष्ट करावे.
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.