वेतालपञ्चविंशति - कथा २

बेताल पचीसी  पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं ।


ततः अत्र पुनः आनेतुम् तम् वेतालम् अगात् नृपः ।
सः त्रिविक्रमसेनः तत् शिंशपापादपान्तिकम् ॥१॥

प्राप्तः अत्र वीक्षते यावत् चिता- आलोकवशात् निशि ।
तावत् ददर्श तम् भूमौ कूजन्तम् पतितम् शवम् ॥२॥

अथ तम् मृतदेहस्थम् वेतालम् सः महीपतिः ।
आरोप्य स्कन्धम् आनेतुम् तूष्णीम् प्रववृते जवात् ॥३॥

ततः स्कन्धात् सः वेतालः भूयः तम् नृपम् अब्रवीत् ।
राजन् महति अनुचिते क्लेशे अस्मिन् पतितः भवान् ॥४॥

अतः तव विनोदाय खतयामि खताम् शृणु ।
अस्ति अग्रहारः कालिन्दीकूले ब्रह्मस्थलाभिधः ॥५॥

अग्निस्वामी इति तत्र आसीत् ब्राह्मणः वेदपारगः ।
तस्य अतिरूपा मन्दारवती इति अजनि कन्यका ॥६॥

याम् निःमाय नवानर्घलावण्याम् नियतम् विधिः ।
स्वर्गस्त्रीपूर्वनिर्माणम् निजम् एव अजुगुप्सत ॥७॥

तस्याम् च यौवनस्थायाम् आययुः कान्यकुब्जतः ।
समसर्वगुणाः तत्र त्रयः ब्राह्मणपुत्रकाः ॥८॥

तेषाम् च आत्मार्थम् एकैकः तत्पितुः ताम् अयाचत ।
अनिच्छन् दानम् अन्यस्मै तस्याः प्रानव्ययात् अपि ॥९॥

तत्पिता सः तु तत्मध्यात् न एकस्मै अपि ताम् ददौ ।
भीतः अन्ययोः वधात् तेन तस्थौ कन्या एव सा ततः ॥१०॥

ते च त्रयः अपि तत्वक्त्रचन्द्रएक- आसक्त दृष्ठयः ।
चकोरव्रतम् आलम्ब्य तत्र एव आसन् दिवानिशम् ॥११॥

अथ अकस्मात्समुत्पन्न दाहज्वरवशेन सा ।
जगाम मन्दारवती कुमारी किल पञ्चताम् ॥१२॥

ततः ताम् विप्रपुत्राः ते परासुम् शोकविक्लवाः ।
कृतप्रसाधनाम् नीत्वा श्मशानम् चक्रुः अग्निसात् ॥१३॥

एकः च तेषाम् तत्र एव विधाय मठिकाम् ततः ।
कृततत्भस्मशय्यः सन् आस्त आयाचितभैक्षभुक् ॥१४॥

द्वितीयः अस्थीनि उपादाय तस्याः भागीरथीम् ययौ ।
तृतीयः तापसः भूत्वा भ्रान्तुम् देशान्तराणि अगात् ॥१५॥

सः भ्राम्यन् तापसः प्राप ग्रामम् वक्रोलकाभिधम् ।
तत्र अतिथिः सन् कस्य अपि विप्रस्य प्राविशत् गृहम् ॥१६॥

तत्पूजितः सः यावत् च भोक्तुम् तत्र प्रचक्रमे ।
तावत् एकः शिशुः तत्र प्रवृत्तः अभूत् प्ररोदितुम् ॥१७॥

सः सान्त्व्यमानः अपि यदा न व्यरम्सीत् तदा क्रुधा ।
बाहौ आदाय गृहिणी ज्वलति अग्नौ तम् अक्षिपत् ॥१८॥

क्षिप्त मात्रः सः मृदुअङ्गः भस्मीभावम् अवाप्तवान् ।
तत् दृष्ट्वा जातरोमाञ्चः सः अब्रवीत् तापसः अतिथिः ॥१९॥

हा धिक्कष्टम् प्रविष्टः अस्मि ब्रह्मराक्षसवेश्मनि ।
तत्मूर्तम् किल्बिषम् इदम् न भोक्ष्ये अन्नम् इह अधुना ॥२०॥

एवम् वदन्तम् तम् सः अत्र गृहस्थः प्राह पश्य मे ।
शक्तिम् पठितसिद्धस्य मन्त्रस्य मृतजीवनीम् ॥२१॥

इति उक्त्वा अदाय तत् मन्त्रपुस्तिकाम् अनुवाच्य च ।
तत्र भस्मनि चिक्षेप सः धूलिम् अभिमन्त्रिताम् ॥२२॥

तेन उदतिष्ठत् तत्रूप एव जीवन् सः बालकः ।
ततः सः निर्वृतः तत्र भुक्तवान् विप्रतापसः ॥२३॥

गृहस्थः अपि सः ताम् नागदन्ते अवस्थाप्य पुस्तिकाम् ।
भुक्वा च शयनम् भेजे रात्रौ तत्र एव तत्युतः ॥२४॥

सुप्ते गृहपतौ तस्मिन् स्वैरम् उत्थाय शङ्कितः ।
सः प्रियाजीवितार्थी ताम् पुस्तिकाम् तापसः अग्रहीत् ॥२५॥

गृहीत्वा एव च निर्गत्य ततः रात्रिदिनम् व्रजन् ।
क्रमात् श्मशानम् तत् प्राप यत्र दग्धा अस्य सा प्रिया ॥२६॥

ददर्श च अत्र तत्कालम् तम् द्वितीयम् उपागतम् ।
यः सः गङ्गा- अम्भसि क्षेप्तुम् ततस्थीनि गतः अभवत् ॥२७॥

ततः तम् च तम् आद्यम् च तस्याः भस्मनि शायिनम् ।
निबद्धमठिकम् तत्र द्वौ अपि एतौ जगाद सः ॥२८॥

मठिका अपास्यताम् एषा यावत् उत्थापयामि ताम् ।
जीवन्तीम् भस्मतः कान्ताम् मन्त्रशक्त्या कया अपि अहम् ॥२९॥

इति तौ प्रेर्य निर्बन्धात् निर्लोठ्य मठिकाम् च सः ।
उद्घाट्य तापसः विप्रः पुस्तिकाम् ताम् अवाचयत् ॥३०॥

अभिमन्त्र्य च मन्त्रेण धूलिम् भस्मनि अवाक्षिपत् ।
उदतिष्ठत् च जीवन्ती सा मन्दारवती ततः ॥३१॥

वह्निम् प्रविश्य निष्क्रान्तम् वपुः पूर्वाधिकद्युति ।
तदा बभार सा कन्या कञ्चनेन इव निःमितम् ॥३२॥

तादृशीम् ताम् पुनः जाताम् ते दृष्ट्वा एव स्मर- आतुराः ।
प्राप्तुकामाः त्रयः अपि एवम् अन्यःअन्यम् कलहम् व्यधुः ॥३३॥

एकः अब्रवीत् इयम् भार्या मम मन्त्रबलार्जिता ।
तीर्थप्रभावजा भार्या मम इयम् इति चापरः ॥३४॥

रक्षित्वा भस्म तपसा जीविता इयम् मया इह यत् ।
तत् एषा मम भार्या इति तृतीयः अत्र जगाद सः ॥३५॥

विवादनिर्णये तेषाम् त्वम् तावत् मे महीपते ।
निश्चयम् ब्रूहि कस्य एषा कन्या भार्या उपपद्यते ॥३६॥

विदलिष्यति मूर्धा ते यदि जानन् न वक्ष्यसि ।
इति वेतालतः श्रुत्वा तम् सः राजा एवम् अभ्यधात् ॥३७॥

यः क्लेशम् अनुभूय अपि मन्त्रेण एताम् अजीवयत् ।
पिता सः तस्याः तत्कार्यकरणात् न पुनः पतीः ॥३८॥

यः च अस्तीनि निनाय अस्य गङ्गायाम् सः सुतः मतः ।
यः तु तत् भस्मशय्यम् ताम् आश्लिष्य आसीत् तपः चरन् ॥३९॥

श्मशाने एव तत् प्रीत्या भर्ता तस्याः सः उच्यते ।
कृतम् तत् अनुरूपम् इह तेन गाढानुरागिण ॥४०॥

एवम् नृपात् त्रिविक्रमसेनात् शृउत्वा एव मुक्तमौनात् सः ।
तस्य स्कन्धात् अगमत् वेतालः अतर्कितः स्वपदम् ॥४१॥

राजा अथ भिक्षुअर्थसमुद्यतः तम् प्राप्तुम् सः भूयः अपि मनः बबन्ध ।
प्राण अत्यये अपि प्रतिपन्नम् अर्थम् तिष्ठन्ति अनिर्वाह्य न धीरसत्त्वाः ॥४२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP