TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

वेतालपञ्चविंशति - कथा १९

`बेताल पचीसी'  पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं ।


कथा १९
अथ गत्वा पुनः स्कन्धे वेतालम् शिंशपाद्रुमात् ।
सः त्रिविक्रमसेनः तम् गृहीत्वा उदचलत् नृपः ॥१॥

आगच्छन्तम् च तम् भूयः वेतालः सः अभ्यभाषत ।
राजन् शृणु कथम् एकाम् हृद्याम् ते कथयामि अहम् ॥२॥

अस्ति वक्रोलकम् नाम पुरम् सुरपुरौपमम् ।
तस्मिन् सूर्यप्रभ- आख्यः अभूत् राजा जन्भारिसंनिभः ॥३॥

सौकर्यौद्यतया मूर्त्या दत्त- आनन्दः वसुंधराम् ।
इमाम् हरिः इव उद्धृत्य यः बभार चिरम् भुजे ॥४॥

धूम- आसङ्गे अश्रुसंपातः शृङ्गारे मारसंकथाः ।
द्वाःस्थेषु हेमदण्डाः च राष्ट्रे यस्य अभवन् प्रभोः ॥५॥

सर्वसंपत्समृद्धस्य तस्य एका अभूत् अनिर्वृतिः ।
न उदपद्यत यत् पुत्रः बहुषु अन्तःपुरेषु अपि ॥६॥

एतस्मिन् च कथासंधौ ताम्रलिप्त्याम् महापुरि ।
बभूव धनपाल- आख्यः धुर्यः धनवताम् वनिक् ॥७॥

तस्य च अजायत एका एव नाम्ना धनवती सुता ।
विद्याधरी च्युता शापात् सौन्दर्येण एव सूचिता ॥८॥

तस्याम् च यौवनस्थायाम् सः वणिक् पञ्चताम् ययौ ।
तत्धनम् राजसानाथ्य- आत् आक्रान्तम् अथ गोत्रजैः ॥९॥

ततः हिरण्यवती- आख्या वणिजः तस्य गेहिनी ।
आदाय रत्नभरणम् निजम् अप्रकटस्थितम् ॥१०॥

धनवत्या तया साकम् स्वदुहित्रा निशामुखे ।
पलाय्य दायादभयात् गृहात् गुप्तम् विनिर्ययौ ॥११॥

ध्वान्तेन बहिः अन्तः च सा दुःखेन अन्धकारिता ।
कृच्छ्रात् बहिःपुरम् प्रायात् सुताहस्तावलम्बिनी ॥१२॥

तत्र संतमसे यान्ती विधियोगात् अलक्षितम् ।
अंसेन अताडयत् चौरम् शूलाग्र- आरोपितस्थितम् ॥१३॥

सः सजीवः ततंसाग्रघट्टनाधिकपीडितः ।
आः क्षते क्षारम् एतत् मे क्षिप्तम् केन इति अभाषत ॥१४॥

ततः तत्र एव सा कः असि इति अपृच्छत् तम् वणिक्वधूः ।
प्रत्युवाच ततः चौरः चौरः अहम् इह सूचितः ॥१५॥

शूले पापस्य च अद्य अपि न उत्क्रामन्ति मम असवः ।
तत् आर्ये त्वम् मम ब्रूहि का असिक्व एवम् प्रयासि च ॥१६॥

तत् श्रुत्वा तम् वणिक्भार्या यावत् स्वौदन्तम् आह सा ।
तावत् तिलकितम् प्राच्याः मुखम् उद्भासितैन्दुना ॥१७॥

ततः दिक्षु प्रकाशासु सः चौरः ताम् वणिक्सुताम् ।
दृष्ट्वा धनवतीम् कन्याम् तत्मातरम् उवाच ताम् ॥१८॥

शृणु मे प्रार्थनाम् एकाम् सहस्रम् काञ्चनस्य ते ।
ददामि तत् इमाम् मह्यम् स्वसुताम् देहि कन्यकाम् ॥१९॥

किम् एतया तव इति उक्तः हसन्त्या अथ तया अत्र सः ।
पुनः चौरः अब्रवीत् न अस्ति पुत्रः मम् गत- आयुषः ॥२०॥

न च अपुत्रः अश्नते लोकान् तत् एषा यम् मताज्ञया ।
कुत्रचित् जनयेत् पुत्रम् क्षेत्रजः सः भवेत् मम ॥२१॥

