TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ६

श्रीनरसिंहपुराण - अध्याय ६

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


अध्याय ६

सूत उवाच

सृष्टिस्ते कथिता विष्णोर्मयास्य जगतो द्विज ।

देवदानवयक्षाद्या यथोत्पन्ना महात्मनः ॥१॥

यमुद्दिश्य त्वया पृष्टः पुराहमृषिसंनिधौ ।

मित्रावरुणपुत्रत्वं वसिष्ठस्य कथं त्विति ॥२॥

तदिदं कथयिष्यामि पुण्याख्यानं पुरातनम् ।

श्रृणुष्वैकाग्रमनसा भरद्वाज विशेषतः ॥३॥

सर्वधर्मार्थतत्त्वज्ञः सर्ववेदविदां वरः ।

पारगः सर्वविद्यानां दक्षो नाम प्रजापतिः ॥४॥

तेन दत्ताः शुभाः कन्याः सर्वाः कमललोचनाः ।

सर्वलक्षणसम्पूर्णाः कश्यपाय त्रयोदश ॥५॥

तासां नामानि वक्ष्यामि निबोधत ममाधुना ।

अदितिर्दितिर्दनुः काला मुहूर्ता सिंहिका मुनिः ॥६॥

इरा क्रोधा च सुरभिर्विनता सुरसा खसा ।

कद्रू सरमा चैव या तु देवशुनी स्मृता ॥७॥

दक्षस्यैता दुहितरस्ताः प्रादात् कश्यपाय सः ।

तासां ज्येष्ठा वरिष्ठा च अदितिर्नामतो द्विज ॥८॥

अदितिः सुषुवे पुत्रान् द्वादशाग्निसमप्रभान् ।

तेषां नामानि वक्ष्यामि श्रृणुष्व गदतो मम ॥९॥

यैरिदं वासरं नक्तं वर्तते क्रमशः सदा ।

भर्गोऽशुस्त्वर्यमा चैव मित्रोऽथ वरुणस्तथा ॥१०॥

सविता चैव धाता च विवस्वांश्च महामते ।

त्वष्टा पूषा तथैवेन्द्रो विष्णुर्द्वादशमः स्मृतः ॥११॥

एते च द्वादशादित्यास्तपन्ते वर्षयन्ति च ।

तस्याश्च मध्यमः पुत्रो वरुणो नाम नामतः ॥१२॥

लोकपाल इति ख्यातो वारुण्यां दिशि शब्द्यते ।

पश्चिमस्य समुद्रस्य प्रतीच्यां दिशि राजते ॥१३॥

जातरुपमयः श्रीमानास्ते नाम शिलोच्चयः ।

सर्वरत्नमयैः श्रृङ्गैर्धातुप्रस्रवणान्वितैः ॥१४॥

संयुक्तो भाति शैलेशो नानारत्नमयः शुभः ।

महादरीगुहाभिश्च सिंहशार्दूलनादितः ॥१५॥

नानाविविक्तभूमीषु सिद्धगन्धर्वसेवितः ।

यस्मिन् गते दिनकरे तमसाऽऽपूर्यते जगत् ॥१६॥

तस्य श्रृङ्गे महादिव्या जाम्बूनदमयी शुभा ।

रम्या मणिमयैः स्तम्भैर्विहिता विश्वकर्मणा ॥१७॥

पुरी विश्वावती नाम समृद्धा भोगसाधनैः ।

तस्यां वरुण आदित्यो दीप्यमानः स्वतेजसा ॥१८॥

पाति सर्वानिमाँल्लोकान् नियुक्तो ब्रह्मणा स्वयम् ।

उपास्यमानो गन्धर्वैस्तथैवाप्सरसां गणैः ॥१९॥

दिव्यगन्धानुलिप्ताङ्गो दिव्याभरणभूषितः ।

कदाचिद्वरुणो यातो मित्रेण सहितो वनम् ॥२०॥

कुरुक्षेत्रे शुभे रम्ये सदा ब्रह्मर्षिसेविते ।

नानापुष्पफलोपेते नानातीर्थसमाकुले ॥२१॥

आश्रमा यत्र दृश्यन्ते मुनीनामूर्ध्वरेतसाम् ।

तस्मिंस्तीर्थे समाश्रित्य बहुपुष्पफलोदके ॥२२॥

चीरकृष्णाजिनधरौ चरन्तौ तप उत्तमम् ।

तत्रैकस्मिन् वनोद्देशे विमलोदो हदः शुभः ॥२३॥

बहुगुल्मलताकीर्णो नानापक्षिनिषेवितः ।

नानातरुवनच्छन्नो नलिन्या चोपशोभितः ॥२४॥

पौण्डरीक इति ख्यातो मीनकच्छपसेवितः ।

ततस्तु मित्रावरुणौ भ्रातरौ वनचारिणौ ।

तं तु देशं गतौ देवौ विचरत्नौ यदृच्छया ॥२५॥

ताभ्यां तत्र तदा दृष्टा उर्वशी तु वराप्सराः ।

स्नायन्ती सहितान्याभिः सखीभिः सा वरानना ।

गायन्ती च हसन्ती च विश्वस्ता निर्जने वने ॥२६॥

गौरी कमलगर्भाभा स्निग्धकृष्णशिरोरुहा ।

पद्मपत्रविशालाक्षी रक्तोष्ठी मृदुभाषिणी ॥२७॥

शङ्खकुन्देन्दुधवलैर्दन्तैरविरलैः समैः ।

सुभ्रूः सुनासा सुमुखी सुललाटा मनस्विनी ॥२८॥

सिंहवत् सूक्ष्ममध्याङ्गी पीनोरुजघनस्तनी ।

मधुरालापचतुरा सुमध्या चारुहासिनी ॥२९॥

रक्तोत्पलकरा तन्वी सुपदी विनयान्विता ।

पूर्णचन्द्रनिभा बाला मत्तद्विरदगामिनी ॥३०॥

दृष्ट्वा तस्यास्तु तद्रूपं तौ देवौ विस्मयं गतौ ।

तस्या हास्येन लास्येन स्मितेन ललितेन च ॥३१॥

मृदुना वायुना चैव शीतानिलसुगन्धिना ।

मत्तभ्रमरगीतेन पुंस्कोकिलरुतेन च ॥३२॥

सुस्वरेण हि गीतेन उर्वश्या मधुरेण च ।

ईक्षितो च कटाक्षेण स्कन्दतुस्तावुभावपि ।

निमेः शापादथोत्क्रम्य स्वदेहान्मुनिसत्तम ॥३३॥

वसिष्ठ मित्रावरुणात्मजोऽसी त्यथोचुरागत्य हि विश्वदेवाः ।

रेतस्त्रिभागं कमलेऽचरत्तद् वसिष्ठ एवं तु पितामहोक्तेः ॥३४॥

त्रिधा समभवद्रेतः कमलेऽथ स्थले जले ।

अरविन्दे वसिष्ठस्तु जातः स मुनिसत्तमः ।

स्थले त्वगस्त्यः सम्भूतो जले मत्स्यो महाद्युतिः ॥३५॥

स तत्र जातो मतिमान् वसिष्ठः

कुम्भे त्वगस्त्यः सलिलेऽथ मत्स्यः ।

स्थानत्रये तत्पतितं समानं

मित्रस्य यस्माद्वरुणस्य रेतः ॥३६॥

एतस्मिन्नेव काले तु गता सा उर्वशी दिवम् ।

उपेत्य तानृषीन् देवौ गतौ भूयः स्वमाश्रमम् ।

यमावपि तु तप्येते पुनरुग्रं परं तपः ॥३७॥

तपसा प्राप्तुकामौ तौ परं ज्योतिः सनातनम् ।

तपस्यन्तौ सुरश्रेष्ठौ ब्रह्माऽऽगत्येदमब्रवीत् ॥३८॥

मित्रावरुणकौ देवौ पुत्रवन्तौ महाद्युती ।

सिद्धिर्भविष्यति यथा युवयोर्वैष्णवी पुनः ॥३९॥

स्वाधिकारेण स्थीयेतामधुना लोकसाक्षिकौ ।

इत्युक्त्वान्तर्दधे ब्रह्मा तौ स्थितौ स्वाधिकारकौ ॥४०॥

एवं ते कथितं विप्र वसिष्ठस्य महात्मनः ।

मित्रावरुणपुत्रत्वमगस्त्यस्य च धीमतः ॥४१॥

इदं पुंसीयमाख्यानं वारुणं पापनाशनम् ।

पुत्रकामास्तु ये केचिच्छृण्वन्तीदं शुचिव्रताः ।

अचिरादेव पुत्रांस्ते लभन्ते नात्र संशयः ॥४२॥

यश्चैतत्पठते नित्यं हव्यकव्ये द्विजोत्तमः ।

देवाश्च पितरस्तस्य तृप्ता यान्ति परं सुखम् ॥४३॥

यश्चैतच्छृणुयान्नित्यं प्रातरुत्थाय मानवः ।

नन्दते स सुखं भूमौ विष्णुलोकं स गच्छति ॥४४॥

इत्येतदाख्यानमिदं मयेरितं पुरातनं वेदविदैरुदीरितम् ।

पठिष्यते यस्तु श्रृणोति सर्वदा स याति शुद्धो हरिलोकञ्जसा ॥४५॥

इति श्रीनरसिंहपुराणे पुंसवनाख्यानं नाम षष्ठोऽध्यायः ॥६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2009-07-28T23:55:58.1270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Did you know?

उगवत्या सूर्याला नमस्कार, मावळत्या का नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.