मराठी मुख्य सूची|स्तोत्रे|सहस्रनामावली| ॐ क्लीं विट्टलाय नमः । पा... सहस्रनामावली ब्रह्मानन्दं परमसुखदं केव... अथ मूलम् । ॐ श्रीं ह्रीं ... ॐ श्रीगणेशाय नमः । श्वेता... श्रीअरुणाचलेश्वरसहस्रनामावली अर्धनारीश्वरसहस्रनामावलिः ॐ हिरण्यबाहवे हिरण्यवर्णा... श्रीहनुमत्सहस्रनामावलिः ॐ श्रीगणेशाय नमः । ॐ ब्र... ॐ इन्द्राय नमः । देवतमाय ... ॐ श्रीगणेशाय नमः । ॐ नमोद... ॐ अस्य श्रीसर्वसाम्राज्यम... ध्यानम् । कान्त्या काञ्चन... ॐ श्रीगणेशाय नमः । ॐ नका... ॐ अस्य कामकलाकालीसहस्रनाम... श्री गणेशाय नमः । श्रीकाम... कालोऽहम् । अस्य श्रीकालना... शिव उवाच- नाम्नां सहस्रं ... ॐ श्मशानकालिकायै नमः । ॐ ... अथ कुञ्चितपादसहस्रनामावलि... धनं दारान्सुतान्क्षेत्रं ... षड्वक्त्रं शिखिवाहनं त्रि... ॐ कृष्णाय नमः । श्रीवल्लभ... ॐ अस्य श्रीपुराणपुरुषोत्त... श्रीगणेशाय नमः । श्रीकेदा... सितमकरनिषण्णां शुभ्रवर्णा... श्रीगणेशाय नमः । श्रीसमर्... ॐ अस्य श्रीगणपतिगकारादिसह... ॐ सुमुखाय नमः । सुवहाय । ... ध्यानम् रक्तश्वेतहिरण्यनी... ध्यानम् - रक्तश्वेतहिरण्य... ॐ शं शां षं ह्रीं क्लीं ग... अथ ध्यानम् । सूर्यस्पर्धि... ॐ श्री गुरुभ्यो नमः । गुर... ॐ श्रीगणेशाय नमः । सर्वत्... अथ श्रीगोपालदिव्यसहस्रनाम... ॐ गवे नमः । ॐ गौविन्द्यै ... श्रीगुरुभ्यो नमः । श्रीका... ॐ अस्य श्रीप्रचण्डचण्डिका... अथ श्रीयोगेश्वरकवि द्वारा... अस्य श्रीज्वालामुखीसहस्रन... विश्वव्यापकवारिमध्यविलसच्... ॐ अस्य श्रीतारासहस्रनामस्... ॐ भुवनेश्यै नमः । ॐ भुवार... ॐ अस्य श्रीमहोग्रतारा दिव... वरिष्ठ उवाच - कथं नामसहस्... ॐ तुलस्यै नमः । ॐ श्रीप्र... ॐ श्रीमत्त्यागमहाराजाय नम... श्रीगणपतये नमः । ॐ अनेजते... ध्यानम् । उद्यद्भानुसहस्र... ॐ योगेशाय नमः । ॐ अमरप्रभ... महाकालभैरव ऋषिस्त्रिष्टुप... अस्य श्रीदक्षिणामूर्तिसहस... ॐ आदिदेवाय नमः । दयासिन्ध... ध्यानम् । स्फटिकरजतवर्णां... ऋषिच्छन्दांसि - अस्य श्री... तन्त्रराजतन्त्रे पूर्वपीठ... ध्यानम् । १. सिंहस्था शशि... महामन्त्रस्य श्रीमहेश्वर ... ध्यानम् - रक्ताभां रक्तवस... ॐ श्रीमते नमः । ॐ धन्वन्त... ॐ नमो भगवते भूतनाथाय । ॐ ... ध्यानम् । विवर्णा चञ्चला ... अस्य श्री शिवकामसुन्दरीसम... ॐ अस्य श्रीनटेशसहस्रनामस्... ॐ श्री गणेशाय नमः । अस्य ... श्री गुरुभ्यो नमः । ॐ श्र... श्री गुरुभ्यो नमः । ॐ श्र... ॥ ध्यानम् ॥ श्रीमित्रेश्... श्रीराधासर्वेश्वरो विजयते... पद्मावतीशतम् ॐ श्री पद्मा... ॐ श्रीगणेशाय नमः । ॐ अस्य... अथ विनियोगः । ॐ अस्य श्री... अथ अकारादि-क्षकारान्तासहस... ॐ शिवायै नमः । उमायै । पर... ॐ श्रीकृष्णाय नमः । सच्चि... अस्य श्रीप्रणवसहस्रनामस्त... ईश्वर उवाच । शृणु देवि प... ॐ ब्रह्मास्त्राय नमः । ॐ ... श्रीमहादेव उवाच - अस्य श्... विनियोगः - ॐ अस्य श्रीबटु... रुद्रयामलोक्तबटुकभैरवसहस्... ॐ अस्य श्रीबलभद्रसहस्रनाम... ॐ ऐं ह्रीं श्रीं-आनन्दसिन... शौनक उवाच - कैलासशिखरे रम... श्रीदेव्युवाच - भगवन्भाषि... ओं ऐं ह्रीं श्रीङ्कल्याण्... ॐ परमात्मने नमः ॐ धर्मक्... ॐ निस्सीमोद्यद्गुणाय नमः ... ॐ क्रकुच्छन्दाय नमः । ॐ क... ध्यानम् - बालार्कमण्डलाभा... विनोयोगः - ॐ अस्य श्रीभुव... प्रणवाय ब्रह्मणे उद्गीथाय... विनियोगः । ॐ अस्य श्रीमहा... श्रीः । ॐ नमश्चण्डिकायै ।... ॐ ह्रीं श्रीं क्लीं गणाध्... ॐ महामार्यै नमः । महामाया... पार्वत्युवाच - भगवन् वेदत... श्रीगणेशाय नमः । श्रीमहाल... ॐ ह्रीं ऐं ह्रीं महावाण्य... ध्यानम् श्रीमच्चन्दनचर्चि... ॐ अद्भुताय नमः । अद्भुतचा... ॐ सुमुख्यै नमः । ॐ शेमुष्... ॐ अम्बायै नमः । ॐ अम्बालि... ॐ अस्यश्री मूकाम्बिकायाः ... श्रीभैरव उवाच । अस्य श्री... अस्य श्री मेधादक्षिणामूर्... ॐ नमो भगवते दक्षिणामूर्तय... गर्गसंहितातः ॐ कालिन्द्य... अस्य श्रीयोगेश्वरीसहस्रना... ॐ योगिन्यै नमः । योगमायाय... देव्युवाच - भगवन्सर्वशास्... सोन्दूर श्रीकृष्ण अवधूतवि... वन्दे वृन्दावनानन्दा राधि... ॐ श्रीराधायै नमः । राधिका... ॐ श्रीराधायै नमः । राधिका... ॐ अस्य श्रीरामसहस्रनाममाल... ॐ आर्यश्रेष्ठाय नमः । धरा... सङ्कल्पः - यजमानः, आचम्य,... ॐ नमो भगवते वासुदेवाय । ॐ... ॐ स्थिराय नमः । स्थाणवे ।... न्यासः । अस्य श्रीरुद्रसह... अथ श्रीरेणुकातन्त्रान्तर्... सिन्दूरारुणविग्रहां त्रिन... ॐ श्रियै नमः । वासुदेवमहि... ॐ नित्यागतायै नमः । ॐ अनन... ॐ श्रीवराहाय नमः । भूवराह... ॐ वल्ल्यै नमः । ॐ वल्लीश्... ॐ श्रीवाग्मत्याः सहस्रनाम... ॐ श्रीगणेशाय नमः । श्रीनन... वराहमुख्यै विद्महे । दण्ड... ध्यानम् - ओङ्कारबीजाक्षरी... शुक्लाम्बरधरं विष्णुं शशि... ॐ क्लीं विट्टलाय नमः । पा... पूर्वन्यासः । श्रीवेदव्या... श्रीविष्णुसहस्रनामावलिः प... रुद्र उवाच । संसारसागराद... ॐ श्रीगणेशाय नमः । ॐ विष... श्रीशिवाय गुरवे श्रीवीरभ... वेङ्कटेशस्य नाम्नां हि सह... ॐ श्री गुरुभ्यो नमः । अथ ... ॐ शङ्कराय नमः । ॐ श्रीधरा... ॐ गाढध्वान्तनिमज्जनप्रमुष... ॐ अमिताभाषिणे नमः । ॐ अघह... ॐ श्रीगणेशाय नमः । ॐ श्री... विनियोगः - अस्य श्रीशारिक... अस्य श्रीशास्तृशवर्णसहस्र... ॐ अस्य श्री शिवकामसुन्दरी... अस्य श्रीशिवकामसुन्दरीसहस... ॐ अखिलेश्वर्यै नमः । अग्न... ॐ स्थिराय नमः । ॐ स्थाणवे... ॐ श्री गणेशाय नमः । अथ श्... ॐ ओङ्कारकण्ठनिलयाय नमः । ... ॐ ॐकारनिलयात्मस्थाय नमः ।... श्री विष्णुरुवाच ॐ भवाय ... अस्य श्रीशिवसहस्रनामस्तोत... ॐ सौभाग्यलक्ष्म्यै नमः । ... ॐ राधिकेशाय नमः । ॐ जगन्न... सद्गुरु श्रीधरस्वामिनाप्र... ईशानमुखपूजा- ॐ जगद्भुवे न... ॐ वचनभुवे नमः । पराय । शङ... ॐ रुद्रभुवनाय नमः । अनन्त... ॐ ब्रह्मभुवे नमः । भवाय ।... अघोर मुखपूजा । ॐ विश्वभुव... ॐ अचिन्त्य शक्तये नमः । अ... जपसाधना ॐ अस्य श्रीमहात्र... ॐ सङ्कटायै नमः । ॐ विजयाय... ॐ सङ्गीतालय-प्रतिष्ठित-भग... ॐ सीतायै नमः । उमायै । पर... ॐ श्रीचक्राय नमः । ॐ श्री... ॐ शुक्लाम्बरधरं विष्णुं श... ॐ श्री गणेशाय नमः । अस्य ... ॐ अस्य श्रीसुब्रह्मण्यसहस... बिल्वैर्वा चम्पकाद्यौर्वा... ध्यानम् - ध्येयः सदा सवित... श्रीरुद्रयामले तन्त्रे श्... श्रीसूर्यसहस्रनामावलिः ॐ सुब्रह्मण्याय । सुरेशान... ॐ नमः । ओङ्कारनमोरूपाय । ... ॐ श्रीहयग्रीवाय नमः । श्र... स्वामिनारायणं कृष्णं भक्त... १. ॐ स्थिराय नमः । २. ॐ ... ॥ श्रीदुर्गादैव्ये नम: ॥ ... १. ॐ राजीवलोचनाय नमः । ... १ ॐ अचिन्त्यलक्षणायै नमः ... १ ॐ कालिन्द्यै नमः । २ ॐ... १ ॐ अन्नपूर्णायै नमः । ... १. ॐ नारसिंहाय नमः । २. ... १ ॐ देवकीनन्दनाय नमः । २... १ ॐ क्लीं देवाय नमः । २ ... १ ॐ श्रियै नमः । २ ॐ पद्... १ ॐ हनुमते नमः । २ ॐ श्र... ॥ श्रीकृष्णाय नमः ॥ १. ॐ ... १. ॐ विश्वविदे नम: । २. ... १. ॐ गणेश्वराय नम: । २.... १. ॐ ऐं ह्रीं श्रीं श्रीम... १ ॐ सीतायै नमः । २ ॐ उमा... १ ॐ ओंकाररूपिण्यै नमः । ... १. ॐ विश्वस्मै नमः । २.ॐ... १. ॐ श्रीराधायै नमः । २.... ॐ गणपतये नमः ॥ ॥ ॐ गणेश्व... श्रीविठ्ठलसहस्रनामावलिः - ॐ क्लीं विट्टलाय नमः । पा... हिंदू देवी देवतांची एक हजार नावे म्हणजेच सहस्त्रनामावली. हिंदू धर्मिय रोज सकाळी संध्याकाळी या नावांचा जप करतात.A sahasranamavali is a type of Hindu scripture in which a diety is referred to by 1000 or more different names.Many devout Hindus chant them every morning or evening. Tags : 1000godgoddesssahasranamavaliसहस्त्रनामावली श्रीविठ्ठलसहस्रनामावलिः Translation - भाषांतर ॐ क्लीं विट्टलाय नमः । पाण्डुरङ्गेशाय । ईशाय । श्रीशाय ।विशेषजिते । शेषशायिने । शभुवन्द्याय । शरण्याय । शङ्करप्रियाय ।चन्द्रभागासरोवासाय । कोटिचन्द्रप्रभास्मिताय । विधातृ-सूचिताय । सर्वप्रमाणातीताय । अव्ययाय । पुण्डरीकस्तुताय ।वन्द्याय । भक्तचित्तप्रसादकाय । स्वधर्मनिरताय । प्रीताय ।गोगोपीपरिवारिताय नमः ॥२०ॐ गोपिकाशतनीराज्याय नमः । पुलिनाकीडाय । आत्मभुवे ।आत्मने । आत्मरामाय । आत्मस्थाय । आत्मरामनिषेविताय ।सच्चित्सुखाय । महामायिने । महते । अव्यक्ताय । अद्भुताय ।स्थूलरूपाय । सूक्ष्मरूपाय । कारणाय । परस्मै । अञ्जनाय ।महाकारणाय । आधाराय । अधिष्ठानाय नमः ॥४०ॐ प्रकाशकाय नमः । कञ्जपादाय । रक्तनखाय ।रक्तपादतलाय । प्रभवे । साम्राज्यचिह्नितपदाय । नीलगुल्फाय ।सुजङ्घकाय । सज्जानवे । कदलीस्तम्भनिभोरवे । उरुविक्रमाय ।पीताम्बरावृतकटये । क्षुल्लकादामभूषणाय । कटिविन्यस्तहस्ताब्जाय ।शङ्खिने । पद्मविभूषताय । गम्भीरनाभये ।ब्रह्माधिष्ठितनाभिसरोरुहाय । त्रिवलीमण्डितोदारोदरोमावलिमालिनाय ।कपाटवक्षसे नमः ॥६०ॐ श्रीवत्सभूषितोरसे नमः । कृपाकराय । वनमालिने ।कम्बुकण्ठाय । सुस्वराय । सामलालसाय । कञ्चवक्त्राय ।श्मश्रुहीनचुबुकाय । वेदजिह्वकाय । दाडिमीबीजसदृशरदाय ।रक्ताधराय । विभवे । नासामुक्तापाटलिताधरच्छवये । अरिन्दमाय ।शुकनासाय । कञ्जनेत्राय । कुण्डलाक्रामितांसकाय । महाबाहवे ।घनभुजाय । केयूराङ्गदमण्डिताय नमः ॥८०ॐ रत्नभूषितभूषाढ्यमणिबन्धाय नमः । सुभूषणाय ।रक्तपाणितलाय । स्वङ्गाय । सन्मुद्रामण्डिताङ्गुलये । नखप्रभा-रञ्जिताब्जाय । सर्वसौन्दर्यमण्डिताय । सुभ्रुवे । अर्धशशि-प्रख्यललाटाय । कामरूपधृशे । कुङ्कुमाङ्कितसद्भालाय । सुकेशाय ।बर्हभूषणाय । किरीटभाव्याप्तनभसे । विकलीकृतभास्कराय ।वनमालिने । पीतवाससे । शार्ङ्गचापाय । असुरान्तकाय ।दर्पापहाय नमः ॥१००ॐ कंसहन्त्रे नमः । चाणूरमुरमर्दनाय । वेणुवादनसन्तुष्टाय ।दध्यन्नास्वादलोलुपाय । जितारये । कामजनकाय । कामघ्ने ।कामपूरकाय । विक्रोधाय । दारितामित्राय । भूर्भुवःसुवरादिराजे ।अनादये । अजनये । जन्यजनकाय । जाह्नवीपदाय ।बहुजन्मने । जामदग्न्याय । सहस्रभुजखण्डनाय । कोदण्डधारिणे ।जनकपूजिताय नमः ॥१२०ॐ कमलाप्रियाय नमः । पुण्डरीकभवद्वेषिणे । पुण्डरीक-भवप्रियाय । पुण्डरीकस्तुतिरसाय । सद्भक्तपरिपालकाय ।सुषुमालासङ्गमस्थाय । गोगोपीचित्तरञ्जनाय । इष्टिकास्थाय ।भक्तवश्याय । त्रिमूर्तये । भक्तवत्सलाय । लीलाकृतजगद्धाम्ने ।जगत्पालाय । हराय । विराजे । अश्वत्थपद्मतीर्थस्थाय ।नारदस्तुतवैभवाय । प्रमाणातीततत्त्वज्ञाय । तत्त्वम्पदनिरूपिताय ।अजाजनये नमः ॥१४०अजाजानये नमः । अजायाय । नीरजाय । अमलाय ।लक्ष्मीनिवासाय । स्वर्भूषाय । विश्ववन्द्याय । महोत्सवाय ।जगद्योनये । अकर्त्रे । आद्याय । भोक्त्रे । भोग्याय । भवातिगाय ।षड्गुणैश्वर्यसम्पन्नाय । भगवते । मुक्तिदायकाय । अधःप्राणाय ।मनसे । बुद्ध्यै नमः ॥१६०ॐ सुषुप्त्यै नमः । सर्वगाय । हरये । मत्स्याय । कूर्माय ।वराहाय । अत्रये । वामनाय । हरिरूपधृते । नारसिंहाय । ऋषये ।व्यासाय । रामाय । नीलांशुकाय । हलिने । बुद्धाय । अर्हते । सुगताय ।कल्किने । नराय नमः ॥१८०ॐ नारायणाय नमः । परस्मै । परात्पराय । करीड्येशाय ।नक्रशापविमोचनाय । नारदोक्तिप्रतिष्ठात्रे । मुक्तकेशिने । वरप्रदाय ।चन्द्रभागाप्सुसुस्नाताय । कामितार्थप्रदाय । अनघाय । तुलसी-दामभूषाढ्याय । तुलसीकाननप्रियाय । पाण्डुरङ्गाय । क्षेत्रमूर्तये ।सर्वमूर्तये । अनामयाय । पुण्डरीकव्याजकृतजडोद्धाराय । सदागतये ।अगतये नमः ॥२००ॐ सद्गतये नमः । सभ्याय । भवाय । भव्याय । विधीडिताय ।प्रलम्बघ्नाय । द्रुपदजाचिन्ताहारिणे । भयापहाय । वह्निवक्त्राय ।सूर्यनुताय । विष्णवे । त्रैलोक्यरक्षकाय । जगद्भक्ष्याय । जगद्गेहाय ।जनाराध्याय । जनार्दनाय । जेत्रे । विष्णवे । वरारोहाय । भीष्म-पूज्यपदाम्बुजाय नमः ॥२२०ॐ भर्त्रे नमः । भीष्मकसम्पूज्याय । शिशुपालवधोद्यताय ।शतापराधसहनाय । क्षमावते । आदिपूजनाय । शिशुपालशिरश्छेत्रे ।दन्तवक्त्रबलापहाय । शिशुपालकृतद्रोहाय । सुदर्शनविमोचनाय ।सश्रिये । समायाय । दामेन्द्राय । सुदामक्रीडनोत्सुकाय ।वसुदामकृतक्रीडाय । किङ्किणीदामसेविताय । पश्चाङ्गपूजनरताय ।शुद्धचित्तवशंवदाय । रुक्मिणीवल्लभाय ।सत्यभामाभूषितविग्रहाय नमः ॥२४०ॐ नाग्नजित्याकृतोद्वाहाय नमः । सुनन्दाचित्तमोहनाय ।