TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

वेतालपञ्चविंशति - कथा ६

बेताल पचीसी  पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं ।


कथा ६
ततः गत्वा पुनः तस्मात् प्राप्य तम् शिंशपातरोः ।
वेतालम् प्राग्वत् आदाय स्कन्धे मौनेन भूपतिः ॥१॥

सः त्रिविक्रमसेनः अत्र यावत् आगच्छति द्रुतम् ।
तावत् पथि सः वेतालः भूयः अपि एवम् उवाच तम् ॥२॥

राजन् सुधीः सुसत्त्वः च भवान् तेन प्रियः असि मे ।
अतः विनोदिनीम् वच्मि कथाम् प्रश्नम् च मे शृणु ॥३॥

आसीत् राजा यशःकेतुः इति ख्यातः महीतले ।
तस्य शोभावती नाम राजधानी अभवत् पुरी ॥४॥

तस्याम् अभूत् नगर्याम् च गौरी- आयतनम् उत्तमम् ।
तस्य दक्षिणतः च आसीत् गौरीतीर्थाभिधम् सरः ॥५॥

तस्य आषाढचतुर्दश्याम् शुक्लायाम् प्रतिवत्सरम् ।
यात्रायाम् स्नातुम् एति स्म नानादिग्भ्यः महाजनः ॥६॥

एकदा च तिथौ तस्याम् स्नातुम् अत्र आययौ युवा ।
रजकः धवलः नाम ग्रामात् ब्रह्मस्थलाभिधात् ॥७॥

सः अपश्यत् रजकस्य अत्र तीर्थे स्नान- आगताम् सुताम् ।
कन्याम् शुद्धपट- आख्यस्य नाम्ना मदनसुन्दरीम् ॥८॥

इन्दोः लावण्यहारिण्या तया सः हृतमानसः ।
अन्विष्य तत्नामकुले काम- आर्तः अथ गृहम् ययौ ॥९॥

तत्र अनवस्थितः तिष्ठन् निराहारः तया विना ।
पृष्ठः मात्रा आर्तया तस्यै तत् शशंस मनःगतम् ॥१०॥

सा गत्वा विमल- आख्याय तत् स्वभर्त्रे न्यवेदयत् ।
सः अपि आगत्य तथा अवस्थम् दृष्ट्वा तम् सुतम् अभ्यधात् ॥११॥

किम् विषीदसि पुत्र एवम् अदुष्प्राप्ये अपि वाञ्छिते ।
सः हि मत्याचितः शुद्धपटः दास्यति ते सुताम् ॥१२॥

अन्यूनाः हि वयम् तस्मात् कुलेन अर्थेन कर्मणा ।
तम् वेद्मि अहम् सः माम् वेत्ति तेन एतत् मे न दुःकरम् ॥१३॥

इति आश्वास्य सः तम् पुत्रम् आहार- आदौ प्रवर्त्य च ।
तत् युक्तः विमलः अन्येद्युः ययौ सः शुद्धपट- आस्पदम् ॥१४॥

ययाचे च अत्र पुत्रस्य तस्य अर्थे धवलस्य सः ।
कन्याम् तस्मात् सः च अस्मै ताम् प्रतिशुश्राव स- आदरम् ॥१५॥

लग्नम् निश्चित्य च अन्येद्युः ताम् शुद्धपटः सुताम् ।
धवलाय ददौ तस्मै तुल्याम् मदनसुन्दरीम् ॥१६॥

कृतौद्वाहः च सः तया साकम् दर्शनसक्तया ।
भार्यया स्वपितुः गेहम् जगाम धवलः कृती ॥१७॥

सुखस्थितस्य तस्य अथ कदाचित् श्वशुर- आत्मजः ।
तस्याः मदनसुन्दर्याः भ्राता तत्र आगतः अभवत् ॥१८॥

सः कृतप्रश्रयः सर्वैः स्वस्रा आश्लिष्य अभिनन्दितः ।
संबन्धिपृष्टकुशलः विश्रान्तः च जगाद तान् ॥१९॥

अहम् मदनसुन्दर्याः जामातुः च निमन्त्रणे ।
तातेन प्रेषितः यस्मात् देवीपूजा- उत्सवः अस्ति नः ॥२०॥

श्रद्धाय च एतत् तत्वाक्यम् यथा- अर्हैः पानभोजनैः ।
ते संबन्धि- आदयः सर्वे तत् अहः तम् उपाचरन् ॥२१॥

प्रातः मदनसुन्दर्या स्वशुर्येण च तेन सः ।
सहितः धवलः प्रायात् गृहम् तत् श्वाशुरम् प्रति ॥२२॥

प्राप्य शोभावतीम् ताम् च पुरीम् आत्मतृतीयकः ।
ददर्श निकटम् प्राप्य सः गौरी- आयतनम् महत् ॥२३॥

निजगाद च तौ भार्याश्वशुर्यौ श्रद्धया ततः ।
एतम् एताम् भगवतीम् पश्यामः देवताम् इह ॥२४॥

तत् श्रुत्वा सः श्वशुर्यः तम् निषेधम् प्रत्यभाषा  ।
इयन्तः रिक्तहस्ताः किम् पश्यामः देवताम् इति ॥२५॥

अहम् तावत् व्रजामि एकः युवाम् अत्र एव तिष्ठतम् ।
इति उक्त्वा धवलः द्रष्टुम् देवीम् ताम् सः ततः ययौ ॥२६॥

प्रविश्य आयतनम् तस्याः प्रणम्य च विभाव्य च ।
ताम् अष्टादशदोःदण्डखण्डितौच्चण्डदानवाम् ॥२७॥

पादपद्मतल- आक्षिप्तमहिषासुरमर्दिनीम् ।
सः विधिप्रेरणौत्पन्नबुद्धिः एवम् अचिन्तयत् ॥२८॥

जीवौपहारैः विविधैः इमाम् देवीम् जनः अर्चति ।
अहम् तु सिद्ध्यै किम् न एताम् प्रीणामि आत्मौपहारतः ॥२९॥

इति ध्यात्वा एव तत्गर्भगृहात् आदाय निःजनात् ।
खड्गम् सांयात्रिकैः कैःचित् देव्याः प्राक् प्राभृतीकृतम् ॥३०॥

बद्ध्वा शिरःरुहैः घण्टाशृङ्खलायाम् निजम् शिरम् ।
चिच्छेद एतेन खड्गेन तत् छिन्नम् च अपतत् भुवि ॥३१॥

चिरम् यावत् सः न आयाति तावत् गत्वा तम् ईक्षितुम् ।
तत्र एव देवीभवने तत्श्वशुर्यः विवेश सः ॥३२॥

सः अपि दृष्ट्वा तम् उत्कृत्तमूर्धानम् भगिनीपतिम् ।
व्यामोहितः तथा एव स्वम् शिरः तेन असिना अच्छिनत् ॥३३॥

सः अपि यावत् च न आयाति तावत् उद्भ्रान्तमानसा ।
तत्देवीभवनम् सा अपि ययौ मदनसुन्दरी ॥३४॥

प्रविश्य दृष्ट्वा एव पतिम् भ्रातरम् च तथागतौ ।
हा किम् एतत् हत- आस्मि इति विलपन्ती अपतत् भुवि ॥३५॥

क्षणात् च उत्थाय शोचन्ती तौ अकाण्डहतौ उभौ ।
किम् मम अपि अधुना अनेन जीवितेन इति अचिन्तयत् ॥३६॥

व्यजिज्ञपत् च देवीम् ताम् देहत्यागौन्मुखी सती ।
देवि सौभाग्यचारित्रविधानएकाधिदेवते ॥३७॥

अध्यासितशरीरार्धे भर्तुः माररिपोः अपि ।
अशेषललनालोकशरण्ये दुःखहारिणि ॥३८॥

हृतौ एकपदे कस्मात् भर्ता भ्राता च मे त्वया ।
न युक्तम् एतत् मयि ते नित्यभक्ता हि अहम् त्वयि ॥३९॥

तत् मे श्रितायाः शरणम् शृणु एकम् कृपणम् वचः ।
एताम् तावत् त्यजामि अत्र दौर्भाग्यौपहताम् तनुम् ॥४०॥

जनिष्ये देवि भूयः तु यत्र कुत्र अपि जन्मनि ।
तत्र एतौ एव भूयास्ताम् द्वौ भर्तृभ्रातरौ मम ॥४१॥

इति संस्तुत्य विज्ञप्य देवीम् नत्वा च ताम् पुनः ।
पाशम् विरचयामास लतया अशोकपादपे ॥४२॥

तत्र अर्पयति यावत् च पाशे कण्ठम् वितत्य सा ।
तावत् तत्र उच्चचार एवम् भारती गगनाङ्गणात् ॥४३॥

मा कृथाः साहसम् पुत्रि बालायाः अपि ते अमुना ।
सत्त्वौत्कर्षेण तुष्टा अस्मि पाशम् एतम् परित्यज ॥४४॥

संश्लेषय शिरः स्वम् स्वम् भर्तृभ्रातृकबन्धयोः ।
उत्तिष्ठताम् ते जीवन्तौ एतौ द्वौ अपि मत्वरात् ॥४५॥

एतत् श्रुत्वा एव संत्यज्य पाशम् हर्षात् उपेत्य सा ।
अविभाव्य अतिरभसात् भ्रान्ता मदनसुन्दरी ॥४६॥

बाला भर्तृशिरः भ्रातृदेहेन समयोजयत् ।
भर्तृदेहेन च भ्रातृशिरः विधिनियोगतः ॥४७॥

ततः अक्षताङ्गौ जीवन्तौ उभौ उत्तस्थतुः च तौ ।
शिरःविनिमयात् जातसंकरौ काययोः मिथः ॥४८॥

अथ अन्योन्यौदितस्वस्वयथावृत्तान्ततोषिणः ।
प्रणम्य देवीम् शर्वनीम् यथा- इष्टम् ते ययुः त्रयः ॥४९॥

यान्ती च दृष्ट्वा स्वकृतम् शिरःविनिमयम् तयोः ।
विग्ना किम्कार्यतामूढा सा अभूत् मदनसुन्दरी ॥५०॥

तत् ब्रूहि राजन् कः भर्ता तस्याः संकीर्णयोः तयोः ।
पुर्वौक्तः स्यात् सः शापः ते जानानः न ब्रवीषि चेत् ॥५१॥

इति आकर्ण्य कथाप्रश्नम् राजा वेतालतः ततः ।
सः त्रिविक्रमसेनः अत्र तम् एवम् प्रत्यभाषत ॥५२॥

यत् संस्थम् तत्पतिशिरः सः एषः तस्याः पतिः तयोः ।
प्रधानम् च शिरः अङ्गेषु प्रत्यभिज्ञा च तत्गता ॥५३॥

इति उक्तवतः नृपतेः तस्य आंसात् पुनः अतर्कितः सः ययौ ।
वेतालः सः च राजा जगाम भुयः तम् आनेतुम् ॥५४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:43.3030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पोटाला गांठी देणें

  • कृपणपणें पोटाला चिमटा घेणें 
  • अर्धपोटी राहणें. 
RANDOM WORD

Did you know?

’ एकोद्दिष्ट श्राद्ध ’ बद्दल माहिती द्यावी.
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site