TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

वेतालपञ्चविंशति - कथा ५

बेताल पचीसी  पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं ।


कथा ५
ततः तस्य पुनः गत्वा शिंशपाशाखिनः अन्तिकम् ।
तथा एव उल्लम्बमानम् तम् दृष्ट्वा नरशरीरगम् ॥१॥

वेतालम् अवतार्य एव कृत्वा अस्मै बहु वैकृतम् ।
सः त्रिविक्रमसेनः द्राक् गन्तुम् प्रववृते ततः ॥२॥

आगच्छन्तम् च तम् तूष्णीम् वेतालः पूर्ववत्पथि ।
रात्रौ महाश्मशाने अत्र स्कन्धस्थः व्याजहार सः ॥३॥

राजन् अभिनिविष्टः असि कष्टे अत्यन्तप्रियः असि च ।
तत् ते चेतोविनोदाय वर्णयामि कथाम् शृणु ॥४॥

उज्जयिन्याम् अभूत् विप्रः पुण्यसेनस्य भूपतेः ।
अनुजीवी प्रियः अमात्यः हरिस्वामी इति सत्गुणः ॥५॥

तस्य आत्मनः अनुरूपायाम् भार्यायाम् गृहमेधिनः ।
गुणवान् सदृशः पुत्रः देवस्वामी इति अजायत ॥६॥

तद्वत् च अनन्य सामान्य रूपलावण्य विश्रुता ।
कन्या सोमप्रभा नाम तस्य अन्वर्था- उदपद्यत ॥७॥

सा प्रदेया सती कन्या रूपौत्कर्षाभिमानिनी ।
मातुः मुखेन पितरम् भ्रातरम् च जगाद तम् ॥८॥

शूरस्य ज्ञानिनः वा अहम् देया विज्ञानिनः अपि वा ।
अन्यस्मै न अस्मि दातव्या कार्यम् मत्जीवितेन चेत् ॥९॥

तत् श्रुत्वा तादृशम् तस्याः चिन्वन् एकतमम् वरम् ।
तत्पिता सः हरिस्वामी यावत् चिन्ताम् वहति अलम् ॥१०॥

तावत् व्यसर्जिः रज्ञा सः पुण्यसेनेन दूत्यया ।
संधि- अर्थम् विग्रह- आयात दाक्षिणात्यनृपान्तिकम् ॥११॥

कृतकार्यः च तत्र असौ एकेन अभ्येत्य ताम् सुताम् ।
याचितः अभूत् द्विजाग्र्येण श्रुततत्रूपसंपदा ॥१२॥

विज्ञानिनः ज्ञानिनः वा शूरात् वा न अपरम् पतिम् ।
मत्पुत्री इच्छति तत् तेषाम् मध्यात् कथय कः भवान् ॥१३॥

इति उक्तः तेन भार्या- अर्थः सः हरिस्वामिना द्विजः ।
अहम् जानामि विज्ञानम् इति तम् प्रत्यभाषत ॥१४॥

तर्हि तत् दर्शयस्व इति पुनः उक्तः च तेन सः ।
विज्ञानी कल्पयामास स्वशक्त्या द्युचरम् रथम् ॥१५॥

मायायन्त्ररथे तत्र तम् हरिस्वामिनम् क्षणात् ।
आरोप्य नीत्वा स्वर्ग- आदीम् लोकान् तस्मै अदर्शयत् ॥१६॥

आनिनाय च तुष्टम् तम् तत्र एव कटकम् पुनः ।
दाक्षिणात्यस्य नृपतेः यत्र आयातः सः कार्यतः ॥१७॥

ततः सः अस्मै हरिस्वामी प्रतिशुश्राव ताम् सुताम् ।
विज्ञानिने विवाहम् च निश्चिकाय अह्नि सप्तमे ॥१८॥

तत्कालम् उज्जयिन्याम् अपि अन्येन एत्य द्विजन्मना ।
देवस्वामी सः तत्पुत्रः स्वसारम् ताम् अयाच्यत ॥१९॥

ज्ञानिविज्ञ्नानिशूरेभ्यः न अन्यम् इच्छति सा पतिम् ।
इति तेन अपि सः अपि उक्तः शूरम् आत्मानम् अभ्यधात् ॥२०॥

ततः दर्शितशस्त्रास्त्रश्रिये तस्मै द्विजः अनुजाम् ।
देवस्वामी सः शूराय दातुम् ताम् प्रत्यपद्यत ॥२१॥

सप्तमे अह्नि च तत्र एव विवाहम् गणकौक्तितः ।
तस्य अपि सः अभ्यधात् मातुः परोक्षम् कृतनिश्चयः ॥२२॥

तत्माता अपि ःअरिस्वामिभार्या तत्कलम् एव सा ।
केन अपि एत्य तृतीयेन सुताम् ताम् याचिता पृथक् ॥२३॥

ज्ञानी शूरः अथ विज्ञनी भर्ता अस्मत् दुहितुः मतः ।
इति उक्तः च तया मातः अहम् ज्ञनी इति सः अभ्यधात् ॥२४॥

पृष्ट्वा भूतम् भविष्यत् च तस्मै ताम् ज्ञानिने सुताम् ।
प्रतिजज्ञे प्रदातुम् सा अपि अह्नि तत्र एव सप्तमे ॥२५॥

अन्येद्युः च आगतः सः अत्र हरिस्वामी यथा कृतम् ।
पत्न्यैः पुत्राय च आचख्यौ तम् कन्यादाननिश्चयम् ॥२६॥

तौ च तम् स्वकृतम् तस्मै भिन्नम् भिन्नम् एव उचताम् ।
सः अपि तेन आकुलः जज्ञे वरत्रयनिमन्त्रणात् ॥२७॥

अथ उद्वाहदिने तस्मिन् हरिस्वामिगृहे वराः ।
आययुः ज्ञानिविज्ञानिशूराः तत्र त्रयः अपि ते ॥२८॥

तत्कालम् च अत्र सा चित्रम् कन्या सोमप्रभा वधुः ।
अशङ्कितम् गता क्व अपि न विचित्य अपि अलभ्यत ॥२९॥

ततः अब्रवीत् हरिस्वामी ज्ञानिनम् तम् ससंभ्रमः ।
ज्ञानिन् इदानीम् ब्रूहि आशु दुहिता मे क्व सा गता ॥३०॥

तत् श्रुत्वा सः अवदत् ज्ञानी राक्षसेन अपहृत्य सा ।
नीता विन्ध्याटवीम् धूमशिखेन वसतिम् निजाम् ॥३१॥

इति उक्तः ज्ञानिना भीतः हरिस्वामी जगाद सः ।
हा धिक् कथम् सा प्रप्येत विवाहः च अपि कथम् ॥३२॥

श्रुत्वा एतत् प्राह विज्ञानी धीरः भव नयामि वः ।
तत्र अधुना एव यत्र एषः ज्ञानी वदति ताम् स्थिताम् ॥३३॥

इति उक्त्वा तत्क्षणम् कृत्वा रथम् सर्वास्त्रसंयुतम् ।
तत्र आरोप्य हरिस्वामिज्ञानिशूरान् खगामिनि ॥३४॥

तान् सः संप्रापयामास क्षणात् विन्ध्याटवीभुवि ।
ज्ञानिना ताम् समाख्याताम् वसतिम् तत्र रक्षसः ॥३५॥

तत्र तम् राक्षसम् क्रुद्धम् ज्ञातवृत्तान्तनिर्गतम् ।
शूरः अथ योधयामास हरिस्वामिपुरस्कृतः ॥३६॥

तदा आश्चर्यम् अभूत् युद्धम् तयोः मानुषरक्षसोः ।
चित्रास्त्रयोधिनोः स्त्री- अर्थम् रामरावणयोः इव ॥३७॥

क्षणेन च सः सङ्ग्रामदुःमदस्य अपि रक्षसः ।
अर्धचन्द्रेण बाणेन शूरः तस्य अच्छिनत् शिरः ॥३८॥

हते रक्षसि ताम् सोमप्रभाम् आप्ताम् ततास्पदात् ।
आदाय विज्ञानिरथेन आजग्मुः ते ततः अखिलाः ॥३९॥

हरिस्वामिगृहम् प्राप्य तेषाम् लग्ने अपि उपस्थिते ।
ज्ञानिविज्ञ्नानिशूराणाम् विवादः उदभूत् महान् ॥४०॥

ज्ञानी जगाद न अहम् चेत् जानीयाम् तत् इयम् कथम् ।
प्राप्येत कन्या गूढस्था देया मह्यम् असौ इतः ॥४१॥

विज्ञनी तु अवदत् न अहम् कुर्याम् चेत् व्योमगम् रथम् ।
गम- आगमौ कथम् स्याताम् देवानाम् इव वः क्षणात् ॥४२॥

कथम् स्यात् च अरथम् युद्धम् रथिना रक्षसा सह ।
तस्मात् मह्यम् इयम् देया लग्नः हि एषः मया अजितः ॥४३॥

शूरः अपि उवाच हन्याम् चेत् न अहम् तम् राक्षसम् रणे ।
तत् युवाभ्याम् कृते यत्ने अपि एताम् कन्याम् कः आनयेत् ॥४४॥

तत् मह्यम् एषा दातव्या इति एवम् तेषु विवादिषु ।
हरिस्वामी क्षणम् तूष्णीम् आसीत् उद्भ्रान्तमानसः ॥४५॥

तत् कस्मै सा अत्र देया इति राजन् वदतु मे भवान् ।
न वदिष्यसि जानन् चेत् तत् ते मूर्धा स्फुटिष्यति ॥४६॥

इति वेतालः तस्मात् श्रुत्वा मौनम् विहाय च ।
सः त्रिविक्रमसेनः तम् उवाच एवम् महीपतिः ॥४७॥

शूराय सा प्रदातव्या येन प्राणपणौद्यमात् ।
अर्जिता बहुवीर्येण हत्वा तम् युधि राक्षसम् ॥४८॥

ज्ञानिविज्ञानिनौ तु अस्य धात्रा कर्मकरौ कृतौ ।
सदा गणकतक्षणौ परौपकरणे न किम् ॥४९॥

इति उक्तम् मनुजपतेः निशम्य तस्य स्कन्धाग्रात् सपदि सः पूर्ववत् जगाम ।
वेतालः निजपदम् एव सः अपि राजा अनुद्वेगः तम् प्रति प्रतस्थे ॥५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:43.2400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

trans-

  • -पार (as in transcontinental खंडपार) 
  • (used in comb.) 
  • पार- 
  • (in comb.)(across, beyond, to the other side etc.) -पार, पलीकडे, अंतरा- 
More meanings
RANDOM WORD

Did you know?

कोणती वस्तु खाण्यातून वर्ज्य अथवा तिचा त्याग केल्याने काय पुण्य किंवा फळ मिळते?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site