TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

वेतालपञ्चविंशति - कथा १३

`बेताल पचीसी'  पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं ।


कथा १३
अथ गत्वा पुनः प्राप्य शिंशपातः ततः नृपः ।
सः त्रिविक्रमसेनः तम् स्कन्धे वेतालम् आददे ॥१॥

आयान्तम् च सः वेतालः भूयः तम् नृपम् अब्रवीत् ।
राजन् शृणु कथाम् एकाम् संक्षिप्ताम् वर्णयामि ते ॥२॥

अस्ति वाराणसी नाम पुरी हरनिवासभूः ।
देवस्वामी इति तत्र आसीन् मान्यः नरपतेः द्विजः ॥३॥

महाधनस्य तस्य एकः हरिस्वामी इति अभूत् सुतः ।
तस्य भार्या च लावण्यवती इति अत्युत्तमा अभवत् ॥४॥

तिलोत्तमा- आदिनाकस्त्रीनिःमाणे प्राप्तकौशलः ।
अनर्घरूपलावण्याम् मन्ये याम् निर्ममे विधिः ॥५॥

तया सः कान्तया साकम् हरिस्वामी कदाचन ।
रतिश्रान्तः ययौ निद्राम् हर्म्ये चन्द्रांशुशीतले ॥६॥

तत् कालम् तेन मार्गेण कामचारी विहायसा ।
आगात् मदनवेग- आख्यः विद्याधरकुमारकः ॥७॥

सः तत्र लावण्यवतीम् पत्युः पार्श्वे ददर्श ताम् ।
सुप्ताम् रतिक्लमस्रस्तवस्त्रव्यक्ताङ्गसौष्ठवाम् ॥८॥

तत्रूपहृतचित्तः सन् मदनान्धः सः तत् क्षणम् ।
सुप्ताम् एव निपत्य एताम् गृहीत्वा नभसा ययौ ॥९॥

क्षणात् प्रबुद्धः अथ युवा हरिस्वामी सः तत्पतिः ।
प्राण- ईश्वरीम् अपश्यन् ताम् उदतिष्ठत् ससंभ्रमः ॥१०॥

अहो किम् एतत् क्व गता कुपिता सा नु किम् मयि ।
छन्ना जिज्ञासितुम् किम् मे चित्तम् परिहसति उत ॥११॥

इति अनेकविकल्पओघव्याकुलः ताम् इतः ततः ।
हर्म्यप्रासादवलभीषु अन्विष्यन् सः अभ्रमत् निशि ॥१२॥

अगृहौद्यानतः चिन्वन् यत् न प्राप कुतः अपि ताम् ।
तत् सः शोकाग्निसंतप्तः विललाप अश्रुगद्गदम् ॥१३॥

हा चन्द्रबिम्बवदने हा ज्योत्स्नागौरी हा प्रिये ।
रात्र्या तुल्यगुणद्वेषात् किम् नु सोढा असि न अनया ॥१४॥

त्वया कान्त्या जितः बिभ्यत् इव चन्दनशीतलैः ।
करैः असुखयत् यः माम् सः अयम् इन्दुः त्वया विना ॥१५॥

लब्धान्तरः इव इदानीम् तैः एव तुदति प्रिये ।
प्रज्वलद्भिः इव अङ्गारैः विषदिग्धैः इव आशुगैः ॥१६॥

इति आदि क्रन्दतः तस्य सा हरिस्वामिनः तदा ।
कृच्छ्रात् व्यतीयाय निशा न पुनः विरहव्यथा ॥१७॥

प्रातः बिभेद विश्वस्य करैः संतमसम् रविः ।
भेत्तुम् न चक्षमे तस्य मोहान्धतमसम् पुनः ॥१८॥

विलब्धः इव चक्र- आह्वैः तस्य तीर्णनिशैः तदा ।
भेजे शतगुनीभावम् करुणाक्रन्दितध्वनिः ॥१९॥

स्वजनैः सान्त्व्यमानः अपि वियोगानलदीपितः ।
न च लेभे द्विजयुवा धृतिम् ताम् प्रेयसीम् विना ॥२०॥

इह स्थितम् इह स्नातम् कृतम् अत्र प्रसाधनम् ।
विहृतम् च तया अत्र इति ययौ तु इतः इतः रुदन् ॥२१॥

मृता तावत् न सा तत् किम् आत्मा एवम् हन्यते त्वया ।
अवश्यम् ताम् अवाप्तासि जीवन् जातु कुतःचन ॥२२॥

तत् धैर्यम् अवलम्बस्व ताम् गवेषय च प्रियाम् ।
अप्राप्यम् नाम न इह अस्ति धीरस्य व्यवसायिनः ॥२३॥

इति बन्धुसुहृत्वाक्यैः बोधितः सः अथ कृच्छ्रतः ।
दिनैः कैःचित् हरिस्वामी बबन्ध धृतिम् आस्थया ॥२४॥

अचिन्तयत् च सर्वस्वम् कृत्वा ब्राह्मणसात् अहम् ।
भ्रमामि तावत् तीर्थानि क्षपयामि अघसंचयम् ॥२५॥

पापक्षयात् हि ताम् जातु प्रियाम् भ्राम्यन् अवाप्नुयाम् ।
इति आलोच्य यथा- अवस्थम् स्नान- आदि उत्थाय सः अकरोत् ॥२६॥

अन्येद्युः च विचित्रान्नपानम् सत्त्रे द्विजन्मनाम् ।
चकार अवारितम् किम् च ददौ धनम् अशेषतः ॥२७॥

ब्राह्मण्यमात्रवित्तस्य निःगत्य एव स्वदेशतः ।
प्रियाप्राप्तीच्छया सः अथ तीर्थानि भ्रमितुम् ययौ ॥२८॥

भ्राम्यतः च जगाम अस्य भीमः ग्रीष्मऋतुकेसरी ।
प्रचण्ड- आदित्यवदनः दीप्ततत्रश्मिकेसरः ॥२९॥

प्रियाविरहसंतप्तपान्थनिःश्वासमारुतैः ।
न्यस्तौष्माणः इव अत्युष्णाः वान्ति स्म च समीरणाः ॥३०॥

शुष्यत्विदीर्णपङ्काः च हृदयैः स्फुटितैः इव ।
जल- आशया ददृशिरे घर्मलुप्ताम्बुसंपदः ॥३१॥

चीरीचीत्कारमुखराः तापम्लानदलाधराः ।
मधुश्रीविरहात् मार्गेषु अरुदन् इव पादपाः ॥३२॥

तस्मिन् काले अर्कतापेन वियोगेन क्षुधा तृषा ।
नित्याध्वना च सः क्लान्तः विरूक्षक्षामधूसरः ॥३३॥

भोजनार्थि हरिस्वामी प्राप ग्रामम् क्वचित् भ्रमन् ।
पद्मनाभाभिधानस्य गृहम् विप्रस्य सत्त्रिणः ॥३४॥

तत्र दृष्ट्वा सः भुञ्जानान् विप्रान् अभ्यन्तरे बहून् ।
द्वारशाखाम् समालम्ब्य तस्थौ निःशब्दनिःचलः ॥३५॥

तथास्थितम् तम् आलोक्य सत्त्रिणः तस्य गेहिनी ।
पद्मनाभस्य संजातदया साध्वी व्यचिन्तयत् ॥३६॥

अहो क्षुत् नाम गुर्वी एषा न कुर्यात् कस्य लाघवम् ।
यत् एवम् अयम् अन्नार्थी कः अपि आस्ते द्वारि अधःमुखः ॥३७॥

दूराध्वाभ्यागतः स्नातः तावत् क्षीणैन्द्रियः क्षुधा ।
तत् एषः च अन्नदानस्य पात्रम् इति अवधार्य सा ॥३८॥

परमान्नभृतम् साध्वी तस्मै सघृतशर्करम् ।
पात्रम् उत्क्षिप्य पाणिभ्याम् आनीय प्रश्रिता ददौ ॥३९॥


जगाद च एतम् भुङ्क्ष्व एतत् गत्वा वापीतटे क्वचित् ।
इदम् स्थानम् समुच्छिष्टम् भुञ्जानैः ब्राह्मनैः वृतम् ॥४०॥

तथा इति सः अन्नपात्रम् तत् गृहीत्वा न अतिदूरतः ।
गत्वा स्थापितवान् वाप्याः तटे वटतरोः अधः ॥४१॥

प्रक्षाल्य पाणिपादम् च वाप्याम् आचम्य च अत्र सः ।
यावत् भक्षयितुम् तुष्टः परमान्नम् उपैति तत् ॥४२॥

तावत् गृहीत्वा कृष्णाहिम् चञ्च्वा पादयुगेन च ।
श्येनः कुतःचित् आगत्य तरौ तस्मिन् उपाविशत् ॥४३॥

तेन तस्य उह्यमानस्य सर्पस्य आक्रम्य पक्षिणा ।
उत्क्रान्तजीवितस्य अस्यात् विषलाला विनिर्ययौ ॥४४॥

सा तत्र अधःस्थिते तस्मिन् अन्नपात्रे अपतत् तदा ।
तत् च अदृष्ट्वा हरिस्वामी सः एत्य अन्नम् अभुङ्क्त तत् ॥४५॥

क्षुधा- अर्तस्य तदा तस्य मृष्टान्नम् तत् क्षणेन तत् ।
कृत्स्नम् भुक्तवतः तीव्रा प्रोदभूत् विषवेदना ॥४६॥

अहो विधौ विपर्यस्ते न विपर्यस्यति इह किम् ।
यत् विषीभूतम् अन्नम् मे सक्षीरघृटशर्करम् ॥४७॥

इति जल्पन् विषार्तः सः हरिस्वामी परिस्खलन् ।
गत्वा ताम् सत्त्रिणः तस्य विप्रस्य उवाच गेहिनीम् ॥४८॥

त्वत्दत्तात् विषम् अन्नात् मे जातम् तत् विषमन्त्रिणम् ।
कम्चित् मम आनय क्षिप्रम् ब्रह्महत्या अन्यथा अस्ति ते ॥४९॥

इति उक्त्वा एव सः ताम् साध्वीम् किम् एतत् इति विह्वलाम् ।
हरिस्वामी परावृत्तनेत्रः प्राणैः व्ययुज्यत ॥५०॥

ततः सा तेन निःदोषा अपि आतिथेयी अपि सत्त्रिणा ।
भार्या निष्कासिता गेहात् मिथ्या- आतिथिवधक्रुधा ॥५१॥

सा अपि उत्पन्नमृषावद्या सुशुभात् अपि कर्मणः ।
जातावमाना तपसे साध्वी तीर्थम् अशिशृइयत् ॥५२॥

कस्य विप्रवधः सः अस्तु सर्पश्येनान्नदेशु इति ।
तत् अभूत् धर्मराजाग्रे वादः न आसीत् तु निःणयः ॥५३॥

तत् त्रिविक्रमसेन त्वम् रजन् ब्रूहि मम अधुना ।
कस्य सा ब्रह्महत्या इति पूर्वः शापः सः ते अन्यथा ॥५४॥

इति वेतालतः राजा श्रुत्वा शापनियन्त्रितः ।
सः त्रिविक्रमसेनः तम् मुक्तमौनः अब्रवीत् इदम् ॥५५॥

तस्य तत् पातकम् तावत् सर्पस्य यदि वा अस्य कः ।
विवशस्य अपराधः अस्ति भक्ष्यमाणस्य शत्रुणा ॥५६॥

अथ स्येनस्य तेन अपि किम् दुष्टम् क्षुधित- आत्मना ।
अकस्मात् प्राप्तम् आनीय भक्ष्यम् भक्षयता निजम् ॥५७॥

दंपत्योः अन्नदात्रोः वा तयोः एकस्य वा कुतः ।
अभाव्यदोषौ धर्मएकप्रवृत्तौ तौ उभौ यतः ॥५८॥

तत् अहम् तस्य मन्ये सा ब्रह्महत्या जड- आत्मनः ।
अविचार्य एव यः ब्रूयात् एषाम् एकतमस्य ताम् ॥५९॥

इति उक्तवतः अस्य नृपस्य अंसात् भूयः अपि अगात् सः वेतालः ।
निजपदम् एव नृपः अपि सः पुनः अपि धीरः तम् अन्वगात् एव ॥६०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:43.6770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

जूग

  • n  A body, band, party, club. A league. A couple fallen together in the games with सोंगट्या. 
  • न. ( कु . नाविक ) दोर्‍या ( टांकणी , अलाज , खुराप ) तयार करण्याकरितां केलेलें एक साधन . [ सं . युग ] 
  • न. १ मंडळी ; टोळी ; जूट . त्या पोरांचें जूग फोडल्यावांचून सभेंतील गडबड मोडणार नाहीं . २ मंडळ ; कट ; समिती ; संघ . ३ ( सोंगटयांचा खेळ ) दोन किंवा अधिक सोंगटया एका घरांत येणें . ४ युग ; एक दीर्घ कालमान ; जगाचें युग ; हीं चार आहेत ; युग पहा . [ सं . युग ] 
  • न. एक प्रकारचें गलबत . 
RANDOM WORD

Did you know?

गांवे, नद्या, समुद्र, देवदेवता किंवा अन्य नांवांची उत्पत्ती काय असेल? नांवे कशी पडली असतील?
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.