संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण| अध्याय ३५ श्रीनरसिंहपुराण अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ श्रीनरसिंहपुराण - अध्याय ३५ अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है । Tags : narasimhapuranनरसिंहपुराण अध्याय ३५ Translation - भाषांतर राजोवाच अहो महत्त्वया प्रोक्तं विष्णवाराधनजं फलम् । सुप्तास्ते मुनिशार्दूल ये विष्णुं नार्चयन्ति वै ॥१॥ त्वत्प्रसादाच्छुतं ह्येतन्नरसिंहार्चनक्रमम् । भक्त्या तं पूजायिष्यामि कोटिहोमफलं वद ॥२॥ मार्कण्डेय उवाच इममर्थं पुरा पृष्टः शौनको गुरुणा नृप । यत्तस्मै कथयामास शौनकस्तद्वदामि ते ॥३॥ शौनकं तु सुखासीनं पर्यपृच्छद् बृहस्पतिः । बृहस्पतिरुवाच लक्षहोमस्य या भूमिः कोटिहोमस्य या शुभा ॥४॥ तां मे कथय विप्रेन्द्र होमस्य चरिते विधिम् । मार्कण्डेय उवाच इत्युक्तो गुरुणा सोऽथ लक्षहोमादिकं विधिम् ॥५॥ शौनको वक्तुमारेभे यथावन्नृपसत्तम । शौनक उवाच प्रवक्ष्यामि यथावत्ते श्रृणु देवपुरोहित ॥६॥ लक्षहोममहाभूमिं तद्विशुद्धिं विशेषतः । यज्ञकर्मणि शस्ताया भूमेर्लक्षणमुत्तमम् ॥७॥ सुसंस्कृतां समां स्निग्धां पूर्वपूर्वमथोत्तमाम् । ऊरुमात्रं खनित्वा च शोधयेत्तां विशेषतः ॥८॥ बहिरच्छतया तत्र मृदाच्छाद्य प्रलेपयेत् । प्रमाणं बाहुमात्रं तु सर्वतः कुण्डलक्षणम् ॥९॥ चतुरस्त्रं चतुष्कोणं तुल्यसूत्रेण कारयेत् । उपरि मेखलां कुर्याच्चतुरस्त्रां सुविस्तराम् ॥१०॥ चतुरङ्गुलमात्रं तु उच्छितां सूत्रसूत्रिताम् । ब्राह्मणान् वेदसम्पन्नान् ब्रह्मकर्मसमन्वितान् ॥११॥ आमन्त्रयेद् यथान्यायं यजमानो विशेषतः । ब्रह्मचर्यव्रतं कुर्युस्त्रिरात्रं ते द्विजातयः ॥१२॥ अहोरात्रमुपोष्याथ गायत्रीमयुतं जपेत् । ते शुक्लवाससः स्त्राता गन्धस्त्रकपुष्पधारिणः ॥१३॥ शुचयश्च निराहाराः संतुष्टाः संयतेन्द्रियाः । कौशमासनमासीना एकाग्रमनसः पुनः ॥१४॥ आरभेयुश्च ते यत्नात्ततो होममतन्द्रिताः । भूमिमालिख्य चाभ्युक्ष्य यत्नादग्निं निधापयेत् ॥१५॥ गृह्योक्तेन विधानेन होमं तत्र च होमयेत् । आघारवाज्यभागौ च जुहुयात्पूर्वमेव तु ॥१६॥ यवधान्यतिलैर्मिश्रां गायत्र्या प्रथमाहुतिम् । जुहुयादेकचित्तेन स्वाहाकारान्वितां बुधः ॥१७॥ गायत्री छन्दसां माता ब्रह्मयोनिः प्रतिष्ठिता । सविता देवता तस्या विश्वामित्रस्तथा ऋषिः ॥१८॥ ततो व्याहतिभिः पश्चाज्जुहुयाच्च तिलान्वितम् । यावत्प्रयूर्यते संख्या लक्षं वा कोटिरेव वा ॥१९॥ तावद्धोमं तिलैः कुर्यादच्युतार्चनपूर्वकम् । दीनानाथजनेभ्यस्तु यजमानः प्रयत्नतः ॥२०॥ तावच्च भोजनं दद्याद् यावद्धोमं समाचरेत् । समाप्ते दक्षिणां दद्याद् ऋत्विग्भ्यः श्रद्धयान्वितः ॥२१॥ यथार्हता न लोभेन ततः शान्त्युदकेन च । प्रोक्षयेद् ग्राममध्ये तु व्याधितांस्तु विशेषतः ॥२२॥ एवं कृते तु होमस्य पुरस्य नगरस्य च । राष्ट्रस्य च महाभाग राज्ञो जनपदस्य च । सर्वबाधाप्रशमनी शान्तिर्भवति सर्वदा ॥२३॥ मार्कण्डेय उवाच इत्येतच्छौनकप्रोक्तं कथितं नृपनन्दन । लक्षहोमादिकविधिं कार्यं राष्ट्रे सुशान्तिदम् ॥२४॥ ग्रामे गृहे वा पुरबाह्यदेशे द्विजैरयं यत्नकृतः पुरोविधिः । तत्रापि शान्तिर्भविता नराणां गवां च भृत्यैः सह भूपतेश्च ॥२५॥ इति श्रीनरसिंहपुराणे लक्षहोमविधिर्नाम पञ्चत्रिंशोऽध्यायः ॥३५॥ N/A References : N/A Last Updated : June 17, 2010 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP