संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय २१

श्रीनरसिंहपुराण - अध्याय २१

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


भरद्वाज उवाच

अनुसर्गश्च सर्गश्च त्वया चित्रा कथोरिता ।

वंशामन्वन्तरे ब्रूहि वंशानुचरितं च मे ॥१॥

सूत उवाच

राज्ञां वंशः पुराणेषु विस्तरेण प्रकीर्तितः ।

संक्षेपात् कथयिष्यामि वंशमन्वन्तराणि ते ॥२॥

वंशानुचरितं चैव श्रृणु विप्र महामते ।

श्रृण्वन्तु मुनयश्चेमे श्रोतुमागत्य ये स्थिताः ॥३॥

आदौ तावद्वह्मा ब्रह्मणो मरीचिः । मरीचेः कश्यपः कश्यपादादित्यः ॥४॥

आदित्यान्मनुः । मनोरिक्ष्वाकुः; इक्ष्वाकोर्विकुक्षिः । विकुक्षेर्द्योतः, द्योताद्वेनो वेनात्पृथुः पृथोः पृथाश्वः ॥५॥

पृथाश्वादसंख्याताश्वः । असंख्याताश्वान्मान्धाता ॥६॥

मान्धातुः पुरुकुत्सः पुरुकुत्साददृषदो दृषदादभिशम्भुः ॥७॥

अभिशम्भोर्दारुणो दारुणात् सगरः ॥८॥

सगराद्धर्यश्वो हर्यश्वाद्धारीतः ॥९॥

हारीताद्रोहिताश्चो रोहिताश्चादंशुमान् । अंशुमतो भगीरथः ॥१०॥

भगीरथात् सौदासः सौदासाच्छत्रुंदमः ॥११॥

शत्रुंदमादनरण्यः । अनरण्याद्दीर्घबाहुः । दीर्घबाहोरजः ॥१२॥

अजाद्दशरथः, दशरथाद्रामः, रामाल्लवः, लवात् पद्मः ॥१३॥

पद्मादनुपर्णः । अनुपर्णाद्वस्त्रपाणिः ॥१४॥

वस्त्रपाणेः शुद्धोदनः । शुद्धोदनाद्धधः । बुधादादित्यवंशो निवर्तते ॥१५॥

सूर्यवंशभव ये ते प्राधान्येन प्रकीर्तिताः ।

यैरियं पृथिवी भुक्ता धर्मतः क्षत्रियैः पुरा ॥१६॥

सूर्यस्य वंशः कथितो मया मुने समुद्रता यत्र नरेश्वराः पुरा ।

मयोच्यमानाञ्छशिनः समाहितः श्रृणुष्व वंशेऽथ नृपाननुत्तमान् ॥१७॥

इति श्रीनरसिंहपुराणे सूर्यवंशकथनं नामैकविंशोऽध्यायः ॥२१॥

N/A

References : N/A
Last Updated : July 29, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP