संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ४

श्रीनरसिंहपुराण - अध्याय ४

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


भरद्वाज उवाच

नवधा सृष्टिरुत्पन्ना ब्रह्मणोऽव्यक्तजन्मनः ।

कथं सा ववृधे सूत एतत्कथय मेऽधुना ॥१॥

सूत उवाच

प्रथमं ब्रह्मणा सृष्टा मरीच्यादय एव च ।

मरीचिरत्रिश्च तथा अङ्गिराः पुलहः क्रतुः ॥२॥

पुलस्त्यश्च महातेजाः प्रचेता भृगुरेव च ।

नारदो दशमश्चैव वसिष्ठश्च महामतिः ॥३॥

सनकादयो निवृत्ताख्ये ते च धर्मे नियोजिताः ।

प्रवृत्ताख्ये मरीच्याद्या मुक्त्वैकं नारदं मुनिम् ॥४॥

योऽसौ प्रजापतिस्त्वन्यो दक्षनामाङ्गसम्भवः ।

तस्य दौहित्रवंशेन जगदेतच्चराचरम् ॥५॥

देवाश्च दानवाश्चैव गन्धर्वोरगपक्षिणः ।

सर्वे दक्षस्य कन्यासु जाताः परमधार्मिकाः ॥६॥

चतुर्विधानि भूतानि ह्यचराणि चराणि च ।

वृद्धिंगतानि तान्येवमनुसर्गोद्भवानि तु ॥७॥

अनुसर्गस्य कर्तारो मरीच्याद्या महर्षयः ।

वसिष्ठान्ता महाभाग ब्रह्मणो मानसोद्भवाः ॥८॥

सर्गे तु भूतानि धियश्च खानि

ख्यातानि सर्वं सृजते महात्मा ।

स एव पश्चाच्चतुरास्यरुपी मुनिस्वरुपी च सृजत्यनन्तः ॥९॥

इति श्रीनिरसिंहपुराणें चतुर्थाऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : July 28, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP