TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

वेतालपञ्चविंशति - कथा १५

`बेताल पचीसी'  पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं ।


कथा १५
ततः गत्वा पुनः प्राप्य वेतालम् शिंशपातरोः ।
सः त्रिविक्रमसेनः तम् आदाय उदचलत् पुनः ॥१॥

आयान्तम् तम् च राजानम् सः वेतालः अंसपृष्ठगः ।
जगाद भूयः अपि एताम् ते राजन् वच्मि कथाम् शृणु ॥२॥

अभूत् नेपालविषये नाम्ना शिवपुरम् पुरम् ।
यथा- अर्थनामा तत्र आसीत् यशःकेतुः पुरा नृपः ॥३॥

सः मन्त्रिणि न्यस्य भरम् प्रज्ञासागरसंज्ञके ।
चन्द्रप्रभा- आख्यया देव्या सार्धम् भोगान् असेवत ॥४॥

कालेन तस्याम् देव्याम् च तस्य आजायत कन्यका ।
राज्ञः शशिप्रभा नाम जगत्नेत्रशशिप्रभा ॥५॥

क्रमेण यौवनस्था सा मधुमासे कदाचन ।
ययौ यात्रा- उत्सवम् द्रष्टुम् उद्यानम् सपरिच्छदा ॥६॥

तत्र एकदेशे अपश्यत् ताम् कुसुमावचयौद्यताम् ।
उत्क्षिप्तबाहुलतिकालक्षितएकपयःधराम् ॥७॥

प्रसूनवृन्तविगलत्संदंशकरशोभिनीम् ।
आढ्यपुत्रः मनःस्वामी नाम यात्रा- आगतः द्विजः ॥८॥

सः तया दृष्टया सद्यः हृतस्य मनसः युवा ।
मनःस्वामी अपि न एव अभूत् स्वामी मदनमोहितः ॥९॥

मार्गणानाम् कृते किम् स्वित् रतिः एषा मनःभुवः ।
वसन्तसंभृतानि इह पुष्पाणि उच्चिनुते स्वयम् ॥१०॥

किम् वा अर्चयितुकामा इयम् माधवम् वनदेवता ।
इति संचिन्तयन्तम् तम् सा अपि अपश्यत् नृप- आत्मजा ॥११॥

दृष्टमात्रे च सा तस्मिन् साङ्गे नवे इव स्मरे ।
न पुष्पाणि न च अङ्गानि सौत्का न आत्मानम् अस्मरत् ॥१२॥

इति अन्यःअन्यनवप्रेमसरसौ यावत् अत्र तौ ।
तिष्ठतः तावत् उदभूत् हा हा हा इति महारवः ॥१३॥

किम् एतत् इति च उत्क्षिप्तकम्धरम् पश्यतोः तयोः ।
आयात् अत्र उपलब्धान्यगजगन्धौत्थया रुषा ॥१४॥

भग्न- आलानः विनिर्गत्य मत्तः मार्गद्रुमान् रुजन् ।
पतित- आधोरनः धावन् लम्बमानाङ्कुशः करी ॥१५॥

ततः परिजने त्रस्तविद्रुते ताम् ससंभ्रमम् ।
राजपुत्रीम् प्रधाव्य एव दोर्भ्याम् उत्क्षिप्य च एककाम् ॥१६॥

अङ्गैः किम्चित् कृत- आश्लेषाम् भयप्रेमत्रपा- आकुलाम् ।
निनाय सः मनःस्वामी सुदूरम् गजगोचरात् ॥१७॥

अथ आगतैः परिजनैः स्तुवद्भिः तम् द्विजौत्तमम् ।
मुहुः विवृत्य पश्यन्ती सा निन्ये निजमन्दिरम् ॥१८॥

तत्र तस्थौ तम् एव आर्ता स्मरन्ती प्राणदायिनम् ।
स्मराग्निपुटपाकेन पच्यमाना दिवानिशम् ॥१९॥

सः अपि उद्यानात् मनःस्वामी तदा तस्मात् अनुव्रजन् ।
स्वान्तःपुरप्रविष्टाम् ताम् दृष्ट्वा सौत्कः व्यचिन्तयत् ॥२०॥

न एताम् विना अधुना स्थातुम् जीवितुम् वा अहम् उत्सहे ।
तत् मे श्री मूलदेवः अत्र धूर्थः सिद्धः गुरुः गतिः ॥२१॥

इति संचिन्त्य कथम् अपि अस्मिन् अवसिते दिने ।
प्रतः ययौ गुरोः तस्य मूलदेवस्य सः अन्तिकम् ॥२२॥

ददर्श तम् च मित्रेण शशिना नित्य संगतम् ।
सिद्धमाया- अद्भुतपथम् सशरीरम् इव अम्बरम् ॥२३॥

न्यवेदयत् च तत् तस्मै प्रणम्य स्वमनीषितम् ।
सः अपि साधयितुम् तस्य प्रतिपेदे विहस्य तत् ॥२४॥

ततः सः योगगुलिकाम् क्षिप्त्वा धूर्तपतिः मुखे ।
मूलदेवः व्यधात् वृद्धब्राह्मण- आकृतिम् आत्मनः ॥२५॥

द्वितीयाम् गुलिकाम् दत्त्वा मुखक्षेप्याम् चकार च ।
सुकान्तकन्यकारूपम् तम् मनःस्वामिनम् द्विजम् ॥२६॥

तत्रूपम् तम् समादाय गत्वा धूर्ताधिपः अथ सः ।
तत्प्रियाजनकम् भूपम् आस्थाने तम् व्यजिज्ञपत् ॥२७॥

राजन् एकः अस्ति मे पुत्रः कन्या दूरात् च तत्कृते ।
मया एषा याचिता आनीता सः च क्व अपि गतः अधुना ॥२८॥

तम् अन्वेष्टुम् अहम् यामि तत् एषा रक्ष्यताम् त्वया ।
आनयामि सुतम् यावत् त्वम् हि विश्वस्य रक्षिता ॥२९॥

तत् श्रुत्वा शापभीत्या च प्रतिपद्य सः भूपतिः ।
सुताम् आनाययामास यशःकेतुः शशिप्रभाम् ॥३०॥

जगाद च एताम् पुत्री इमाम् कन्याम् रक्षेः स्वमन्दिरे ।
स्वपार्श्वे एव च आहारम् शय्याम् च अस्याः प्रकल्पयेः ॥३१॥

इति पित्रा उक्तया निन्ये कन्यारूपः तथा इति सः ।
अन्तःपुरम् मनःस्वामी राजपुत्र्या तया निजम् ॥३२॥

यथारुचि ततः याते मुलदेवे द्विज- आकृतौ ।
कन्यारूपः सः तत्र आसीत् मनःस्वामी प्रिया- अन्तिके ॥३३॥

दिनैः च ताम् सखीप्रीतिविस्रम्भम् सम्यकागताम् ।
एकदा विरहक्षामाम् शयनीयलुठत्तनुम् ॥३४॥

रात्रौ रहः राजसुताम् आसन्नशयनस्थितः ।
कन्यारूपप्रतिच्छन्नः मनःस्वामी सः पृष्टवान् ॥३५॥

सखि किम् पाण्डुरछाया क्षीयमाणा दिने दिने ।
कान्तपक्षवियुक्ता इव दुःखिता असि शशिप्रभे ॥३६॥

ब्रूहि मे कः हि अविश्वासः स्निग्धमुग्धे सखिजने ।
इदानीम् न एव भोक्ष्ये अहम् न वदिष्यसि चेत् मम ॥३७॥

तत् श्रुत्वा सा विनिःश्वस्य शनैः राजसुता अब्रवीत् ।
किम् मे त्वयि अपि अविश्वासः शृणु तत् सखि वच्मि ते ॥३८॥

एकदा अहम् मधूद्यानयात्राम् द्रष्टुम् गता अभवम् ।
तत्र अपश्यम् च सुभगम् कम्चित् ब्राह्मणपुत्रकम् ॥३९॥

हिममुक्तैन्दुसश्रीकम् दर्शनौद्दीपितस्मरम् ।
मधुमासम् इव आलोकक्रीडालंकृतकाननम् ॥४०॥

चकोरायितुम् एते च प्रवृत्ते यावत् उन्मुखे ।
तत्मुखैन्दुद्युतिसुधापायिनी मे विलोचने ॥४१॥

तावत् स्रवन्मदजलः तत्र अकस्मात् निःअर्गलः ।
अकालकालमेघ- आभः गर्जन् आगात् महागजः ॥४२॥

तत्संभ्रमात् परिजने नष्टे अहम् भयविह्वला ।
उत्क्षिप्य विप्रपुत्रेण नीता तेन एव दूरतः ॥४३॥

श्रीखण्डेन अनुलिप्ता इव सिक्ता इव सुधया तथा ।
अहम् ततङ्गस्पर्शेन न जाने काम् दशाम् अगाम् ॥४४॥

क्षनात् च परिवारेण मिलितेन अवशा ततः ।
इह आनीता अस्मि निक्षिप्ता स्वर्गात् इव भुवः तले ॥४५॥

तदाप्रभृति संकल्पैः तैः तैः कल्पितसंगमम् ।
पश्यामि तम् प्रबुद्धा अपि पार्श्वस्थम् प्राणदम् पतिम् ॥४६॥

सुप्ता स्वप्ने च कुर्वाणम् चाटूनि आलोकयामि तम् ।
त्याजयन्तम् हठात् लज्जाम् चुम्बन- आलिङ्गन- आधिभिः ॥४७॥

न च प्राप्नोमि अभव्या तत्नाम- आदि- अज्ञानमोहिता ।
तत् एवम् माम् दहति एषः प्राण- ईशविरहानलः ॥४८॥

इति वाक्सुधया तस्याः पूर्णस्वश्रवणौदरः ।
स- आनन्दः सः मनःस्वामी विप्रकन्यावपुःधरः ॥४९॥

कृतार्थमानी मत्वा तम् कालम् आत्मप्रकाशने ।
स्वरूपम् प्रकटीचक्रे निष्कृष्य गुलिकाम् मुखात् ॥५०॥

जगाद च विलोलाक्षि सः अहम् एव एषः यः त्वया ।
उद्याने दर्शनक्रीतः नीतः निःव्याजदासताम् ॥५१॥

त्वत् संस्तवक्षणभ्रंशात् क्लेशम् तम् च आप्तवान् अहम् ।
यस्य एषः परिणामः मे कन्यारूपग्रहः अभवत् ॥५२॥

तस्मात् सफलय एताम् मे विसोढाम् विरहव्यथाम् ।
आत्मनः च न तनुअङ्गि क्षमते अतः परम् स्मरः ॥५३॥

एवम् वदन्तम् सहसा प्राण- ईशम् तम् विलोक्य सा ।
आसीत् राजसुता क्षिप्रम् स्नेह- आश्चर्यत्रपा- आकुला ॥५४॥

अथ अत्यौत्सुक्यनिर्वृत्तगान्धर्वौद्वाहयोः तयोः ।
प्रेम्णः तस्य मतः यादृक् तादृशः अभूत् रतौत्सवः ॥५५॥

ततः सः अत्र मनःस्वामी कृती तस्थौ द्विरूपभृत् ।
दिवा सगुलिकाः कन्या रात्रौ अगुलिकाः पुमान् ॥५६॥

गतेषु अथ दिनेषु अत्र यशःकेतोः महीपतेः ।
मृगाङ्कदत्तसंज्ञेन स्वशुर्येण निजा सुता ॥५७॥

दत्ता मृगाङ्कवती- आख्या महा- अर्हविभवौत्तरा ।
द्विजातये महामन्त्रि प्रज्ञासागरसूनवे ॥५८॥

तस्मिन् मातुलपुत्र्याः सा राजपुत्री शशिप्रभा ।
विवाहे मातुलगृहम् तत् जगाम निमन्त्रिता ॥५९॥

तया सह ययौ सः अपि कन्यकापरिवारया ।
विप्रपुत्रः मनःस्वामी कान्तकन्यास्वरूपधृत् ॥६०॥

तत्र तम् कन्यकारूपधरम् मन्त्रिसुतः अथ सः ।
दृष्ट्वा किल स्मरव्याधगाढबाण- आहतः अभवत् ॥६१॥

ततः मुषितचित्तः सन् तया कपटकन्यया ।
ययौ मन्त्रिसुतः शून्यम् स्वगृहम् स्ववधूसखः ॥६२॥

तत्र तत्मुखलावन्यध्यान- आसक्तः जगाम सः ।
तीव्ररागमहाव्यालदष्टः मोहम् अशङ्कितम् ॥६३॥

किम् एतत् इति संभ्रान्ते जने तत्र उत्सवौज्झिते ।
तम् उपागात् द्रुतम् बुद्ध्वा सः प्रज्ञासागरः पिता ॥६४॥

तेन च आश्वास्यमानः अपि पित्रा मोहात् प्रबुध्य सः ।
प्रलपन् इव सौन्मादम् उज्जगार मनःगतम् ॥६५॥

अस्वाधीनम् च तम् मत्वा तत् पितरि अतिविह्वले ।
तस्मिन् राजा अपि तत् बुद्ध्वा तत्र एव समुपाययौ ॥६६॥

सः तम् दृष्ट्वा झटिति एव गाढाभिष्वङ्गतः गतम् ।
सप्तमीम् मदनावस्थाम् जगाद प्रकृतीः नृपः ॥६७॥

कथम् ब्राह्मणनिक्षेपः कन्या सा अस्मै प्रदीयते ।
तया विना च नियतम् पश्चिमाम् एति असौ दशाम् ॥६८॥

अस्मिन् नष्टे पिता अस्य एषः मम मन्त्री विनङ्क्ष्यति ।
एतत्नाशे राज्यनाशः तत् इह ब्रूत का गतिः ॥६९॥

इति उक्ताः तेन राज्ञा ताः सर्वाः प्रकृतयः अब्रुवन् ।
राज्ञः धर्मम् निजम् प्राहुः प्रजानाम् धर्मरक्षणम् ॥७०॥

मूलम् तस्य विदुः मन्त्रम् सः च मन्त्रिषु अवस्थितः ।
मन्त्रिनाशे मूलनाशात् रक्ष्या धर्मक्षतिः ध्रुवम् ॥७१॥

पापम् च स्यात् द्विजस्य अस्य ससूनोः मन्त्रिणः वधात् ।
तस्मात् रक्ष्यः अयम् आसन्नः अवश्यम् ते धर्मविप्लवः ॥७२॥

दातव्या मन्त्रिपुत्राय विप्रन्यस्ता कुमारिका ।
कालान्तर- आगते विप्रे क्रुद्धे प्रतिविधास्यते ॥७३॥

एवम् उक्तः प्रकृतिभिः तथा इति प्रत्यपद्यत ।
सः राजा मन्त्रिपुत्राय दातुम् ताम् कूटकन्यकाम् ॥७४॥

आनीतः च सः निश्चित्य लग्नम् राजसूतागृहात् ।
कन्यारूपः मनःस्वामी तम् जगाद महीपतिम् ॥७५॥

अन्येन अन्यार्थम् आनीताम् अन्यस्मै माम् ददासि चेत् ।
कामम् तत् अस्तु राजा त्वम् धर्माधर्मौ तव अद्य तौ ॥७६॥

अहम् विवाहम् इच्छामि समयेन ईदृशेन तु ।
एकशय्याम् न नेतव्या पत्या तावत् अहम् हठात् ॥७७॥

यावत् तीर्थानि षट्मासान् परिभ्रम्य सः न आगतः ।
एवम् न चेत् कृत्तजिह्वाम् दन्तैः जानीहि माम् मृताम् ॥७८॥

इति उक्ते समये तेन यूना कन्यावपुःभृता ।
राज्ञा सः बोधितः प्राप निःवृत्तिम् मन्त्रिपुत्रकः ॥७९॥

तथा इति प्रतिपद्य एतत् कृत्वा उद्वाहम् किल आशु तम् ।
एकस्मिन् स्थापयित्वा च वासके ते सुरक्षिते ॥८०॥

ताम् मृगाङ्कवतीम् आद्याम् वधूम् कूटवधूम् च ताम् ।
जगाम तीर्थयात्रायै मूडः कान्ताप्रिया- इच्छया ॥८१॥

सः च उवास मनःस्वामी स्त्रीरूपः अत्र तया सह ।
मृगाङ्कवती- एकगृहे समानशयन- आसनः ॥८२॥

तथा स्थितम् कदाचित् तम् सा मृगाङ्कवती निशि ।
शय्यागृहे रहः अवादीत् बहिःसुप्ते परिच्छदे ॥८३॥

कथाम् काम्चित् त्वम् आख्याहि निद्रा न अस्ति हि मे सखि ।
तत् श्रुत्वा अकथयत् सः अस्यै स्त्रीरूपः ताम् कथाम् युवा ॥८४॥

यत्र इला- आख्यस्य राजऋषेः सूर्यवंशभुवः पुरा ।
प्राप्तस्य गौरीशापेन स्र्तीत्वम् विश्वएकमोहनम् ॥८५॥

अन्योन्यदर्शनप्रीत्या देवौद्यानवनान्तरे ।
अभूत् बुधेन संयोगः समभूत् च पुरूरवाः ॥८६॥

ताम् कथाम् कथयित्वा च धूर्तः पुनः उवाच सः ।
तत् एवम् देवता- आदेशान् मन्त्राउषधवशेन वा ॥८७॥

पुरुषः स्त्री कदाचित् स्यात् स्त्री वा जातु पुमान् भवेत् ।
भवन्ति च एवम् संयोगाः कामजा महताम् अपि ॥८८॥

श्रुत्वा एतत् तरुणी मुग्धा विवाहप्रोषितानुका ।
सा मृगाङ्कवती स्म आह विश्वस्ता सहवासतः ॥८९॥

श्रुत्वा एताम् मे कथाम् एतत् अङ्गम् सिमिसिमायते ।
हृदयम् सीदति इव इदम् तत् एतत् सखि किम् वद ॥९०॥

तत् श्रुत्वा सः अङ्गनारूपः विप्रः पुनः उवाच ताम् ।
एतानि कामचिह्नानि ननु अपूर्वाणि ते सखि ॥९१॥

मया एतानि अनुभूतानि निगूहे न हि अहम् तव ।
इति तेन उदिता अवादीत् सा मृगाङ्कवती शनैः ॥९२॥

सखि प्राणसमा त्वम् मे तत् कालज्ञा न वच्मि किम् ।
अपि पुंसः प्रवेशः स्यात् उपायेन हि केनचित् ॥९३॥

एवम् उक्तवतीम् एताम् सः च लब्ध- आशयः तदा ।
प्राह धूर्तपतेः शिष्यः यदि एवम् तत् वदामि ते ॥९४॥

वैष्णवः अस्ति प्रसादः मे येन अहम् स्वैच्छया निशि ।
पुरुषः स्याम् तत् एषः अद्य भवामि त्वत्कृते पुमान् ॥९५॥

इति उक्त्वा सः मनःस्वामी निष्कृष्य गुलिकाम् मुखात् ।
यौवनौद्दामम् आत्मानम् तस्यै कान्तम् अदर्शयत् ॥९६॥

ततः कथितविस्रम्भः सर्वस्वगतयन्त्रणः ।
कालौचितरसः कः अपि तयोः आसीत् रतौत्सवः ॥९७॥

अथ तत्र तया साकम् सः मन्त्रिसुतभार्यया ।
तस्थौ द्विजः दिवा नारी रात्रौ च पुरुषः भवन् ॥९८॥

आसन्न आगमनम् तम् च बुद्ध्वा मन्त्रिसुतम् दिनैः ।
ताम् आदाय निशि स्वैरम् पलाय्य सः ययौ ततः ॥९९॥

एतस्मिन् च कथासंधौ मूलदेवः सः तत्गुरुः ।
बुद्ध्वा तत् अखिलम् भूत्वा भूयः वृद्धद्विज- आकृतिः ॥१००॥

शशिना अनुगतः सख्या तरुणद्विजरूपिणा ।
आगत्य तम् यशःकेतुम् प्रह्वः राजानम् अब्रवीत् ॥१०१॥

आनीतः अयम् मया पुत्रः देहि मे ताम् स्नुषाम् इति ।
ततः संमन्त्र्य सः नृपः शापभीतः तम् अभ्यधात् ॥१०२॥

ब्रह्मन् न जाने क्व गता सा स्नुषा ते क्षमस्व तत् ।
अपराधात् सुतस्य अर्थे ददामि स्वसुताम् तव ॥१०३॥

इति उक्त्वा धूर्तराजम् तम् कृतकक्रोधनिष्ठुरम् ।
विब्रुवाणम् जरत्विप्ररूपम् प्रार्थ्य सः भूपतिः ॥१०४॥

तत्सख्ये कृततत्पुत्रव्यपदेशाय ताम् ददौ ।
तनयाम् शशिने तस्मै यथाविधि शशिप्रभाम् ॥१०५॥

ततः सः मूलदेवः तौ यथाभूतौ वधूवरौ ।
आदाय स्व- आस्पदम् प्रायात् राजार्थेषु अकृतस्पृहः ॥१०६॥

तत्र तस्मिन् च मिलिते मनःस्वामीनि अभूत् महान् ।
विवादः मूलदेवाग्रे शशिनः तस्य च उभयोः ॥१०७॥

मनःस्वामी अब्रवीत् एषा दीयताम् मे शशिप्रभा ।
कन्या एव हि मया उदूडा प्राक् असौ गुरुअनुग्रहात् ॥१०८॥

शशी जगाद कः अस्याः त्वम् मूर्ख दारा इयम् मम ।
अग्निसाक्षिकम् एषा हि पित्रा मे प्रतिपादिता ॥१०९॥

एवम् मायाबलप्राप्तराजपुत्रीनिमित्ततः ।
विवाद- आसक्तयोः न आसीत् परिच्छेदः तयोः द्वयोः ॥११०॥

तत् राजन् त्वम् मम ब्रूहि तावत् कस्य उपपद्यते ।
भार्या सा संशयम् छिन्धि पूर्वौक्तः समयः अस्ति ते ॥१११॥

इति वेतालतः श्रुत्वा तस्मात् स्कन्धाग्रवर्तिनः ।
सः त्रिविक्रमसेनः तम् नृपतिः प्रत्यभाषत ॥११२॥

मन्ये शशिनः एव असौ भार्या न्याय्या नृपात्मजा ।
यस्मै प्रदत्ता प्रकटम् पित्रा धर्म्येण वर्त्मना ॥११३॥

मनःस्वामी तु ताम् भेजे चौर्यात् गान्धर्वधर्मतः ।
चौरस्य तु परस्वेषु स्वत्वम् न्याय्यम् न जातु चित् ॥११४॥

इति तस्य वचः निशम्य राज्ञः वेतालः सः ययौ पुनः तत् एव  ।
सहसा एव तत् अंसतः स्वधाम क्षितिपः सः अपि तम् अन्वियाय तूर्णम् ॥११५॥    

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:43.7870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सिंगरो

  • पु. ( गो . कु . ) कारवारच्या बाजूला रानांत आढळणारी पिंगट रंगाची मोठी खार . 
RANDOM WORD

Did you know?

श्रीयंत्रातील चक्र आणि त्रिकोण कशाचे प्रतिक आहेत?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site