TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

वेतालपञ्चविंशति - सूत्र

बेताल पचीसी  पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं ।


सूत्र
तत्र विक्रमसेनस्य पुत्रः शक्रपराक्रमः ॥२१॥

प्राक् त्रिविक्रमसेन- आख्यः ख्यातकीर्तिः अभूत् नृपः ।
प्रतिष्ठान अभिधानः अस्ति देशः गोदावरी तटे ॥२२॥

तस्य प्रति- अहम् आस्थानगतस्य उपेत्य भूपतेः ।
सेवा- अर्थम् क्षान्तिशील- आख्यः भिक्षुः फलम् उपानयत् ॥२३॥

सः अपि राजा तत् आदाय फलम् आसन्नवर्तिनः ।
हस्ते ददौ प्रतिदिनम् कोषागाराधिकारिणः ॥२४॥

इत्थम् गतेषु वर्षेषु दशसु अत्र किल एकदा ।
दत्त्वा राज्ञे फलम् तस्मै भिक्षौ आस्थानतः गते ॥२५॥

सः राजा तत् फलम् प्रादात् प्रविष्टाय अत्र दैवतः ।
क्रीडामर्कटपोताय हस्तभ्रष्टाय रक्षिणाम् ॥२६॥

सः मर्कटः तत् अश्नाति यावत् तावत् फलात् ततः ।
विभिन्नमध्यात् निरगात् अनर्घम् रत्नम् उत्तमम् ॥२७॥

तत् दृष्ट्वा आदाय पप्रच्छ तम् भाण्डागारिकम् नृपः ।
भिक्षूपनीतानि मया यानि नित्यम् फलानि ते ॥२८॥

हस्ते दत्तानि तानि क्व स्थापितानि सदा त्वया ।
तत् श्रुत्वा तम् सः सभयः कोषाध्यक्षः व्यजिज्ञपत् ॥२९॥

क्षिप्तानि तानि अनुद्घाट्य मया गञ्जे गवाक्षतः ।
यदि आदिशसि तत् देव तम् उद्घाट्य गवेषये ॥३०॥

इति ऊचिवान् अनुमतः रज्ञा गत्वा क्षणेन सः ।
कोषाध्यक्षः समागत्य प्रभुम् व्यज्ञापयत् पुनः ॥३१॥

शीर्णानि न अत्र पश्यामि कोषे तानि फलानि अहम् ।
रत्नराशिम् तु पश्यामि रश्मिज्वाल- आकुलम् विभो ॥३२॥

तत् श्रुत्वा तान् मनीन् दत्त्वा तुष्टः अस्मै कोषरक्षिणे ।
राजा अन्येद्युः पृच्छत् सः भिक्षुम् तम् प्राक्वत् आगतम् ॥३३॥

भिक्षो धनव्ययेन एवम् सेवसे माम् किम् अनुअहम् ।
न इदानीम् ते ग्रहीष्यामि फलम् यावत् न वक्ष्यसि ॥३४॥

इति उक्तवन्तम् राजानम् भिक्षुः तम् विजने अब्रवीत् ।
वीरसाचिव्यसापेक्षम् मन्त्रसाधनम् अस्ति मे ॥३५॥

तत्र वीरैन्द्र साहाय्यम् क्रियमानम् त्वया अर्थये ।
तत् श्रुत्वा प्रतिपेदे तत् तथा इति अस्य सः भूपतिः ॥३६॥

ततः सः श्रमणः तुष्टः नृपम् पुनः उवाच तम् ।
तर्हि कृष्णचतुर्दश्याम् आगामिन्याम् निशा- आगमे ॥३७॥

इतः महाश्मशानान्तःवटस्य अधः स्थितस्य मे ।
आगन्तव्यम् त्वया देव प्रतिपालयतः अन्तिकम् ॥३८॥

बाढम् एवम् करिष्यामि इति उक्ते तेन महीभुजा ।
सः क्षान्तिशीलः श्रमणः ह्र्ष्टः स्वनिलयम् ययौ ॥३९॥

अथ ताम् सः महासत्त्वः प्राप्य कृष्णचतुर्दशीम् ।
प्रार्थनाम् प्रतिपन्नाम् ताम् भिक्षोः तस्य नृपः स्मरन् ॥४०॥

प्रदोषे नीलवसनः तमालकृतशेखरः ।
निर्ययौ राजधानीतः खड्गपाणिः अलक्षितः ॥४१॥

ययौ च घोरनिबिडध्वान्तव्रातमलीमसम् ।
चितानलौग्रनयनज्वालादारुणदर्शनम् ॥४२॥

असंख्यनरकङ्कालकपालास्थिविशङ्कटम् ।
हृष्यत्संनिहितौत्तालभूतवेतालवेष्टितम् ॥४३॥

भैरवस्य अपरम् रूपम् इव गम्भीरभीषणम् ।
स्फूर्जत् महाशिवारावम् श्मशानम् तत् अविह्वलः ॥४४॥

विचित्य च अत्र तम् प्राप्य भिक्षुम् वटतरोः अधः ।
कुर्वाणम् मण्डलन्यासम् उपसृत्य जगाद सः ॥४५॥

एषः अहम् आगतः भिक्षो ब्रूहि किम् करवाणि ते ।
तत् श्रुत्वा सः नृपम् दृष्ट्वा हृष्टः भिक्षुः उवाच तम् ॥४६॥

राजन् कृतः प्रसादः चेत् तत् इतः दक्षिणामुखम् ।
गत्वा विदूरम् एकाकी विद्यते शिंशपातरुः ॥४७॥

तस्मिन् उल्लम्बितमृतः कः अपि एकः पुरुषः स्थितः ।
तम् इह आनय गत्वा त्वम् सानाथ्यम् कुरु वीर मे ॥४८॥

तत् शृउत्वा एव तथा इति उक्त्वा सः राजा सत्यसंगरः ।
दक्षिणाम् दिशम् आलम्ब्य प्रवीरः प्रययौ ततः ॥४९॥

आत्तदीप्तचिता- अलातलक्षितेन पथा अत्र सः ।
गत्वा तमसि तम् प्राप कथंचित् शिंशपातरुम् ॥५०॥

तस्य स्कन्धे चिताधूमदग्धस्य क्रव्यगन्धिनः ।
सः अपश्यत् लम्बमानम् तम् भूतस्य इव शवम् तरोः ॥५१॥

आरुह्य च अत्र भूमौ तम् छिन्न रज्जुम् अपातयत् ।
पतितः च अत्र सः अकस्मात् चक्रन्द व्यथितः यथा ॥५२॥

ततः अवरुह्य कृपया जीव- आशङ्की सः तस्य यत् ।
राजा अङ्गम् प्रामृशत् तेन सः अट्टहासम् व्यधात् शवः ॥५३॥

ततः सः राजा मत्वा तम् वेतालाधिष्ठितम् तदा ।
किम् हससि एहि गच्छाव इति यावत् अकम्पितः ॥५४॥

वक्ति तावत् न भूमौ सवेतालम् शवम् ऐक्षत ।
ऐक्षत अत्र एव वृक्षे तु लम्बमानम् स्थितम् पुनः ॥५५॥

ततः अधिरुह्य भूयः अपि तम् अवातारयत् ततः ।
वज्रात् अपि हि वीराणाम् चित्तरत्नम् अखण्डितम् ॥५६॥

आरोप्य च सवेतालम् स्कन्धे मौनेन तम् शवम् ।
सः त्रिविक्रमसेनः अथ राजा गन्तुम् प्रचक्रमे ॥५७॥

यान्तम् च तम् शवान्तःस्थः वेतालः अंसस्थितः अब्रवीत् ।
राजन् अध्वविनोदाय कथाम् आख्यामि ते शृणु ॥५८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:42.9600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

गुप्प

  • क्रिवि , हळूच ; नकळत . गुप पहा . 
RANDOM WORD

Did you know?

मनुष्याच्या जीवनात स्नानाचे महत्त्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site