TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

वेतालपञ्चविंशति - कथा १७

`बेताल पचीसी'  पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं ।


कथा १७
ततः गत्वा पुनः तस्मात् सः राजा शिंशपातरोः ।
तम् त्रिविक्रमसेनः अंसे वीरः वेतालम् अग्रहीत् ॥१॥

प्रस्थितम् च ततः तम् सः वेतालः स्कन्धतः अब्रवीत् ।
राजन् श्रमविनोदाय शृणु एताम् वच्मि ते कथाम् ॥२॥

अखण्डधर्ममर्यादम् गङ्गाकूले कृत- आस्पदम् ।
कलेः अगम्यम् कनकपुरम् नाम्ना अभवत् पुरम् ॥३॥

तस्मिन् यशोधन- आख्यः अभूत् अन्वर्थः वसुधा- अधिपः ।
ररख़्ष विप्लवाम्भःधेः यः वेला- अद्रिः इव क्षितिम् ॥४॥

जगाताह्लादकः चण्डप्रतापः अखण्डमण्डलः ।
विधिना यः च चन्द्रार्कौ एकीकृत्य इव निर्ममे ॥५॥

मौर्ख्यम् परपरीवादे न शास्त्रार्थे दरिद्रता ।
दोषे न कोषदण्डाभ्याम् यस्य आसीत् च महीपतेः ॥६॥

पापभीरुः यशःलुब्धः षण्ढः परपुरंध्रिषु ।
यः शौर्याउदार्यशृङ्गारमयः जनतया जगे ॥७॥

तस्य राज्ञः पुरे तस्मिन् अभूत् एकः महावणिक् ।
उन्मादिनी इति ख्याता च कन्या तस्य अभवत् सुता ॥८॥

यः यः ताम् हि ददर्श अत्र सः सः तत्रूपसंपदा ।
उन्माद्यति स्म मदनस्य अपि मोहनशक्तया ॥९॥

तस्याम् च यौवनस्थायाम् सः गत्वा तत्पिता वणिक् ।
यशोधनम् तम् राजानम् नीतिवेदी व्यजिज्ञपत् ॥१०॥

त्रैलोक्यरत्नभूता मे प्रदेया अस्ति सुता प्रभो ।
ताम् अनावेद्य देवस्य न अन्यस्मै दातुम् उत्सहे ॥११॥

देवः अपि सर्वरत्नानाम् प्रभुः कृत्स्ने अपि भूतले ।
तत्स्वीकृत्य अनुगृह्णातु देवः ताम् प्रतिमुच्य वा ॥१२॥

इति आकर्ण्य वणिक्वाक्यम् सः राजा ब्राह्मणान् निजान् ।
स- आदरम् व्यसृजत् तस्याः सौलक्षण्यम् अवेक्षितुम् ॥१३॥

ते गत्वा ब्राह्मणाः दृष्ट्वा ताम् त्रैलोक्यएकसुन्दरीम् ।
सद्यः क्षोभम् ययुः क्षिप्रात् लब्ध्वा धैर्यम् अचिन्तयन् ॥१४॥

इमाम् प्राप्नोति चेत् राजा तत् राष्ट्रम् अवसीदति ।
एतत्मोहितचित्तः हि किम् सः राज्यम् अवेक्षते ॥१५॥

तस्मात् सुलक्षण इति एषा न आख्येया क्षितिपाय नः ।
इति एव मन्त्रम् संमन्त्र्य राज्ञः ते जग्मुः अन्तिकम् ॥१६॥

कुलक्षणा सा देव इति तम् ऊचुः च अत्र ते मृषा ।
तेन राजा सः न एव एताम् स्वीचकार वणिक्सुताम् ॥१७॥

ततः तताज्ञया ताम् सः कन्याम् उन्मादिनीम् पिता ।
वणिक् बलधर- आख्याय तत् सेनापतये ददौ ॥१८॥

अथ सा तत्गृहे तस्थौ भर्त्रा तेन समम् सुखम् ।
कुलक्षणा इति अहम् रज्ञा त्यक्ता इति आत्तविमानना ॥१९॥

याति काले च जातु अत्र हत्वा हेमन्तहस्तिनम् ।
फुल्लकुन्दलतादन्तम् मथिताम्बुजिनीवनम् ॥२०॥

