TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

वेतालपञ्चविंशति - कथा १

बेताल पचीसी  पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं ।


कथा १
अस्ति वाराणसी नाम पुरारिवसतिः पुरी ।
स्थली इव कैलासगिरेः या पुण्यजनसेविता ॥५९॥

भूरिवारिभृता शश्वतुपकण्ठनिवेशिनी ।
हारयष्टिः इव आभाति यस्याः स्वर्गतरङ्गिणी ॥६०॥

प्रतापानलनिर्दग्धविपक्षकुलकाननः ।
तस्याम् प्रतापमुकुटः नाम राजा अभवत् पुरा ॥६१॥

तस्य अभूत् वज्रमुकुटः तनयः रूपशौर्ययोः ।
कुर्वाणः दर्पदलनम् स्मरस्य अरिजनस्य च ॥६२॥

राजपुत्रस्य तस्य अत्र मन्त्रिपुत्रः महामतिः ।
आसीत् बुद्धिशरीर- आख्यः शरीराभ्यधिकः सखा ॥६३॥

तेन सख्या सह क्रीडन् सः कदाचित् नृप- आत्मजः ।
जगाम दूरम् अध्वानम् मृगया- अति प्रसङ्गतः ॥६४॥

शौर्यशृ- ईचामरानि इव सिंहानाम् मस्तकानि सः ।
छिन्दत् शरैः सटालानि विवेश एकम् महावनम् ॥६५॥

तत्र आस्थाने स्मरस्य इव पठत् कोकिलबन्दिनि ।
दत्तौपकारे तरुभिः मञ्जरीचलचामरैः ॥६६॥

सः अन्वितः मन्त्रिपुत्रेण तेन अपश्यत् सरःवरम् ।
विचित्रकमलौत्पत्तिधाम अम्बुधिम् इव अपरम् ॥६७॥

तस्मिन् तदा एव सरसि स्नानार्थम् काचित् आगता ।
तेन दिव्य- आकृतिः कन्या ददृशे सपरिच्छदा ॥६८॥

पूरयन्ती इव लावण्यनिःझरेण सरःवरम् ।
दृष्टिपातैः सृजन्ती इव तत्र उत्पलवनम् नवम् ॥६९॥

प्रत्यादिशन्ती इव मुखेन अम्बुजानि जितैन्दुना ।
सा जहार मनः तस्य राजपुत्रस्य तत्क्षणम् ॥७०॥

सः अपि अहार्षीत् तथा तस्याः युवा दृष्ट्वा विलोचने ।
यथा न ऐक्षत सा कन्या लज्जाम् स्वाम् अपि अलंकृतिम् ॥७१॥

यूनि पश्यति तस्मिन् सा का इयम् स्यादिति सानुगे ।
संज्ञाम् स्वदेश- आदि- आख्यातुम् विलासछद्मना अकरोत् ॥७२॥

करोति स्मौत्पलम् कर्णे गृहीत्वा पुष्पशेखरात् ।
चिरम् च दन्तरचनाम् चकार आदाय च व्यधात् ॥७३॥

पद्मम् शिरसि साकूतम् हृदये च आदधे करम् ।
राजपुत्रः च तस्याः ताम् संज्ञाम् न ज्ञातवान् तदा ॥७४॥

मन्त्रिपुत्रः तु बुबुधे सः सखा तस्य बुद्धिमान् ।
क्षणात् च सा ययौ कन्या नीयमाना अनुगैः ततः ॥७५॥

प्राप्य च स्वगृहम् तस्थौ पर्यङ्गे अङ्गम् निधाय सा ।
चित्तम् तु निजसंज्ञार्थम् आस्थात् तस्मिन् नृप- आत्मजे ॥७६॥

सः अपि राजसुतः भ्रष्टविद्यः विद्याधरः यथा ।
गत्वा स्वनगरीम् कृच्छ्राम् प्राप अवस्थाम् तया विना ॥७७॥

सख्या च मन्त्रिपुत्रेण तेन पृष्टः तदा रहः ।
शंसता ताम् अदुष्प्रापाम् त्यक्तधैर्यः जगाद सः ॥७८॥

यस्याः न नाम न ग्रामः नान्वयः वा अवबुध्यते ।
सा कथम् प्राप्यते तत् माम् आश्वासयसि किम् मृषा ॥७९॥

इति उक्तः राजपुत्रेण मन्त्रिपुत्रः तम् अभ्यधात् ।
किम् न दृष्टम् त्वया तत् यत् संज्ञया सूचितम् तया ॥८०॥

न्यस्तम् यत् उत्पलम् कर्णे तेन एतत् ते तया उदितम् ।
कर्णोत्पलस्य राष्ट्रे अहम् निवसामि महीभृतः ॥८१॥

कृता यत् दन्तरचना तेन एतत् कथितम् तया ।
तत्र जानीहि माम् दन्तघाटकस्य सुताम् इति ॥८२॥

पद्मावती इति नाम उक्तम् तया उत्तंसितपद्मया ।
त्वयि प्राणाः इति प्रोक्तम् हृदयार्पितहस्तया ॥८३॥

कलिङ्गदेशे हि अस्ति अत्र ख्यातः कर्णोत्पलः नृपः ।
तस्य प्रसादवित्तः अस्ति महान् यः दन्तघटकः ॥८४॥

सङ्ग्रामवर्धन- आख्यस्य तस्य अपि अस्ति जगत्त्रये ।
रत्नम् पद्मावती नाम कन्या प्राणाधिकप्रिया ॥८५॥

एतत् च लोकतः देव यथावत् विदितम् मम ।
अतः ज्ञाता मया संज्ञा तस्याः देश- आदिशंसिनी ॥८६॥

इति उक्तः मन्त्रिपुत्रेन तेन राजसुतः अथ सः ।
तुतोष तस्मै सुधिये लब्धौपायः जहर्ष च ॥८७॥

संमन्त्र्य च समम् तेन सः तत्युक्तः स्वमन्दिरात् ।
प्रिया- अर्थी मृगयाव्याजात् पुनः ताम् अगमत् दिशम् ॥८८॥

अर्धमार्गे च वाताश्ववेगवञ्चितसैनिकः ।
तम् मन्त्रिपुत्रएकयुतः कलिङ्गविषयम् ययौ ॥८९॥

तत्र तौ प्राप्य नगरम् कर्णोत्पलमहीभृतः ।
अन्विष्य दृष्ट्वा भवनम् दन्तघाटस्य तस्य च ॥९०॥

ततदूरे च वासार्थम् एकस्य वृद्धयोषितः ।
गृहम् प्राविशताम् मन्त्रिपुत्रराजसुतौ उभौ ॥९१॥

दत्ताम्बुयवसौ वाहौ गुप्ते अवस्थाप्य च अत्र सः ।
राजपुत्रे स्थिते वृद्धाम् मन्त्रिपुत्रः जगाद ताम् ॥९२॥

कच्चित् वेत्सि अम्ब सङ्ग्रामवर्धनम् दन्तघाटकम् ।
तत् शृउत्वा सा जरद्योषित् सश्रद्धा तम् अभाषत ॥९३॥

वेद्मि एव धात्री तस्य अस्मि स्थापिता तेन च अधुना ।
पद्मावत्याः स्वदुहितुः पार्श्वे ज्येष्ठतरा इति अहम् ॥९४॥

किम् तु अहम् न सदा तत्र गच्छामि उपहताम्बरा ।
कुपुत्रः कितवः वस्त्रम् दृष्ट्वा हि हरते मम ॥९५॥

एवम् उक्तवतीम् प्रीतः स्वौत्तरीय- आदिदानतः ।
संतोष्य सः अत्र वृद्धाम् ताम् मन्त्रिपुत्रः अब्रवीत् पुनः ॥९६॥

माता त्वम् तत् वदामः ते गुप्तम् यत् तत् कुरुष्व नः ।
दन्तघाटसुताम् एताम् गत्वा पद्मावतीम् वद ॥९७॥

सः अत्र आगतः राजपुत्रः दृष्टः यः सरसि त्वया ।
तेन च इह तद् आख्यातुम् प्रेषिता प्रणयात् अहम् ॥९८॥

तत् शृउत्वा सा तथा इति उक्त्वा वृद्धा दानवशीकृता ।
गत्वा पद्मावतीपार्श्वम् आजगाम क्षणान्तरे ॥९९॥

पृष्टा जगाद तौ राजसुतमन्त्रिसुतौ च सा ।
युष्मतागमनम् गत्वा गुप्तम् तस्याः मया उदितम् ॥१००॥

तया श्रुत्वा च निर्भर्त्स्य पाणिभ्याम् अहम् आहता ।
द्वाभ्याम् कर्पूरलिप्ताभ्याम् उभयोः गण्डयोः मुखे ॥१०१॥

ततः परिभव उद्विग्ना रुदती अहम् इह आगता ।
एताः तत् अङ्गुलीमुद्राः पुत्रौ मे पश्यतम् मुखे ॥१०२॥

एवम् तया उक्ते नैराश्यविषण्णम् तम् नृप- आत्मजम् ।
जगाद सः महाप्राज्ञः मन्त्रिपुत्रः जनान्तिकम् ॥१०३॥

मा गाः विषादम् रक्षन्त्या मन्त्रम् निर्भर्त्स्य यत् तया ।
कर्पूरशुभ्राः वक्त्रे अस्याः स्वाङ्गुल्यः दश पातिताः ॥१०४॥

तत् एतत् उक्तम् पक्षे अस्मिन् शुक्ले चन्द्रवतीः इमाः ।
रात्रीः दश प्रतीक्षध्वम् संगमानुचिताः इति ॥१०५॥

इति आश्वास्य सः तम् राजसुतम् मन्त्रिसुतः ततः ।
विक्रीय गुप्तम् हस्तस्थम् काञ्चनम् किम्चित् आपणे ॥१०६॥

वृद्धया साधयामास महा- अर्हम् भोजनम् तया ।
ततः तौ बुभुजाते द्वौ तत् तया सह वृद्धया ॥१०७॥

एवम् नीत्वा दशाहानि जिज्ञासा- अर्थम् पुनः सः ताम् ।
पद्मावती- अन्तिकम् वृद्धाम् मन्त्रिपुत्रः विसृष्टवान् ॥१०८॥

सा अपि मृष्टान्नपान- आदिलुब्धा तत् अनुरोधतः ।
गत्वा वासगृहम् तस्याः भूयः अभ्येत्य जगाद तौ ॥१०९॥

इतः गत्वा अद्य तूष्णीम् अपि अहम् तत्र स्थिता तया ।
युष्मत्कथा- अपराधम् तम् उद्गिरन्त्या स्वयम् पुनः ॥११०॥

सा लक्तकाभिः तिसृभिः कराङ्गुलिभिः आहता ।
उरसि अस्मिन् अथ एषा अहम् इह आयाता तत् अन्तिकात् ॥१११॥

तत् श्रुत्वा राजपुत्रम् तम् स्वैरम् मन्त्रिसुतः अब्रवीत् ।
मा कार्षीः अन्यथा शङ्काम् अस्याः हि हृदये तया ॥११२॥

सा लक्तकाङ्गुलीमुद्रात्रयम् विन्यस्य युक्तितः ।
रजस्वला निशाः तिस्रः स्थिता अहम् इति सूचितम् ॥११३॥

एवम् उक्त्वा नृपसुतम् मन्त्रिपुत्रः त्रि- अहे गते ।
पद्मावत्यै पुनः तस्यै वृद्धाम् ताम् प्रजिघाय सः ॥११४॥

सा गता मन्दिरम् तस्याः तया संमान्य भोजिता ।
प्रीत्या पान- आदिलीलाभिः दिनम् च अत्र विनोदिता ॥११५॥

सायम् च यावत् सा वृद्धा गृहम् आगन्तुम् इच्छति ।
उदभूत् भयकृत् तावत् तत्र कोलाहलः बहिः ॥११६॥

हा हा भ्रष्टः अयम् आलानात् जनान् मथ्नन् प्रधावति ।
मत्तहस्ती इति लोकस्य तत्र आक्रन्दः अथ शुश्रुवे ॥११७॥

ततः पद्मावती सा ताम् वृद्धाम् एवम् अभाषत ।
स्पष्टेन हस्तिरुद्धेन गन्तुम् युक्तम् न ते पथा ॥११८॥

तत् पीठिकाम् समारोप्य बद्ध- आलम्बनरज्जुकाम् ।
बृहत्गवाक्षेण अनेन त्वाम् अत्र प्रक्षिपामहे ॥११९॥

गृहौद्याने ततः वृक्षम् आरुह्य अमुम् विलङ्घ्य च ।
प्राकारम् अवरुह्य अन्यवृक्षेण स्वगृहम् व्रज ॥१२०॥

इति उक्त्वा सा गवाक्षेण क्षेपयामास तत्र ताम् ।
वृद्धाम् चेटीभिः उद्याने रज्जुपीठिकया ततः ॥१२१॥

सा अथ गत्वा यथा- उक्तेन पथा सर्वम् शशंस तत् ।
यथावत् राजपुत्राय तस्मै मन्त्रिसुताय च ॥१२२॥

ततः सः मन्त्रिपुत्रः तम् राजपुत्रम् अभाषत ।
सिद्धम् तव इष्टम् मार्गः हि युक्त्या ते दर्शितः तया ॥१२३॥

तत् गच्छ अद्य एव तत्र त्वम् प्रदोषे अस्मिन् नृप आगते ।
एतेन एव पथा तस्याः प्रियायाः मन्दिरम् विश ॥१२४॥

इति उक्तः तेन तत्युक्तः राजपुत्रः ययौ सः तत् ।
उद्यानम् वृद्धया उक्तेन तेन प्राकारवर्त्मना ॥१२५॥

तत्र अपश्यत् च रज्जुम् ताम् लम्बमानाम् सपीठिकाम् ।
मार्गौन्मुखाभिः चेटीभिः उपरिष्टात् अधिष्ठिताम् ॥१२६॥

आरूढः ताम् च दृष्ट्वा एव दासीभिः ताभिः आशु सः ।
रज्जूत्क्षिप्तः गवाक्षेण प्रविवेश प्रिया- अन्तिकम् ॥१२७॥

तस्मिन् प्रविष्टे सः ययौ मन्त्रिपुत्रः स्वम् आस्पदम् ।
राजपुत्रः तु ताम् पद्मावतीम् तत्र ददर्श सः ॥१२८॥

पूर्णामृताम्शुवदनाम् प्रसरत्कान्तिचन्द्रकाम् ।
कृष्णपक्षभयात् गुप्तस्थिताम् राकानिशाम् इव ॥१२९॥

सा अपि दृष्ट्वा तम् उत्थाय चिराउत्सुक्यौचितैः ततः ।
कण्ठग्रह- आदिभिः तैः तैः उपचारैः अमानयत् ॥१३०॥

ततः तया सः गान्धर्वविधिन उदूढया सह ।
गुप्तम् राजसुतः तस्थौ पूर्णैच्छः तत्र कान्तया ॥१३१॥

स्थित्वा च अहानि कतिचित् रात्रौ ताम् अवदत् प्रियाम् ।
सखा मम सहायातः मन्त्रिपुत्रः इति स्थितः ॥१३२॥

सः च अत्र तिष्ठति एकाकी त्वत्ज्येष्ठतरिकागृहे ।
गत्वा संभाव्य तम् तन्वि पुनः एष्यामि ते अन्तिकम् ॥१३३॥

तत् शृउत्वा तम् अवोचत् सा धूर्ता पद्मावती प्रियम् ।
हन्त आर्यपुत्र पृच्छामि ताः संज्ञाः मत्कृताः त्वया ॥१३४॥

ज्ञाता किम् किम् उवा तेन सख्या मन्त्रिसुतेन ते ।
एवम् उक्तवतीम् एताम् राजपुत्रः जगाद सः ॥१३५॥

न ज्ञातम् तत् मया किम्चित् ज्ञात्वा सर्वम् च तेन मे ।
आख्यातम् मन्त्रिपुत्रेण दिव्यप्रज्ञानशालिना ॥१३६॥

एतत् शृउत्वा विचिन्त्य एव भामिनी सा जगाद तम् ।
तर्हि अयुक्तम् कृतम् यत् मे चिरात् सः कथितः त्वया ॥१३७॥

सः मे भ्राता सखा यः ते तस्य च प्रथमम् मया ।
ताम्बूल- आदिसमाचारः कर्तव्यः हि सदा भवेत् ॥१३८॥

इति उक्तवत्या अनुमतः तया पूर्वपथेन सः ।
रजापुत्रः अन्तिकम् तस्य सख्युः आगात् ततः निशि ॥१३९॥

शशंस च कथामध्ये तत् तस्मै यत् तदाश्रयम् ।
संज्ञाविज्ञानकथनम् कृतम् तेन प्रिया- अन्तिके ॥१४०॥

मन्त्रिपुत्रः तु सः अयुक्तम् इति न श्रद्दधे अस्य तत् ।
तावत् च सा तयोः तत्र विभाता अभूत् विभावरी ॥१४१॥

अथ एतयोः विधौ सांध्ये निवृत्ते कुर्वतोः कथाः ।
आगात् पक्वान्नताम्बूलहस्ता पद्मावतीसखी ॥१४२॥

सा मन्त्रिपुत्रम् कुशलम् पृष्ट्वा दत्तौपचारिका ।
निषेद्धुम् रजापुत्रस्य भोजनम् तत्र युक्तितः ॥१४३॥

कथा- अन्तरे स्वामिनीम् स्वाम् भोजन- आदौ ततागमम् ।
प्रतीक्षमाणाम् आवेद्य क्षणात् गुप्तम् ततः ययौ ॥१४४॥

ततः तम् मन्त्रिपुत्रः सः राजपुत्रम् अभाषत ।
कौतुकम् पश्य देव एकम् दर्शयामि अधुना तव ॥१४५॥

इति उक्त्वा भक्ष्यम् एकम् सः पक्वान्नम् दत्तवान् ततः ।
सारमेयाय सः च तत् खादित्वा एव व्यपद्यत ॥१४६॥

तत् दृष्ट्वा किम् इदम् चित्रम् इति राजसुतः अत्र सः ।
पप्रच्छ मन्त्रिपुत्रम् तम् सः च एतम् प्रत्यभाषत ॥१४७॥

संज्ञाज्ञानेन धूर्तम् माम् विदित्वा हन्तुकामया ।
तया विषान्नम् प्रहितम् मम त्वतनुरक्तया ॥१४८॥

न अस्मिन् सति मतेकाग्रः राजपुत्रः भवेत् अयम् ।
एतत्वशः च मुक्त्वा माम् नगरीम् स्वाम् व्रजेत् इति ॥१४९॥

तत् मुञ्च मन्युम् एतस्याम् बन्धुत्यागान् महा- आत्मनः ।
कुर्याः त्वम् हरणे युक्तिम् वक्ष्यामि आलोच्य याम् अहम् ॥१५०॥

इति उक्तवन्तम् तम् मन्त्रिसुतः राजसुतः अत्र सः ।
सत्यम् बुद्धिशरीरः त्वम् इति यावत् प्रशंसति ॥१५१॥

अशङ्कितम् बहिः तावत् दुःख- आकुलजन- आरवः ।
हा धिक् राज्ञः सुतः बालः विपन्नः इति शुश्रुवे ॥१५२॥

तदाकर्णनहृष्टः अथ मन्त्रिपुत्रः नृप- आत्मजम् ।
जगाद हन्त गच्छ अद्य पद्मावत्याः गृहम् निशि ॥१५३॥

तत्र ताम् पाययेः तावत् यावत् पानमदेन सा ।
निःसंज्ञा नष्टचेष्टा च गतजीव इव जायते ॥१५४॥

ततः तस्याः सनिद्रायाः शूलेन अङ्कम् कटीतटे ।
दत्त्वा अग्नितप्तेन आदाय तताभरणसंचयम् ॥१५५॥

आगच्छेः त्वम् गवाक्षेण रज्जुलम्बविनिर्गतः ।
ततः परम् यथा भद्रम् भवेत् ज्ञास्यामि अहम् तथा ॥१५६॥

इति उक्त्वा कारयित्वा च क्रोडवालनिभ- आश्रिकम् ।
मन्त्रिपुत्रः ददौ तस्मै त्रिशूलम् राजसूनवे ॥१५७॥

राजपुत्रः सः हस्ते तत् कृत्वा कुटिलकर्कशम् ।
कालायस दृढम् चित्तम् इव कान्तावयस्ययोः ॥१५८॥

तथा इति पूर्ववत् रात्रौ अगात् पद्मावतीगृहम् ।
अविचार्यम् प्रभूणाम् हि शुचेः वाक्यम् स्वमन्त्रिणः ॥१५९॥

तत्र ताम् मद्यनिःचेष्टाम् शूलेन जघने अङ्किताम् ।
हृतालंकरणाम् कृत्वा तस्य अगात् सख्युः अन्तिकम् ॥१६०॥

दर्शित- आभरणः तस्मै शशंस च यथाकृतम् ।
ततः सः मन्त्रिपुत्रः अपि सिद्धम् मेने मनीषितम् ॥१६१॥

प्रातः गत्वा श्मशानम् च सः अभूत् तापसवेषभृत् ।
स्वैरम् राजसुतम् तम् च विदधे शिष्यरूपिणम् ॥१६२॥

अब्रवीत् तम् च गच्छ एकम् इतः अलंकरणात् इमाम् ।
मुक्ता- आवलीम् समादाय त्वम् विक्रेतुम् इव आपणे ॥१६३॥

बहुमूल्यम् वदेः च अस्याः येन एताम् न एव कः चने ।
गृह्णीयात् भ्राम्यमाणाम् च सर्वः कः अपि विलोकयेत् ॥१६४॥

गुरुणा मम विक्रेतुम् इयम् दत्ता इति अनाकुलः ।
ब्रूयाः च यदि गृह्णीयुः अत्र त्वाम् पुररक्षिणः ॥१६५॥

इति सः प्रेषितः तेन गत्वा राजसुतः तदा ।
अतिष्ठत् आपणे भ्राम्यन् व्यक्तम् मुक्ता- आवलीम् दधत् ॥१६६॥

तथा अभूत् च जगृहे सः दृष्ट्वा पुररक्षिभिः ।
दन्तघाटसुतामोषज्ञप्तेः चौरेगवेषिभिः ॥१६७॥

निन्ये च नगराध्यक्षनिकटम् तैः सः तत्क्षणात् ।
सः च तम् तापस- आकारम् दृष्ट्वा पप्रच्छ सान्त्वतः ॥१६८॥

कुतः मुक्ता- आवली इयम् ते भगवन् इह हारिता ।
दन्तघाटककन्यायाः हृतम् हि आभरणम् निशि ॥१६९॥

तत् शृउत्वा राजपुत्रः तम् सः अवादीत् तापस- आकृतिः ।
गुरुणा मम दत्ता इयम् एत्य असौ पृच्छ्यताम् इति ॥१७०॥

ततः च उपेत्य तम् नत्वा पप्रच्छ नगराधिपः ।
मुक्ता- आवली इयम् भगवन् कुतः ते शिष्यहस्तगा ॥१७१॥

शृउत्वा एतत् विजनम् कृत्वा सः धूर्तः तम् अभाषत ।
अहम् तपस्वी भ्राम्यामि सदा अरण्येषु इतः ततः ॥१७२॥

सः अहम् दैवात् इह प्राप्तः श्मशाने अत्र स्थितः निशि ।
अपश्यम् योगिनीचक्रम् समागतम् इतः ततः ॥१७३॥

तत्मध्ये च एकया आनीय योगिन्या राजपुत्रकः ।
उद्घाटितहृतम्भोजः भैरवाय निवेदितः ॥१७४॥

पानमत्ता च सा हर्तुम् जपतः मे अक्षमालिकाम् ।
प्रावर्तत महामाया विकारान् कुर्वती मुखे ॥१७५॥

अतिप्रवृत्ता च मया क्रुद्धेन जघनस्थले ।
अङ्किता सा त्रिशूलेन मन्त्रप्रज्वालिताश्रिणा ॥१७६॥

हृता मुक्ता- आवली च इयम् तस्याः कण्ठात् मया तदा ।
सा एषा अद्य तापसानर्हा विक्रेया मम वर्तते ॥१७७॥

एतत् शृउत्वा पुराध्यक्षः गत्वा भूपम् व्यजिज्ञपत् ।
भूपः अपि आकर्ण्य तत् ताम् च बुद्ध्वा तत्मौक्तिक- आवलीम् ॥१७८॥

प्रेक्षणप्रेषित- आयातवृद्ध- आप्तवनितामुखात् ।
श्रुत्वा च दृश्यशूलाङ्काम् जघने सत्यम् एव ताम् ॥१७९॥

ग्रस्तः सुतः मे डकिन्या तया इति उत्पन्ननिश्चयः ।
स्वयम् तस्य अन्तिकम् गत्वा मन्त्रिपुत्रतपस्विनः ॥१८०॥

पृष्ट्वा च निग्रहम् तस्याः पद्मावत्याः सः तत्गिरा ।
पितृभ्याम् शोच्यमानायाः पुरात् निःवासनम् व्यधात् ॥१८१॥

निर्वासिता- अटवीस्था सा विग्ना अपि न जहौ तनुम् ।
उपायम् मन्त्रिपुत्रेण तम् संभाव्य तथा कृतम् ॥१८२॥

दिनान्ते ताम् च शोचन्तीम् अश्व- आरूढौ उपेयतुः ।
त्यक्ततापसवेषौ तौ मन्त्रिपुत्रनृप- आत्मजौ ॥१८३॥

आश्वास्य आरोप्य तुरगे स्वराष्ट्रम् निन्यतुः च ताम् ।
तत्र तस्थौ तया साकम् राजपुत्रः सः निर्वृतः ॥१८४॥

दन्तघाटः तु अरण्ये ताम् क्रव्यादैः भक्षिताम् सुताम् ।
मत्वा व्यपादि शोकेन भार्या च अनुजगाम तम् ॥१८५॥

इति आख्याय सः भूयः तम् वेतालः नृपम् अब्रवीत् ।
तत् मे अत्र संशयम् छिन्द्धि दंपत्योः एतयोः वधात् ॥१८६॥

मन्त्रिपुत्रस्य किम् पापम् राजपुत्रस्य किम् नु वा ।
पद्मावत्याः किम् अथ वा त्वम् हि बुद्धिमताम् वरः ॥१८७॥

जानानः च न चेत् राजन् मम तत्त्वम् वदिष्यसि ।
तत् एषः शतधा मूर्धा निःचितम् ते स्फुटिष्यति ॥१८८॥

इति उक्तवन्तम् वेतालम् विजानन् शापभीतितः ।
सः त्रिविक्रमसेनः तम् एवम् प्रत्यब्रवीत् नृपः ॥१८९॥

योग- ईश्वर किम् अज्ञेयम् एतत् न एषाम् हि पातकम् ।
त्रयाणाम् अपि राज्ञः तु पापम् कर्णोत्पलस्य तत् ॥१९०॥

वेतालः अपि आह राज्ञः किम् ते हि तत्कारिणः त्रयः ।
काकाः किम् अपराध्यन्ति हंसैः जग्धेषु शालिषु ॥१९१॥

राजा ततः अब्रवीत् च एनम् न दुष्यन्ति त्रयः अपि ते ।
मन्त्रिसूनोः हि तत् तावत् प्रभुकार्यम् अपातकम् ॥१९२॥

पद्मावतीराजपुत्रौ तौ हि कामशराग्निना ।
संतप्तौ अविचारार्हौ अदोषौ स्वार्थम् उद्यतौ ॥१९३॥

कर्णोत्पलः तु राजा सः नीतिशास्त्रेषु अशिक्षितः ।
चरैः प्रजासु अनन्विष्यन् तत्त्वशुद्धिम् निजासु अपि ॥१९४॥

अजानन् धूर्तचरितानि इङ्गित- आदि- अविचक्षणः ।
तथा तत् निःविचारम् यत् चक्रे तेन सः पापभाक् ॥१९५॥

इति आकर्ण्य विमुक्तमौनम् उदिते सम्यङ् नृपेण उत्तरे
स्कन्धात् तस्य सः दार्ढ्यम् आकलयितुम् मायाबलात् तत्क्षणम् ।
वेतालः नृकलेवरान्तरगतः क्व अपि अप्रतर्क्यः ययौ
निःकम्पः सः च भूपतिः पुनः अमुम् प्राप्तुम् व्यधात् निःचयम् ॥१९६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:43.0200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

structural sub-period

  • बांधकाम कालोपखंड, रचनात्मक उपकाल 
RANDOM WORD

Did you know?

हिंदू धर्मात स्त्रियांना उपनयनाचा धर्मसंमत अधिकार का नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.