वेतालपञ्चविंशति - कथा २०

`बेताल पचीसी'  पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं ।


ततः गत्वा गृहीत्वा अंसे वेतालम् शिंशपातरोः ।
सः त्रिविक्रमसेनः तम् उच्चचाल पुनः नृपः ॥१॥

मौनेन प्रस्थितम् तम् च वेतालः अंसात् उवाच सः ।
राजन् कः ते अनुबन्धः अयम् गच्छ रात्रिसुखम् भज ॥२॥

न युक्तम् तव नेतुम् माम् कुभिक्षोः तस्य गोचरम् ।
ग्रहः वा तत्र चेत् अस्तु कथाम् एकाम् इमाम् शृणु ॥३॥

अस्ति स्वरेखा- अनुत्क्रान्तवर्णभेदव्यवस्थिति ।
नगरम् चित्रकूट- आख्यम् बिभ्राणम् सत्यनामताम् ॥४॥

तत्र अमृतरस- आसारवर्षी प्रणयिचक्षुषाम् ।
चन्द्रावलोकः इति आसीत् राजा राजशिखामणिः ॥५॥

आलानम् शौर्यकरिणः त्यागस्य उत्पत्तिकेतनम् ।
विलासवेश्म रूपस्य शशंसुः यम् विचक्षणाः ॥६॥

सतीषु सर्वसंपत्सु यत् न प्राप निजौचिताम् ।
भार्याम् सा एका परम् चिन्ता यूनः तस्य अभवत् हृदि ॥७॥

एकदा च ततुद्वेगविनोदाय महा- अटवीम् ।
जगाम अश्वीयसहितः मृगयायै सः भूपतिः ॥८॥

तत्र सूकरवृन्दानि भिन्दन् बाणैः निःअन्तरैः ।
श्यामलाम्बररोचिष्णुः तमांसि इव रविः करैः ॥९॥

शाययन् शरशय्यासु सिंहान् समरदुःमदान् ।
मूर्धजैः धवलैः भीष्मान् अर्जुनाधिकविक्रमः ॥१०॥

विपक्षीकृत्य शरभान् पातयन् पर्वतौपमान् ।
दम्भोलिकर्कशप्रासपातैः जम्भारिविक्रमः ॥११॥

रसात् विविक्षुः सः नृपः वनाभ्यन्तरम् एककः ।
तीव्रपार्ष्णिप्रहारेण प्रेरयामास वाजिनम् ॥१२॥

सः वाजी तेन च कशाघातेन उत्तेजितः भृशम् ।
पार्ष्णिघातेन विषमम् समम् च अगणयन् क्षणात् ॥१३॥

वनान्तरम् ततः अनैषीत् वाताधिकजवः नृपम् ।
मोहितैन्द्रियवृत्तिम् तम् व्यतीत्य दशयोजनीम् ॥१४॥

तत्र तस्मिन् स्थिते वाहे राजा दिक्मोहम् एत्य सः ।
भ्रमन् श्रान्तः ददर्श एकम् आरात् सुविपुलम् सरः ॥१५॥

मारुतेन आभिमुख्येन नमितौन्नमितैः मुहुः ।
इतः एहि इति हस्त- आभैः संज्ञाम् कुर्वत् इव अम्बुजैः ॥१६॥

तत्र गत्वा च तुरगम् विपर्याणौपवर्तितम् ।
स्नातपीतम् तरुछायाबद्धम् दत्ततृणौत्करम् ॥१७॥

कृत्वा स्वयम् कृतस्नानः पीताम्बुः गलितश्रमः ।
रम्येषु तत्प्रदेशेषु ददौ दृष्टिम् इतः ततः ॥१८॥

एकत्र च अशोकतरोः अधस्तात् मुनिकन्यकाम् ।
आमुक्तपुष्प- आभरणाम् वल्कलांशुकशोभिनीम् ॥१९॥

मुग्धबद्धजटाजूटसविशेषमनःरमाम् ।
सखीद्वितीयाम् आश्चर्यरूपाम् राजा ददर्श सः ॥२०॥

अचिन्तयत् च पुष्पैषोः पतितः शरगोचरे ।
का इयम् स्यात् सरसि स्नातुम् सावित्री किम् स्विद् आगता ॥२१॥

किम् हरस्य अङ्कविभ्रष्टा गौरी भूयः श्रिता तपः ।
अहनि अस्तम्गतस्य इन्दोः कान्तिः किम् वा धृतव्रता ॥२२॥

तत् एताम् उपसृत्य इह शनैः उपलभे वरम् ।
इति आलोच्य ययौ तस्याः कन्यायाः सः अन्तिकम् नृपः ॥२३॥

सा अपि दृष्ट्वा तम् आयान्तम् तत्रूप- आकुलित- ईक्षणा ।
पूर्वप्रारब्धपुष्पस्रक्सन्नहस्ता व्यचिन्तयत् ॥२४॥

कः अयम् ईदृक् अरण्ये अस्मिन् सिद्धः विद्याधरः नु किम् ।
बत अस्य रूपम् विश्वस्य कृतार्थीकरणम् दृशोः ॥२५॥

एवम् वितर्क्य पश्यन्ती तिर्यक् तम् त्रपया ततः ।
उत्थाय स- ऊरुस्तम्भा अपि गन्तुम् प्रावर्तत एव सा ॥२६॥

अथ उपेत्य सः राजा ताम् एवम् नागरिकः अब्रवीत् ।
आस्ताम् प्रथमदृष्टस्य दर्शनएकफलार्थिनः ॥२७॥

जनस्य दूर- आयातस्य सुन्दरि स्व- आगतादिकम् ।
कः अयम् नु आश्रमिणाम् धर्मः यत् एतस्मात् पलाय्यते ॥२८॥

इति उक्ते भूभुजा तस्याः सखी तद्वत् विचक्षणा ।
तत्र उपवेश्य नृपतेह् चकार आतिथ्यसत्क्रियाम् ॥२९॥

अथ सप्रणयम् राजा ताम् सः पप्रच्छ सौत्सुकः ।
भद्रे कः पुण्यवान् वंशः त्वत्सख्या अलंकृतः अनया ॥३०॥

कानि श्रोत्रामृतस्यन्दीनि अस्याः नामाक्षराणि च ।
किम् च एवम् अनया पुष्पसुकुमारम् इदम् वपुः ॥३१॥

तापसौचितया वृत्त्या विजने अस्मिन् कदर्थ्यते ।
इति राज्ञः वचः श्रुत्वा तत्सखी प्रत्युवाच सा ॥३२॥

एषा महाऋषेः कण्वस्य दुहिता वर्धित- आश्रमे ।
मेनकासंभवा कन्या नाम्ना च इन्दीवरप्रभा ॥३३॥

इह अस्मिन् सरसि स्नातुम् आगता अनुज्ञया पितुः ।
इतः अत्र न अतिदूरे अस्ति तस्य एतत् पितुः आश्रमः ॥३४॥

इति उक्तः सः तया हृष्टः राजा आरुह्य तुरङ्गमम् ।
याचितुम् ताम् सुताम् तस्य कण्वऋषेः आश्रमम् ययौ ॥३५॥

विवेश च विनीतः तम् बहिः स्थापितवाहनः ।
जटावल्कलिभिः पूर्णम् पादपैः इव तापसैः ॥३६॥

तत्मध्ये च तम् अद्राक्षीत् ऋषिभिः परिवारितम् ।
तेजसा आह्लादनम् कण्वमुनिम् चन्द्रम् इव ग्रहैः ॥३७॥

उपेत्य पादयोः तम् च ववन्दे सः अपि तम् मुनिः ।
कल्पित- आतिथ्यविश्रान्तम् ज्ञानी क्षिप्रात् अभाषत ॥३८॥

वत्स चन्द्रवलोक एतत् शृणु यत् वच्मि ते हितम् ।
जानासि यादृक् संसारे प्राणिनाम् मृत्युतः भयम् ॥३९॥

तत् निःकारणम् एव एतान् वराकान् हंसि किम् मृगान् ।
शस्त्रम् हि भीतरक्षार्थम् धात्रा क्षत्रस्य निर्मितम् ॥४०॥

तत् प्रजाः रक्ष धर्मेण समुन् मूलय कण्टकान् ।
हस्ति- अश्वास्त्र- आदियोग्याभिः चललक्ष्म्य- आदि साधय ॥४१॥

भुङ्क्ष्व राज्यसुखम् देहि धनम् दिक्षु यशः किर ।
कृतान्तक्रीडितम् हिंस्रम् मृगयाव्यसनम् त्यज ॥४२॥

हन्तुः वध्यस्य च अन्यस्य यत्र तुल्या प्रमादिता ।
किम् तेन बहुअनर्थेन पाण्डोः वृत्तम् न किम् श्रुतम् ॥४३॥

एतत् कण्वमुनेः वाक्यम् श्रुत्वा समभिनन्द्य च ।
राजा चन्द्रावलोकः तम् अर्थज्ञः प्रत्यभाषत ॥४४॥

अनुशिष्टः अस्मि भगवन् कृतः मे अनुग्रहः परः ।
मृगयायाः निवृत्तः अहम् प्राणिनः सन्तु निःभयाः ॥४५॥

तत् श्रुत्वा उवाच सः मुनिः तुष्टः अहम् अमुना तव ।
प्राणिषु अभयदानेन तत् वृणीष्व ईप्सितम् वरम् ॥४६॥

इति उक्तः तेन मुनिना कालज्ञः सः नृपः अभ्यधात् ।
तुष्टः असि चेत् सुताम् देहि मह्यम् इन्दीवरप्रभाम् ॥४७॥

इति अर्थितवते सः अस्मै राज्ञे स्नानगताम् मुनिः ।
अप्सरःसंभवाम् कन्याम् ताम् ददौ अनुरूपिकाम् ॥४८॥

ततः कृतविवाहः ताम् मुनिभार्याप्रसाधिताम् ।
कृतानुयात्राम् उद्बाष्पैः तापसैः आ निज- आश्रमात् ॥४९॥

इन्दीवरप्रभाम् भार्याम् आदाय आरुह्य वाजिनम् ।
चन्द्रावलोकः तरसा प्रतस्थे सः ततः नृपः ॥५०॥

गच्छतः च अस्य विततम् दृष्ट्वा तत्दिनचेष्टितम् ।
रविः खिन्नः इव अस्ताद्रिम् अस्तके समुपाविशत् ॥५१॥

ददृशे मृगनेत्रा च क्रमात् उद्रिक्तमन्मथा ।
ध्वान्तनीलपटछन्नरूपा रात्रि- अभिसारिका ॥५२॥

तस्मिन् काले पथि प्राप सः राजा अश्वत्थपादपम् ।
सत्जन- आशयसुस्वच्छवापीजलतटस्थितम् ॥५३॥

शाखापत्त्रओघसंछन्नशाद्वलश्यामलस्थलम् ।
दृष्ट्वा च तम् वसामि इह रात्रिम् इति अकरोत् हृदि ॥५४॥

ततः अवतीर्य तुरगात् दत्त्वा तस्मै तृणौदकम् ।
विश्रम्य पुलिने वाप्याः उपयुक्ताम्बुमारुतः ॥५५॥

मुनिपुत्रिकया सार्धम् तया तस्य तरोः तले ।
प्रियया पुष्पशय्यायाम् संविवेश सः भूपतिः ॥५६॥

तत्क्षणम् च समाक्रम्य तिमिरांशुकहारिणा ।
सरागम् आननम् प्राच्याः चुचुम्बे शशलक्ष्मणा ॥५७॥

विरेजुः चन्द्रकिरणैः समाश्लिष्य प्रसारिताः ।
वीतमानावकाशाः च अशेषाः वितमसः दिशः ॥५८॥

अत्र अन्तरे लतागुल्मविवरप्रसृतैः करैः ।
ऐन्दवैः रत्नदीप- आभैः तरुमूले विभासिते ॥५९॥

सः अपि राजा सिषेवे ताम् आश्लिष्य इन्दीवरप्रभाम् ।
नवसंगमसौत्कण्ठसरसम् सुरतौत्सवम् ॥६०॥

विस्रंसयामास शनैः नीवीम् तस्याः त्रपाम् इव ।
अखण्डयत् च दशनैः मुग्धभावम् इव अधरम् ॥६१॥

रचयामास कुचयोः यौवनद्विपकुम्भयोः ।
करजक्षतसत्रत्ननवनक्षत्रमालिकाम् ॥६२॥

मुखम् कपोलौ नयने मुहुः परिचुचुम्ब च ।
लावण्यामृतनिःष्यन्दम् आपिबन् इव सर्वतः ॥६३॥

इत्थन् निधुवनक्रीडासुखेन सः तया सह ।
निनाय कान्तया तत्र राजा क्षणम् इव क्षपाम् ॥६४॥

प्रातः च मुक्तशयनः सांध्यस्य अनन्तरम् विधेः ।
स्वसैन्यावाप्तये यातुम् उन्मुखः अभूत् वधूसखः ॥६५॥

तावत् च नक्तम् लुप्ताप्जखण्डशोभम् निशापतिम् ।
भिया इव अस्ताद्रिकुहरप्रलीनम् ध्वस्ततेजसम् ॥६६॥

हन्तुकामे इव क्रोधात् आताम्रतररोचिषि ।
प्रसारितकरौत्क्षिप्तमण्डलाग्रे विवस्वति ॥६७॥

अकस्मात् आजगाम अत्र विद्युत्पिङ्गशिरःरुहः ।
कज्जलश्यामलः कालमेघ- आभः ब्रह्मराक्षसः ॥६८॥

अन्त्रमालाकृतौत्तंसः केशयज्ञौपवीतभृत् ।
खादन् नरशिरःमांसम् कपालेन पिबन् असृक् ॥६९॥

सः अट्टहासम् विमुच्य उग्रम् मुखेन अग्निम् वमन् क्रुधा ।
दंष्ट्राकरालः राजानम् भर्त्सयन् निजगाद तम् ॥७०॥

पाप ज्वालामुखम् नाम विद्धि माम् ब्रह्मराक्षसम् ।
निवासः च एष मे अश्वत्थः देवैः अपि न लङ्घ्यते ॥७१॥

सः अयम् त्वया समाक्रम्य परिभुक्तः स्त्रिया सह ।
रात्रिचर्य- आगतस्य अद्य तत् भुङ्क्ष्व अविनयात् फलम् ॥७२॥

एषः अहम् ते दुःआचार कामौपहतचेतसः ।
उत्पाट्य हृदयम् भोक्ष्ये पास्यामि एव च शोणितम् ॥७३॥

तत् श्रुत्वा एव तथा घोरम् तम् अवध्यम् अवेक्ष्य च ।
त्रस्ताङ्गनः सविनयम् भयात् प्रत्यब्रवीत् नृपः ॥७४॥

अजानता अपराद्धम् यत् मया ते तत् क्षमस्व मे ।
तव अहम् आश्रमे हि अस्मिन् अतिथिः शरण- आश्रितः ॥७५॥

दास्यामि च ईप्सितम् तुभ्यम् आनीय पुरुषम् पशुम् ।
येन ते भविता तृप्तिः तत् प्रसीद क्रुधम् त्यज ॥७६॥

इति राज्ञः वचः श्रुत्वा शान्तः सः ब्रह्मराक्ससः ।
अस्तु कः दोषः इति अन्तः विचिन्त्य एवम् अभाषत ॥७७॥

यः सप्तवर्षदेश्यः अपि महासत्त्वः विवेकवान् ।
त्वतर्थे स्वैच्छया आत्मानम् दद्यात् ब्राह्मणपुत्रकः ॥७८॥

हन्यमानम् च यम् माता हस्तयोः पादयोः पिता ।
अवष्टभ्य अतिसुदृढम् संनिवेश्य महीतले ॥७९॥

तादृशम् पुरुषम् मह्यम् उपहारीकरोषि चेत् ।
स्वयम् खड्गप्रहारेण हत्वा सप्तदिनान्तरे ॥८०॥

तत् ते क्षमिष्ये न्यक्कारम् अन्यथा तु महीपते ।
सद्यः विनाशयिष्यामि त्वाम् अहम् सपरिच्छदम् ॥८१॥

श्रुत्वा एतत् सः भयाद् राजा प्रतिपेदे तथा इति तत् ।
तिरःबभूव च ब्रह्मराक्षसः सः अपि तत् क्षणम् ॥८२॥

अथ चन्द्रावलोकः असौ राजा स इन्दीवरप्रभः ।
हय- आरूढः ततः प्रायात् सैन्यम् चिन्वन् सुदुर्मनाः ॥८३॥

अहो अहम् मृगयया मदनेन च मोहितः ।
गतः पाण्डुः इव अकाण्डे विनाशम् बत बालिशः ॥८४॥

प्राप्यते हि उपहारः अस्य राक्षसः तादृशः कुतः ।
तत् निजम् नगरम् तावत् यामि पश्यामि भावि किम् ॥८५॥

इति ध्यायन् सः च प्राप स्वसैन्यम् चिन्वत् आगतम् ।
तत्युक्तः च सदारः स्वम् चित्रकूटम् अगात् पुरम् ॥८६॥

तत्र तस्य उचिताम् भार्याप्राप्तिम् वीक्ष्य कृतौत्सवे ।
राष्ट्रे अन्तर्गतदुःखस्य दिनशेषः जगाम सः ॥८७॥

द्वितीये अह्नि रहः सर्वम् स्ववृत्तान्तम् शशंस सः ।
मन्त्रिभ्यः तेषु च एकः तम् मन्त्री सुमतिः अब्रवीत् ॥८८॥

विषादः देव ते मा भूत् उपहारम् हि तादृशम् ।
आनेष्यामि अहम् अन्विष्य बहु- आश्चर्या हि मेदिनी ॥८९॥

एवम् आश्वास्य राजानम् सः सौवर्णीम् अकारयत् ।
मन्त्री सप्ताब्ददेशीयबालकप्रतिमाम् द्रुतम् ॥९०॥

रत्नैः अलंकृताम् ताम् च कृत्वा कर्णिरथार्पिताम् ।
भ्रामयामास नगरग्रामघोषेषु इतः ततः ॥९१॥

यः सप्तवर्षदेशीयः स्वैच्छया विप्रपुत्रकः ।
ददाति सर्वसत्त्वार्थम् आत्मानम् ब्रह्मरक्षसे ॥९२॥

उपहाराय सत्त्वस्थः मातापित्रोः अनुज्ञया ।
हन्यमानः च यः ताभ्याम् हस्तपादे प्रगृह्यते ॥९३॥

तस्मै ग्रामशतौपेताम् हेमरत्नमयीम् इमाम् ।
ददाति प्रतिमाम् राजा पित्रोः उपचिकीर्षवे ॥९४॥

इति च भ्राम्यमानायाः तस्याः प्रतिकृतेः शिशोः ।
पटहौद्घोषणाम् मन्त्री सः अग्रे अजस्रम् अदापयत् ॥९५॥

तावत् श्रुत्वा तत् एकस्मिन् अग्रहारे द्विजार्भकः ।
कः अपि सप्ताब्ददेशीयः अपि अतिधीरः अद्भुत- आकृतिः ॥९६॥

पूर्वाभ्यासेन बाल्ये अपि सदा परहिते रतः ।
प्रजापुण्यपरीपाक इव स- आकारताम् गतः ॥९७॥

उवाच उद्घोषकान् एत्य युष्मतर्थे ददामि अहम् ।
आत्मानम् पितरौ गत्वा बोधयित्वा अभ्युपैमि च ॥९८॥

इति ऊचिवान् तान् मुदितान् सः बालः अनुमतः च तैः ।
गत्वा गृहम् जगाद स्वौ पितरौ रचिताञ्जलिः ॥९९॥

ददामि सर्वसत्त्वार्थम् देहम् एतम् विनश्वरम् ।
तत् माम् अभ्यनुजानीतम् हताम् च आपदम् आत्मनः ॥१००॥

आत्मप्रतिकृतिम् हि एताम् गृहीत्वा वितरामि वाम् ।
हेमरत्नमयीम् राज्ञा दत्ताम् ग्रामशतान्विताम् ॥१०१॥

एवम् मे युष्मतानृण्यम् परार्थः च एव सिध्यति ।
युवाम् च ध्वस्तदारिद्र्यौ बहून् पुत्रान् अवाप्स्यथः ॥१०२॥

इति उक्तवन्तम् सहसा पितरौ तौ तम् ऊचतुः ।
किम् एतत् भाषसे पुत्र वातेन क्षुभितः असि किम् ॥१०३॥

किम् वा ग्रहगृहीतः असि प्रलपसि अन्यथा कथम् ।
कः हि अर्थैः घातयेत् पुत्रम् देहम् दद्यात् च कः शिशुः ॥१०४॥

एतत् पित्रोः वचः श्रुत्वा बालः पुनः उवाच सः ।
न बुद्धिमोहात् जल्पामि शृणुतम् मे अर्थवत् वचः ॥१०५॥

अवाच्य अशुचिसंपूर्णम् उत्पत्त्या एव सुगुप्सितम् ।
दुःखक्षेत्रम् विनाशि एव शरीरम् अचिरात् इदम् ॥१०६॥

तत् एतेन अति- असारेण सुकृतम् यत् उपार्ज्यते ।
तत् एव सारम् संसारे कृतबुद्धिभिः उच्यते ॥१०७॥

सर्वभूतौपकारात् च किम् अन्यत् सुकृतम् परम् ।
तत्र अपि पित्रोः भक्तिः चेत् किम् देहात् दृश्यते फलम् ॥१०८॥

इति- आदिवाक्यैः सः शिशुः शोचन्तौ दृढनिश्चयः ।
तौ अङ्गीकारयामास पितरौ स्वमनीषितम् ॥१०९॥

गत्वा च राजभृत्येभ्यः प्रतिमाम् तम् हिरण्मयीम् ।
आनीय प्रददौ ताभ्याम् सग्रामशतशासनाम् ॥११०॥

ततः कृत्वा अग्रतः राजभृत्यान् तान् एव सः द्रुतम् ।
पितृभ्याम् अन्वितः प्रायात् चित्रकूटम् नृपान्तिकम् ॥१११॥

तत्र चन्द्रावलोकः तम् वीक्ष्य अखण्डिततेजसम् ।
रक्षारत्नम् इव प्राप्तम् बालम् राजा ननन्द सः ॥११२॥

आरोप्य गजपृष्टम् च रचितस्रक्विलेपनम् ।
नीनाय तम् सपितृकम् केतनम् ब्रह्मरक्षसः ॥११३॥

तत्र मण्डलम् आलिख्य तस्य अश्वत्थस्य पार्श्वतः ।
विहितौचितपूजेन हुते वह्नौ पुरःधसा ॥११४॥

आविर्बभूव मुक्ताट्टहासः सः अध्ययनम् पठन् ।
घूर्णन् रक्त- आसवक्षीबः जृम्भमाणः मुहुः श्वसन् ॥११५॥

ज्वलत्नेत्रः दिशः कुर्वन् देहछाया- अन्धकारिताः ।
ज्वालामुखः महारौद्रदर्शनः ब्रह्मराक्षसः ॥११६॥

ततः चन्द्रावलोकः तम् दृष्ट्वा प्रह्वः अब्रवीत् नृपः ।
नरौपहारः भगवन् आनीतः सः मया तव ॥११७॥

सप्तमः दिवसः च अद्य प्रतिज्ञातस्य सः अस्य ते ।
तत् प्रसीद गृहाण एतम् उपहारम् यथाविधि ॥११८॥

इति राञ्जा अर्थितः विप्रकुमारम् ब्रह्मराक्षसः ।
सः तम् आलोकयामास जिह्वया सृक्किणी लिहन् ॥११९॥

तत् क्षणम् सः महासत्त्वः बालः हृष्यन् अचिन्तयत् ।
स्वदेहदानेन अनेन सुकृतम् यत् मया अर्जितम् ॥१२०॥

तेन मा भूत् मम स्वर्गः मोक्षः वा निःउपक्रियः ।
भूयात् तु मे परार्थाय देहः जन्मनि जन्मनि ॥१२१॥

इति संकल्पयति एव तस्मिन् आपूर्यत क्षणात् ।
विमानैः सुरसंघानाम् पुष्पवृष्टिमुचाम् नभः ॥१२२॥

अथ अग्रे प्रापितम् तस्य बालम् तम् ब्रह्मरक्षसः ।
माता जग्राह करयोः पिता चरणयोः तथा ॥१२३॥

ततः यावत् तम् आकृष्टखड्गः राजा जिघांसति ।
तावत् जहास सः शिशुः तथा सर्वे अत्र ते यथा ॥१२४॥

सब्रह्मराक्षसाः त्यक्त्वा स्वम् स्वम् कर्म सविस्मयाः ।
रचिताञ्जलयः प्रह्वाः तत्मुखप्रेक्षिणः अभवन् ॥१२५॥

इति व्याख्याय वेतालः विचित्रसरसाम् कथाम् ।
तम् त्रिविक्रमसेनम् सः निजगाद नृपम् पुनः ॥१२६॥

तत् ब्रूहि राजन् कः हेतुः यत् तेन हसितम् तदा ।
बालेन एतादृशे अपि अस्मिन् प्राणान्तसमये अपि अहो ॥१२७॥

कौतुकम् च महन् मे अत्र तत् एतत् चेत् न वक्ष्यसि ।
जानानः अपि ततः मूर्धा शतधा ते स्फुटिष्यति ॥१२८॥

इति वेतालतः श्रुत्वा सः राजा प्रत्युवाच तम् ।
शृणु यः अभूत् अभिप्रायः हासे तस्य शिशोः तदा ॥१२९॥

यः नाम दुःबलः जन्तुः सः भये प्रत्युपस्थिते ।
क्रन्दति प्राणहेतोः स्वम् पितरम् मातरम् तथा ॥१३०॥

तत्व्यपाये च राजानम् आर्तत्राणाय निर्मितम् ।
ततलाभे अपि यदि अत्र यथासंभवि दैवतम् ॥१३१॥

तस्य तु एकस्थम् अपि एतत् सर्वम् संजातम् अन्यथा ।
पितृभ्याम् हस्तपादम् हि रुद्धम् तस्य अर्थतृष्णया ॥१३२॥

राजा च त्रातुम् आत्मानम् स्वयम् तम् हन्तुम् उद्यतः ।
दैवतम् तत्र यत् ब्रह्मरक्षः तत् तस्य भक्षकम् ॥१३३॥

अध्रुवस्य अन्तविरसस्य अधिव्याधिक्षतस्य च ।
देहस्य अर्थे विमूढानाम् तेषाम् ईदृक् विडम्बना ॥१३४॥

ब्रह्मा- इन्द्रविष्णुरुद्र- आद्याः यत्र अवश्यम् विनाशिनः ।
तत्र एषाम् ईदृशी का अपि शरीरस्थैर्यवासना ॥१३५॥

एतत् तत् मोहवैचित्र्यम् दृष्ट्वा मत्वा च वाञ्छितम् ।
सिद्धम् आश्चर्यहर्षाभ्याम् सः जहास द्विजार्भाकः ॥१३६॥

इति उक्त्वा विरतस्य तस्य नृपतेः अंसात् सः भूयः अपि
तत् वेतालः झगिति स्वकम् पदम् अगात् अन्तर्हितः मायया ।
राजा सः अपि अविकल्पम् एव पुनः अपि अन्वक् ययौ तम्
जवात् अक्षोभ्यम् हृदयम् बत इह महताम् अम्भःनिधीनाम् इव ॥१३७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP