TransLiteral Foundation

वेतालपञ्चविंशति - कथा १०

`बेताल पचीसी'  पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं ।


कथा १०
सः त्रिविक्रमसेनः अथ गत्वा तम् शिंशपातरोः ।
राजा जग्राह वेतालम् पुनः अंसे चचाल च ॥१॥

प्रयान्तम् च तम् आह स्म वेतालः सः अंसपृष्ठगः ।
श्रान्तः असि राजन् तत् इमाम् शृणु श्रमहराम् कथाम् ॥२॥

अभूत् सकलभूपालमस्तकन्यस्तशासनः ।
वीरबाहुः इति ख्यातः नाम्ना पार्थिवसत्तमः ॥३॥

तस्य अनङ्गपुरम् नाम बभूव नगरौत्तमम् ।
तत्र आसीत् अर्थदत्त- आख्यः सार्थवाहः महाधनः ॥४॥

तस्य आसीत् धनदत्त- आख्यज्येष्ठपुत्रकनीयसी ।
सुता मदनसेना इति कन्यारत्नम् वणिक्पतेः ॥५॥

ताम् एकदा निजौद्याने क्रीडन्तीम् ससखीजनाम् ।
ददर्श धर्मदत्त- आख्यः भ्रातृमित्रम् वणिक्सुतः ॥६॥

सः ताम् आलोक्य लावण्यरसनिःभरनिःझराम् ।
आलक्ष्य कुचकुम्भाग्राम् वलित्रयतरङ्गिताम् ॥७॥

यौवनद्विरदस्य इव क्रीडामज्जनवापिकाम् ।
सद्यः अभूत् स्मरबाणओघसंतापहृतचेतनः ॥८॥

अहो धारा- अधिरूढेन रूपेण द्योतिता अमुना ।
इयम् मे मानसम् भेत्तुम् भल्ली मारेण निर्मिता ॥९॥

इति आदि यावत् ध्यायन् सः निर्वर्णयति ताम् चिरम् ।
तावत् तस्य अतिचक्राम चक्राह्वस्य इव वासरः ॥१०॥

ततः मदनसेना सा विवेश स्वगृहान्तरम् ।
चित्तम् च धर्मदत्तस्य ततनालोकनव्यथा ॥११॥

ततदर्शनदुःखाग्निसंतापेन इव च ज्वलन् ।
लोहितः निपपात आशु भास्वान् अपि अपराम्बुधौ ॥१२॥

ताम् विज्ञाय एव सुमुखीम् नक्तम् अभ्यन्तरे गताम् ।
उदियाय शनैः चन्द्रः तत्मुखाब्जविनिर्जितः ॥१३॥

तावत् गत्वा गृहम् ताम् सः धर्मदत्तः अनुचिन्तयन् ।
तस्थौ निपत्य शयने चन्द्रपाद- आहतः लुठन् ॥१४॥

यत्नेन पृच्छ्यमानः अपि सखिभिः बन्धुभिः तथा ।
न किम्चित् कथयामास स्मरग्रहविमोहितः ॥१५॥

निशि कृच्छ्रात् च संप्राप्तनिद्रः स्वप्ने तथा एव ताम् ।
पश्यन् अनुनयन् कान्ताम् किम् किम् चक्रे न सोत्सुकः ॥१६॥

प्रातः प्रबुद्धः गत्वा च ददर्श एकाकिनीम् रहः ।
सखीम् प्रतीक्षमानाम् ताम् तत्र उद्यानस्थिताम् पुनः ॥१७॥

उपेत्य च परिष्वङ्गलालसः प्रेमपेशलैः ।
ताम् उपच्छन्दयामास वचोभिः चरण- आनतः ॥१८॥

कन्या अहम् परदाराः च न तव अस्मि इह संप्रतम् ।
पित्रा समुद्रदत्ताय दत्ता अहम् वणिजे यतः ॥१९॥

दिनैः कतिपयैः एव विवाहः भविता च मे ।
तत् गच्छ तूष्णीम् मा कश्चित् पश्येत् दोषः भवेत् ततः ॥२०॥

इति उक्तः सः तया अति अर्थम् धर्मदत्तः जगाद ताम् ।
यत् अस्तु मे न जीवेयम् विना हि भवतीम् अहम् ॥२१॥

तत् श्रुत्वा सा वाणिक्कन्या बलात्कारभय- आकुला ।
तम् उवाच विवाहः मे तावत् संपद्यताम् इह ॥२२॥

कन्यादानफलम् तातः प्राप्नोतु चिरकाङ्क्षितम् ।
ततः अहम् त्वाम् उपैष्यामि निःचितम् प्रणयार्जिता ॥२३॥

श्रुत्वा एतत् सः अब्रवीत् न इष्टा हि अन्यपूर्वा मम प्रिया ।
परभुक्ते हि कमले किम् अलेः जायते रतिः ॥२४॥

इति उक्ता तेन सा अवादीत् कृतौद्वाहा एव तर्हि अहम् ।
पूर्वम् त्वाम् उपयास्यामि ततः अभ्येष्यामि तम् पतिम् ॥२५॥

एवम् उक्तवतीम् तस्मिन् न उज्झति प्रत्ययम् विना ।
वणिक्पुत्रे सशपथम् सत्यवाचम् बबन्ध सा ॥२६॥

ततः तेन उज्झता विग्ना सा विवेश स्वमन्दिरम् ।
प्राप्ते च लग्नदिवसे निःवृत्तौद्वाहमङ्गला ॥२७॥

गत्वा पतिगृहम् नीत्वा सोत्सवेन च तत्दिनम् ।
सा पत्या समम् अध्यास्त शयनीयगृहम् निशि ॥२८॥

तत्र शय्यानिषण्णा अपि न तस्य प्रत्यपद्यत ।
पत्युः समुद्रदत्तस्य परिष्वङ्गम् असंमुखी ॥२९॥

तेन अनुनीयमाना अपि यत् उदश्रुः बभूव सा ।
तत् सः न अभिमतः अस्मि अस्याः नूनम् इति अकरोत् हृदि ॥३०॥

जगाद च अनभिमतः यदि अहम् तव सुन्दरि ।
तत् मे न अर्थः त्वया गच्छ यः प्रियः तव तम् प्रति ॥३१॥

तत् श्रुत्वा सा नतमुखी शनैः एवम् उवाच तम् ।
त्वम् मे प्राणाधिकः प्रेयान् विज्ञप्तिम् किम् तु मे शृणु ॥३२॥

अनुतिष्ठ सहर्षम् च प्रयच्छ च मम अभयम् ।
कुरुष्व शपथम् यावत् आर्यपुत्र वदामि ते ॥३३॥

एवम् उक्तवती कृच्छ्रात् तथा तेन कृते पुनः ।
सलज्जम् सविषादम् च सभयम् च जगाद सा ॥३४॥

एकाकिनीम् गृहौद्याने दृष्ट्वा माम् एकदा युवा ।
अरुणत् धर्मदत्त- आख्यः सखा भ्रातुः स्मर- आतुरः ॥३५॥

रक्षन्त्या सपरीवादम् कन्यादानफलम् पितुः ।
मया हठप्रवृत्तस्य तस्य वाक्संयमः कृतः ॥३६॥

पूर्वम् कृतविवाहा त्वाम् उपैष्यामि ततः प्रियम् ।
तत् मे सत्यवचः पाल्यम् अनुमन्यस्व तत् प्रभो ॥३७॥

यावत् तत् निकटम् गत्वा क्षणेन उपैमि ते अन्तिकम् ।
न हि शक्नोमि अतिक्रान्तुम् सत्यम् आबाल्य सेवितम् ॥३८॥

इति तस्याः वचःवज्रपातेन सहसा हतः ।
समुद्रदत्तः सत्येन बद्धः क्षणम् अचिन्तयत् ॥३९॥

अहो धिक् अन्यरक्ता इयम् गन्तव्यम् ध्रुवम् एतया ।
तत्सत्यम् हन्मि किम् यातु कः अस्याः परिणयग्रहः ॥४०॥

इति आलोच्य अनुमेने ताम् यथा- इष्टगमनाय सः ।
सा अपि उत्थाय ततः तस्मात् निर्ययौ पतिवेश्मनः ॥४१॥

तावत् अत्र उदयाद्रीन्द्रहर्म्याग्रम् हिमदीधितिः ।
आरुरोह कर- आक्रान्तहसत्पूर्वदिकङ्गनः ॥४२॥

ततः तमःसु अपि आश्लिष्य स्थितेषु अद्रिदरी प्रियाः ।
सेवमानेषु भृङ्गेषु अपि अपरम् कुमुद- आकरम् ॥४३॥

यान्ती मदनसेना सा मार्गे दृष्ट्वा एकका निशि ।
चौरेण आधाव्य केन अपि रुरुधे वसनाञ्चले ॥४४॥

का त्वम् ब्रूहि क्व यासि इति तेन उक्ता बिभ्यती च सा ।
उवाच किम् तव अनेन मुञ्च कार्यम् इह अस्ति मे ॥४५॥

ततः चौरः अब्रवीत् मत्तः चौरात् त्वम् मुच्यसे कथम् ।
तत् श्रुत्वा सा अवदत् तम् च गृहाण आभरणानि मे ॥४६॥

अथ चौरः अभ्यधात् मुग्धे किम् एभिः उपलैः मम ।
चन्द्रकान्त- आननाम् तार्क्ष्यरत्नासितशिरःरुहाम् ॥४७॥

वज्रमध्याम् सुवर्णाङ्गीम् पद्मरागाङ्घ्रिहारिणीम् ।
जगताभरणम् न एव मोक्ष्यामि भवतीम् अहम् ॥४८॥

इति उक्ता तेन चौरेण विवशा सा वणिक्सुता ।
आख्याय निजवृत्तान्तम् एवम् प्रार्थयते स्म तम् ॥४९॥

क्षमस्व मे क्षणम् यावत् कृत्वा सत्यानुपालनम् ।
इहस्थस्य एव ते पार्श्वम् आगमिष्यामि सत्वरम् ॥५०॥

न अहम् उल्लङ्घयिष्यामि भद्र सत्याम् इमाम् गिरम् ।
श्रुत्वा एतत् सत्यसंधाम् ताम् मत्वा चौरः मुमोच सः ॥५१॥

तस्थौ प्रतीक्षमानः च तत्र एव सः ततागमम् ।
सा अपि तस्य अन्तिकम् धर्मदत्तस्य वणिजः ययौ ॥५२॥

सः च अभीष्टाम् अपि प्राप्ताम् तथा ताम् विजने स्थिताम् ।
दृष्ट्वा पृष्ट्वा यथावृत्तम् विचिन्त्य क्षणम् अब्रवीत् ॥५३॥

सत्येन तव तुष्टः अस्मि किम् त्वया मे परस्त्रिया ।
यावत् त्वाम् न ईक्षते कश्चित् तावत् गच्छ यथा- आगतम् ॥५४॥

इति तेन परित्यक्ता सा तथा इति आययौ ततः ।
चौरस्य निकटम् तस्य प्रतिपालयतः पथि ॥५५॥

ब्रूहि कः ते अत्र वृत्तान्तः गतायाः इति पृच्छते ।
तस्मै सा तेन वणिजा यथा मुक्ता तथा अब्रवीत् ॥५६॥

ततः सः चौरः अवादीत् ताम् यदि एवम् तत् मया अपि असि ।
विमुक्ता सत्यतुष्टेन गृहम् साभरणा व्रज ॥५७॥

एवम् तेन अपि सा त्यक्ता रक्षिता च अनुयायिना ।
अलुप्तशीला मुदिता पत्युः एव आययौ गृहम् ॥५८॥

तत्र गुप्तम् प्रविष्टा सा प्रहृष्टा उपागता सती ।
दृष्ट्वा पृष्टवते तस्मै पत्ये सर्वम् अवर्णयत् ॥५९॥

सः अपि अलुप्तमुखछायाम् ताम् असंभोगलक्षणाम् ।
संभाव्य अभग्नचारित्राम् सत्यलाभरताम् सतीम् ॥६०॥

अदृष्टमनसम् भार्याम् अभिनन्द्य कुलौचितम् ।
तस्थौ समुद्रदत्तः अथ तया सह यथासुखम् ॥६१॥

इति तत्र कथाम् उक्त्वा पितृवनभूमौ तदा सः वेतालः ।
वदति स्म तम् त्रिविक्रमसेनम् वसुधा- अधिपम् भूयः ॥६२॥

तत् ब्रूहि चौरवणिजाम् एषाम् मध्यात् नरैन्द्र कः त्यागी ।
जानन् यदि न वदिष्यसि विदलिष्यति ते शिरः शतधा ॥६३॥

तत् श्रुत्वा सः महीपतिः उज्झितमौनः तम् आह वेतालम् ।
एषां चौरः त्यागी न पुनः वणिजौ उभौ अपि तौ ॥६४॥

यः हि पतिः ताम् अजहात् अत्याज्याम् तादृशीम् विवाहि अपि ।
कुलजः सः अन्य- आसक्ताम् भार्याम् जानन् कथम् वहतु ॥६५॥

यः अपि अपरः सः भयात् ताम् अत्याक्षीत् कालजीर्णसंवेगः ।
विदितार्थः भर्ता अस्याः प्रातः ब्रूयात् नृपाय इति ॥६६॥

चौरः तु गुप्तचारी निरपेक्षः पापकर्मकृत् प्राप्तम् ।
स्त्रीरत्नम् यत् अमुञ्चत् साभरणम् तेन सः त्यागी ॥६७॥

एतत् श्रुत्वा एव अंसतः तस्य राज्ञः वेतालः अगात् पूर्ववत् स्वम् पदम् सः ।
राजा भूयः अपि अत्र संप्राप्तुम् एतत् प्रायात् एव अखन्डितौद्दामधैर्यः ॥६८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:43.5200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कीस बाई कीस

  • एक मुलींचा खेळ . - मखे २९३ . 
RANDOM WORD

Did you know?

Why the marriages are prohibited within same Gotra?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site