TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

वेतालपञ्चविंशति - कथा २१

`बेताल पचीसी'  पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं ।


कथा २१
अथ गत्वा पुनः प्राप्य शिंशपातः ततः अग्रहीत् ।
सः त्रिविक्रमसेनः अंसे वेतालम् तम् नराधिपः ॥१॥

आगच्छन्तम् च तम् भूयः सः वेतालः अब्रवीत् नृपम् ।
राजन् उद्गाढकन्दर्पाम् शृणु एकाम् वच्मि ते कथाम् ॥२॥

अस्ति शक्रपुरी इव अन्या धात्रा सुकृतिनाम् कृते ।
दिवः च्युतानाम् विहिता विशाला- आख्या पुरी भूवि ॥३॥

तस्याम् बभूव नृपतिः पद्मनाभः इति श्रुतः ।
सत्चक्रनन्दकः स्रीमान् आक्रान्तबलिराजकः ॥४॥

तस्मिन् पृथ्वीपतौ तस्याम् नगर्याम् सुमहावणिक् ।
अर्थदत्ताभिधानः अभूत् धनैः विजितवित्तपः ॥५॥

तस्य एका च सुता अनङ्गमञ्जरी इति उदपद्यत ।
स्वःसुन्दरीप्रतिकृतिः भुवि धात्रा इव दर्शिता ॥६॥

दत्ता च तेन वणिजा वणिक्वरसुताय सा ।
मणिवर्माभिधानाय ताम्रलिप्तीनिवासिने ॥७॥

एकापत्यतया च अतिवत्सलः सः न ताम् वणिक् ।
भर्तृयुक्ताम् सुताम् गेहात् तत्याज अनङ्गमञ्जरीम् ॥८॥

तस्याः च अनङ्गमञ्जर्याः पतिः द्वेष्यः बभूव सः ।
मणिवर्मा सरोगस्य कटुतिक्तम् इव औषधम् ॥९॥

पत्युः तु सा अस्य सुमुखी जीवितात् अपि अभूत् प्रिया ।
धनऋद्धिः कृपणस्य इव कृच्छ्रात् सुचिरसंचिता ॥१०॥

एकदा च अन्तिकम् पित्रोः ताम्रलिप्तीम् निजम् गृहम् ।
उत्कण्ठ- आदिनिमित्तेन मणिवर्मा जगाम सः ॥११॥

ततः दिनेषु यातेषु तीक्ष्णसूर्यांशुसायकैः ।
प्रोषितानाम् निरुद्धाध्वा घर्मकालः इह अभ्यगात् ॥१२॥

वसन्तविरहात् उष्णाः निःश्वासाः ककुभाम् इव ।
मल्लिकापाटला- आमोदमेदुराः मरुतः ववुः ॥१३॥

उत्पेतुः पवनौद्धूताः गगने रेणुराजयः ।
दूत्यः घन- आगमाय इव प्रहिताः तप्तया भुवा ॥१४॥

आकाङ्क्षिततरुछायाः कठोर- आतपतापिताः ।
पथिकाः इव यान्ति स्म चिरेण दिवसाः अपि ॥१५॥

चन्द्रांशुपाण्डुरुचयः गाढ- आश्लेषसुखप्रदम् ।
विना हेमन्तम् अगमन् अतिदुर्बलताम् निशाः ॥१६॥

तत्कालम् चन्दन- आलेपधवला सा वणिक्सुता ।
संवीततनुकौशेयशोभिता अनङ्गमञ्जरी ॥१७॥

ददर्श स्वगृहौत्तुङ्गवातायनगता एकदा ।
आप्तसख्या युता भव्यम् युवानम् विप्रपुत्रकम् ॥१८॥

संचरन्तम् रतिप्राप्त्यै नवौत्पन्नम् इव स्मरम् ।
कमलाकरनामानम् पुत्रम् राजपुरःधसः ॥१९॥

सः अपि इन्दोः इव मूर्तिम् ताम् कान्ताम् दृष्ट्वा उपरि स्थिताम् ।
कुमुद- आकरताम् भेजे स- आनन्दः कमलाकरः ॥२०॥

तयोः अभूत् अमूल्यम् तत् मनःसंवननम् तदा ।
स्मरगुरु- आज्ञया यूनोः अन्यःअन्यस्य अवलोकनम् ॥२१॥

उन्मूलितह्रियौ तौ च दूरविक्षिप्तचेतसा ।
रजःअभिभूतौ जह्राते मन्मथ- आवेगवात्यया ॥२२॥

दृष्ट्वा च मदन- आविष्टः सख्या सः कमलाकरः ।
सहस्थितेन नीतः अभूत् कथम्चित् भवनम् निजम् ॥२३॥

सा अपि तम् नामतः अन्विष्य विवशा अनङ्गमञ्जरी ।
तया स्वया समम् सख्या प्राविशत् वासकम् शनैः ॥२४॥

तत्र संचिन्तयन्ती च कान्तम् कामज्वर- आतुरा ।
न अपश्यत् न अशृणोत् किम्चित् लुठन्ती शयनीयके ॥२५॥

गतेषु अहःसु द्वित्रेषु सत्रपा सभया च सा ।
असहा विरहौन्मादम् विसोढुम् कृशपाण्डुरा ॥२६॥

दुःप्रापप्रियसंयोगनिःआस्था नक्तम् एकदा ।
गवाक्षप्रेरितकरेण आकृष्टा इव हिमांशुना ॥२७॥

सुप्ते परिजने स्वैरम् निर्गत्य मरणौन्मुखी ।
जगाम स्वगृहौद्यानवापीम् तरुलतावृताम् ॥२८॥

तत्र पित्रा कृतौदारप्रतिष्ठाम् कुलदेवताम् ।
उपेत्य चण्डिकाम् देवीम् नत्वा स्तुत्वा व्यजिज्ञपत् ॥२९॥

अस्मिन् जन्मनि चेत् भर्ता न मया कमलाकरः ।
प्राप्तः तत् देवि भूयात् मे सः अन्यस्मिन् अपि जन्मनि ॥३०॥

इति उक्त्वा पुरतः तस्याः देव्याः सा अशोकपादपे ।
पाशम् विरचयामास स्वौत्तरीयेण रागिणी ॥३१॥

तावत् आप्ता सखी तस्याः सा प्रबुध्य अत्र वासके ।
ताम् अदृष्ट्वा तत् उद्यानम् दैवात् आगात् विचिन्वती ॥३२॥

तत्र दृष्ट्वा च ताम् पाशम् अर्पयन्तीम् तथा गले ।
मा मा इति उक्त्वा प्रधाव्य एव पाशम् तस्याह् तम् अच्छिनत् ॥३३॥

सा अपि ताम् वीक्ष्य संप्राप्ताम् कृत्तपाशाम् निजाम् सखीम् ।
अनङ्गमञ्जरी भूमौ पपात अधिकदुःखिता ॥३४॥

आश्वासिता स्वसख्या च तया पृष्टा च सा क्षणात् ।
दुःखहेतुम् समाख्याय पुनः एनाम् अभाषत ॥३५॥

सखि मालतिके तत् मे दुःलभे प्रियसंगमे ।
गुरु- आदिपरतन्त्रायाः न सुखम् मरणात् परम् ॥३६॥

इति ब्रुवाणा एव अनङ्गशराग्निज्वलिता भृशम् ।
सा अनङ्गमञ्जरी मोहम् ययौ नैराश्यनिःसहा ॥३७॥

कष्टम् स्मर- आज्ञा दुःलङ्घ्या यया नीता दशाम् इमाम् ।
अन्याविनीतवनिताहासिनी इयम् सखी मम ॥३८॥

इत्यादिविलपन्ती च ताम् सा मालतिका सखी ।
शनैः आश्वासयामास शीताम्बुपवन- आदिभिः ॥३९॥

तापौपशान्तये च अस्याः चकार नलिनीदलैः ।
शय्याम् ददौ च हृदये हारम् तुहिनशीतलम् ॥४०॥

ततः साश्रुः उवाच एताम् सखीम् सा अनङ्गमञ्जरी ।
सखि हार- आदिभिः न अयम् दाहः अन्तः मम शाम्यति ॥४१॥

येन प्रशाम्यति पुनः स्वबुद्ध्या एव विधत्स्व तत् ।
माम् संयोजय कान्तेन जीवितम् मे यदि इच्छसि ॥४२॥

एवम् उक्तवतीम् ताम् सा स्नेहात् मालतिका अब्रवीत् ।
सखि भूयिष्टयाता अद्य रात्रिः प्रातः अहम् पुनः ॥४३॥

इह एव कृतसंकेतम् आनेष्यामि प्रियम् तव ।
तत् आलम्ब्य धृतिम् तावत् निजम् प्रविश मन्दिरम् ॥४४॥

इतिउक्तवत्यै संतुष्य तस्यै सा अनङ्गमञ्जरी ।
हारम् स्वकण्ठात् आकृष्य प्रददौ पारितोषिकम् ॥४५॥

गच्छ अधुना एव स्वगृहम् प्रातः सिद्ध्यै ततः व्रज ।
इति च एताम् सखीम् प्रेष्य सा विवेश स्ववासकम् ॥४६॥

प्रातः च सा मालतिका केनापि अनुपलक्षिता ।
तत्सखी तस्य कमलाकरस्य भवनम् ययौ ॥४७॥

चिन्वती तत्र च उद्याने तरुमूले ददर्श तम् ।
चन्दन- आर्द्राम्बुरुहिणीपत्त्रशय्याविवर्तिनम् ॥४८॥

रहस्यधारिणा एकेन कदलीदलमारुतैः ।
आश्वास्यमानम् सुहृदा दह्यमानम् स्मराग्निना ॥४९॥

तस्याः विना इयम् अस्य स्यात् कामावस्था- ईदृशी इति सा ।
विचिन्त्य तस्थौ प्रच्छन्ना ज्ञातुम् तत्र विनिश्चयम् ॥५०॥

तावत् च सुहृदा तेन सः ऊचे कमलाकरः ।
क्षणम् एकम् इह उद्याने दत्त्वा दृष्टिम् मनःरमे ॥५१॥

विनोदय मनः मित्र मा अत्र विक्लवताम् अगाः ।
तत् श्रुत्वा तम् स्वसुहृदम् विप्रपुत्रः जगाद सः ॥५२॥

यत् मम अनङ्गमञ्जर्या वणिक्पुत्र्या तया हृतम् ।
विनोदयामि तत् इदम् कुतः शून्य- आशयः मनः ॥५३॥

स्मरेण शून्यहृदयः बाणतूणीकृतः हि अहम् ।
तत् प्राप्स्यामि मनःचौरीम् ताम् यथा कुरु मे तथा ॥५४॥

इति उक्ते विप्रपुत्रेण तेन आत्मानम् प्रदर्श्य सा ।
हृष्टा मालतिका अभ्येत्य तम् उवाच अस्तसंशया ॥५५॥

तव अस्मि अनङ्गमञ्जर्या सुभग प्रहिता अन्तिकम् ।
संदेशम् च अहम् एव एषा विस्पष्टार्थम् ब्रवीमि ते ॥५६॥

एषः कः शिष्टधर्मः यत् प्रविश्य हृदयम् हठात् ।
मनः मुषित्वा मुग्धायाः गम्यते स्थगित- आत्मना ॥५७॥

चित्रम् च यत् वामदृशा तुभ्यम् एव तया अधुना ।
मनःहराय देहः अपि दातुम् प्राणैः सह ईष्यते ॥५८॥

निःश्वासान् सा हि संतप्तान् विमुञ्चति दिवानिशम् ।
ज्वलतः हृदि कन्दर्पवह्नेः धूमौद्गमान् इव ॥५९॥

संपतन्ति मुहुः च अस्याः साञ्जनाः बाष्पबिन्दवः ।
वदनाम्भःजसौगन्ध्यलुब्धाः मधुकराः इव ॥६०॥

तत् यदि इच्छसि तत् वच्मि शिवम् वाम् उभयोः अहम् ।
इति उक्तः मालतिकया सः अब्रवीत् कमलाकरः ॥६१॥

भद्रे भयम् करोति एषा वाक् तव आश्वासयति अपि ।
वदन्ती विधुरावस्थाम् बद्धभावाम् च मे प्रियाम् ॥६२॥

तत् एका गतिः अत्र त्वम् यथा वेत्सि तथा कुरु ।
इतिउक्तवाक्ये कमलाकरे मालतिका अब्रवीत् ॥६३॥

अनङ्गमञ्जरीम् अद्य गुप्तम् ताम् प्रापयामि अहम् ।
नक्तम् स्वभवनौद्यानम् त्वम् तिष्ठेः तत्र बाह्यतः ॥६४॥

ततः प्रवेशयिष्यामि त्वाम् अत्र अन्तः स्वयुक्तितः ।
एवम् यथा- इष्टः युवयोः भविष्यति समागमः ॥६५॥

इति उक्त्वा आनन्द्य तम् विप्रपुत्रम् मालतिका ततः ।
गत्वा कृतार्था सा अनङ्गमञ्जरीम् अपि अनन्दयत् ॥६६॥

अथ अह्ना सह याते अर्के क्वापि संध्या- अनुरागिणि ।
ऐन्द्र्या दिशा इन्दुतिलकेन आनने सुप्रसाधिते ॥६७॥

त्यक्तपद्म- आकरा प्राप्ता श्रीः मया इति इव हर्षतः ।
हसति उफुल्लवदने विशदे कुमुद- आकरे ॥६८॥

कृतप्रसाधनः सौत्कः स्वैरम् सः कमलाकरः ।
कामी कान्तागृहौद्यानद्वारबाह्यम् उपागमत् ॥६९॥

तावत् च सा मालतिका ताम् युक्त्या अनङ्गमञ्जरीम् ।
आनिनाय तत् उद्यानम् कृच्छ्रात् गमितवासराम् ॥७०॥

उपवेश्य च ताम् मध्ये गुल्मके चूतशाखिनाम् ।
प्रावेशयत् तम् निर्गत्य तत्र एव कमलाकरम् ॥७१॥

सः च प्रविश्य पत्त्रओघघनपादपमध्यगाम् ।
ताम् अध्वगः इव छायाम् ददर्श अनङ्गमञ्जरीम् ॥७२॥

उपैति यावत् च सः ताम् तावत् दृष्ट्वा प्रधाव्य सा ।
कामवेगहृतव्रीडा कण्ठे तम् सहसा अग्रहीत् ॥७३॥

क्व यासि लब्धः असि मम इति आलपन्ती च तत् क्षणम् ।
सा अतिहर्षभरस्तब्धनिःश्वासा पञ्चताम् अगात् ॥७४॥

पपात च महीपृष्ठे वातरुग्णा लता इव सा ।
विचित्रः बत कामस्य विपाकविषमः क्रमः ॥७५॥

तत् दृष्ट्वा अशनिपातौग्रम् सद्यः सः कमलाकरः ।
हा हा किम् एतत् इति उक्त्वा मूर्च्छितः न्यपतत् भुवि ॥७६॥

लब्धसंज्ञः क्षणेन अथ ताम् अङ्क- आरोपिताम् प्रियाम् ।
आलिङ्गन् परिचुम्बन् च तत् तत् च विलपन् बहु ॥७७॥

तथा दुखातिभारेण सः प्रसह्य निपीडितः ।
यथा तस्य टसत्कृत्य क्षणात् हृदयम् अस्फुटत् ॥७८॥

अथ तौ मालतिकया शोच्यमानौ उभौ अपि  ।
दृष्ट्वा प्राप्तक्षयौ शोकात् इव क्षीणा अभवत् क्षपा ॥७९॥

प्रातः उद्यानपालेभ्यः ज्ञात्वा बन्धुजनः तयोः ।
तत्र आययौ त्रपा- आश्चर्यदुःखमोह- आकुलीकृतः ॥८०॥

आसीत् कर्तव्यतामूढः चिरम् खेदात् अवाक्मुखः ।
कष्टाः कुलखलीकारहेतवः बत कुस्त्रियः ॥८१॥

तावत् च ताम्रलिप्तीतः सः तस्याः पतिः आगमत् ।
सौत्कण्ठः अनङ्गमञ्जर्याः मणिवर्मा पितुः गृहात् ॥८२॥

सः श्वाशुरम् गृहम् प्राप्य यथातत्त्वम् अवेत्य तत् ।
बाष्पान्धलोचनः ध्यायन् तत् एव उद्यानम् आययौ ॥८३॥

तत्र भार्याम् गतासुम् ताम् दृष्ट्वा अन्यसहिताम् अपि ।
शोकाग्निज्वलितः रागी सद्यः सः अपि जहौ असून् ॥८४॥

ततः क्रन्दति तत्रस्थे जने कोलाहल- आकुलाः ।
आययुः ज्ञातवृत्तान्ताः पौराः सर्वे अत्र विस्मिताः ॥८५॥

अथ अत्र अनङ्गमञ्जर्याः पित्रा पूर्वावतारीता ।
देवी संनिहिता चण्डी विज्ञप्ता अभूत् निजैः गणैः ॥८६॥

त्वताकारप्रतिष्ठाकृत् अर्थदत्तः सदा एषः ते ।
भक्तः वणिक् तत् अस्य अस्मिन् दुःखे देवि दयाम् कुरु ॥८७॥

एतत् गणेभ्यः श्रुत्वा सा शरण्या शङ्करप्रिया ।
शान्तानङ्गाः त्रयः अपि एते जीवन्तु इति समादिशत् ॥८८॥

अथ सर्वे अपि ते सुप्तप्रतिबुद्धाः इव क्षणात् ।
तत्प्रसादात् समुत्तस्थुः जीवन्तः वीतमन्मथाः ॥८९॥

ततः दृष्ट्वा तत् आश्चर्यम् स- आनन्दे सकले जने ।
लज्जानतमुखः प्रायात् स्वगृहम् कमलाकरः ॥९०॥

अर्थदत्तः अपि ताम् ह्रीताम् आदाय अनङ्गमञ्जरीम् ।
सुताम् स्वभर्तृसहिताम् ययौ बद्धौत्सवः गृहान् ॥९१॥

इति कथयित्वा तस्याम् रात्रौ मार्गे कथाम् सः वेतालः ।
निजगाद तम् त्रिविक्रमसेनम् क्षोणीपतिम् भूयः ॥९२॥

राजन् कस्य वद एतेषु अधिकः मोहः अनुरागमूढेषु ।
सः अत्र च पूर्वौक्तः ते शापः जानन् न चेत् वदसि ॥९३॥

इति एतत् वेतालात् श्रुत्वा सः प्रत्युवाच तम् नृपतिः ।
एतेषु रागमूढः प्रतिभाति मम अधिकः सः मणिवर्मा ॥९४॥

इतरौ हि तौ उभौ अपि कालक्रमपक्वमन्मथावस्थौ ।
अन्यःअन्यसानुरागौ यदि जीवितम् उज्झतः स्म तत् भवतु ॥९५॥

मणिवर्मा तु अतिमूढः यः भार्याम् अन्यपुरुषसक्तमृताम् ।
दृष्ट्वा एव कोपकाले प्रत्युत रक्तः शुचा अमुचत् प्राणान् ॥९६॥

इति गदित वतः सः तस्य राज्ञः बत वेतालपतिः पुनः जगाम ।
निजम् एव पदम् तत् अंसपीठात् अथ राजा अपि तम् अन्वगात् सः भूयः ॥९७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:44.1170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

graticule

  • न. रेखाजल 
  • Surv. 
  • न. Optics (a reticle composed of lines ruled on a transparent plate) रेखाजाल 
  • न. सूत्रजाल 
More meanings
RANDOM WORD

Did you know?

श्रीयंत्रातील चक्र आणि त्रिकोण कशाचे प्रतिक आहेत?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.