वेतालपञ्चविंशति - कथा १४

`बेताल पचीसी'  पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं ।


सः त्रिविक्रमसेनः अथ गत्वा तम् शिंशपातरोः ।
भूयः अपि आसाद्य वेतालम् स्कन्धे जग्राह भूपतिः ॥१॥

प्रस्थितम् च तम् उर्वी- ईशम् सः वेतालः अभ्यधात् पुनः ।
राजन् श्रान्तः असि तत् चित्राम् कथाम् आख्यामि ते शृणु ॥२॥

अस्ति अयोध्या इति नगरी राजधानी बभूव या ।
रक्षःकुलकृतान्तस्य रामरूपस्य शार्ङ्गिणः ॥३॥

तस्याम् राजा अभवत् वीरकेतुः नाम ररक्ष यः ।
क्षोणीम् इमाम् महाबाहुः प्राकारः नगरीम् इव ॥४॥

तस्मिन् महीपतौ अस्याम् पुर्याम् एकः महावणिक् ।
रत्नदत्ताभिधानः अभूत् वणिक्नीवहनायकः ॥५॥

नन्दयन्ती- अभिधानायाम् पत्न्याम् तस्य उदपद्यत ।
सुता रत्नवती नाम देवता- आराधनार्जिता ॥६॥

सा च तस्य पितुः वेश्मनि अवर्धत मनस्विनी ।
रूपलावण्यविनयैः सह एव सहजैः गुणैः ॥७॥

यौवनस्थाम् च ताम् तस्मात् रत्नदत्तात् न केवलम् ।
महान्तः वणिजः यावत् राजानः अपि ययाचिरे ॥८॥

सा तु पुम्द्वेषिणी न ऐच्छत् भर्तारम् अपि वासवम् ।
प्राणत्यागौद्यता सेहे न विवाहकथाम् अपि ॥९॥

तेन तस्याः पिता तूष्णीम् तस्थौ वात्सल्यदुःस्थितः ।
सः च प्रवादः अयोद्यायाम् तस्याम् सर्वत्र पप्रथे ॥१०॥

अत्र अन्तरे सदा चौरैः मुष्यमाणाः किल आखिलाः ।
संभूय अत्र नृपम् पौराः वीरकेतुम् व्यजिज्ञपन् ॥११॥

नित्यम् मुष्यामहे चौरैः रात्रौ रात्रौ इह प्रभो ।
लक्ष्यन्ते ते च न अस्माभिः तत् देवः वेत्तु यत् परम् ॥१२॥

इति पौरैः सः विज्ञप्तः राजा ताम् अभितः पुरीम् ।
तस्करान्वेषणे छन्नान् आदिशत् रत्रिरक्षकान् ॥१३॥

ते अपि प्रापुः न यत् चौरान् पुरी सा अमुष्यत एव च ।
तदा एकदा स्वयम् राजा निशि स्वैरम् विनिर्ययौ ॥१४॥

एकाकी च आत्तशस्त्रः अत्र भ्रमन् सः अपश्यत् एकतः ।
एकम् प्राकारपृष्टेन यान्तम् कम् अपि पूरुषम् ॥१५॥

निःशब्दपदविन्यासविचित्रगतिकौशलम् ।
सशङ्कलोलनयनम् पश्यन्तम् पृष्टतः मुहुः ॥१६॥

अयम् सः नूनम् चौरः मे मुष्णाति एकचरः पुरीम् ।
इति मत्वा एव निकटम् सः तस्य उपययौ नृपः ॥१७॥

ततः सः चौरः दृष्ट्वा तम् नृपम् कः असि इति अभाषत ।
चौरः अहम् इति राजा तम् चौरम् प्रत्यब्रवीत् सः तम् ॥१८॥

सः अथ चौरः अभ्यधात् दृष्ट्वा तर्हि तुल्यः असि मे सुहृत् ।
तत् एहि मत्गृहम् तावत् मित्र- आचारम् करोमि ते ॥१९॥

तत् श्रुत्वा सः तथा इति उक्त्वा तेन एव सह भूपतिः ।
ययौ वनान्तःधरणीखातान्तःवर्ति तत्गृहम् ॥२०॥

अशेषभोगभोग- आढ्यम् भास्वत्दीपप्रकाशितम् ।
नवीनम् इव पातालम् बलिराजानधिष्ठितम् ॥२१॥

तत्र प्रविष्टे तस्मिन् च कृत- आसनपरिग्रहे ।
राज्ञि सः अभ्यन्तरगृहम् प्रविवेश अथ तस्करः ॥२२॥

तत् क्षणम् च तम् एत्य एका दासी तत्र अवदत् नृपम् ।
महाभाग प्रविष्टः त्वम् इह मृत्युमुखे कथम् ॥२३॥

एकचौरः हि असौ पापम् निःगत्य अतः करिष्यति ।
ध्रुवम् विस्वासघाती इति तत् इतः त्वरितम् व्रज ॥२४॥

इति उक्तः सः तया राजा निःगत्य एव ततः द्रुतम् ।
गत्वा स्वराजधानीम् च निशि सैन्यानि असज्जयत् ॥२५॥

संनद्धसैन्यः च आगत्य दस्योः तस्य रुरोध तत् ।
भूगृहद्वारविवरम् रसत्तूर्याकुलैः बलैः ॥२६॥

ततः रुद्धे गृहे वृत्तम् प्रतिभेदम् अवेत्य सः ।
मरणे निःचितः चौरः शूरः युद्धाय निर्ययौ ॥२७॥

निःगतः च रणे चक्रे पराक्रमम् अमानुषम् ।
करान् चकर्त करिणाम् जङ्घाः चिच्छेद वाजिनाम् ॥२८॥

जहार च शिरांसि एकः भटानाम् खड्गचर्मभृत् ।
ततः तम् क्षपितानीकम् अभ्यधावत् स्वयम् नृपः ॥२९॥

सः तस्य खड्गविद्याज्ञः राजा करणयुक्तितः ।
हस्तात् जहार निःत्रिंशम् अथ ताम् क्षुरिकाम् अपि ॥३०॥

अशस्त्रम् मुक्तशस्त्रः अथ बाहुयुद्धेन तम् नृपः ।
चौरम् निहत्य धरणौ सजीवग्राहम् अग्रहीत् ॥३१॥

निनाय तम् च संयम्य सधनम् नगरीम् निजाम् ।
प्रातः च अज्ञापयत् तस्य शूल- आरोपणनिग्रहम् ॥३२॥

नीयमानम् च तम् वध्यभूमिम् चौरम् सडिण्डिमम् ।
ददर्श सा रत्नवती वणिक्कन्या अत्र हर्म्यतः ॥३३॥

व्रणितम् धूलिलिप्ताङ्गम् अपि एतम् मारमोहिता ।
दृष्ट्वा एव गत्वा पितरम् रत्नदत्तम् उवाच सा ॥३४॥

वधाय नीयते यः अयम् एष भर्ता वृतः मया ।
तत् नृपात् रक्ष तात एनम् न चेत् एनम् अनु म्रिये ॥३५॥

तत् श्रुत्वा ताम् पिता अवादीत् किम् इदम् पुत्रि भाषसे ।
या त्वम् न इच्छसि भूपालाम् अपि भर्त्क़्न् अभीप्सतः ॥३६॥

सा पापम् तस्करम् इमम् वाञ्छसि आपद्गतम् कथम् ।
इति आदि पित्रा प्रोक्ता अपि निःचयात् न चचाल सा ॥३७॥

ततः सः तत्पिता गत्वा तस्य चौरस्य सत्वरम् ।
सर्वस्वेन अपि राजानम् वधान् मोक्षम् अयाचत ॥३८॥

राजा तु तम् न तत्याज हेमकोटिशतैः अपि ।
स्वशरीरपण- आनीतम् चौरम् सर्वापहारिणम् ॥३९॥

ततः पितरि उपायाते विमुखे सा वणिक्सुता ।
अनुमर्तुम् कृतस्नाना वार्यमाणा अपि बन्धुभिः ॥४०॥

आरुह्य शिबिकाम् तस्य दस्योः वध्यभुवम् ययौ ।
अन्वीयमाना रुदता पित्रा मात्रा जनेन च ॥४१॥

तावत् च वधकैः सः अत्र चौरः शूले अधिरोपितः ।
ताम् ददर्श गलत्प्राणः तथा सज्ञातिम् आगताम् ॥४२॥

