TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

वेतालपञ्चविंशति - कथा ४

बेताल पचीसी  पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं ।


कथा ४
ततः गत्वा पुनः तस्य निकटम् शिंशपातरोः ।
सः त्रिविक्रमसेनः अत्र श्मशानम् निशि भूपतिः ॥१॥

लब्ध्वा मुक्त- आत्तहासम् तम् वेतालम् नृशरीरगम् ।
निःकम्पः स्कन्धम् आरोप्य तूष्णीम् उदचलत् ततः ॥२॥

चलन्तम् च तम् अंसस्थः वेतालः सः अब्रवीत् पुनः ।
राजन् कुभिक्षोः एतस्य कृते कः अयम् तव श्रमः ॥३॥

आयासे निष्फले अमुष्मिन् विवेकः बत न अस्ति ते ।
तत् इमाम् शृणु मत्तः त्वम् कथाम् पथि विनोदिनीम् ॥४॥

अस्ति शोभावती नाम सत्य- आख्या नगरी भुवि ।
तस्याम् च शूद्रक- आख्यः अभूत् भूपतिः प्राज्यविक्रमः ॥५॥

यस्य जज्वाल जयिनः प्रतापज्वलनः निशम् ।
बन्दीकृतारिललनाधूतचामरमारुतैः ॥६॥

अलुप्तधर्मचरणस्फीता मन्थे वसुंधरा ।
राज्ञि यस्मिन् विसस्मार राम- आदीन् अपि भूपतीन् ॥७॥

तम् कदाचित् महीपालम् प्रियशूरम् उपाययौ ।
सेवा- अर्थम् मालवात् एकः नम्ना वीरवरः द्विजः ॥८॥

यस्य धर्मवती नाम भार्या सत्ववरः सुतः ।
कन्या वीरवती च इति त्रयम् गृहपरिच्छदः ॥९॥

सेवापरिच्छदः च अन्यत् त्रयम् कट्याम् कृपाणिका ।
करे करतला एकत्र चारु चर्म परत्र च ॥१०॥

तावत्मात्रपरीवारः दीनारशतपञ्चकम् ।
प्रति- अहम् प्रार्थयामास राज्ञः तस्मात् सः वृत्तये ॥११॥

राजा अपि सः तम् आकारसूचित उदारपौरुषम् ।
वीक्ष्य तस्मै ददौ वृत्तिम् सूद्रकः ताम् यथा- ईप्सिताम् ॥१२॥

अल्पे परिकरे अपि एभिः इयद्भिः स्वर्णरूपकैः ।
किम् एषः व्यसनम् पुष्णाति अथ कंचन सत्व्ययम् ॥१३॥

इति अन्वेष्टुम् समाचारम् कौतुकात् सः महीपतिः ।
प्रच्छन्नान् स्थापयामास चारानस्य अत्र पृष्ठतः ॥१४॥

सः च वीरवरः प्रातः कृत्वा भूपस्य दर्शनम् ।
स्थित्वा च तस्य आ मध्याह्नम् सिंहद्वारे धृत- आयुधः ॥१५॥

गत्वा स्ववृत्तिलब्धानाम् दीनाराणाम् शतम् गृहे ।
भोजनार्थम् स्वभार्यायाः हस्ते प्रादात् किल अनुअहम् ॥१६॥

वस्त्राङ्गरागताम्बूलम् क्रीणाति स्म शतेन च ।
शतम् स्नात्वा च पूजा- अर्थम् व्यधात् विष्णोः शिवस्य च ॥१७॥

विप्रेभ्यः कृपणेभ्यः च ददौ दानम् शतद्वयम् ।
एवम् विभेजे पञ्च अपि तानि नित्यम् शतानि असौ ॥१८॥

ततः कृत्वा अग्निकार्य- आदि भूक्त्वा गत्वा एककः निशि ।
सिंहद्वारे पुनः तस्थौ पाणौ करतलाम् दधत् ॥१९॥

एताम् सततचर्याम् च तस्य वीरवरस्य सः ।
राजा चारमुखात् श्रुत्वा तुतोष हृदि शुद्रकः ॥२०॥

निवारयामास च तान् चारान् तस्य आनुमार्गगान् ।
मेने विशेषपूजा- अर्हम् पुरुषातिशयम् च तम् ॥२१॥

अथ यातेषु दिवसेषु अवहेलावलङ्घिते ।
ग्रीष्मे वीरवरेण अत्र सुप्रचण्डार्कतेजसि ॥२२॥

तदीर्ष्यातः इव उद्भूतविद्युत्करतलाम् दधत् ।
धाराप्रहारी निनदन् आजगाम घन- आगमः ॥२३॥

तदा च घोर मेघओघे प्रवर्षति दिवानिशम् ।
सिंहद्वारे तथा एव आसीत् सः अत्र वीरवरः अचलः ॥४.१.२४॥

तम् च दृष्ट्वा दिवा राजा प्रासादाग्रात् सः शूद्रकः ।
निशि भूयः तदारोहत् जिज्ञासुः तस्य ताम् स्थितिम् ॥२५॥

जगाद च ततः कः नु सिंहद्वारे स्थितः अत्र भोः ।
तत् श्रुत्वा अहम् स्थितः अत्र इति सः अपि वीरवरः अब्रवीत् ॥२६॥

अहो सुदृढसत्त्वः अयम् भक्तः वीरवरः मयि ।
तद् एषः प्रापणीयः मे अवश्यम् एव महत् पदम् ॥२७॥

इति संचिन्त्य नृपतिः प्रासादात् अवतीर्य सः ।
शूद्रकः शयनम् भेजे प्रविश्य अन्तःपुरम् ततः ॥२८॥

अन्येद्युः च भृशम् मेघे धारा- आसारेण वर्षति ।
प्रदोषे गुप्तभवने काले तमसि जृम्भिते ॥२९॥

पुनः सः राजा जिज्ञासुः प्रासादम् अधिरुह्य तम् ।
सिंहद्वारे स्थितः कः अत्र इति एकाकी प्राह तम् स्फुटम् ॥३०॥

अहम् स्थितः इति प्रोक्ते पुनः वीरवरेण च ।
यावत् विस्मयते सः अत्र राजा तत्धैर्यदर्शनात् ॥३१॥

तावत् विदूरे शुश्राव सहसा रुदतीम् स्त्रियम् ।
विषादविकलाम् एकाम् प्रलापकरुणस्वनम् ॥३२॥

न मे राष्ट्रे पराभूतः न दरिद्रः न दुःखितः ।
कः चित् अस्ति तत् एषा का रोदिति एकाकिनी निशि ॥३३॥

इति च अचिन्तयत् श्रुत्वा सः जातकरुणः नृपः ।
आदिदेश च तम् वीरवरम् एकम् अधः स्थितम् ॥३४॥

भोः वीरवर शृणु एषा दूरे स्त्री का अपि रोदिति ।
का असौ रोदिति किम् च इति त्वया गत्वा निरूप्यताम् ॥३५॥

तत् शृउत्वा सः तथा इति उक्त्वा गन्तुम् वीरवरः ततः ।
प्रावर्तत निबद्धासिधेनुः करतल- आकरः ॥३६॥

न च मेघान्धकारम् तत् ज्वलत्विद्युत्विलोचनम् ।
स्थूलधाराशिलावार्षि रख़्षःरूपम् अजीगणत् ॥३७॥

प्रस्थितम् वीक्ष्य तादृश्याम् तस्याम् रात्रौ तम् एककम् ।
करुणाकौतुक- आविष्टः राजा प्रासादपृष्ठतः ॥३८॥

आवतीर्य गृहीतासिः एकाकी तस्य पृष्ठतः ।
सः अपि प्रतस्थे तत्र एव शुद्रकः अनुपलक्षितः ॥३९॥

सः च वीरवरः गत्वा रुदित अनुसृतिक्रियः ।
बहिःनगर्याः प्राप एकम् सरः तत्र ददर्श च ॥४०॥

हा शूर हा कृपालः हा त्यागिन् शून्या त्वया कथम् ।
वत्सि- आमि इति- आदि रुदतीम् ताम् स्त्रियम् वारिमध्यगाम् ॥४१॥

का त्वम् रोदिषि किम् च एवम् इति अन्वक्प्राप्तभूपतिः ।
पप्रच्छ ताम् च स- आश्चर्यः ततः सा अपि एवम् अभ्यधात् ॥४२॥

भो वीरवर जानीहि वत्स माम् पृथिवीम् इमाम् ।
तस्याः मम अधुना राजा शूद्रकः धार्मिकः पतिः ॥४३॥

तृतीये च दिने तस्य राज्ञः मृत्युः भविष्यति ।
तादृशम् च पतिम् प्राप्स्यामि अहम् अन्यम् नृपम् कुतः ॥४४॥

अतः तम् अनुशोचामि दुःखिता आत्मानम् एव च ।
एतत् शृउत्वा सः ताम् त्रस्तः इव वीरवरः अब्रवीत् ॥४५॥

हे देवि कत् चित् अपि अस्ति कः अपि उपायः सः तादृशः ।
येन अस्य न भवेत्मृत्युः जगत्रक्षामणेः प्रभोः ॥४६॥

इति तत् वचनम् श्रुत्वा सा जगाद वसुम्धरा ।
एकः अस्ति उपायः तम् च एकः कर्तुम् शक्तः भवान् इति ॥४७॥

ततः वीरवरः अवादीत् तर्हि देवि वद द्रुतम् ।
यावत् तत् साधयामि आशु कः अर्थः प्राणैः मम अन्यथा ॥४८॥

तत् श्रुत्वा उवाच वसुधा विरः कः अन्यः त्वया समः ।
स्वामिभक्तः तत् एतस्य शर्मौपायम् इमम् शृणु ॥४९॥

राज्ञा कृतप्रतिष्टाः अस्ति या एषा राजकुलान्तिके ।
उत्तमा चण्डिका देवी सांनिध्यौत्कर्षशालिनी ॥५०॥

तस्यै सत्त्ववरम् पुत्रम् उपहारीकरोषि चेत् ।
तत् न एषः राजा म्रियते जीवति अन्यत् समाशतम् ॥५१॥

अद्य एव च एतत् भवता कृतम् चेत् अस्ति तत् शिवम् ।
अन्यथा अस्य तृतीये अह्नि प्राप्ते न अस्ति एव जीवितम् ॥५२॥

इति उक्तः सः तया पृथ्व्या वीरः वीरवरः तदा ।
यामि देवि करोमि एतत् अधुना एव इति अभाषत ॥५३॥

ततः भद्रम् तव इति उक्त्वा वसुधा सा तिरःदधे ।
तत् च सर्वम् सः शुश्राव गुप्तम् अन्वक्स्थितः नृपः ॥५४॥

ततः च गूढे जिज्ञासौ तस्मिन् राज्ञि अनुगच्छति ।
शूद्रके त्वरितम् गेहम् निशि वीरवरः ययौ ॥५५॥

तत्र पुत्रौपहारः अस्य राजार्थे धरया यथा ।
उक्तः तथा अब्रवीत् पत्न्यै धर्मवत्यै विबोध्य सः ॥५६॥

तत् श्रुत्वा सा तम् आह स्म नाथ कार्यम् शिवम् प्रभोः ।
तत्प्रबोध्य सुतस्य अस्य शिशोः वक्तु भवान् इति ॥५७॥

ततः प्रबोध्य सुप्तम् तम् बालम् सत्त्ववरम् सुतम् ।
आख्याय तम् च वृत्तान्तम् एवम् वीरवरः अब्रवीत् ॥५८॥

तत् पुत्र चण्डिकादेव्यै उपहारीकृते त्वयि ।
राजा जीवति असौ नो चेत् तृतीये अह्नि विपद्यते ॥५९॥

एतत् श्रुत्वा एव बालः अपि यथा अर्थम् नाम दर्शयन् ।
अक्लीबचित्तः पितरम् तम् सः सत्त्ववरः अब्रवीत् ॥६०॥

कृतार्थः अहम् मम प्राणैः राजा चेत् तात जीवति ।
भुक्तस्य हि ततन्नस्य दत्ता स्यात् निष्कृतिः मया ॥६१॥

तत्किम् विलम्ब्यते नीत्वा भगवत्याः पुरः अधुना ।
उपहारीकुरुध्वम् माम् अस्तु शान्तिः मया प्रभोः ॥६२॥

इति सत्त्ववरेण उक्ते तेन वीरवरः अत्र सः ।
साधु सत्यम् प्रसूतः असि मत्तः पुत्र इति अभाषत ॥६३॥

एतत् सः अन्वागतः राजा सर्वम् श्रुत्वा बहिः स्थितः ।
अहो एषाम् समम् सत्त्वम् सर्वेषाम् इति अचिन्तयत् ॥६४॥

ततः वीरवरः स्कन्धे कृत्वा सत्त्ववरम् सुतम् ।
भर्या धर्मवती च अस्य कन्याम् वीरवतीम् अपि ॥६५॥

उभौ तौ ययतुः तस्याम् रात्रौ तत् चण्डिकागृहम् ।
राजा अपि शूद्रकः छन्नः पृष्टतः सः तयोः ययौ ॥६६॥

तत्र देव्याः पुरः स्कन्धात् सः अथ पित्रा अवतारितः ।
देवीम् सत्त्ववरः नत्वा धैर्यराशिः व्यजिज्ञपत् ॥६७॥

मम मूर्धौपहारेण राजा जीवतु शुद्रकः ।
अन्यत् वर्षशतं देवि कुर्यात् राज्यम् अकण्टकम् ॥६८॥

एवम् उक्तवतः तस्य साधु साधु इति उदीर्य सः ।
सूनोः सत्त्ववरस्य अथ कृष्ट्वा करतलाम् शिशोः ॥६९॥

छित्त्वा शिरः चण्डिकायै देव्यै वीरवरः ददौ ।
मत्पुत्रेण उपहारेण राजा जीवतु इति ब्रुवन् ॥७०॥

साधु कः स्वामिभक्तः अन्यः समः वीरवर त्वया ।
येन एवम् एकसत्पुत्रप्राणव्ययविधायिना ॥७१॥

दत्तः जीवः च राज्यम् च शुद्रकस्य अस्य भूपतेः ।
इति अन्तरिक्षात् उदगात् तत्क्षणम् तत्र भारती ॥७२॥

तत् च सर्वम् नृपे तस्मिन् छन्ने शृण्वति पस्यति ।
कन्या वीरवती सा तु बाला वीरवर- आत्मजा ॥७३॥

उपेत्य आश्लिष्य मूर्धाणम् तस्य भ्रातुः हतस्य तम् ।
विलपन्ती उरुशोकान्धा हृत्स्फोटेन व्यपद्यत ॥७४॥

ततः वीरवरम् भार्या धर्मवती एवम् अब्रवीत् ।
राज्ञः तावत् कृतम् श्रेयः तत् इदानीम् वदामि ते ॥७५॥

निःज्ञाना यत्र बाला अपि भ्रातृशोकात् इयम् मृता ।
नष्टे अपत्यद्वये अपि अस्मिन् तत्र किम् जीवितेन मे ॥७६॥

प्राक् एव राज्ञः श्रेयःअर्थम् मूढया स्वशिरः मया ।
देव्यै न उपहृतम् तस्मात् देहि अनुज्ञाम् मम अधुना ॥७७॥

प्रविषमि अनलम् तावत् आत्तापत्यकलेवरा ।
इति- आग्रहाद् वदन्तीम् ताम् सः अथ वीरवरः अब्रवीत् ॥७८॥

एवम् कुरुष्व भद्रम् ते का हि संप्रति ते रतिः ।
अपत्यदुःखएकमये जीवितव्ये मनस्विनि ॥७९॥

किम् न दत्तः मया एव आत्म इति एषा मा भूत् च ते व्यथा ।
दद्याम् किम् न अहम् आत्मानम् अन्यसाध्यम् भवेत् यदि ॥८०॥

तत् प्रतीक्षस्व यावत् ते चिताम् अत्र करोमि अहम् ।
अमीभिः दारुभिः देवीक्षेत्रनिर्माणसंभृतैह् ॥८१॥

इति उक्त्वा दारुभिः तैः सः कृत्वा वीरवरः चिताम् ।
दीपाग्रे ज्वालयामास न्यस्तापत्यशवद्वयाम् ॥८२॥

ततः धर्मवती पत्नी पतित्वा सा अस्य पादयोः ।
प्रणम्य देवीम् चण्डीम् ताम् व्यजिज्ञपत् अपांसुला ॥८३॥

जन्मान्तरे अपि अयम् भूयात् आर्यपुत्रः पतिः मम ।
एतत् प्रभोः तु राज्ञः अस्तु मत्देहेन अमुना शिवम् ॥८४॥

इति उदीर्य एव सा साध्वी तस्मिन् अम्भःअवहेलया ।
ज्वालाकलापजटिले निपपात चिता- अनले ॥८५॥

ततः च चिन्तयामास वीरः वीरवरः अत्र सः ।
निष्पन्नम् राजकार्यम् मे वाक् दिव्या हि उद्गता यथा ॥८६॥

भुक्तस्य च अन्नपिण्डस्य जातः अहम् अनृणः प्रभोः ।
तत् इदानीम् मम एकस्य का इयम् जीवितगृध्नुता ॥८७॥

भरणीयम् प्रियम् कृत्स्नम् व्ययीकृत्य कुटुम्बकम् ।
जीवयन् एकम् आत्मानम् मादृशः कः हि शोभते ॥८८॥

तत् किम् आत्मौपहारेण अपि एताम् प्रीणामि न अम्बिकाम् ।
इति आलोच्य सः देवीम् ताम् स्तुत्या प्राक् उपतस्थिवान् ॥८९॥

जय महिषासुरमारिणि दारिणि रुरुदानवस्य शूलकरे ।
जय विबुधौत्सवकारिणि ढरिणि भूवन त्रयस्य मातृवरे ॥९०॥

जय जगत् अर्चितचरणे शरणे निःश्रेयसस्य भक्तानाम् ।
जय धृतभास्करकिरणे हरणे दुरितान्धकारवृन्दानाम् ॥९१॥

जय कालि जय कपालिनि जय कङ्कालिनि शिवे नमः ते अस्तु ।
शूद्रकनृपतेः अधुना प्रसीद मत्मस्तकौपहारेण ॥९२॥

इति उपस्थाय देव्याम् सः तस्याम् वीरवरः पुनः ।
सद्यः करतला- आघातेन उत्तमाङ्गम् स्वमच्छिनत् ॥९३॥

तत् आलोक्य अखिलम् तत्र छन्नस्थः शुद्रकः नृपः ।
साकुलः च सदुःखः च स- आश्चर्यः च व्यचिन्तयत् ॥९४॥

अहो किम् अपि अनेन एतत् अन्यत्र अदृष्टम् अश्रुतम् ।
साधुना सकुटुम्बेन दुःकरम् मत्कृते कृतम् ॥९५॥

विचित्रे अपि अत्र संसारे धीरः स्यातीदृशः कुतः ।
अख्यापयन् प्रभोः अर्थे परोक्षम् यः ददाति असून् ॥९६॥

एतस्य च उपकारोस्य न कुर्याम् सदृशम् यदि ।
तत् मे का प्रभुता किम् च जीवितव्यम् पशोः इव ॥९७॥

इति संचिन्त्य नृपतिः खड्गम् आकृष्य कोपतः ।
उपेत्य शूद्रकः देवीम् ताम् प्रवीरः व्यजिज्ञपत् ॥९८॥

सततानुप्रपन्नस्य भगवति अधुना अमुना ।
मम मूर्धौपहारेण सुप्रीता कुरु अनुग्रहम् ॥९९॥

अयम् वीरवरः विप्रः नामानुगुणचेष्टितः ।
मतर्थम् उज्झितप्राणः सकुटुम्बः अपि जीवतु ॥१००॥

इति उदीर्य असिना राजा शिरः छेत्तुम् सः शूद्रकः ।
यावत् प्रवर्तते तावत् उदभूत् भारती दिवः ॥१०१॥

मा साहसम् कृथाः तुष्टा सत्त्वेन अनेन ते हि अहम् ।
प्रत्युज्जीवतु सापत्यदारः वीरवरः द्विजः ॥१०२॥

इति उक्त्वा व्यरमत् वाक् सा सः च उत्तस्थौ सपुत्रकः ।
साकम् दुहित्रा पत्न्या च जीवन् वीरवरः अक्षतः ॥१०३॥

तत् विलोक्य अद्भुतम् राजा छन्नः भूत्वा पुनः च सः ।
पश्यन् अतृप्तः ताम् आसीत् दृष्ट्या हर्षाश्रुपूर्णया ॥१०४॥

सः अपि वीरवरः दृष्ट्वा सुप्त उत्थितः इव आशु तम् ।
पुत्रदारम् तथा आत्मानम् अभूत् विभ्रान्तमानसः ॥१०५॥

पप्रच्छ च पृथक् नामग्राहम् दारसुतान् सः तान् ।
भस्मीभूताः कथम् यूयम् जीवन्तः पुनः उत्थिताः ॥१०६॥

मया अपि स्वशिरः छिन्नम् जीवामि एषः च किम् नु इदम् ।
किम् विभ्रमः अयम् आहो स्विद् सुस्पष्टः देवी- अनुग्रहः ॥१०७॥

एवम् वदन् सः तैः ऊचे दारापत्यैः अलक्षितः ।
देवी- अनुग्रहः एव अयम् जीवामः यत् अमी इति ॥१०८॥

ततः सः तत् तथा मत्वा नत्वा वीरवरः अम्बकाम् ।
आदाय पुत्रदारान् तान्सिद्धकार्यः गृहम् ययौ ॥१०९॥

तत्र प्रवेश्य पुत्रम् तम् भार्याम् दुहितरम् च ताम् ।
सिंहद्वारम् अगात् राज्ञः रात्रौ तस्याम् सः पूर्ववत् ॥११०॥

राजा सः शूद्रकः अपि एतत् दृष्ट्वा सर्वम् अलक्षितः ।
गत्वा आरुरोह स्व- आवासप्रासादम् तम् पुनः तदा ॥१११॥

व्याहरत् च स्थितः कः अत्र सिंहद्वारि इति पृष्ठतः ।
ततः वीरवरः अवादीत् सः एषः तिष्ठामि अहम् प्रभो ॥११२॥

देव- आदेशात् गतः च अहम् अभूवम् ताम् स्त्रियम् प्रति ।
राक्षसी इव च सा क्व अपि दृष्टनष्टा एव मे गता ॥११३॥

एतत् श्रुत्वा वचः तस्य राजा वीरवरस्य सः ।
सुतराम् विस्मय आविष्टः दृष्टौदन्तः व्यचिन्तयत् ॥११४॥

अहो समुद्रगम्भीरधीरचित्ताः मनस्विनः ।
कृत्वा अपि अनन्यसामान्यम् उल्लेखम् न उद्गिरन्ति ये ॥११५॥

इति आदि आकलयन् तूष्णीम् प्रासादात् अवरुह्य सः ।
प्रविश्य अन्तःपुरम् राजा रात्रिशेषम् निनाय तम् ॥११६॥

प्रातः च आस्थानसमये दर्शनौपगतस्थिते ।
तस्मिन् वीरवरे प्रीतः तथा कृत्स्नम् सः भूपतिः ॥११७॥

तदीयम् रात्रिवृत्तान्तम् मन्त्रिभ्यः तम् अवर्णयत् ।
यथा बभूवुः आश्चर्यमोहिताः इव ते अखिलाः ॥११८॥

ददौ तस्मै सपुत्राय प्रीत्या वीरवराय च ।
लाटदेशे ततः राज्यम् सः कर्णाटयुते नृपः ॥११९॥

ततः अत्र तुल्यविभवौ अन्योन्यस्य उपकारिणौ ।
आसाताम् तौ सुखम् वीरवरशूद्रकभूपती ॥१२०॥

इति आख्याय कथाम् एताम् वेतालः अत्यद्भुताम् तदा ।
तम् त्रिविक्रमसेनम् सः राजानम् अवदत् पुनः ॥१२१॥

तत् ब्रूहि राजन् एतेषु वीरः सर्वेषु कः अधिकः ।
पूर्वः एव सः शापः ते यदि जानन् न वक्ष्यसि ॥१२२॥

एतत् श्रुत्वा सः भूपालः वेतालम् प्रतिउवच तम् ।
एतेषु शुद्रकः राजा प्रवीरः सः अखिलेषु इति ॥१२३॥

ततः अब्रवीत् सः वेतालः राजन् वीरवरः न किम् ।
सः अधिकः यस्य तुल्यः अस्याम् पृथ्व्याम् एव न जायते ॥१२४॥

तत्पत्नी न अधिका किम् वा स्त्रीभुता या अन्वमन्यत ।
तथा उपहारपशुताम् सूनोः प्रत्यक्षदर्शिनी ॥१२५॥

सः वा सत्त्ववरः न अत्र तत्पुत्रः अभ्यधिकः कथम् ।
बालस्य अपि सतः यस्य सत्त्वौत्कर्षः सः तादृशः ॥१२६॥

तत् कस्मात् शुद्रकम् भूपम् एभ्यः त्वम् भाषसे अधिकम् ।
इति उक्तवन्तम् वेतालम् सः जगाद पुनः नृपः ॥१२७॥

मा एवम् वीरवरः तावत् सः तादृक्कुलपुत्रकः ।
तस्य प्राणैः सुतैः दारैः स्वामिसंरक्षणम् व्रतम् ॥१२८॥

तत्पत्नी सा अपि कुलजा साद्वी पतिएकदेवता ।
भर्तृवर्त्मानुसारेण तस्याः धर्मः अस्तु कः अपरः ॥१२९॥

ताभ्याम् जातः तु तत्रूपः एव सत्त्ववरः अपि सः ।
यादृशाः तन्तवः कामम् तादृशः जायते पटः ॥१३०॥

येषाम् प्राणैः तु भृत्यानाम् नृपैः आत्मा अभिरक्ष्यते ।
तेषाम् अर्थे त्यजन्देहम् शुद्रकः अत्र विशिष्यते ॥१३१॥

इति आकर्ण्य वचः सः तस्य नृपतेः अंसात् असंलक्षितः
वेतालः सहसा ययौ निजपदम् भूयः अपि तत्मायया ।
राजा अपि उच्चलितः बभूव पुनः अपि आनेतुम् एतम् पथा
पूर्वेण एव सुनिश्चितः पितृवने तस्मिन् सः तस्याम् निशि ॥१३२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:43.1930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

plugging

  • न. निगन 
  • न. गुडदीयन 
  • बूच बसवणे 
  • न. प्लगन 
More meanings
RANDOM WORD

Did you know?

How to make essay about Hindu culture
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.