आजगाम लसत्पुष्पमञ्जरीकेसर- आवलिः ।
चूताङ्कुरनखः क्रीदन् कानने मधुकेसरी ॥२१॥

तत् कालम् च अत्र नगरे तम् वसन्तमहा- उत्सवम् ।
सः राजा निर्ययौ द्रष्टुम् गज- आरूढः यशोधनः ॥२२॥

तत्रूप- आलोकसंभाव्यविप्लवाः कुलयोषितः ।
अपसारयितुम् दत्तम् तदा च उद्घोषडिण्डिमम् ॥२३॥

सा श्रुत्वा उन्मादिनी तस्मै राज्ञे स्वगृहहर्म्यतः ।
आत्मानम् दर्शयामास परित्यागावमानतः ॥२४॥

सः च ताम् चक्षुभे दृष्ट्वा राजा ज्वालाम् इव उद्गताम् ।
संधुक्षितस्य कामाग्नेः मधुना मलयानिलैः ॥२५॥

निर्वर्णयन् च तत्रूपम् जैत्रम् अस्त्रम् मनःभुवः ।
गाढम् प्रविष्टम् हृदये क्षणात् मोहम् उपाययौ ॥२६॥

भृत्यैः आश्वासितः च अत्र राजधानीम् प्रविश्य सः ।
पृष्टेभ्यः बुबुधे तेभ्यः ताम् प्रागुपनता- उज्झिताम् ॥२७॥

ततः निर्वास्य देशात् तान् तत्कुलक्षणवादिनः ।
विप्रान् अनुदिनम् दध्यौ ताम् एव उत्कः सः भूपतिः ॥२८॥

अहो जड- आत्मा निःलज्जः चन्द्रः नित्यम् उदेति यत् ।
जगत्नेत्रौत्सवे तस्याः निःकलङ्के मुखे सति ॥२९॥

कठोरौ हेमकलशौ गजकुम्भौ च कर्कशौ ।
लभेते न उपमाम् अस्याः स्तनयोः पीनतुङ्गयोः ॥३०॥

काञ्चीनक्षत्रमाला- अङ्कम् तत् तस्याः जघनस्थलम् ।
कम् न कंदर्पमातङ्गमस्तक- आभम् विलोभयेत् ॥३१॥

इति ताम् चिन्तयन् अन्तः क्षीयते स्म दिने दिने ।
कामाग्निपुटपाकेन पच्यमानः सः भूपतिः ॥३२॥

ह्रिया निगूहमानः च पृच्छद्भ्यः बाह्यलक्षणैः ।
कृच्छ्रात् शशंस च आप्तेभ्यः स्वपीडाकारणम् सः तत् ॥३३॥

अलम् संतप्य भजसे स्वाधीनाम् तर्हि किम् न ताम् ।
इति उक्तः तैः च न एव एतत् अनुमेने सः धार्मिकः ॥३४॥

ततः बलधरः बुद्ध्वा सः सेनापतिः एत्य तम् ।
प्रभुम् अभ्यर्थयामास सत्भक्तः चरण- आनतः ॥३५॥

दासस्त्री तव दासी एव सा देव न पराङ्गना ।
स्वयम् च अहम् प्रयच्छामि तत् भार्याम् स्वीकुरुष्व मे ॥३६॥

अथवा ताम् त्यजामि इह देव देवकुले ततः ।
न दोषः ग्रहणे तस्याः तव देवकुलस्त्रियः ॥३७॥

इति स्वसेनापतिना निर्बन्धेन सः पार्थिवः ।
तेन अनुनाथ्यमानः अपि सान्तःकोपम् उवाच तम् ॥३८॥

राजा भूत्वा कथम् कुर्याम् अधर्मम् अहम् ईदृशम् ।
मयि उल्लङ्घितमर्यादे कः हि तिष्ठेत् स्ववर्त्मनि ॥३९॥

भक्तः अपि च भवान् पापे नियोजयति माम् कथम् ।
परलोकमहादुःखहेतौ क्षणसुख- आवहे ॥४०॥

न क्षमिष्ये च ते धर्म्यान् दारान् यदि विहास्यसि ।
सहते मादृशः कः हि तादृशम् धर्मविप्लवम् ॥४१॥

तत् वरम् मृत्युः इति उक्त्वा सः राजा निषिषेध तम् ।
त्यजन्ति उत्तमसत्त्वाः हि प्राणान् अपि न सत्पथम् ॥४२॥

तथा एव अर्थयमानान् च पौरजानपदान् अपि ।
मिलितान् सः निराचक्रे राजा सुदृढनिश्चयः ॥४३॥

ततः क्रमेण तेन एव स्मरज्वरभरौष्मणा ।
प्रक्षीणदेहः प्रययौ सः यशःशेषताम् नृपः ॥४४॥

सेनापतिः च असहिष्णुः तम् तथा प्रमयम् प्रभोः ।
सः अग्निम् विवेश भक्तानाम् अनिर्वाच्यम् हि चेष्टितम् ॥४५॥

इति आख्यातकथा- आश्चर्यः वेतालः अंसस्थितः तदा ।
सः त्रिविक्रमसेनम् तम् भूयः पप्रच्छ पार्थिवम् ॥४६॥

तत् एतयोः कः नृपतेः सेनापतिमहीभृतोः ।
सत्त्वेन अभ्यधिकः ब्रूहि पूर्वौक्तः समयः च ते ॥४७॥

इति वेतालतः श्रुत्वा मुक्तमौनः सः तम् नृपः ।
प्रत्युवाच द्वयोः राजा सत्त्ववान् अधिकः तयोः ॥४८॥

तत् आकर्ण्य एव वेतालः स- आक्षेपः तम् अभाषत ।
सेनापतिः कथम् न अत्र राजन् अभ्यधिकः वद ॥४९॥

यः तथा स्वामिने भक्त्या स्वभार्याम् ताम् तथाविधाम् ।
सुचिरज्ञाततत्भोगसुख- आस्वादः अपि उपानयत् ॥५०॥

आत्मानम् च अग्निसात् चक्रे तस्मिन् पञ्चत्वम् आगते ।
अनास्वादिततत्भोगः तत्कान्ताम् तु जहौ नृपः ॥५१॥

वेतालेन एवम् उक्तः तु विहस्य सः नृपः अब्रवीत् ।
यदि अपि एवम् तथा अपि एतत् किम् चित्रम् कुलपुत्रकः ॥५२॥

सेनापतिः सः भक्त्या यत् स्वामि- अर्थे तत् तथा अकरोत् ।
प्राणैः अपि हि भृत्यानाम् स्वामिसंरक्षणम् व्रतम् ॥५३॥

राजानः तु मद- आध्माताः गजाः इव निःअङ्कुशाः ।
छिन्दन्ति धर्ममर्यादाशृङ्खलाम् विषयौन्मुखाः ॥५४॥

तेषाम् हि उद्रिक्तचित्तानाम् अभिषेकाम्बुभिः समम् ।
विवेकः विगलति ओघेन उह्यमानः इव अखिलः ॥५५॥

क्षिप्यन्ते इव च उद्धूय चलत्चामरमारुतैः ।
वृद्धौपदिष्टशास्त्रार्थरजोमशकमक्षिकाः ॥५६॥

आतपत्रेण सत्यम् च सूर्य- आलोकः निवार्यते ।
विभूतिवात्या- उपहता दृष्टिः मार्गम् च न ईक्षते ॥५७॥

ते ते च विपदम् प्राप्ताः मारमोहितचेतसः ।
जगद्विजयिनः अपि इह राजानः नहुष- आदयः ॥५८॥

एषः राजा पुनः पृथ्व्याम् एकछत्रः अपि यत् तया ।
उन्मदिन्या चपलया लक्ष्म्या इव न विमोहितः ॥५९॥

प्राणान् अपि सः धर्म- आत्मा तत्याज न पुनः पदम् ।
अमार्गे निदधे धीरः तेन असौ मे अधिकः मतः ॥६०॥

इति आकर्ण्य नृपस्य तस्य वचनम् भूयः ततंसस्थलात् वतालः सहसा स्वम् एव सः पदम् मायाप्रभावात् ययौ ।
राजा अपि अन्वसरत् तथा एव सः पुनः संप्राप्तुम् एतम् जवात् आरब्धे हि सुदुःकरे अपि महताम् मध्ये विरामः कुतः ॥६१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:43.8970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

fuligineus (sooty)

  • कज्जलाभ, काळेकुट्ट 
  • काजळासारखे उदा. काणी रोगासारखे 
RANDOM WORD

Did you know?

चांदणी चोळी म्हणजे काय
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.