TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

वेतालपञ्चविंशति - कथा १२

`बेताल पचीसी'  पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं ।


कथा १२
सः त्रिविक्रमसेनः अथ पुनः तम् शिंशपातरुम् ।
गत्वा प्राप्य च वेतालम् राजा स्कन्धे चकार तम् ॥१॥

प्रतस्थे च तम् आदाय तूष्णीम् एव सः पूर्ववत् ।
ततः भूयः तम् आह स्म वेतालः सः अंसपृष्ठतः ॥२॥

राजन् एवम् अनुद्विग्नः पर्याप्तम् असि मे प्रियः ।
तत् एताम् शृणु अखेदाय हृद्याम् आख्यामि ते कथाम् ॥३॥

अङ्गदेशे यशःकेतुः इति राजा अभवत् पुरा ।
क्ष्माम् आश्रितः अङ्गगुप्ति- अर्थम् अदग्धः अन्यः इव स्मरः ॥४॥

बाहुवीर्यजिताशेषवैरिवर्गस्य तस्य च ।
दीर्घदर्शी इति अभूत् मन्त्री शक्रस्य इव बृहस्पतिः ॥५॥

तस्मिन् मन्त्रिणि विन्यस्य राज्यम् सः हतकण्टकम् ।
शनैः सुखएकसक्तः अभूत् वयःरूपमदात् नृपः ॥६॥

तस्थौ अन्तःपुरे शश्वत् न आस्थाने प्रमदा- आस्पदे ।
शुश्राव रक्तिमत् गीतम् वचनम् न हितएषिणाम् ॥७॥

रज्यति स्म च निःचिन्तः जालवातायनेषु सः ।
न पुनः राजकार्येषु बहुछिद्रेषु जातु अपि ॥८॥

दीर्घदर्शी तु तत् राज्यचिन्ताभारम् समुद्वहन् ।
अतिष्ठत् सः महामन्त्री दिवानिशम् अतन्द्रितः ॥९॥

नाममात्रे कृतधृतिम् प्रक्षिप्य व्यसने नृपम् ।
मन्त्री राज्ञः श्रियम् भुण्क्ते दीर्घदर्शी इह साम्प्रतम् ॥१०॥

इति उत्पन्ने महति अत्र जनवादे अथ गेहिनीम् ।
स्वैरम् मेधाविनीम् नाम दीर्घदर्शी जगाद सः ॥११॥

प्रिये राज्ञि सुख- आसक्ते तत्भारम् वहतः अपि मे ।
राज्यम् भक्षितम् एतेन इति उत्पन्नम् अयशः जने ॥१२॥

लोकवादः च मिथ्या अपि महताम् इह दोषकृत् ।
तत्याज किम् न रामः अपि जनवादेन जानकीम् ॥१३॥

तत् अत्र किम् मया कार्यम् इति उक्ते तेन मन्त्रिणा ।
भार्या मेधाविनी धीरा सा अन्वर्था तम् अभाषत ॥१४॥

तीर्थयात्रा- अपदेशेन युक्त्या आपृच्छ्य महीपतिम् ।
कम्चित् कालम् विदेशम् ते गन्तुम् युक्तम् महामते ॥१५॥

एवम् ते निःस्पृहस्य एष जनवादः निवर्त्स्यति ।
त्वयि अस्थिते ततः राज्यम् उद्वक्ष्यति नृपः स्वयम् ॥१६॥

ततः च अस्य शनैः एतत् व्यसनम् हानिमेष्यति ।
आगतस्य अत्र निःगर्हा भवित्री मन्त्रिता च ते ॥१७॥

इति उक्तः भार्यया गत्वा दीर्घदर्शी तथा इति सः ।
कथाप्रसङ्गे तम् भूपम् यशःकेतुम् व्यजिज्ञपत् ॥१८॥

अनुजानीहि माम् राजन् दिवसान् कान्चित् अपि अहम् ।
व्रजामि तीर्थयात्रायै धर्मः हि प्रेप्सितः सः मे ॥१९॥

तत् श्रुत्वा सः अब्रवीत् राजा मा एवम् तीर्थैः विना परः ।
दान- आदिः किम् न धर्मः अस्ति स्वर्ग्यः ते स्वगृहेषु अपि ॥२०॥

अथ अवोचत् सः मन्त्री तम् अर्थशुद्धि- आदि मृग्यते ।
दान- आदौ नित्यशुद्धानि तीर्थानि नृपते पुनः ॥२१॥

यावत् च यौवनम् राजन् तावत् गम्यानि धीमता ।
अविश्वास्ये शरीरे हि संगमः तैः कुतः अन्यदा ॥२२॥

इति तस्मिन् वदति एव राज्ञि च एवम् निषेधति ।
प्रविश्य अत्र प्रतीहारः राजानम् तम् व्यजिज्ञपत् ॥२३॥

देव व्योमसरःमध्यम् अंशुमाली विगाहते ।
तत् उत्तिष्ठत सा एषा वः स्नानवेला अतिवर्तते ॥२४॥

श्रुत्वा एतत् सहसा स्नातुम् उदतिष्ठत् महीपतिः ।
यात्रा उन्मुखः सः मन्त्री च तम् प्रणम्य गृहम् ययौ ॥२५॥

तत्र अवस्थाप्य भार्याम् ताम् अनुयात्रानिवारिताम् ।
सः प्रतस्थे ततः युक्त्या स्वभृत्यैः अपि अतर्कितः ॥२६॥

एकाकी च भ्रमन् तान् तान् देशान् तीर्थानि च व्रजन् ।
सः प्राप पुण्ड्रविषयम् दीर्घदर्शी सुनिःचयः ॥२७॥

तत्र पत्तने एकस्मिन् अदूरे अप्धेः प्रविश्य सः ।
एकम् देवकुलम् शैवम् तत्प्राङ्गणे उपाविशत् ॥२८॥

तत्र अर्ककरसंतापक्लान्तम् दूराध्वधूसरम् ।
ददर्श निधिदत्त- आख्यः वणिक् देवार्चन- आगतः ॥२९॥

सः तम् तथाविधम् दृष्ट्वा सौपवीतम् सुलक्षणम् ।
संभाव्य च उत्तमम् विप्रम् आतिथेयः अनयत् गृहम् ॥३०॥

तत्र च अपूजयत् स्नानभोजन- आद्यैः तम् उत्तमैः ।
कः कुतः त्वम् क्व यासि इति विश्रान्तम् च सः पृष्टवान् ॥३१॥

दीर्घदर्शी इति विप्रः अहम् अङ्गदेशात् इह आगतः ।
तीर्थयात्रा- अर्थम् इति एव गाम्भीर्यात् सः अपि उवाच तम् ॥३२॥

ततः सः निधिदत्तः अपि तम् जगाद महावणिक् ।
सुवर्णद्वीपगमनाय उद्यतः अहम् वणिज्यया ॥३३॥

तत् त्वम् तिष्ठ इह मत्गेहे यावत् एष्यामि अहम् ततः ।
तीर्थयात्रापरिश्रान्तः विश्रान्तः हि अथ यास्यसि ॥३४॥

तत् श्रुत्वा सः अब्रवीत् दीर्घदर्शी तर्हि मम इह किम् ।
त्वया एव सह यास्यामि सार्थवाह यथासुखम् ॥३५॥

एवम् अस्तु इति तेन उक्ते साधुना सः अथ तत्गृहे ।
चिरात् अवाप्तशयनः निशाम् मन्त्री निनाय ताम् ॥३६॥

अन्येद्युः अथ तेन एव वणिजा सह वारिधिम् ।
गत्वा आरुरोह तत्भाण्डपूर्णम् प्रवहणम् च सः ॥३७॥

तेन गच्छन् प्रवहणेन अप्धिम् अद्भुतभीषणम् ।
विलोकयन् सः संप्राप स्वर्णद्वीपम् क्रमेण तत् ॥३८॥

क्व मन्त्रिमुख्यता च अस्य क्व वा अध्वौल्लङ्घिताम्बुधिः ।
अयशःभीरवः किम् न कुर्वते बत साधवः ॥३९॥

तत्र द्वीपे समम् तेन कम्चित् कालम् उवास सः ।
वणिजा निधिदत्तेन कुर्वता क्रयविक्रयौ ॥४०॥

आगच्छन् च ततः अकस्मात् तत्युक्तः वहनस्थितः ।
कल्पवृक्षम् ददर्श अप्धौ ऊर्मेः पश्चात् समुत्थितम् ॥४१॥

प्रवालशाखासुभगैः स्कन्धैः जाम्बूनदौज्ज्वलैः ।
फलैः मणिमयैः कान्तैः कुसुमैः च उपशोभितम् ॥४२॥

तस्य स्कन्धे च सद्रत्नपर्यङ्कौत्सङ्गवर्तिनीम् ।
कन्याम् अत्यद्भुत- आकारकमनीयाम् अवैक्षत ॥४३॥

अहो किम् एतत् इति एवम् यावत् ध्यायति सः क्षणम् ।
तावत् सा वीणिनी कन्या गातुम् एवम् प्रचक्रमे ॥४४॥

यत् कर्मबीजम् उप्तम् येन पुरा निःचितम् सः तत् भुङ्क्ते ।
पूर्वकृतस्य हि शक्यः विधिना अपि न कर्तुम् अन्यथाभावः ॥४५॥

इति उद्गाय क्षणात् तस्मिन् अम्भःधौ दिव्यकन्यका ।
सकल्पद्रुमपर्यङ्कशय्या अत्र एव ममज्ज सा ॥४६॥

किमपि अपूर्वम् अद्य इदम् मया दृष्टम् इह अद्भुतम् ।
क्व अप्धिः क्व दृष्टनष्टः अत्र गायत्दिव्याङ्गनः तरुः ॥४७॥

यदि वा वन्द्यः एषः अप्धिः आकरः शश्वत् ईदृशाम् ।
लक्ष्मी- इन्दुपारिजात- आद्याः न अस्मात् ते ते किम् उद्गताः ॥४८॥

इति तम् चिन्तयन्तम् च तत्क्षणम् दीर्घदर्शिनम् ।
विलोक्य विस्मय- आविष्टम् कर्णधार- आदयः अब्रुवन् ॥४९॥

एवम् एषा सदा एव इह दृश्यते वरकन्यका ।
निमज्जति च तत्कालम् तव एतत् दर्शनम् नवम् ॥५०॥

इति उक्तः तैः समम् तेन निधिदत्तेन सः क्रमात् ।
मन्त्री चित्रीयमाणः अप्धेः तीरम् पोतगतः अभ्यगात् ॥५१॥

तत्र उत्तारितभाण्डेन तेन एव वणिजा सह ।
जगाम हृष्टभृत्येन सौत्सवम् सः अथ तत्गृहम् ॥५२॥

स्थित्वा न अतिचिरम् तत्र निधिदत्तम् उवाच तम् ।
सार्थवाह भवत्गेहे विश्रान्तः अहम् चिरम् सुखम् ॥५३॥

इदानीम् गन्तुम् इच्छामि स्वदेशम् भद्रम् अस्तु ते ।
इति उक्त्वा तम् अनिच्छन्तम् अपि आमन्त्र्य वणिक्पतिम् ॥५४॥

दीर्घदर्शी सः सत्त्वएकसहायः प्रस्थितः ततः ।
क्रमौल्लङ्घितदूराध्वा प्राप अङ्गविषयम् निजम् ॥५५॥

तत्र तम् ददृशुः चाराः बहिः नगरम् आगतम् ।
ये यशःकेतुना राज्ञा प्राङ्न्यस्ताः तत्गवेषणे ॥५६॥

तैः च गत्वा सः विज्ञप्तः चारैः राजा तम् अभ्यगात् ।
स्वयम् निःगत्य नगरात् तत्विश्लेषसुदुःखितः ॥५७॥

उपेत्य च परिष्वङ्गपूर्वम् तम् अभिनन्द्य सः ।
निनाय अभ्यन्तरम् भूपः चिराध्वक्षामधूसरम् ॥५८॥

त्यक्त्वा अस्मान् किम् त्वया नीतम् न परम् बत मानसम् ।
यावत् शरीरम् अपि एतत् निःस्नेहपरुषाम् दशाम् ॥५९॥

किम् वा भगवतः वेत्ति भवितव्यस्य कः गतिम् ।
यद् अकस्मात् तव एषा अभूत् तीर्थ- आदिगमने मतिः ॥६०॥

तत् ब्रूहि के त्वया भ्रान्ता देशाः दृष्टम् च किम् नवम् ।
इति तत्र च तम् राजा सः जगाद स्वमन्त्रिणम् ॥६१॥

ततः सुवर्णद्वीपान्तम् सः अध्वानम् वर्णयन् क्रमात् ।
अप्धौ उद्गमिनीम् तस्मै ताम् दृष्टाम् दिव्यकन्यकाम् ॥६२॥

गायन्तीम् त्रिजगत्सारभूताम् कल्पतरुस्थिताम् ।
यथावत् कथयामास दीर्घदर्शी महीभृते ॥६३॥

सः ताम् श्रुत्वा एव च नृपः तथा स्मरवशः अभवत् ।
यथा तया विना मेने निष्फले राज्यजीविते ॥६४॥

जगाद च तम् एकान्ते नीत्वा स्वसचिवम् तदा ।
द्रष्टव्या असौ मया अवश्यम् जीवितम् न अस्ति मे अन्यथा ॥६५॥

यामि त्वतुक्तेन पथा प्रणम्य भवितव्यताम् ।
निवारणीयः न अहम् ते न अनुगम्यः च सर्व्था ॥६६॥

गुप्तम् एकः हि यास्यामि राज्यम् रक्ष्यम् तु मे त्वया ।
मत्वचः मा अन्यथा कार्षीः शापितः असि मम असुभिः ॥६७॥

इति उक्त्वा तत्प्रतिवचः निरस्य विससर्ज तम् ।
मन्त्रिणम् स्वगृहम् राजा चिरौत्कम् स्वजनम् प्रति ॥६८॥

तत्र अनल्पौत्सवे अपि आसीत् दीर्घदर्शी सुदुःमनाः ।
स्वामिनि असाध्यव्यसने सुखम् सत्मन्त्रिणाम् कुतः ॥६९॥

अन्येद्युः च सः तथस्तन्यस्तराज्यभरः नृपः ।
यशःकेतुः ततः प्रायात् निशि तापसवेषभृत् ॥७०॥

गच्छन् च कुशनाभ- आख्यम् मुनिम् मार्गे ददर्श सः ।
सः अत्र तम् तापस- आकल्पम् प्रणतम् मुनिः आदिशत् ॥७१॥

लक्ष्मीदत्तेन वणिजा सह पोतेन वारिधौ ।
गत्वा प्रप्स्यसि ताम् इष्टाम् कन्याम् व्रज निःआकुलः ॥७२॥

इति तत्वचसा प्रीताः तम् प्रणम्य सः पार्थिवः ।
गच्छन् देशान् नदीः अद्रीन् क्रान्त्वा तम् प्रापत् अम्बुधिम् ॥७३॥

सुतारशङ्खधवलैः वीचिभ्रूभिः विकस्वरैः ।
वीक्षमाणम् इव आवर्तनेत्रैः आतिथ्यसंभ्रमात् ॥७४॥

तत्तीरे वणिजा तेन मुनिप्रोक्तेन संगतिः ।
लक्ष्मीदत्तेन जज्ञे अस्य स्वर्णद्वीपम् यियासुना ॥७५॥

तेन एव सह चक्राङ्कपादमुद्रा- आदि दर्शनात् ।
प्रह्वेण आरुह्य वहनम् प्रतस्थे सः अम्बुधौ नृपः ॥७६॥

मध्यम् अप्धेः च संप्राप्ते वहने वारिमध्यतः ।
उदगात् कल्पविटपिस्कन्धस्था सा अत्र कन्यका ॥७७॥

यावत् पश्यति ताम् राजा चकोरः इव चन्द्रिकाम् ।
तावत् सा गायति स्म एवम् वल्लकीवाद्यसुन्दरम् ॥७८॥

यत् कर्मबीजम् उप्तम् येन पुरा निःचितम् सः तत् भुङ्क्ते ।
पूर्वकृतस्य हि शक्यः विधिना अपि न कर्तुम् अन्यथाभावः ॥७९॥

तस्मात् यत्र यथा यद् भवितव्यम् यस्य दैवयोगेन ।
तत्र तथा तत्प्राप्त्यै विवशः असौ नीयते अत्र न भ्रान्तिः ॥८०॥

इति सूचितभव्यार्थाम् गायन्तीम् ताम् विभावयन् ।
निःस्पन्दः सः क्षणम् तस्थौ राजा स्मरशर- आहतः ॥८१॥

रत्न- आकर नमः सत्यम् अगाधहृदयाय ते ।
येन त्वया एताम् प्रच्छाद्य विप्रलब्धः हरिः श्रिया ॥८२॥

तत् सुरैः अपि अलभ्यान्तम् सपक्षक्ष्माभृताश्रयम् ।
शरणम् त्वाम् प्रपन्नः अहम् इष्टसिद्धिम् विधत्स्व मे ॥८३॥

एवम् यावत् समुद्रम् तम् सः नतः स्तौति भूमिपः ।
तावत् सा कन्यका तत्र निममज्ज सपादपा ॥८४॥

तत् दृष्ट्वा एव अनुमार्गे अस्याः सः राजा आत्मानम् अक्षिपत् ।
वारिधौ अत्र कामाग्निसंतापस्य इव शान्तये ॥८५॥

तत् वीक्ष्य अशङ्कितम् मत्वा विनष्टम् तम् सः सत्जनः ।
लक्ष्मीदत्तः वणिक् दुःखात् देहत्यागौद्यतः अभवत् ॥८६॥

मा कार्षीः साहसम् न अस्ति मग्नस्य अस्य अम्भुधौ भयम् ।
एषः राजा यशःकेतुः नाम्ना तापसवेषभृत् ॥८७॥

एतत् कन्या- अर्थम् आयातः पूर्वभार्या इयम् अस्य च ।
एताम् प्राप्य पुनः च असौ अङ्गराज्यम् समेष्यति ॥८८॥

इति अथ आश्वासितः वाचा तत्कालम् गगनौत्थया ।
सार्थवाहः यथाकामम् सः जगाम इष्टसिद्धये ॥८९॥

सः राजा अपि यशःकेतुः निमग्नः अन्तः महा- उदधौ ।
अकस्मात् नगरम् दिव्यम् अपश्यत् जातविस्मयः ॥९०॥

भास्वत्मणिमयस्तम्भैः काञ्चनौज्ज्वलभित्तिभिः ।
विराजमानम् प्रासादैः मुक्ताजालगवाक्षकैः ॥९१॥

नानारत्नशिलापट्टबद्धसोपानवापिकैः ।
कामदैः कल्पवृक्ष- आढ्यैः उद्यानैः उपशोभितम् ॥९२॥

समृद्धे अपि पुरे तत्र निःजने अथ गृहम् गृहम् ।
अनुप्रविश्य न यदा ताम् ददर्श प्रियाम् क्वचित् ॥९३॥

तदा विचिन्वन् दृष्ट्वा एकम् उत्तुङ्गम् मणिमन्दिरम् ।
आरुह्य द्वारम् उद्घाट्य प्रविवेश सः भूपतिः ॥९४॥

प्रविश्य च अन्तः सत्रत्नपर्यङ्कस्थितम् एककम् ।
वस्त्र- आच्छादितसर्वाङ्गम् शयानम् कम्चित् ऐक्षत ॥९५॥

किम् स्यात् सा एव इति सौत्कण्ठम् उद्घाटयति तत्मुखम् ।
यावत् तावत् अपश्यत् ताम् स्व- ईप्सिताम् एव सः अङ्गनाम् ॥९६॥

स्रस्तनीलांशुकध्वान्तहसत्मुखशशिश्रियम् ।
ज्योत्स्ना- अवदाताम् पातालगताम् इव दिवा निशाम् ॥९७॥

तत्दर्शनेन च अस्य अभूत् अवस्था का- अपि सा तदा ।
ग्रीष्मऋतौ मरुपान्थस्य सरित्संदर्शनेन या ॥९८॥

सा अपि उन्मीलितचक्षुः तम् कल्याण- आकृतिलक्षणम् ।
वीक्ष्य अकस्मात् तथाप्राप्तम् संभ्रमात् शयनम् जहौ ॥९९॥

कृत- आतिथ्या नतमुखी पूजयन्ती इव पादयोः ।
फुल्ल- ईक्षणौत्पलन्यासैः शनैः एतम् उवाच च ॥१००॥

कः भवान् किम् अगम्यम् च प्रविष्ठः असि रसातलम् ।
राजचिह्नाङ्किततनोः किम् च ते तापसव्रतम् ॥१०१॥

इति आदिश महाभाग प्रसादः यदि ते मयि ।
एवम् तस्याः वचः श्रुत्वा सः राजा प्रत्युवाच ताम् ॥१०२॥

अङ्गराजः यशःकेतुः इति नाम्ना अस्मि सुन्दरि ।
आप्तात् अन्वहदृश्याम् च त्वाम् अश्रौषम् इह अम्बुधौ ॥१०३॥

ततः त्वतर्थम् कृत्वा इमम् वेषम् राज्यम् विमुच्य च ।
आगत्य एष प्रविष्टः अहम् अनुमार्गेण ते अम्बुधिम् ॥१०४॥

तत् मे कथय का असि त्वम् इति उक्ते तेन च अथ सा ।
सलज्जा सानुरागा च स- आनन्दा च एवम् अभ्यधात् ॥१०५॥

मृगाङ्कसेनः इति अस्ति श्रीमान् विद्याधराधिपः ।
माम् मृगाङ्कवतीम् नाम्ना विद्धि तस्य सुताम् इमाम् ॥१०६॥

सः माम् अस्मिन् स्वनगरे विमुच्य एकाकिनीम् पिता ।
न जाने हेतुना केन गतः क्व अपि सपौरकः ॥१०७॥

तेन अहम् शून्यवसतेः निर्विण्णा उन्मज्ज्य वारिधेः ।
यन्त्रकल्पद्रुम- आरूढा गायामि भवितव्यताम् ॥१०८॥

एवम् उक्तवती तेन स्मरता तत् मुनेः वचः ।
तथा अरज्यत सा राज्ञा वचोभिः प्रेमपेशलैः ॥१०९॥

यथा अनुरागविवशा भार्यात्वम् तस्य तत्क्षणम् ।
अङ्गीचकार वीरस्य समयम् तु एकम् अभ्यधात् ॥११०॥

शुक्लकृष्णचतुर्दश्याम् अष्टम्याम् च आर्यपुत्र ते ।
प्रतिमासम् अनायत्ता चतुरः दिवसान् अहम् ॥१११॥

यत्र क्वापि दिनेषु एषु गच्छन्ती च अस्मि न त्वया ।
प्रष्टव्या न निषेद्धव्या कारणम् हि अत्र विद्यते ॥११२॥

एवम् ताम् उक्तसमयाम् सः राजा दिव्यकन्यकाम् ।
तथा इति उक्त्वा एव गान्धर्वविधिना परिणीतवान् ॥११३॥

भेजे ततः च संभोगसुखम् तत्र तया सह ।
यथा अभूत् अन्यः एव अस्याः मान्मथः मण्डनक्रमः ॥११४॥

केशेषु स्रस्तमाल्येषु कचग्रहनख- आवली ।
बिम्बाधरे अथ निष्पीतनीरागे दशनक्षतिः ॥११५॥

कुचयोः करजश्रेणिः भिन्नमाणिक्यमालयोः ।
लुप्ताङ्गरागेषु अङ्गेषु गाढ- आलिङ्गनरागिता ॥११६॥

इति तत्दिव्यसंभोगसुखावस्थितम् अत्र तम् ।
सा मृगाङ्कवती भार्या भूपम् प्राह इदम् एकदा ॥११७॥

त्वम् इह एव प्रतीक्षेथाः कार्यार्थम् क्वापि यामि अहम् ।
अद्य सा एषा हि संप्राप्ता मम कृष्णचतुर्दशी ॥११८॥

इह स्थः तु आर्यपुत्र अमुम् मा स्म गाः स्फाटिकम् गृहम् ।
मा अत्र वाप्याम् निपतितः भूलोकम् त्वम् गमिष्यसि ॥११९॥

इति उक्त्वा सा तम् आमन्त्र्य ययौ तस्मात् पुरात् बहिः ।
राजा अपि प्राप्तखड्गः ताम् छन्नः जिज्ञासुः अन्वगात् ॥१२०॥

तत्र अपश्यत् तमःश्यामम् व्यात्तवक्रबिलम् च सः ।
स- आकारम् इव पातालम् आयान्तम् राक्षसम् नृपः ॥१२१॥

सः राक्षसः निपत्य एव मुक्तघोररवः तदा ।
ताम् मृगाङ्कवतीम् वक्त्रे निक्षिप्य एव निगीर्णवान् ॥१२२॥

तत् दृष्ट्वा एव अतिकोपेन सहसा सः ज्वलन् इव ।
निःमोकमुक्तभुजगश्यामलेन महा- असिना ॥१२३॥

कोष- आकृष्टेन धावित्वा राजसिंहः अभिधावतः ।
चिच्छेद रक्षसः तस्य संदष्टओष्ठपुटम् शिरः ॥१२४॥

रक्षःकबन्धवान्तेन राज्ञः तस्य अस्रवारिणा ।
क्रोधजः अथ शशाम अग्निः न तु कान्तावियोगजः ॥१२५॥

ततः मोहनिशा- अन्धे अस्मिन् विनष्टगतिके नृपे ।
अकस्मात् मेघमलिनस्य अङ्गम् भित्त्वा इव रक्षसः ॥१२६॥

तस्य उद्द्योतितदिक्चक्रा चन्द्रमूर्तिः इव अमला ।
सा मृगाङ्कवती जीवन्ती अक्षताङ्गी विनिर्ययौ ॥१२७॥

ताम् तथा संकटौत्तीर्णाम् दृष्ट्वा कान्ताम् ससंभ्रमम् ।
एहि एहि इति वदन् राजा प्रधाव्य एव आलिलिङ्ग सः ॥१२८॥

प्रिये किम् एतत् स्वप्नः अयम् उत माया इति तेन सा ।
पृष्टा नृपेण संस्मृत्य विद्याधरी एवम् अब्रवीत् ॥१२९॥

शृणु आर्यपुत्र न स्वप्नः न माया इयम् अयम् पुनः ।
विध्याधरैन्द्रात् स्वपितुः शापः अभूत् ईदृशः मम ॥१३०॥

बहुपुत्रः अपि सः हि मे पिता पूर्वम् वसन् इह ।
मया विना अतिवात्सल्यात् न आहरम् अकरोत् सदा ॥१३१॥

अहम् च सर्वदा शर्वपूजा- आसक्ता इह निःजने ।
चतुर्दश्योः अथ अष्टम्योः आगच्छम् पक्षयोः द्वयोः ॥१३२॥

एकदा च चतुर्दश्याम् इह आगत्य रसात् मम ।
चिरम् गौरीम् समर्चन्त्या दैवात् अवसितम् दिनम् ॥१३३॥

तत् अहर्मत्प्रतीक्षः सन् क्षुधितः अपि सः मत्पिता ।
न अभुङ्क्त न अपिबत् किम्चित् आसीत् क्रुद्धः तु माम् प्रति ॥१३४॥

ततः रात्रौ उपेताम् माम् सापराधाम् अधःमुखीम् ।
भवितव्यबलग्रस्तमत्स्नेहः शपति स्म सः ॥१३५॥

यथा त्वतवलेपेन ग्रस्तः अद्य अहम् अयम् क्षुधा ।
मासि मासि तथा अष्टम्योः चतुर्दश्योः च केवलम् ॥१३६॥

हरार्चनरसात् यन्तीम् अत्र एव त्वाम् बहिः पुरे ।
नाम्ना कृतान्तसंत्रासः राक्षसः निगरिष्यति ॥१३७॥

भित्त्वा भित्त्वा अस्य हृदयम् जीवन्ती च निरेष्यसि ।
न स्मरिष्यसि शापम् च न ताम् निगरणव्यथाम् ॥१३८॥

स्थास्यसि एकाकिनी च अत्र इति उक्तशापवचाः शनैः ।
सः अनुनीतः मया ध्यात्वा शापान्तम् मे अब्रवीत् पिता ॥१३९॥

भर्ता भूत्वा यशःकेतुनाम अङ्गनृपतिः यदा ।
राक्षसेन निगीर्णाम् त्वाम् दृष्ट्वा तम् निहनिष्यति ॥१४०॥

तदा त्वम् मोक्ष्यसे शापात् हृदयात् तस्य निःगता ।
संस्मरिष्यसि शाप- आदि विद्याः सर्वाः तथा निजाः ॥१४१॥

इति आदिश्य सः शापान्तम् त्यक्त्वा माम् एककाम् इह ।
निषधाद्रिम् गतः तातः भूलोकम् सपरिच्छदः ॥१४२॥

अहम् तथा चरन्ती च शापमोहात् इह अवसम् ।
क्षीणः च एष सः शापः मे जाता सर्वत्र च स्मृतिः ॥१४३॥

तत् तातपार्श्वम् अधुना निषधाद्रिम् व्रजामि अहम् ।
शापान्ते स्वाम् गतिम् याम इति एष समयः हि नः ॥१४४॥

त्वम् इह आस्स्व स्वराष्ट्रम् वा व्रज स्वातन्त्र्यम् अत्र ते ।
एवम् तया उक्ते सः नृपः दुःखितः अर्थयते स्म ताम् ॥१४५॥

सप्ताहानि न गन्तव्यम् प्रसीद सुमुखि त्वया ।
क्षिपाव तावत् औत्सुक्यम् उद्याने क्रीडनैः इह ॥१४६॥

त्वम् गच्छ अथ पितुः स्थानम् यास्यामि अहम् अपि स्वकम् ।
एतत् तत्वचनम् मुग्धा तथा इति अङ्गीचकार सा ॥१४७॥

ततः अत्र रेमे सः तया सह उद्यानेषु कान्तया ।
सजलौत्पलनेत्रासु वापीषु षडहम् नृपः ॥१४८॥

मा स्म यातम् विहाय अस्मान् इति पूत् कुर्वतीषु इव ।
उत्क्षिप्तवीचिहस्तासु हंससारसनिःस्वनैः ॥१४९॥

सप्तमे अह्नि सः युक्त्या ताम् प्रियाम् तत्र आनयत् गृहे ।
भूलोकप्रापिणी यत्र सा यन्त्रद्वारवापिका ॥१५०॥

तत्र कण्ठे गृहीत्वा ताम् तस्याम् वाप्याम् निपत्य सः ।
उत्तस्थौ स्वपुरौद्यानवापीमध्यात् तया सह ॥१५१॥

तत्र कान्तासखम् प्राप्तम् तम् दृष्ट्वा उद्यानपालकाः ।
हृष्टाः तत् मन्त्रिणे गत्वा जगदुः दीर्घदर्शिने ॥१५२॥

सः अपि एत्य पादपतितः तम् आनीत- ईप्सिताङ्गनम् ।
दृष्ट्वा प्रावेशयत् मन्त्री सपौरः अभ्यन्तरम् नृपम् ॥१५३॥

अहो सा एषा कथम् प्राप्ता राज्ञा दिव्याङ्गना अमुना ।
व्योम्नि इव विद्युत् इव या क्षणदृश्या मया ईक्षिता ॥१५४॥

यत् यस्य लिखितम् धात्रा ललाटाक्षरपङ्क्तिषु ।
तत् अवश्यम् असंभाव्यम् अपि तस्य उपतिष्ठते ॥१५५॥

इति अत्र मन्त्रिमुख्ये अस्मिन् ध्यायति अन्यजने अपि च ।
दिव्यस्त्रीप्राप्तिसाश्चर्यम् राजागमनसौत्सवे ॥१५६॥

सा मृगाङ्कवती दृष्ट्वा तम् स्वदेशगतम् नृपम् ।
इयेष पूर्णसप्ताहा यातुम् वैद्याधरीम् गतिम् ॥१५७॥

न आविरासीत् च विद्या अस्याः स्मृता अपि उत्पतनी तदा ।
ततः सा मुषिता इव अत्र विषादम् अगमत् परम् ॥१५८॥

किम् अकस्मात् विषण्णा इव दृश्यसे वद मे प्रिये ।
इति उक्ता तेन राज्ञा सा विध्यादरी एवम् अब्रवीत् ॥१५९॥

स्थिता अहम् शापमुक्ता अपि त्वत्स्नेहात् यत् इयत् चिरम् ।
तेन विद्या मम भ्रष्टा नष्टा दिव्या च सा गतिः ॥१६०॥

तत् श्रुत्वा हन्त सिद्धा इयम् मम विद्याधरी इति सः ।
राजा ततः यशःकेतुः पूर्णम् चक्रे महा- उत्सवम् ॥१६१॥

तत् दृष्ट्वा दीर्घदर्शी सः मन्त्री गत्वा गृहम् निशि ।
शयनीयगतः अकस्मात् हृत्स्फोटेन व्यपद्यत ॥१६२॥

ततः अनुभूय तत्शोकम् धृतराज्यभरः स्वयम् ।
यशःकेतुः चिरम् तस्थौ सः मृगाङ्कवतीयुतः ॥१६३॥

इति एताम् कथयित्वा मार्गे तस्मै कथाम् सः वेतालः ।
अवदत् पुनः त्रिविक्रमसेनम् नृपतिम् तम् अंसगतः ॥१६४॥

तत् ब्रूहि भूपते ते संपन्ने स्वामिनः तथा अभ्युदये ।
हृदयम् सपदि स्फुटितम् तस्य महामन्त्रिणः किम् इति ॥१६५॥

दिव्यस्त्री न मया किम् प्राप्ता इति शुचा अस्फुटत् हृदयम् ।
किम् वा राज्यम् अभीप्सोः राज- आगमजेन दुःखेन ॥१६६॥

एतत् च यदि न वक्ष्यसि मह्यम् जानन् अपि इह तत् राजन् ।
धर्मः च तव विनङ्क्ष्यति यास्यति दलशः च झटिति शिरः ॥१६७॥

श्रुत्वा इति तु त्रिविक्रमसेनः राजा जगाद वेतालम् ।
न एतत् तस्मिन् द्वयम् अपि शुभचरिते युज्यते हि मन्त्रिवरे ॥१६८॥

किम् तु स्त्रीमात्ररसात् उपेक्षितम् येन भूभुजा राज्यम् ।
तस्य अधुना तु दिव्यस्त्रीरक्तस्य अत्र का वार्ता ॥१६९॥

तत् मे कष्टे अपि कृते प्रत्युत दोषः बत अधिकीभूतः ।
इति तस्य विभावयतः हृदयम् तत्मन्त्रिणः स्फुटितम् ॥१७०॥

इति उक्ते नरपतिना पुनः सः मायी वेतालः निजपदम् एव तत् जगाम ।
राजा अपि प्रसभम् अवाप्तुम् अन्वधावत् भूयः अपि द्रुतम् अथ तम् सः धीरचेताः ॥१७१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:43.6300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

triatomic molecule

  • त्रिअणु रेणु 
RANDOM WORD

Did you know?

Wife disgracing, defaming her husband, what is the solution ?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.