TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

वेतालपञ्चविंशति - कथा ११

`बेताल पचीसी'  पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं ।


कथा ११
ततः गत्वा पुनः प्राप्य शिंशपातः अग्रहीत् नृपः ।
सः त्रिविक्रमसेनः अंसे वेतालम् तम् चचाल च ॥१॥

आयान्तम् च तम् अंसस्थः वेतालः सः अब्रवीत् नृपम् ।
राजन् विचित्राम् एकाम् ते वर्णयामि कथाम् शृणु ॥२॥

उज्जयिन्याम् अभूत् पूर्वम् नाम्ना धर्मध्वजः नृपः ।
तिस्रः तस्य आभवन् भार्याः राजपुत्र्यः अतिवल्लभाः ॥३॥

एका तासु इन्दुलेखा इति तारावली अपरा तथा ।
नाम्ना मृगाङ्कवती अन्या निःसामान्यवपुःगुणाः ॥४॥

ताभिः सः विहरन् राजा राज्ञीभिः तिसृभिः सह ।
आसांचक्रे कृती तत्र जिताशेषरिपुः सुखम् ॥५॥

एकदा तत्र संप्राप्ते वसन्तसमयौत्सवे ।
प्रियाभिः सहितः ताभिः उद्यानम् क्रीडितुम् ययौ ॥६॥

तत्र अलिमालामौर्वीकाः पश्यन् पुष्प- आनताः लताः ।
चापयष्टीः अनङ्गस्य मधुना सज्जिताः इव ॥७॥

शृण्वन् च तत्द्रुमाग्रस्थकोकिलौदीरिताम् गिरम् ।
सम्भोगएकरसस्य आज्ञाम् इव मानसजन्मनः ॥८॥

सिषेवे अन्तःपुरैः साकम् सः राजा वासवौपमः ।
पानम् मदस्य कंदर्पजीवितस्य अपि जीवितम् ॥९॥

तत्निःश्वाससुगन्धीनि तत्बिम्बओष्ठरुचीनि च ।
प्रियापीतावशेषाणि पिबन् रेमे मधूनि सः ॥१०॥

तत्र तस्य इन्दुलेखाया राज्ञः केलिकचग्रहात् ।
तस्याः पपात कर्णाग्रात् उत्सङ्गे त्वङ्गद् उत्पलम् ॥११॥

तेन ऊरुपृष्ठे सहसा क्षते जाते अभिघातजे ।
अभिजाता महादेवी हा हा इति उक्त्वा मुमूर्च्छ सा ॥१२॥

तत् दृष्ट्वा विह्वलेन आर्त्या राज्ञा परिजनेन च ।
समाश्वास्यत राज्ञी सा शनैः शीताम्बुमारुतैः ॥१३॥

ततः नीत्वा सः राजा ताम् राजधानीम् भिषक्कृतैः ।
प्रियाम् उपाचरत् दिव्यैः आमुक्तव्रणपट्टिकाम् ॥१४॥

रात्रौ च सुस्थिताम् दृष्ट्वा ताम् सः राजा द्वितीयया ।
तारावल्या सह आरोहत् चन्द्रप्रासादम् ईश्वरः ॥१५॥

तत्र तस्य अङ्कसुप्तायाः राज्ञः तस्याः हिमत्विषः ।
कराः जालपथैः पेतुः अङ्गे चलितवाससि ॥१६॥

ततः क्षणात् प्रबुद्धा सा हा दग्धा- अस्मि इति वादिनी ।
शयनात् सहसा उत्तस्थौ ततङ्गपरिमर्शिनी ॥१७॥

किम् एतत् इति संभ्रान्तः प्रबुद्धः अथ ददर्श सः ।
उत्थाय राजा विस्फोटान् अङ्गे तस्याः विनिर्गतान् ॥१८॥

पृच्छन्तम् सा च तम् प्राह राज्ञी तारावली तदा ।
नग्नाङ्गे पतितैः इन्दोः करैः एतत् कृतम् मम ॥१९॥

इति उक्तवत्याः क्रन्दन्त्याः स- आर्तिः आह्वयति स्म सः ।
तस्याः परिजनम् राजा विह्वल- आकुलधावितम् ॥२०॥

तेन अस्याः कारयामास सजलैः नलिनीदलैः ।
शय्याम् अदापयत् च अङ्गे श्रीखण्ड- आर्द्रविलेपनम् ॥२१॥

तावत् बुद्ध्वा तृतीया अस्य सा मृगाङ्कवती प्रिया ।
तत्पार्श्वम् आगन्तुमनाः निर्ययौ निजमन्दिरात् ॥२२॥

निर्गता सा आशृणोत् क्व अपि गृहे धान्यावघातजम् ।
निःशब्दायाम् निशि व्यक्तम् विदूरे मुसलध्वनिम् ॥२३॥

श्रुत्वा एव हा मृता- अस्मि इति ब्रुवाणा धुन्वती करौ ।
उपाविशत् व्यथा- आक्रान्ता मार्गे सा मृगलोचना ॥२४॥

ततः प्रतिनिवृत्य एव नीत्वा परिजनेन सा ।
स्वम् एव अन्तःपुरम् बालाः रुदती शयने अपतत् ॥२५॥

ददर्श तत्र तस्याः च चिन्वन् साश्रुः परिच्छदः ।
आलीनभ्रमरौ पद्मौ इव हस्तौ किणाङ्कितौ ॥२६॥

गत्वा च सः अब्रवीत् राज्ञे राजा अपि आगत्य विह्वलः ।
किम् एतत् इति पप्रच्छ सः अथ धर्मध्वजः प्रियाम् ॥२७॥

सा अपि प्रदर्श्य हस्तौ तम् इति उवाच रुजा- अन्विता ।
श्रुते मुसलशब्दे मे जतौ एतौ किणाङ्कितौ ॥२८॥

ततः सः दाहशमनम् दापयामास हस्तयोः ।
तस्याः चन्दनलेप- आदि राजा अद्भुतविषादवान् ॥२९॥

एकस्याः उत्पलेन अपि पतता क्षतम् आहितम् ।
द्वितीयस्याः पुनः दग्धम् अङ्गम् शशिकरैः अपि ॥३०॥

एकस्याः तु तृतीयस्याः श्रुतेन अपि विनिर्गताः ।
कष्टम् मुसलशब्देन हस्तयोः ईदृशाः किणाः ॥३१॥

अहो युगपत् एतासाम् प्रेयसीनाम् मम अधुना ।
गुणः अपि अत्यभिजातत्वम् जातः दोषाय दैवतः ॥३२॥

इति चिन्तयतः तस्य भ्रमतः अन्तःपुरेषु च ।
त्रियामा शतयाम इव कृच्छ्रात् सा नृपतेः ययौ ॥३३॥

प्रातः च सः भिषक्षल्यहर्तृभिः सह संव्यधात् ।
तथा यथा अभूत् अचिरात् स्वस्थान्तःपुरनिर्वृत्तः ॥३४॥

एवम् एताम् कथाम् उक्त्वा वेतालः अत्यद्भुताम् तदा ।
सः त्रिविक्रमसेनम् तम् पप्रच्छ अंसस्थितः नृपम् ॥३५॥

अभिजाततरा एतासु राजन् राज्ञीषु का वद ।
पूर्वौक्तः सः अस्तु शापः ते जानन् यदि न जल्पसि ॥३६॥

तत् श्रुत्वा सः अब्रवीत् राजा सुकुमारतरा अत्र सा ।
अस्पृष्टे मुसले यस्याः शब्देन एव उद्गताः किणाः ॥३७॥

उत्पलैन्दुकरैः स्पर्शे वृत्ते तु इतरयोः द्वयोः ।
संजाताः व्रणविस्फोटाः तेन तस्याः न ते समे ॥३८॥

इति तस्य उक्तवतः अंसात् राज्ञः भूयः जगाम सः स्वपदम् ।
वेतालः सः च राजा तथा एव तम् सुदृढनिश्चयः अनुययौ ॥३९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:43.5700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

मोगान मेटता, फोगान पेटता

  • ( गो.) भांडण प्रेमानें मिटतें आणि द्वेषानें वाढतें. 
RANDOM WORD

Did you know?

श्रीदत्तपुराणटीका and more books for shree dattaray
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site