इति एताम् प्रार्थये त्वम् तु तत् विधत्स्व मम ईप्सितम् ।
तत् श्रुत्वा सा वणिक्योषित् लोभात् तत् प्रत्यपद्यत ॥२२॥

आनीय च कुतःअपि अम्बु पाणौ चौरस्य तस्य सा ।
एषा सुता मया तुभ्यम् कन्या दत्ता इति अपातयत् ॥२३॥

सः अपि तत्दुहितुः दत्तयथा- उक्त- आज्ञः जगाद ताम् ।
गच्छ अमुष्य वटस्य अधः खात्वा स्वर्णम् गृहाण तत् ॥२४॥

गत- आसोः दाहयित्वा मे देहम् युक्त्या विसृज्य च ।
अस्थीनि तीर्थे ससुता गच्छेः वक्रोलकम् पुरम् ॥२५॥

तत्र सूर्यप्रभे राज्ञि सौराज्यसुखिते जने ।
निःउपद्रवनिःचिन्ता स्थास्यसि त्वम् यथा इच्छसि ॥२६॥

इति उक्त्वा तृषितः पीत्वा तया एव उपहृतम् जलम् ।
शूलव्यधव्यथा- उत्क्रान्तजीवः चौरः बभूव सः ॥२७॥

ततः गत्वा वणिक्स्त्री सा स्वर्णम् वटतरोः तलात् ।
गृहीत्वा ससुता गुप्तम् अगात् भर्तृसुहृत्गृहम् ॥२८॥

तत्र स्थित्वा च युक्त्या तत् दाहयित्वा कलेवरम् ।
चौरस्य तस्य तीर्थे अस्थिक्षेप- आदिकम् अकारयत् ॥२९॥

अन्येद्युः च आत्तगुप्तार्था ततः निर्गत्य स- आत्मजा ।
प्रयान्ती क्रमशः प्राप सा तत् वक्रोलकम् पुरम् ॥३०॥

तत्र एकम् वसुदत्त- आख्यात् गृहम् क्रीत्वा वणिक्वरात् ।
तस्मिन् उवास सुतया धनवत्या तया सह ॥३१॥

तदा च तत्र उपाध्यायः विष्णुस्वामी इति अभूत् पुरे ।
मनःस्वामी इति तस्य आसीत् शिष्यः विप्रः अतिरूपवान् ॥३२॥

विध्या- अभिजनयुक्तः अपि सः यौवनवशीकृतः ।
तत्र हंसावलीम् नाम वाञ्छति स्म विलासिनीम् ॥३३॥

सा च सौवर्णदीरशतपञ्चकम् अग्रहीत् ।
भाटिम् तस्य च तत् न अभूत् व्यषीदत् तेन सः अनुअहम् ॥३४॥

एकदा च तम् अद्राक्षीत् तादृशम् सा वणिक्सुता ।
क्षामाभिरामवपुषम् धनवती अत्र हर्म्यतः ॥३५॥

तत्रूपहृतचित्त च भर्तुः चौरस्य तस्य सा ।
स्मृत्वा अनुज्ञाम् समीपस्थाम् युक्त्या अवोचत् स्वमातरम् ॥३६॥

अम्ब विप्रसुतस्य अस्य पश्य एते रूपयौवने ।
कीदृशे बत विश्वस्य नयनामृतवर्षिणी ॥३७॥

एतत् श्रुत्वा एव तस्मिन् ताम् बद्धभावाम् अवेत्य च ।
तत् माता सा वणिक्भार्या मनसि एवम् अचिन्तयत् ॥३८॥

मत्दुहित्रा अनया तावत् वरणीयः सुत- आप्तये ।
कःचित् भर्तृ- आज्ञया तस्मात् एषः एव अर्थ्यते न किम् ॥३९॥

इति आकलय्य व्यसृजत् तत् संदिश्य मनीषितम् ।
रहस्यधारिणीम् चेटीम् तम् आनेतुम् सुताकृते ॥४०॥

सा गत्वा विजने नीत्वा चेटी तस्मै शशंस तत् ।
सः च श्रुत्वा द्विजयुवा व्यसनी ताम् अभाषत ॥४१॥

यदि हंसावलीहेतोः दीनारशतपञ्चकम् ।
सौवर्णम् दीयते तत् एकाम् एमि यामिनीम् ॥४२॥

इति तेन उक्तया चेट्या तया गत्वा तथा एव सा ।
उक्ता वणिक्स्त्री तस्मै तत् तथस्ते प्राहिणोत् धनम् ॥४३॥

तत् गृहीत्वा मनःस्वामी तत्पुत्र्याः वासकम् ययौ ।
तस्याः सः तत्निसृष्टायाः धनवत्यः सचेटिकः ॥४४॥

तत्र ताम् विततौत्कण्ठाम् कान्ताम् भूषितभ्तलाम् ।
सः चकोरः इव ज्योत्स्नाम् ददर्श च जहर्ष च ॥४५॥

तया समम् च नीत्वा ताम् रात्रिम् संभोगलीलया ।
निर्गत्य सः ततः गुप्तम् ययौ प्रातः यथा- आगतम् ॥४६॥

सा अपि तस्मात् धनवती सगर्भाभूत् वणिक्सुता ।
काले च सुषुवे पुत्रम् लक्षणानुमित- आयतिम् ॥४७॥

परितुष्टाम् तदा ताम् च सुतौत्पत्त्या समातृकाम् ।
आदिदेश हरः स्वप्ने दर्शितस्ववपुः निशि ॥४८॥

युक्तम् हेमसहस्रेण नीत्वा बालम् उषसि अमुम् ।
सूर्यप्रभनृपस्य इह मञ्चस्थम् द्वारि मुञ्चतम् ॥४९॥

एवम् स्यात् क्षेमम् इति उक्ता शूलिना सा वणिक्सुता ।
तत्माता च प्रबुध्य एतम् स्वप्नन् अन्यःअन्यम् ऊचतुः ॥५०॥

नीत्वा च तम् तत्यजतुः भगवत्प्रत्ययात् शिशुम् ।
राज्ञः सूर्यप्रभस्य अस्य सिंहद्वारे सहेमकम् ॥५१॥

तावत् च तम् अपि स्वप्ने सुतचिन्ता- आतुरम् सदा ।
तत्र सूर्यप्रभम् भूपम् आदिदेश वृषध्वजः ॥५२॥

उत्तिष्ठ राजन् बालः ते सिंहद्वारे सकाञ्चनः ।
केनापि स्थापितः भव्यः मञ्चकस्थम् गृहाण तम् ॥५३॥

इति उक्तः शंभुना प्रातः प्रबुद्धः अपि तथा एव सः ।
द्वाःस्थैः प्रविश्य विज्ञप्तः निर्ययौ नृपतिः स्वयम् ॥५४॥

दृष्ट्वा च सिंहद्वारे तम् बालम् सकनकौत्करम् ।
रेखाछत्त्रध्वज- आदि- अङ्कपाणिपादम् शुभ- आकृतिम् ॥५५॥

दत्तः मम उचितः पुत्रः शंभुना अयम् इति ब्रुवन् ।
स्वयम् गृहीत्वा बाहुभ्यां राजधानीम् विवेश सः ॥५६॥

चकार च उत्सवम् तावत् असंख्यातम् ददत् वसु ।
दरिद्रशब्दस्य एकस्य यावत् आसीत् निःअर्थता ॥५७॥

नृत्तवाद्या- आदिभिः नीत्वा द्वादशाहम् ततः सः तम् ।
पुत्रम् चन्द्रप्रभम् नाम्ना चक्रे सुर्यप्रभः नृपः ॥५८॥

ववृधे राजपुत्रः अत्र सः अथ चन्द्रप्रभः क्रमात् ।
वपुष इव गुणओघेन अपि आश्रित- आनन्ददायिना ॥५९॥

शनैः युवा च संजञ्जे शौर्याउदार्यश्रुत- आदिभिः ।
आवर्जितप्रकृतिकः क्ष्माभारौद्वहनक्षमः ॥६०॥

तादृशम् च ततः दृष्ट्वा तम् सः सूर्यप्रभः पिता ।
राजये अभिषिज्य एव कृती वृद्धः वाराणसीम् ययौ ॥६१॥

पृथ्वीम् शासति तस्मिन् च तनये नयशालिन ।
सः राजा तत्र तत्याज चरन् तीव्रतपः तनुम् ॥६२॥

बुद्ध्वा पितृविपत्तिम् ताम् अनुशोच्य कृतक्रियः ।
सः अथ चन्द्रप्रभः राजा सचिवान् धार्मिकः अब्रवीत् ॥६३॥

तातस्य तावत् केन अहम् अनृणः भवितुम् क्षमः ।
तथा अपि एकाम् स्वहस्तेन ददामि एतस्य निष्कृतिम् ॥६४॥

नीत्वा क्षिपामि गङ्गायाम् अस्थीनि अस्य यथाविधि ।
गत्वा सर्वपितृह्यः च गयाम् पिण्डम् ददामि अहम् ॥६५॥

प्रसङ्गात् तीर्थयात्राम् च करोमि आपूर्वसागरम् ।
इति उक्तवन्तम् राजानम् मन्त्रिणः तम् व्यजिज्ञपन् ॥६६॥

न देव युज्यते कर्तुम् एतत् राज्ञः कथम्चन ।
न हि राज्यम् बहुछिद्रम् क्षणम् तिष्ठति अरक्षितम् ॥६७॥

तत् एषा परहस्तेन कार्या ते पितृउपक्रिया ।
स्वधर्मपालनात् अन्या तीर्थयात्रा च का तव ॥६८॥

बहुअपायम् क्व पान्थत्वाम् नित्यगुप्त- आः क्व पार्थिवाः ।
इति मन्त्रिवचः श्रुत्वा राजा चन्द्रप्रभः अब्रवीत् ॥६९॥

अलम् विकल्पैः पितृ- अर्थे गन्तव्यम् निश्चितम् मया ।
द्रष्टव्यानि च तीर्थानि यावत् मे क्षमते वयः ॥७०॥

पश्चा कः वेत्ति किम् भावि शरिरे क्षणनश्वरे ।
राज्यम् च आगमनम् यावत् रक्ष्यम् युष्माभिः एव मे ॥७१॥

श्रुत्वा एतम् निश्चयम् राज्ञः तूष्णीम् आसत मन्त्रिणः ।
ततः प्रय्णसंभारम् सज्जीचक्रे सः भूपतिः ॥७२॥

अथ अह्नि सः शुभे स्नातः हुताग्निः पूजितद्विजः ।
सुयुक्तम् रथम् आस्थाय प्रयतः शान्तवेषभृत् ॥७३॥

सामन्तान् रजपुत्रान् च पौरान् जनपदान् अपि ।
निवर्त्य अनिच्छतः कृच्छ्रात् आसीमान्तानुयायिनः ॥७४॥

ब्राह्मणैः वाहन- आरूढैः समम् सः सपुरोहितः ।
प्रतस्थे सचिवन्यस्तराज्यः चन्द्रप्रभः नृपः ॥७५॥

विचित्रवेषभाष- आदिविलोकनविनोदितः ।
पश्यन् नानाविधान् देशान् क्रमात् प्राप च जाह्नवीम् ॥७६॥

ददर्श ता च जन्तूनाम् जलकल्लोलपङ्क्तिभिः ।
त्रिदिव- आरोहसोपानपद्धतिम् सृजतीम् इव ॥७७॥

हिमवत्प्रभवाम् शंभोः कृतक्रीडाकचग्रहाम् ।
बिभ्रतीम् च अम्बिकालीलाम् देवऋषिगणवन्दिताम् ॥७८॥

रथावतीर्णः तस्याम् च कृतस्नानः यथाविधि ।
चिक्षेपास्थीनि भूपस्य तस्य सूर्यप्रभस्य सः ॥७९॥

दत्तदानः कृतश्राद्धः रथ- आरूढः ततः अपि च ।
प्रस्थितः क्रमशः प्राप प्रयागम् ऋषिसंस्तुतम् ॥८०॥

यत्र अर्चिःआद्यधूम- आदिम् आग्रौ इव समागतौ ।
गङ्गा यमुनयोः वाहौ भातः सुगतये नृणाम् ॥८१॥

तत्र उपोष्य कृतस्नानदानश्राद्ध- आदिसत्कृइयः ।
वाराणसीम् जगाम अथ सः चन्द्रप्रभभूपतिः ॥८२॥

एत मोक्षम् प्रयात इति वदन्ताम् इव दूरतः ।
वात- आक्षिप्तसमुत्क्षिप्तैः सुरसद्मध्वजांशुकैः ॥८३॥

तस्याम् दिनानि उपोष्य त्रीणि अभ्यर्च्य अथ वृषध्वजम् ।
भोगैः निजौचितैः तैः तैः प्रययौ सः गयाम् प्रति ॥८४॥

ततः फलओघनमितैः मञ्जुगुञ्जत्विहंगमैः ।
पदे पदे सप्रणामम् स्तूयमानः इव अङ्घ्रिपैः ॥८५॥

विक्षिप्तवन्यकुसुमैः अर्च्यमानः इव अनिलैः ।
नाना- अरण्यानि अतिक्रम्य पुण्यम् प्राप गयाशिरः ॥८६॥

विधाय तत्र च श्राद्धम् विधिवत् भूरिदक्षिणम् ।
चन्द्रप्रभः सः राजा अत्र धर्मारण्यम् उपेयिवान् ॥८७॥

गयाकूपे अस्य ददतः पितुः पिण्डम् ततन्तरात् ।
समुत्तस्थुः तम् आदातुम् त्रयः मानुषपणयः ॥८८॥

तत् दृष्ट्वा एव सः विभ्रान्तः किम् एतत् इति पार्थवः ।
कस्मिन् हस्ते क्षिपे पिण्डम् इति अपृच्छत् निजान् द्विजान् ॥८९॥

ते तम् ऊचुः अयम् तावत् एकः चौरस्य निश्चतम् ।
हस्तः लोहमयः शङ्कुः यस्मिन् देव एषः दृश्यते ॥९०॥

द्वितीयः ब्राह्मणस्य अयम् करः धृतपवित्रकः ।
राज्ञः पाणिः तृतीयः अयम् साङ्गुलीयः सुलक्षणः ॥९१॥

तत् न विद्मः क्व पिण्डः अयम् निक्षेप्यः किम् इदम् भवेत् ।
इति उक्तः तैः द्विजैः सः अत्र राजा लेभे न निश्चयम् ॥९२॥

इति आख्याय कथा- आश्चर्यम् वेतालः अंसस्थितः तदा ।
सः त्र्विक्रमसेनम् तम् जगाद नृपतिम् पुनः ॥९३॥

तत् कस्य हस्ते देयः स्यात् सः पिण्डः इति वक्तु मे ।
भवान् तावत् सः एव अत्र प्राक्तनः समयः च ते ॥९४॥

इति वेतालतः श्रुत्वा मुक्तमौनः सः भूपतिः ।
तम् त्रिविक्रमसेनः अत्र धर्मज्ञः प्रत्यभाषत ॥९५॥

चौरस्य हस्ते दातव्यः सः पिण्डः क्षेत्रजः यतः ।
चन्द्रप्रबः सः नृपतिः पुत्रः तस्य एव न अन्ययोः ॥९६॥

विप्रस्य जनकस्य अपि सः हि पुत्रः न बुध्यते ।
विक्रीतः हि धनेन आत्मा ताम् एकाम् तेन यामिनीम् ॥९७॥

राज्ञः सूरप्रबस्य अपि संस्कार- आदानवर्धनैः ।
भवेत् सः पुत्रः न स्यात् चेत् स्वधनम् तस्य तत्कृते ॥९८॥

शिशोः तस्य हि शीर्षान्ते मञ्चस्थस्य एव हेम यत् ।
न्यस्तम् आसीत् तत् एव अस्य मूल्यम् संवर्धन- आदिके ॥९९॥

तस्मात् धस्तौदकप्राप्ता तत्माता यस्य येन सा ।
अज्ञा तत्जनने दत्ता यस्य तत् निखिलम् धनम् ॥१००॥

तस्य सः क्षेत्रजः पुतः चौरस्य एव महीपतिः ।
पिण्डः तस्य एव हस्ते च देयः तेन इति मे मतिः ॥१०१॥

इति उक्त्वतः नृपतेः तस्य अंसात् स्वपदम् एव वेतालः ।
प्रययौ सः च त्रिविक्रमसेनः राजा तम् अन्वयात् भूयः ॥१०२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:44.0070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

germ layer

  • = germinal layer 
  • = germinal layer 
  • आद्यस्तर 
  • जननस्तर 
More meanings
RANDOM WORD

Did you know?

नमस्कार कोणी कोणास कसा करावा ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.