जनात् श्रुत्वा च वृत्तान्तम् अश्रु मुक्त्वा क्षणम् ततः ।
हसन् सः चौरः किम् अपि प्राणान् शूलगतः जहौ ॥४३॥

ततः अवतारितम् शूलात् सा तत्चौरकलेवरम् ।
आदाय च आरुरोह अत्र चिताम् साध्वी वणिक्सुता ॥४४॥

तत् क्षणम् च श्मशाने अत्र भैरवः कृतसंनिधिः ।
अदृश्यः भगवान् एवम् ताम् उवाच अन्तरिक्षतः ॥४५॥

अस्मिन् स्वयम्वरपतौ एवम् भक्त्या तव अनया ।
तुष्टः अस्मि तत् वरम् मत्तः प्रार्थयस्व पतिव्रते ॥४६॥

तत् श्रुत्वा एव वरम् देवात् एवम् वव्रे प्रणम्य सा ।
नाथ पुत्रशतम् भूयात् अपुत्रस्य अपि मत्पितुः ॥४७॥

येन अनन्यसुतः न एषः प्राणान् जह्यात् मया विना ।
इति प्रोक्तवतीम् एनाम् साध्वीम् देवः अब्रवीत् पुनः ॥४८॥

पितुः पुत्रशतम् ते अस्तु वरम् अन्यम् वृणीष्व च ।
त्वादृशी दृढसत्त्वा हि न एतावत्मात्रम् अर्हति ॥४९॥

तत् आकर्ण्य अथ सा अवादीत् प्रसन्नः मयि चेत् प्रभुः ।
तत् जीवतु एषः भर्ता मे धार्मिकः च सदा अस्तु इति ॥५०॥

एवम् अस्तु अक्षतः जीवन् उत्तिष्ठतु एषः ते पतिः ।
धार्मिकः च अस्तु राजास्य वीरकेतुः च तुष्यतु ॥५१॥

इति उक्तवति अनालक्ष्यमूर्तौ शर्वे नभःस्थिते ।
उत्तस्थौ अक्षताङ्गः अत्र चौरः जीवन् तदा एव सः ॥५२॥

ततः विस्मितहृष्टः सन् रत्नदत्तः सुताम् वणिक् ।
आदाय ताम् रत्नवतीम् चौरम् जामातरम् च तम् ॥५३॥

प्रहृष्टैः बान्धवैः साकम् प्रविश्य निजमन्दिरम् ।
लब्धपुत्रवरः चक्रे स्व- आनन्दौचितम् उत्सवम् ॥५४॥

ज्ञातवृत्तान्ततुष्टः च तदा एव आनाय्य तम् नृपः ।
एकवीरम् वीरकेतुः चौरम् सेनापतिम् व्यधात् ॥५५॥

चौर्यात् निवृत्तः अथ सः ताम् परिणीय वणिक्सुताम् ।
एकवीरः सुखम् तस्थौ मार्गस्थः राजसंमतः ॥५६॥

इति कथयित्वा सः कथाम् वेतालः दत्तपूर्वशापभयम् ।
अंसस्थितः त्रिविक्रमसेनम् पप्रच्छ तम् क्षितिपम् ॥५७॥

राजन् ब्रूहि सपितृकाम् उपस्थिताम् ताम् वणिक्सुताम् दृष्ट्वा ।
चौरेण शूलपृष्टे रुदितम् हसितम् च किम् तेन ॥५८॥

अथ राजा प्रत्यवदत् रुदितम् चौरेण दुःखतः तेन ।
न अस्य अनृण्यम् अकारणबन्धोः यातः अस्मि वणिजः इति ॥५९॥

आश्चर्यतः च हसितम् किम् इयम् कन्या नृपान् वरान् हित्वा ।
मयि अस्मिन् अनुरक्ता स्त्रीचित्तम् अहो विचित्रम् इति ॥६०॥

इति उक्तवाक्यस्य महीभृतः अंसात् मायी स्वशक्त्य एव तदा जगाम ।
स्वम् धाम वेतालवरः सः राजा अपि एतम् पुनः पूर्ववत् अन्वगच्छत् ॥६१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP