TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ५

श्रीनरसिंहपुराण - अध्याय ५

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


अध्याय ५

भरद्वाज उवाच

रुद्रसर्गं तु मे ब्रूहि विस्तरेण महामते ।

पुनः सर्वे मरीच्याद्याः ससृजुस्ते कथं पुनः ॥१॥

मित्रावरुणपुत्रत्वं वसिष्ठस्य कथं भवेत् ।

ब्रह्मणो मनसः पूर्वमुत्पन्नस्य महामते ॥२॥

सूत उवाच

रुद्रसृष्टिं प्रवक्ष्यामि तत्सर्गाश्चैव सत्तम ।

प्रतिसर्गं मुनीतां तु विस्तराद्वदतः श्रृणु ॥३॥

कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतसतः ।

प्रादुरासीत् प्रभोरङ्के कुमारो नीललोहितः ॥४॥

अर्धनारीनरवपुः प्रचण्डोऽतिशरीरवान् ।

तेजसा भासयन् सर्वा दिशश्च प्रदिशश्च सः ॥५॥

तं दृष्ट्वा तेजसा दीप्तं प्रत्युवाच प्रजापतिः ।

विभजात्मानमद्य त्वं मम वाक्यान्महामते ॥६॥

इत्युक्तो ब्रह्मणा विप्र रुद्तस्तेन प्रतापवान् ।

स्त्रीभावं पुरुषत्वं च पृथक् पृथगथाकरोत् ॥७॥

बिभेद पुरुषत्वं च दशधा चैकधा च सः ।

तेषां नामानि वक्ष्यामि श्रृणु मे द्विजसत्तम ॥८॥

अजैकपादहिर्बुध्न्यः कपाली रुद्र एव च ।

हरश्च बहुरुपश्च त्र्यम्बकश्चापराजितः ॥९॥

वृषाकपिश्च शम्भुश्च कपर्दी रैवतस्तथा ।

एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥१०॥

स्त्रीत्वं चैव तथा रुद्रो बिभेद दशधैकधा ।

उमैव बहुरुपेण पत्नी सैव व्यवस्थिता ॥११॥

तपः कृत्वा जले घोरमुत्तीर्णः स यदा पुरा ।

तदा स सृष्टवान् देवो रुद्रस्तत्र प्रतापवान् ॥१२॥

तपबलेन विप्रेन्द्र भूतानि विविधानि च ।

पिशाचान् राक्षसांश्चैव सिंहोष्टमकराननान् ॥१३॥

वेतालप्रमुखान् भूतानन्यांश्चैव सहस्रशः ।

विनायकानामुग्राणां त्रिंशत्कोट्यर्धमेव च ॥१४॥

अन्यकार्यं समुद्दिश्य सृष्टवान् स्कन्दमेव च ।

एवं प्रकारो रुद्रोऽसौ मया ते कीर्तितः प्रभुः ॥१५॥

अनुसर्गं मरीच्यादेः कथयामि निबोध मे ।

देवादिस्थावरान्ताश्च प्रजाः सृष्टाः स्वयम्भुवा ॥१६॥

यदास्य च प्रजाः सर्वा न व्यवर्धन्त धीमतः ।

तदा मानसपुत्रान् स सदृशानात्मनोऽसृजत् ॥१७॥

मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ।

प्रचेतसं वसिष्ठं च भृगुं चैव महामतिम् ॥१८॥

नव ब्रह्माण इत्येते पुराणे निश्चयं गताः ।

अग्निश्च पितरश्चैव ब्रह्मपुत्रौ तु मानसौ ॥१९॥

सृष्टिकाले महाभागौ ब्रह्मन् स्वायम्भुवोद्गतौ ।

शतरुपां च सृष्ट्वा तु कन्यां स मनवे ददौ ॥२०॥

तस्माच्च पुरुषाद्देवी शतरुपा व्यजायत ।

प्रियव्रतोत्तानपादौ प्रसूतिं चैव कन्यकाम् ॥२१॥

ददौ प्रसूतिं दक्षाय मनुः स्वायम्भुवः सुताम् ।

प्रसूत्यां च तदा दक्षश्चतुर्विशतिकं तथा ॥२२॥

ससर्ज कन्यकास्तासां श्रृणु नामानि मेऽधुना ।

श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा तथा क्रिया ॥२३॥

बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदशी ।

अपत्यार्थं प्रजग्राह धर्मो दाक्षायणीः प्रभुः ॥२४॥

श्रद्धादीनां तु पत्नीनां जाताः कामादयः सुताः ।

धर्मस्य पुत्रपौत्राद्यैर्थर्मवंशो विवर्धितः ॥२५॥

ताभ्यः शिष्टा यवीयस्यस्तासां नामानि कीर्तये ।

सम्भूतिश्चाथ च स्मृतिः प्रीतिः क्षमा तथा ॥२६॥

संनतिश्चाथ सत्या च ऊर्जा ख्यातिर्द्विजोत्तम ।

तद्वत्पुत्रौ महाभागौ मातरिश्चाथ सत्यवान् ॥२७॥

स्वाहाथ दशमी ज्ञेया स्वधा चैकादशी स्मृता ।

एताश्च दत्ता दक्षेण ऋषीणां भावितात्मनाम् ॥२८॥

मरीच्यादीनां तु ये पुत्रास्तानहं कथयामि ते ।

पत्नी मरीचेः सम्भूतिर्जज्ञे सा कश्यपं मुनिम् ॥२९॥

स्मृतिश्चाङ्गिरसः पत्नी प्रसूता कन्यकास्तथा ।

सिनीवाली कुहूश्चैव राका चानुमतिस्तथा ॥३०॥

अनसूया तथा चात्रेर्जज्ञे पुत्रानकल्मषान् ।

सोमं दुर्वाससं चैव दत्तात्रेयं च योगिनम् ॥३१॥

योऽसावग्रेरभीमानी ब्रह्मणस्तनयोऽग्रजः ।

तस्मात् स्वाहा सुताँल्लेभे त्रीनुदारौजसो द्विज ॥३२॥

पावकं पवमानं च शुचिं चापि जलाशिनम् ।

तेषां तु संततावन्ये चत्वारिंशच्च पञ्च च ॥३३॥

कथ्यन्ते वहयश्चैते पिता पुत्रत्रयं च यत् ।

एवमेकोनपञ्चाशद्वहयः परिकीर्तिताः ॥३४॥

पितरो ब्रह्मणा सृष्टा व्याख्याता ये मया तव ।

तेभ्यः स्वधा सुते जज्ञे मेनां वै धारिणीं तथा ॥३५॥

प्रजाः सृजेति व्यादिष्टः पूर्व दक्षः स्वयम्भुवा ।

यथा ससर्ज भूतानि तथा मे श्रृणु सत्तम ॥३६॥

मनसैव हि भूतानि पूर्वं दक्षोऽसृजन्मुनिः ।

देवानृषींश्च गन्धर्वानसुरान् पन्नगांस्तथा ॥३७॥

यदास्य मनसा जाता नाभ्यवर्धन्त ते द्विज ।

तदा संचिन्त्य स मुनिः सृष्टिहेतोः प्रजापतिः ॥३८॥

मैथुनेनैव धर्मेण सिसृक्षुर्विविधाः प्रजाः ।

असिक्नीमुद्वहन् कन्यां वीरणस्य प्रजापतेः ॥३९॥

षष्टिं दक्षोऽसृजत् कन्या वीरण्यामिति नः श्रुतम् ।

ददौ स दश धर्माय कश्यपाय त्रयोदश ॥४०॥

सप्तविंशति सोमाय चतस्त्रोऽरिष्टनेमिने ।

द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा ॥४१॥

द्वे कृशाश्चाय विदुषे तदपत्यानि मे श्रृणु ।

विश्वेदेवांस्तु विश्वा या साध्या साध्यानसूयत ॥४२॥

मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवः स्मृताः ।

भानोस्तु भानवो देवा मुहूर्तायां मुहूर्तजाः ॥४३॥

लम्बायाश्चैव घोषाख्यो नागवीथिश्च जामिजा ।

पृथिवीविषयं सर्वमरुन्धत्यामजायत ॥४४॥

संकल्पायाश्च संकल्पः पुत्रो जज्ञे महामते ।

ये त्वनेकवसुप्राणा देवा ज्योतिः पुरोगमाः ॥४५॥

वसवोऽष्टौ समाख्यातास्तेषां नामानि मे श्रृणु ।

आपो ध्रुवश्च सोमश्च धर्मश्चैवानिलोऽनलः ॥४६॥

प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ।

तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्त्रशः ॥४७॥

साध्याश्च बहवः प्रोक्तास्तत्पुत्राश्च सहस्त्रशः ।

कश्यपस्य तु भार्या यास्तासां नामानि मे श्रृणु ।

अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा खसा ॥४८॥

सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा ।

कद्रूर्मुनिश्च धर्मज्ञ तदपत्यानि मे श्रृणु ॥४९॥

अदित्यां कश्यपाज्जाताः पुत्रा द्वादश शोभनाः ।

तानहं नामतो वक्ष्ये श्रृणुष्व गदतो मम ॥५०॥

भगोऽशुश्चार्यमा चैव मित्रोऽथ वरुणस्तथा ।

सविता चैव धाता च विवस्वांश्च महामते ॥५१॥

त्वष्टा पूषा तथा चेन्द्रो द्वादशो विष्णुरुच्यते ।

दित्याः पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम् ॥५२॥

हिरण्याक्षो महाकायो वाराहेण तु यो हतः ।

हिरण्यकशिपुश्चैव नरसिंहेन यो हतः ॥५३॥

अन्ये च बहवो दैत्या दनुपुत्राश्च दानवाः ।

अरिष्टायां तु गन्धर्वा जज्ञिरे कश्यपात्तथा ॥५४॥

सुरसायामथोत्पन्ना विद्याधरगणा बहु ।

गा वै स जनयामास सुरभ्यां कश्यपो मुनिः ॥५५॥

विनतायां तु द्वौ पुत्रौ प्रख्यातौ गरुडारुणौ ।

गुरुडो देवदेवस्य विष्णोरमिततेजसः ॥५६॥

वाहनत्वमियात्प्रीत्या अरुणः सूर्यसारथिः ।

ताम्रायां कश्यपाज्जाताः षटपुत्रास्तान्निबोध मे ॥५७॥

अश्वा उष्ट्रा गर्दभाश्च हस्तिनो गवया मृगाः ।

क्रोधायां जज्ञिरे तद्वद्ये भूम्यां दुष्टजातयः ॥५८॥

इरा वृक्षलतावल्लीशणजातीश्च जज्ञिरे ।

खसा तु यक्षरक्षांसि मुनिरप्सरसस्तथा ॥५९॥

कद्रूपुत्रा महानागा दंदशूका विषोल्बणाः ।

सप्तविंशति याः प्रोक्ताः सोमपल्योऽथ सुव्रताः ॥६०॥

तासां पुत्रा महासत्त्वा बुधाद्यास्त्वभवन् द्विज ।

अरिष्टनेमिपत्नीनामपत्यानीह षोडश ॥६१॥

बहुपुत्रस्य विदुषश्चतस्रो विद्युतः स्मृताः ।

प्रत्यङ्गिरस्सुताः श्रेष्ठा ऋषयश्चर्षिसत्कृताः ॥६२॥

कृशाश्चस्य तु देवर्षेदेवाश्च ऋषयः सुताः ।

एते युगसहस्त्रान्ते जायन्ते पुनरेव हि ॥६३॥

एते कश्यपदायादाः कीर्तिताः स्थाणुजंगमाः ।

स्थितौ स्थितस्य देवस्य नरसिंहस्य धर्मतः ॥६४॥

एता विभूतयो विप्र मया ते परिकीर्तिताः ।

कथिता दक्षकन्यानां मया तेऽपत्यसंततिः ॥६५॥

श्रद्धावान् संस्मरेदेतां स सुसंतानवान् भवेत् ॥६६॥

सर्गानुसर्गी कथितौ मया ते

समासतः सृष्टिविवृद्धिहेतोः ।

पठन्ति ये विष्णुपराः सदा नरा

इदं द्विजास्ते विमला भवन्ति ॥६७॥

इति श्रीनरसिंहपुराणे सृष्टिकथने पञ्चमोऽध्यायः ॥५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2009-07-28T23:51:40.2370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

दुखण्यास पडणें

  • आजारी होणें 
  • अंथरूण धरणें 
  • रोगग्रस्त होणें. 
RANDOM WORD

Did you know?

तत्वाचे विचार तर्कशात्राप्रमानॆ प्रमाणे नीट मांडणे म्हणजे वाद. यांचे प्रकार किती व कोणते?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.