TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

वेतालपञ्चविंशति - कथा ३

बेताल पचीसी  पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं ।


कथा ३
अथ भूयः अपि वेतालम् आनेतुम् नृपसत्तमः ।
सः त्रिविक्रमसेनः तम् उपागात् शिंशम्पातरुम् ॥१॥

तत्रस्थम् एतम् संप्राप्य मृतदेहगतम् पुनः ।
स्कन्धे गृहीत्वा एव आगन्तुम् तूष्णीम् प्रववृते ततः ॥२॥

प्रयान्तम् च तम् आह स्म सः वेतालः अस्य पृष्ठगः ।
चित्रम् न उद्विजसे राजन् निशि कुर्वन् गम- आगमम् ॥३॥

तत् अखेदाय भूयः ते वर्णयामि कथाम् शृणु ।
अस्ति पाटलिपुत्र- आख्यम् ख्यातम् भूमण्डले पुरम् ॥४॥

तत्र आसीत् नृपतिः पूर्वम् नाम्ना विक्रमकेसरी ।
गुणानाम् इव रत्नानाम् आश्रयम् यम् व्यधात् विधिः ॥५॥

तत्र शापावतीर्णः अभूत् दिव्यविज्ञानवान् शुकः ।
विदग्धचूदमणिः इति आख्यया सर्वशास्त्रवित् ॥६॥

तेन उपदिष्टाम् सदृशीम् राजपुत्रीम् नृप- आत्मजः ।
मागधीम् उपयेमे सः भार्याम् चन्द्रप्रभा- अभिधाम् ॥७॥

तस्याः अपि तथाभूता सर्वविज्ञानशालिनी ।
शारिका सोमिका नाम राजपुत्र्याः किल अभवत् ॥८॥

ते च एकपञ्जरस्थे द्वे तत्र आस्ताम् शुकशारीके ।
सेवमाने स्वविञ्जानैः दंपती तौ निजप्रभू ॥९॥

एकदा साभिलाषः ताम् शारिकाम् सः अब्रवीत् शुकः ।
एकशय्या- असन- आहारम् सुभगे भज माम् इति ॥१०॥

न अहम् पुरुषसंसर्गम् इच्छामि पुरुषाः यतः ।
दुष्टाः कृतघ्नाः इति सा सारिका प्रत्युवाच तम् ॥११॥

न दुष्टाः पुरुषाः दुष्टाः नृशंसहृदयाः स्त्रियः ।
इति भूयः शुकेन उक्ते विवादः अत्र आलगत् तयोः ॥१२॥

कृतदासत्वभार्यात्वपणौ तौ शकुनी मिथः ।
निश्चयाय अथे सभ्यम् तम् राजपुत्रम् उपेयतुः ॥१३॥

सः विवादपदम् श्रुत्वा तयोः आस्थानगः पितुः ।
कथम् कृतघ्नाः पुरुषाः ब्रूहि इति आह स्म शारिकाम् ॥१४॥

ततः सा शृणुत इति उक्त्वा निजपक्षप्रसिद्धये ।
पुंदोष- आख्यायिनीम् एताम् शारिका अकथयत् कथाम् ॥१५॥

अस्ति कामन्दिका नाम या महानगरी भुवि ।
अर्थदत्ताभिधानः अस्ति वणिक् तस्याम् महाधनः ॥१६॥

धनदत्ताभिधानः च पुत्रः तस्य उदपद्यत ।
पितरि उपरते सः अपि बभूव उच्छृङ्खलः युवा ॥१७॥

द्यूत- आदिसङ्गे दूर्ताः च मिलित्वा तम् अपातयन् ।
कामम् व्यसनवृक्षस्य मूलम् दुःजनसंगतिः ॥१८॥

अचिरात् व्यसनक्षीणधनः दौर्गत्यलज्जया ।
सः अथ त्यक्त्वा स्वदेशम् तम् भ्रान्तुम् देशान्तराणि अगात् ॥१९॥

गच्छन् च चन्दनपुरम् नाम स्थानम् अवाप्य सः ।
विवेश भोजनार्थी सन् एकस्य वणिजः गृहम् ॥२०॥

सः वणिक् सुकुमारम् तम् दृष्ट्वा पृष्ट्वा अन्वय- आदिकम् ।
ज्ञात्वा कुलीनम् सत्कृत्य स्वीचक्रे दैवयोगतः ॥२१॥

ददौ च सधनाम् तस्मै नाम्ना रत्नावलीम् सुताम् ।
ततः सः धनदत्तः अत्र तस्थौ श्वशुरवेश्मनि ॥२२॥

दिनेषु एव च यातेषु सुखविस्मृतदुःगतिः ।
स्वदेशम् गन्तुकामः अभूत् प्राप्तार्थः व्यसनौन्मुखः ॥२३॥

ततः अनुमान्य कथम् अपि अवशम् श्वशुरम् शठः ।
तम् दुहितृएकसंतानम् गृहीत्वा ताम् अलंकृताम् ॥२४॥

भार्याम् रत्नावलीम् युक्ताम् एकया वृद्धया स्त्रिया ।
सः आत्मना तृतीयः सन्देशात् प्रस्थितवान् ततः ॥२५॥

क्रमात् प्राप्य अटवीम् दूराम् उक्त्वा तस्करजाम् भियम् ।
गृहीत्वा आभरणम् तस्याः भार्यायाः स्वीचकार सः ॥२६॥

दृश्यताम् द्यूतवेश्य- आदिकष्टव्यसनसङ्गिनाम् ।
हृदयम् हा कृतघ्नानाम् पुंसाम् निस्त्रिंशकर्कशम् ॥२७॥

सः अथ पापः अर्थहेतोः ताम् भार्याम् गुणवतीम् अपि ।
हन्तुम् श्वभ्रे निचिक्षेप तया वृद्धस्त्रिया युताम् ॥२८॥

क्षिप्त्वा एव च गते तस्मिन् सा अथ वृद्धा व्यपद्यत ।
तत् भार्या तु लतागुल्मविग्नया न व्यपादि सा ॥२९॥

उत्तस्थौ च ततः श्वभ्रात् क्रोशन्ती करुणम् शणैः ।
आलम्ब्य तृणगुल्म- आदि सशेषत्वात् किल- आयुषः ॥३०॥

आययौ विक्षताङ्गी च पृष्ट्वा मार्गम् पदे पदे ।
यथा आगतेन एव पथा कृच्छ्रात् तत् सदनम् पितुः ॥३१॥

तत्र अकस्मात् तथाभूता प्राप्ता पृष्टा ससंभ्रमम् ।
मात्रा पित्रा च रुदती साध्वी सा एवम् अभाषत ॥३२॥

मुषिताः स्म पथि स्तेनैः नीतः बद्ध्वा च मत्पतिः ।
वृद्धा मृता निपत्य अपि श्वभ्रे न अहम् मृता पुनः ॥३३॥

अथ आगतेन केन अपि पथिकेन कृपालुना ।
उद्धृता अहम् ततः श्वभ्रात् प्राप्ता अस्मि इह च दैवतः ॥३४॥

एवम् उक्तवती मात्रा पित्रा च आश्वासिता ततः ।
भर्तृचित्ता एव सा तस्थौ तत्र रत्नावली सती ॥३५॥

याति काले च तत्भर्ता सः स्वदेशगतः पुनः ।
द्यूतक्षपिततत्वित्तः दनदत्तः व्यचिन्तयत् ॥३६॥

आनयामि पुनः गत्वा मार्गित्वा श्वशुरात् धनम् ।
गृहे स्थिता मे त्वत् पुत्री इति अभिधास्ये च तत्र तम् ॥३७॥

एवम् सः हृदये ध्यात्वा प्रायात् श्वशुरवेश्म तत् ।
प्राप्तम् च तत्र तम् दूरात् स्वभार्या पश्यति स्म सा ॥३८॥

धावित्वा च अपतत् तस्य सा पापस्य अपि पादयोः ।
दुष्टे अपि पत्यौ साध्वीनाम् नान्यथावृत्तिमानसम् ॥३९॥

भीताय च ततः तस्मै तत् अशेषम् न्यवेदयत् ।
यत् मृषा चौरपात- आदि पित्रोः प्राक् वर्णितम् तया ॥४०॥

ततः तया समम् तत्र निर्भयः श्वाशुरे गृहे ।
प्रविष्टः श्वशुराभ्याम् सः हर्षात् दृष्ट्वा अभ्यनन्द्यत ॥४१॥

दिष्ट्या जीवन् अयम् मुक्तः चौरैः इति महा- उत्सवः ।
तेन तत्श्वशुरेण अथ चक्रे मिलितबन्धुना ॥४२॥

ततः सः धनदत्तः अत्र भुञ्जानः श्वशुरश्रियम् ।
रत्नावल्या तया साकम् आसीत् पत्न्या यथासुखम् ॥४३॥

एकदा तत्र रात्रौ च सः नृशंसः चाकर यत् ।
कथा- उपरोधतः शान्तम् अवाच्यम् अपि कथ्यते ॥४४॥

हत्वा अङ्कसुप्ताम् भार्याम् ताम् तदा आभरणसंचयम् ।
अपहृत्य ततः प्रायात् सः स्वदेशम् अलक्षितः ॥४५॥

ईदृशाः पुरुषाः पापाः इति शारिकया उदिते ।
त्वम् इदानीम् वद इति आह राजपुत्रः तदा शुकम् ॥४६॥

ततः जगाद सः शुकः देव दुःसहसाहसाः ।
स्त्रियः दुःचरिताः पापाः तथा च श्रूयताम् कथा ॥४७॥

अस्ति हर्षवती नाम नगरी तत्र च अभवत् ।
अग्रणीः धर्मदत्त- आख्यः बहुकोटीश्वरः वणिक् ॥४८॥

वसुदत्ता- अभिधाना च रूपे अनन्यसमा सुता ।
बभूव तस्य वणिजः प्राणेभ्यः अपि अधिकप्रिया ॥४९॥

सा च तेन समानाय रूपयौवनशालिने ।
दत्ता वराङ्गनानेत्रचकोरामृतरश्मये ॥५०॥

नाम्ना समुद्रदत्ताय वणिक्पुत्राय साधवे ।
नगर्याम् आर्यजुष्टायाम् ताम्रलिप्त्याम् निवासिने ॥५१॥

कदाचित् सा स्वदेशस्थे पत्यौ स्वस्य पितुः गृहे ।
स्थिता वणिक्सुता दूरात् कम्चित् पुरूषम् ऐक्षत ॥५२॥

तम् युवानम् सुकान्तम् सा चपला मारमोहिता ।
गुप्तम् सखीमुख- आनीतम् भेजे प्रच्छन्नकामुकम् ॥५३॥

ततःप्रभृति तेन एव सह तत्र सदा रहः ।
रात्रौ रात्रौ अरंस्त असौ तदेक- आसक्तमानसा ॥५४॥

एकदा च सः कौमारः पतिः तस्याः स्वदेशतः ।
आजगाम अत्र तत्पित्रोः प्रमोदः इव मूर्तिमान् ॥५५॥

सोत्सवे च दिने तस्मिन् सा नक्तम् कृतमण्डना ।
मात्रा अनुप्रेषिता भेजे शय्यास्था अपि न तम् पतिम् ॥५६॥

प्रार्थिता तेन च अलीकसुप्तम् चक्रे अन्यमानसा ।
पानमत्तः अध्वखिन्नः च सः अपि जह्रे अथ निद्रया ॥५७॥

ततः च सुप्ते सर्वस्मिन् भुक्तपीते जने शनैः ।
संधिम् भित्त्वा विवेश अत्र चौरः वासगृहान्तरे ॥५८॥

तत्कालम् तम् अपश्यन्ती सा अपि उत्थाय वणिक्सुता ।
स्वजारकृतसंकेता निरगात् निभृतम् ततः ॥५९॥

तदा आलोक्य सः चौरः अत्र विघ्नितैच्छः व्यचिन्तयत् ।
येषाम् अर्थे प्रविष्टः अहम् तैः एव आभरणैः वृता ॥६०॥

निशीथे निर्गता एषा तत् वीक्षे अहम् सा क्व गच्छति ।
इति आकलय्य निर्गत्य सः चौरः ताम् वणिक्सुताम् ॥६१॥

वसुदत्ताम् अनु ययौ दत्तदृष्टिः अलक्षितः ।
सा अपि पुष्प- आदिहस्ता एकससंकेतसखीयुता ॥६२॥

गत्वा बाह्यम् प्रविष्टा अभूत् उद्यानम् न अतिदूरगम् ।
तत्र अपश्यत् च तम् वृक्षे लम्बमानम् स्वकामुकम् ॥६३॥

संकेतक- आगतम् रात्रौ लब्ध्वा नगररक्षिभिः ।
उल्लम्बितम् चौरबुद्ध्या पाशकण्ठम् मृतम् स्थितम् ॥६४॥

ततः सा विह्वला उद्भ्रान्ता हा हता अस्मि इति वादिनी ।
पपात भूमौ कृपणम् विलपन्ती रुरोद च ॥६५॥

अवतार्य अथ वृक्षात् तम् गतासुम् निजकामुकम् ।
उपवेश्य आङ्गरागेण पुष्पैः च अलम्चकार सा ॥६६॥

समालिङ्ग्य च निःसंज्ञम् रागशोकान्धमानसा ।
उन्नमय्य मुखम् यावत् तस्य आर्ता परिचुम्बति ॥६७॥

तावत् सः तस्याः सहसा निःजीवः परपूरुषः ।
वेतालानुप्रविष्टः सत् दन्तैः चिच्छेद नासिकाम् ॥६८॥

तेन सा विह्वला तस्मात् सव्यथा अपसृता अपि अहो ।
किम् स्वित् जीवेद् इति हता पुनः एत्य तम् ऐक्षत ॥६९॥

दृष्ट्वा च वीतवेतालम् निःचेष्टम् मृतम् एव तम् ।
सा भीता परिभूत च चचाल रुदती शनैः ॥७०॥

तावत् छन्नः स्थितः सः अथ चौरः सर्वम् व्यलोकयत् ।
अचिन्तयत् च किम् इदम् पापया कृतम् एतया ॥७१॥

अहो बत आशयः स्त्रीणाम् भीषणः घनतामसः ।
अन्धकूपः इव अगाधः पाताय गहनः परम् ॥७२॥

तत् इदानीम् इयम् किम् नु कुर्यात् इति विचिन्त्य सः ।
कौतुकात् दूरतः चौरः भूयः अपि अनुससार ताम् ॥७३॥

सा अपि गत्वा प्रविश्य एव तत् सुप्तस्थितभर्तृकम् ।
गृहम् तदा स्वकम् प्रौच्चैः प्ररुदती एवम् अब्रवीत् ॥७४॥

परित्रायध्वम् एतेन दुष्टेन मम नासिका ।
छिन्ना निरपराधायाः भर्तृरूपेण शत्रुणा ॥७५॥

श्रुत्वा एतम् मुहुः आक्रन्दम् तस्याः सर्वे ससंभ्रमम् ।
उदतिष्ठन् प्रबुध्य अत्र पतिः परिजनः पिता ॥७६॥

एत्य अथ तत्पिता दृष्ट्वा ताम् आर्द्रछिन्ननासिकाम् ।
क्रुद्धः तम् बन्धयामास भार्याद्रोही इति तत् पतिम् ॥७७॥

सः तु न एव अब्रवीत् किम्चित् बध्यमानः अपि मूकवत् ।
विपर्यस्तेषु सर्वेषु शृण्वत्सु श्वशुर- आदिषु ॥७८॥

ततः ज्ञत्वा एव तत् चौरे तस्मिन् अपसृते लघु ।
कोलाहलेन तस्याम् च व्यतीतायाम् क्रमात् निशि ॥७९॥

सः निन्ये वणिजा तेन श्वशुरेण वणिक्सुतः ।
राजान्तिकम् तया सार्धम् भार्यया छिन्ननासया ॥८०॥

राजा च कृतविज्ञप्तिः स्वदारद्रोही असौ इति ।
तस्य अदिशत् वणिक्सूनोः वधम् न्यक्कृततत्वचाः ॥८१॥

ततः वध्यभुवम् तस्मिन् नीयमाने सडिण्डिमम् ।
उपागम्य सः चौरः अत्र बभाषे राजपूरुषान् ॥८२॥

निःकारणम् न वध्यः अयम् यथावृत्तम् तु वेद्मि अहम् ।
माम् प्रापयत राजाग्रम् यावत् सर्वम् वदामि अतः ॥८३॥

इति ऊचिवान् सः नीतः तैः नृपस्य अग्रम् वृत अभयः ।
आ मूलात् रात्रिवृत्तान्तम् चौरः सर्वम् न्यवेदयत् ॥८४॥

अब्रवीत् च न चेत् देव मत्वाचि प्रत्ययः तव ।
तत् सा नासा मुखे तस्य शवस्य अद्य अपि वीक्ष्यताम् ॥८५॥

तत् श्रुत्वा वीक्षितुम् भृत्यान् प्रेष्य सत्यम् अवेत्य तत् ।
सः राजा तम् वणिक्पुत्रम् मुक्तवान् वधनिग्रहात् ॥८६॥

ताम् च कर्णौ अपि छित्वा दुष्टाम् देशात् निरस्तवान् ।
तत् भार्याम् श्वशुरम् च अस्य तम् सर्वस्वम् अदण्डयत् ॥८७॥

चौरम् च तम् पूराध्यक्षम् तुष्टः चक्रे सः भूपतिः ।
एवम् स्त्रियः भवन्ति इह निसर्गविषमाः शठाः ॥८८॥

इति उक्तवान् एव शुकः भूत्वा चित्ररथाभिधः ।
क्षीणैन्द्रशापः गन्धर्वः दिव्यरूपः दिवम् ययौ ॥८९॥

शारिका सा अपि तत्कालम् भूत्वा स्वःस्त्री तिलोत्तमा ।
तथा एव क्षीणतत्शापा जगाम सहसा दिवम् ॥९०॥

विवादः च अपि अनिर्णितः सभायाम् सः अभवत् तयोः ।
इति आख्याय कथाम् भूयः तम् वेतालः अब्रवीत् नृपम् ॥९१॥

तत् भवान् वक्तु किम् पापाः पुरुषाः किमुत स्त्रियः ।
अजल्पतः जान तः ते शिरः यस्यति खण्डशः ॥९२॥

एतत् निशम्य वचनम् वेतालस्य अंसवर्तिनः तस्य ।
सः जगाद भूपतिः तम् योग- ईश्वर योषितः पापाः ॥९३॥

पुरुषः कः अपि इह तादृक् क्व अपि कदाचित् भवेत् दुःआचारः ।
प्रायः सर्वत्र सदा स्त्रियः तु तादृक्विधाः एव ॥९४॥

इति उक्तवतः नृपतेः प्राग्वत् स्कन्धात् सः तस्य वेतालः ।
नष्टः अभूत् सः च राजा जग्राह पुनः तदा आनयनयत्रम् ॥९५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:43.1300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

नीटउभा

  • a  Stiffly or exactly erect, bolt upright. 
RANDOM WORD

Did you know?

संत ज्ञानेश्वरांनि हे म्हटले आहे का ?
Category : Vedic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site