वेतालपञ्चविंशति - कथा ८

बेताल पचीसी  पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं ।


गत्वा ताम् शिंशपाम् भूयः वेतालम् प्राप्य भूमिपः ।
तम् त्रिविक्रमसेनः अत्र स्कन्धे कृत्वा उच्चचाल सः ॥१॥

प्रयान्तम् सः पुनः तम् च वेतालः स्कन्धतः अब्रवीत् ।
श्रमविस्मृतये राजन् मत्तः प्रश्नम् इमम् शृणु ॥२॥

अङ्गदेशे अग्रहारः अस्ति महान् वृक्षघटाभिधः ।
विष्णुस्वामी इति तत्र आसीत् द्विजः यज्वा महाधनः ॥३॥

तस्य च स्वानुरूपायाम् पत्न्याम् जाताः क्रमात् त्रयः ।
बभूवुः तरुणाः पुत्राः दिव्यवैदग्ध्यशालिनः ॥४॥

ते पित्रा प्रेषिताः तेन कूर्महेतोः कदाचन ।
प्रारब्धयज्ञेन ययुः ते त्रयः भ्रातरः अम्बुधिम् ॥५॥

प्राप्य कूर्मम् ततः ज्यायान् कनिष्ठौ तौ अभाषत ।
गृह्णातु युवयोः एकः कूर्मम् क्रतुकृते पितुः ॥६॥

अहम् एतम् न शक्नोमि ग्रहीतुम् विस्रपिच्छलम् ।
इति उक्तवन्तम् तम् ज्येष्ठम् कनिष्ठौ तौ अवोचताम् ॥७॥

तव अत्र विचिकित्सा चेत् न आवयोः अपि सा कथम् ।
तत् श्रुत्वा सः अब्रवीत् ज्येष्ठः गृह्णीतम् गच्छतम् युवाम् ॥८॥

पितुः यज्ञक्रियालोपः भवेत् युष्मत्कृतः अन्यथा ।
ततः नरकपातः स्यात् युवयोः तस्य च ध्रुवम् ॥९॥

इति उक्तौ अनुजौ तेन तौ विहस्य तम् ऊचतुः ।
धर्मम् वेत्सि आवयोः एव समानम् अपि न आत्मनः ॥१०॥

ततः ज्येष्ठः अब्रवीत् किम् मे जानीथः न एव चङ्गताम् ।
अहम् भोजनचङ्गः अस्मि न अर्हः स्प्रष्टुम् जुगुप्सितम् ॥११॥

एतत् तस्य वचः श्रुत्वा भ्रातरम् मध्यमः अब्रवीत् ।
अहम् तर्हि अधिकः चङ्गः नारीचङ्गः विचक्षणः ॥१२॥

मध्यमेन एवम् उक्ते तु ज्यायान् पुनः उवाच सः ।
कूर्मम् गृह्णातु तर्हि एषः कनीयान् आवयोः इति ॥१३॥

ततः सः भ्रुकुटिम् कृत्वा कनीयान् अपि उवाच तौ ।
हे मूर्खौ तूलिकाचङ्गः चङ्गः अहम् हि विशेषतः ॥१४॥

एवम् ते कलह- आसक्ताः त्रयः अपि भ्रातरः मिथः ।
निर्णयाय अभिमान एकग्रस्ताः कूर्मम् विहाय तम् ॥१५॥

राज्ञः प्रसेनजित्नाम्नः तत्प्रदेशभुवः अन्तिकम् ।
नगरम् सहसा जग्मुः विटङ्कपुरनामकम् ॥१६॥

तत्र प्रतीहारमुखेन आवेद्य अन्तः प्रविश्य च ।
नृपम् विज्ञापयामासुः स्ववृत्तान्तम् तथा एव ते ॥१७॥

तिष्ठत इह एव यावत् वः परीक्षिष्ये क्रमात् अहम् ।
इति उक्तः तेन राज्ञा च तस्थुः तत्र तथा इति ते ॥१८॥

स्व- आहारकाले च आनाय्य तेभ्यः सः अग्र- आसनम् नृपः ।
राजार्हम् दापयामास षड्रसम् स्वादुभोजनम् ॥१९॥

भुञ्जानेषु च सर्वेषु तदा एकः बुभुजे न सः ।
विप्रः भोजनचङ्गः अत्र जुगुप्साकूणित- आननः ॥२०॥

कथम् न भोजनम् भुङ्क्ते ब्रह्मन् स्वादु सुगन्धि अपि ।
इति रज्ञा स्वयम् पृष्टः शनैः विप्रः जगाद सः ॥२१॥

शवधूमदुःआमोदः शालिभक्ते अत्र विद्यते ।
तेन न अहम् इदम् भोक्तुम् उत्सहे स्वादु अपि प्रभो ॥२२॥

इति उक्ते तेन सर्वे अपि तत्र आघ्राय नृप- आज्ञया ।
ऊचुः कलमशालि- अन्नम् अदोषम् तत् सुगन्धि च ॥२३॥

सः तु भोजनचङ्गः तत् न आश्नात् पिहितनासिकः ।
ततः सः राजा संचिन्त्य यावत् अन्विष्यति क्रमात् ॥२४॥

तावत् नियोगिजनतः तत् अन्नम् बुबुधे तथा ।
ग्रामश्मशाननिकटक्षेत्रसंभवशालिजम् ॥२५॥

ततः अतिविस्मितः तुष्टः सः राजा तम् अभाषत ।
सत्यम् भोजनचङ्गः त्वम् तदन्यद्भुज्यताम् इति ॥२६॥

कृत- आहारः च सः नृपः विप्रान् वासगृहेषु तान् ।
विसृज्य- आनाययामास स्वम् एकाम् गणिका- उत्तमाम् ॥२७॥

ताम् च तस्मै द्वितीयस्मै प्राहिणोत् कृतमण्डनाम् ।
विप्राय नारिचङ्गाय सायम् सर्वाङ्गसुन्दरीम् ॥२८॥

सा च वासगृहम् तस्य राजभृत्यान्विता ययौ ।
राकानिशा इव पुर्णैन्दुमुखी कम्दर्पदीपिनी ॥२९॥

प्रविष्टायाम् च तस्याम् सः प्रभाभासितवेश्मनि ।
उत्पन्नमूर्च्छः संरुद्धनासा- अग्रः वामपाणिना ॥३०॥

नारीचङ्गः अब्रवीत् राजभृत्यान् निष्कास्यताम् इति ।
न चेत् मृतः अहम् निर्याति गन्धः अस्याः छागलः यतः ॥३१॥

इति उक्ताः तेन निन्युः ते विग्नाम् ताम् राजपूरुषाः ।
राज्ञः अन्तिकम् वारवधूम् वृत्तान्तम् जगदुः च तम् ॥३२॥

राजा अपि आनाय्य तत्कालम् नारीचङ्गम् उवाच तम् ।
या इयम् श्रीखण्डकर्पूरकालागुरुमदौत्तमैः ॥३३॥

कृतप्रसाधना दिक्षु प्रसरत्चारुसौरभा ।
तस्याः वारविलासिन्या गन्धः स्यात् छागलः कुतः ॥३४॥

इति उक्तः अपि सः राज्ञा तत् नारीचङ्गः तदा न यत् ।
प्रतिपेदे तदा राजा विचारपतितः अभवत् ॥३५॥

पृच्छन् च युक्त्या बुबुधे ताम् अजक्षीरवर्धिताम् ।
तत्मुखात् एव बालत्वे मातृधात्रीवियोगतः ॥३६॥

ततः अतिविस्मितः तस्य नारीचङ्गस्य चङ्गताम् ।
प्रशंसन् नृपतिः तस्मै तृतीयाय द्विजन्मने ॥३७॥

तत्रसात् तूलिकाचङ्गाय आशु शय्याम् अदापयत् ।
पर्यङ्कौपरि विन्यस्तसप्तसंख्याकतूलिकाम् ॥३८॥

तस्याम् च तूलिकाचङ्गः महा- अर्हे वासवेस्मनि ।
सुष्वाप धौतसुश्लक्ष्णपटप्रच्छदवाससि ॥३९॥

यामार्धे एव च गते सः रात्रौ शयनात् ततः ।
उत्तस्थौ पाणि- अवष्टब्धपार्श्वः क्रन्दन् व्यथा- अर्दितः ॥४०॥

ददृशे तस्य पार्श्वे च तत्र त्यैः राजपूरुषैः ।
गाढलग्नस्य बालस्य मुद्रा इव कुटिलारुणा ॥४१॥

गत्वा च तैः तदा आख्यातम् राज्ञे राजा अपि उवाच तान् ।
तूलिकानाम् तले किम्चित् मा स्यात् तत् वीक्ष्यताम् इति ॥४२॥

गत्वा ईख़्षन्ते च ते यावत् एकएकम् तूलिकातलम् ।
तावत् सर्वतलाद् आपुर्वालम् पर्यङ्कपृष्टतः ॥४३॥

नीत्वा च अदर्शयन् राज्ञे सः अपि आनीतस्य वीक्ष्य तत् ।
तत्रूपम् तूलिकाचङ्गस्य अङ्गम् राजा विसिस्मिये ॥४४॥

सप्तभ्यः तूलिकाभ्यः अस्य वालः लग्नः तनौ खतम् ।
इति चित्रीयमाणः ताम् राजा रात्रिम् निनाय सः ॥४५॥

प्रातः च अद्भुतवैदग्ध्यसौकुमार्याः अमी इति ।
तेभ्यः त्रिभ्यः अपि चङ्गेभ्यः हेमलक्षत्रयम् ददौ ॥४६॥

ततः ते सुखिताः तत्र तस्थुः विस्मृतकच्छपाः ।
पितुः विघ्नितयज्ञार्थफलौपार्जितपातकाः ॥४७॥

इति आख्याय कथा- अद्भुतम् अंसनिषण्णः पुनः सः वेतालः ।
पप्रच्छ तम् त्रिविक्रमसेनम् पृथ्वीपतिम् प्रश्नम् ॥४८॥

राजन् विचिन्त्य शापम् पूर्व उक्तम् ब्रूहि मे त्वम् एतेषाम् ।
भोजननारीशय्याचङ्गानाम् कः अधिकः चङ्गः ॥४९॥

तत् श्रुत्वा एव सः धीमान् वेतालम् प्रत्युवाच तम् नृपतिः ।
अहम् एषाम् निःकैतवम् अधिकम् जानामि तूलिकाचङ्गम् ॥५०॥

यस्य अङ्गे प्रत्यक्षम् वालप्रतिबिम्बम् उद्गतम् दृष्टम् ।
इतराभ्याम् हि भवेत् तत् पूर्वम् जातु अन्यतः अवगतम् ॥५१॥

इति तस्य उक्तवतः अंसात् वेतालः भूपतेः ययौ प्राग्वत् ।
सः अपि तथा एव च राजा तम् अन्वय आसीत् अनिर्विण्णः ॥५२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP