TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

वेतालपञ्चविंशति - कथा २४

`बेताल पचीसी'  पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं ।


कथा २४
ततः ताम् तिमिरश्यामाम् चिता- अग्निज्वलित- ईक्षणाम् ।
स्मशाने भीषणे तस्मिन् वीरः रजनिराक्षसीम् ॥१॥

घोराम् अगणयन् राजा गत्वा ताम् शिंशपाम् पुनः ।
सः त्रिविक्रमसेनः तम् तस्याः वेतालम् आददे ॥२॥

स्कन्धे कृत्वा च तम् यावत् प्रक्रामति सः पूर्ववत् ।
तावत् भूयः सः वेतालः नरदेवम् उवाच तम् ॥३॥

भो राजन् अहम् उद्विग्नः न पुनः त्वम् गत- आगतैः ।
तत् एकम् मे महाप्रश्नम् इमम् कथयतः शृणु ॥४॥

आसीत् माण्डलिकः कः अपि नृपतिः दक्षिणापथे ।
धर्माभिधानः धौरेयः साधूनाम् बहुगोत्रजः ॥५॥

तस्य चन्द्रवतीनाम भार्या मालवदेशजा ।
अभूत् महाकुलौत्पन्ना वरस्त्रीमौलिमालिका ॥६॥

तस्याम् च तस्य भार्यायाम् भूपतेः उदपद्यत ।
एका एव लावण्यवती नाम अन्वर्थाभिधा सुता ॥७॥

प्रदेयायाम् च तस्याम् सः सुतायाम् धर्मभूपतिः ।
उन्मूलितः अभूत् मिलितैः दायादैः राष्ट्रभेदिभिः ॥८॥

ततः पलाय्य निरगात् सः देशात् भार्यया सह ।
दुहित्रा च तया रात्रौ आत्तसत्रत्नसंचयः ॥९॥

मालवम् प्रति च स्वैरम् प्रस्थितः श्वशुर- आस्पदम् ।
विन्ध्याटवीम् तया रात्र्या प्राप भार्यासुतायुतः ॥१०॥

तस्याम् प्रविष्टस्य उदश्रुः इव अवश्यायशीकरैः ।
निशा अनुयात्राम् दत्त्वा इव ययौ तस्य महीक्षितः ॥११॥

आरुरोह अथ पूर्वाद्रिम् उत्क्षिप्ताग्रकरः रविः ।
मा गाः चौराटवीम् एताम् इति तम् वारयन् इव ॥१२॥

ततः अत्र ससुताजानिः क्षताङ्घ्रिः कुशकण्टकैः ।
पदातिः सः नृपः गच्छन् भिल्लानाम् प्राप पल्लिकाम् ॥१३॥

परेषाम् प्राणसर्वस्वहारिभिः पुंभिः आवृताम् ।
वर्जिताम् धार्मिकैः दुर्गाम् कृतान्तनगरीम् इव ॥१४॥

तत्र दृष्ट्वा एव तम् दूरात् सवस्त्र- आभरणम् नृपम् ।
मोषितुम् बहवः अधावन् शबराः विविध- आयुधाः ॥१५॥

तान् विलोक्य सुताभार्ये राजा धर्मः जगाद सः ।
पुरा स्पृशन्ति वाम् म्लेच्छाः तत् इतः विशतम् वनम् ॥१६॥

इति राज्ञा उदिता रज्ञी वनमध्यम् विवेश सा ।
लावण्यवत्या सुतया सार्धम् चन्द्रवती भयात् ॥१७॥

राजा अपि अभिमुख- आयातान् खड्गचर्मधरः अत्र सः ।
अवधीत् तान् बहून् शूरः शबरान् शरवर्तिणः ॥१८॥

ततः तेन अखिला पल्ली पत्या आज्ञप्ताः निपत्य तम् ।
प्रहारक्षतचर्माणम् अवधीत् नृपम् एककम् ॥१९॥

गृहीत- आभरणे याते दस्युसैन्ये विलोक्य तम् ।
भर्तारम् निहतम् दूरात् वनगुल्मान्तरस्थिता ॥२०॥

राज्ञी चन्द्रवती सा अत्र दुहित्रा सह विह्वला ।
पलायमाना गहनम् दूरम् अन्वक् अगात् वनम् ॥२१॥

तत्र मध्याह्नताप- आर्तासु इव मूलानि शाखिनाम् ।
छायासु अपि प्रविष्टासु शिशिराणि सह अध्वगैः ॥२२॥

एकदेशे अब्जसरसः तीरे अशोकतरोः तले ।
शोक- आर्ता रुदती श्रान्ता ससुता समुपाविशत् ॥२३॥

तावत् तत् वनम् अभ्यर्णनिवासी मृगयाकृते ।
महामनुष्यः कः अपि आगात् अश्व- आरूढः सपुत्रकः ॥२४॥

सः चण्डसिंहनामा तम् पुत्रम् सिंहपराक्रमम् ।
उवाच दृष्ट्वा अत्र तयोः पांसूत्थे पदपद्धती ॥२५॥

एते सुरेखे सुभगे अनुसृत्य आप्नुवः यदि ।
स्त्रीयौ ते तत् तयोः एकाम् स्वीकुरुष्व यथारुचि ॥२६॥

इति उक्तवन्तम् तम् स्म आह पुत्रः सिंहपराक्रमः ।
यस्याः सूक्ष्मौ इमौ पादौ सा भार्या प्रतिभाति मे ॥२७॥

सा हि स्वल्पवयाः नूनम् जाने समुचिता मम ।
बृहत्पादा तु योग्या इयम् एतत्ज्येष्ठवयाः तव ॥२८॥

इति सूनोः वचः श्रुत्वा चण्डसिंहः जगाद तम् ।
का एषा कथा भवत्माता प्रत्यग्रम् हि गता दिवम् ॥२९॥

तादृशे सुकलत्रे च गते का अन्यत्र वासना ।
तत् श्रुत्वा सः अपि पुत्रः तम् चण्डसिंहम् अभाषत ॥३०॥

तात मा एवम् अभार्यम् हि शून्यम् गृहपतेः गृहम् ।
अन्यत् च मूलदेवौक्ता गाथा किम् न श्रुता त्वया ॥३१॥

यत्र घनस्तनजघना न आस्ते मार्गावलोकिनी कान्ता ।
अजडः कः तत् अनिगडम् प्रविशति गृहसंज्ञकम् दुर्गम् ॥३२॥

तत् जीवितेन मे तात शापितः असि न ताम् यदि ।
द्वितीयाम् मदभीष्टायाम् भार्या- अर्थे स्वीकरीष्यसि ॥३३॥

एतत् पुत्रवचः श्रुत्वा प्रतिपद्य च तत्सखः ।
सः चण्डसिंहः अनुसरन् पदपङ्क्तिम् शनैः ययौ ॥३४॥

प्राप्य तत् च सरःस्थानम् मुक्तातारा- ओघमण्डिताम् ।
श्यामाम् चण्द्रवतीम् राज्ञीम् ताम् ददर्श अवभासिताम् ॥३५॥

लावण्यवत्या सुतया ज्योत्स्नया इव अवदातया ।
नैशीम् द्याम् इव मध्याह्ने तरुच्छायाम् उपाश्रिताम् ॥३६॥

उपाययौ च पुत्रेण साकम् ताम् सः सकौतुकः ।
सा अपि दृष्ट्वा तम् उत्तस्थौ वित्रस्ता चौरशङ्किनी ॥३७॥

अलम् त्रासेन न अम्भ एतौ चौरौ सौम्य- आकृती इमौ ।
सुवेषौ कौचित् आखेटकृते नूनम् इह आगतौ ॥३८॥

इति उक्ता सुतया राज्ञी यावत् दोलायते अत्र सा ।
तावत् अश्वावतीर्णः ते चण्डसिंःअः अब्रवीत् उभे ॥३९॥

किम् संभ्रमेण वाम् आवाम् प्रणयात् द्रष्टुम् आगतौ ।
तत् विस्वस्य निःआतङ्के वदतम् के युवाम् इति ॥४०॥

हरनेत्रानलज्वालादग्धमन्मथदुःस्थिते ।
रतिप्रीती इव अरण्यम् इदम् एवम् उपागते ॥४१॥

प्रविष्टे स्थः कथम् च इह बत निःमानुषे वने ।
रत्नप्रासादवासार्हम् इदम् हि युवयोः वपुः ॥४२॥

कथम् वराङ्गना- उत्सङ्गयोग्यौ कण्टकिनीम् इमाम् ।
भुवम् वाम् चरणौ भ्रान्तौ इति नौ मनसि व्यथा ॥४३॥

एषा च चित्रम् युवयोः पतन्ती धूलिः आनने ।
वातौद्धूता हतछायम् आवयोः कुरुते मुखम् ॥४४॥

भवत्योः एषः च अङ्गे अस्मिन् निपतन् पुष्पपेशले ।
किरणौष्मा दहति अस्मान् उच्चण्डः चण्डदीधितेः ॥४५॥

तत् ब्रूतम् आत्मवृत्तान्तम् दूयते हृदयम् हि नः ।
द्रष्टुम् न शक्नुमः अरण्ये स्थितिम् वाम् स्वापद- आवृते ॥४६॥

इति उक्ते चण्डसिंहेन राज्ञी निःस्वस्य सा शनैः ।
लज्जाशोक- आकुला तस्मै स्वम् वृत्तान्तम् अवर्णयत् ॥४७॥

ततः निःस्वामिकाम् मत्वा ताम् आश्वास्य च स- आत्मजाम् ।
स्वीचक्रे मधुरैः वाक्यैः चण्डसिंहः अनुरञ्जयन् ॥४८॥

आरोप्य च अस्वयोः पृष्ठम् सपुत्रः ताम् सपुत्रिकाम् ।
निनाय वित्तपपुरीसमृद्धाम् वसतिम् निजाम् ॥४९॥

सा अपि जन्मान्तरगता इव अवशा अङ्गीचकार तम् ।
अनाथा कृच्छ्रपतिता विदेशे स्त्री करोति किम् ॥५०॥

ततः ताम् सूक्ष्मपादत्वात् राज्ञीम् सिंहपराक्रमः ।
चण्डसिंहसुतः तत्र भार्याम् चण्द्रवतीम् व्यधात् ॥५१॥

तत्सुताम् ताम् च लावण्यवतीम् नृपतिकन्यकाम् ।
बृहत्त्वात् पादयोः भार्याम् चण्डसिंहः चकार सः ॥५२॥

प्राख़् हि सूक्ष्मबृहत्पादमुद्रापङ्क्तिद्वय- ईक्षणात् ।
प्रतिपन्नम् तथा ताभ्याम् सत्यम् कः च अतिवर्तते ॥५३॥

एवम् पादविपर्यासात् ते पितापुत्रयोः तयोः ।
दुहितामातरौ भार्ये जाते श्वश्रूस्नुषे तदा ॥५४॥

कालेन च तयोः ताभ्याम् भर्तृभ्याम् जज्ञिरे द्वयोः ।
पुत्राः दुहितरः च एव तेषाम् अन्ये अपि अथ क्रमात् ॥५५॥

इत्थम् संप्राप्य तौ चण्डसिंहसिंहपराक्रमौ ।
तस्थतुः तत्र लावण्यवतीम् चन्द्रवतीम् च ते ॥५६॥

इति व्यावर्ण्य वेतालः तदा पथि कथाम् निशि ।
सः त्रिविक्रमसेनम् तम् पप्रच्छ नृपतिम् पुनः ॥५७॥

तयोः मातादुहित्रोः ये पुत्रपित्रोः तयोः नृप ।
सकाशात् जन्तवः जाताः क्रमात् उभयपक्षयोः ॥५८॥

ज्ञात्वा इदम् ब्रूहि मे तेषाम् अन्यःअन्यम् के भवन्ति ते ।
पूर्वौक्तः सः अत्र शापः ते जानानः चेत् न वक्ष्यसि ॥५९॥

एतत् वेतालतः श्रुत्वा विमृशन् बहुधा अपि सः ।
न अज्ञासीत् तत् यदा राजा तूष्णीकः प्रययौ तदा ॥६०॥

ततः ततंसकूटस्थः वेतालः विहसन् हृदि ।
मृतपूरुषदेहान्तः निविष्टः समचिन्तयत् ॥६१॥

न अयम् राजा महाप्रश्ने वेत्ति अस्मिन् दातुम् उत्तरम् ।
तेन तूष्णीम् व्रजति एषः हृष्टः अतिचतुरैः पदैः ॥६२॥

न च वञ्चयितुम् शक्यः सत्त्वराशिः अयम् परम् ।
क्रीडन् भिक्षुः सः च अस्माभिः इयता एव न शाम्यति ॥६३॥

तत् अद्य वञ्चयित्वा तम् दुरात्मानम् उपायतः ।
तत्सिद्धिम् भाविकल्याणे राजनि अस्मिन् निवेशये ॥६४॥

इति आलोच्य सः वेतालः नृपम् तम् अवदत् तदा ।
राजन् कृष्णनिशाघोरे स्मशाने अस्मिन् गत- आगतैः ॥६५॥

एतैः क्लिष्टः सुखार्हः त्वम् न विकल्पः च कः अपि ते ।
तत् आश्चर्येण धैर्येण तुष्टः अहम् अमुना तव ॥६६॥

शवम् एतम् नय इदानीम् निर्गच्छामि अमुतः हि अहम् ।
इदम् तु श्र्णु यत् वच्मि हितम् तव कुरुष्व च ॥६७॥

आनीतम् एतत् भवता यस्य अर्थे नृकलेवरम् ।
कुभिक्षुः सः अद्य माम् अस्मिन् समाहूय अर्चयिष्यति ॥६८॥

उपहारीचिकीर्षुः च त्वाम् एव सः शठः ततः ।
भूमौ प्रणामम् अष्टाभिः अङ्गैः कुरु इति वक्ष्यति ॥६९॥

त्वम् प्राक् दर्शय तावत् मे करिष्ये अहम् तथा एव तत् ।
इति सः अपि महाराज वक्तव्यह् श्रमणः त्वया ॥७०॥

ततः निपत्य भूतौ सः प्रणामम् यावत् एव ते ।
दर्शय्ष्यति तावत् त्वम् छिन्द्याः तस्य असिना शिरः ॥७१॥

ततः विद्याधराइश्वर्यसिद्धिः या तस्य वाञ्छिता ।
ताम् त्वम् प्राप्स्यसि भुङ्क्ष्वा इमम् भुवम् ततुपहारतः ॥७२॥

अन्यथा तु सः भिक्षुः त्वाम् उपहारीकरिष्यति ।
एततर्थम् कृतः विघ्नः तव अत्र इयत् चिरम् मया ॥७३॥

तत् सिद्धिः अस्तु ते गच्छ इति उक्त्वा तस्य अंसपृष्ठगात् ।
निर्गत्य सः ययौ तस्मात् वेतालः प्रेतकायतः ॥७४॥

अथ सः नरपतिः तम् प्रीतवेतालवाक्यात् श्रमणम् अहितम् एव क्षान्तिशीलम् विचिन्त्य ।
वटविटपितलम् तत् तस्य पार्श्वम् प्रतस्थे मृतपुरुषशरीरम् तत् गृहीत्वा प्रहृष्टः ॥७५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:44.2870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

गेचोडी

  • स्त्री. ( व . ) गोचीड पहा . 
RANDOM WORD

Did you know?

एका क्षणासाठी निमिष ही संज्ञा कशी प्राप्त झाली?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.