मित्रविन्दाऽऽलिङ्गिताङ्गाय । ब्रह्मचारिणो । वटुप्रियाय ।सुलक्षणाधौतपदाय । जाम्बवत्या कृतादराय । सुशीलाशीलसन्तुष्टाय ।जलकेलिकृतादराय । वासुदेवाय । देवकीड्याय । नन्दानन्दकराङ्घ्रियुजे ।यशोदामानसोल्लासाय । बलावरजनये । स्वभुवे । सुभद्रानन्ददाय ।गोपवश्याय । गोपीप्रियाय । अजयाय । मन्दारमूलवेदिस्थाय नमः ॥२६०ॐ सन्तानतरुसेविताय नमः । पारिजातापहरणाय ।कल्पद्रुमपुरःसराय । हरिचन्दनलिप्ताङ्गाय । इन्द्रवन्द्याय ।अग्निपूजिताय । यमनेत्रे । नैरृतेयाय । वरुणेशाय । खगप्रियाय ।कुबेरवन्द्याय । ईशेशाय । विधीड्याय । अनन्तवन्दिताय । वज्रिणे ।शक्तये । दण्डधराय । खड्गिने । पाशिने । अङ्गुशिने नमः ॥२८०ॐ गदिने नमः । त्रिशूलिने । कमलिने । चक्रिणे । सत्यव्रतमयाय ।नवाय । महामन्त्राय । प्रणवभुवे । भक्तचिन्तापहारकाय ।स्वक्षेत्रवासिने । सुखदाय । कामिने । भक्तविमोचनाय ।स्वनामकीर्तनप्रीताय । क्षेत्रेशाय । क्षेत्रपालकाय । कामाय ।चक्रधरार्धाय । त्रिविक्रममयात्मकाय । प्रज्ञानकरजिते नमः ॥३००ॐ कान्तिरूपवर्णाय नमः । स्वरूपवते । स्पर्शेन्द्रियाय ।शौरिमयाय । वैकुण्ठाय । सानिरुद्धकाय । षडक्षरमयाय । बालाय ।श्रीकृष्णाय । ब्रह्मभाविताय । नारदाधिष्ठितक्षेमाय ।वेणुवादनतत्पराय । नारदेशप्रतिष्ठात्रे । गोविन्दाय । गरुडध्वजाय ।साधारणाय । समाय । सौम्याय । कलावते । कमलालयाय नमः ॥३२०ॐ क्षेत्रपाय नमः । क्षणदाधीशवक्त्राय । क्षेमकरक्षणाय ।लवाय । लवणिम्ने । धाम्ने । लीलावते । लघुविग्रहाय । हयग्रीवाय ।हलिने । हंसाय । हतकंसाय । हलिप्रियाय । सुन्दराय । सुगतये ।मुक्ताय । सत्सख्ये । सुलभाय । स्वभुवे । साम्राज्यदाय नमः ॥३४०ॐ सामराजाय नमः । सत्तायै । सत्याय । सुलक्षणाय ।षड्गुणैश्वर्यनिलयाय । षडृतुपीरसेविताय । षडङ्गशोधिताय ।षोढा । षड्दर्शननिरूपिताय । शेषतल्पाय । शतमखाय ।शरणागतवत्सलाय । सशम्भवे । समितये । शङ्खवहाय ।शार्ङ्गसुचापधृते । वह्नितेजसे । वारिजास्याय । कवये ।वंशीधराय नमः ॥३६०ॐ विगाय नमः । विनीताय । विप्रियाय । वालिदलनाय ।वज्रभूषणाय । रुक्मिणीशाय । रमाजानये । राजराजन्यभूषणाय ।रतिप्राणप्रियपित्रे । रावणान्ताय । रघूद्वहाय । यज्ञभोक्त्रे । यमाय ।यज्ञभूषणाय । यज्ञदूषणाय । यज्वने । यशोवते । यमुनाकूल-कुञ्जप्रियाय । यमिने । मेरवे नमः ॥३८०ॐ मनीषिणे नमः । महिताय । मुदिताय । श्यामविग्रहाय ।मन्दगामिने । मुग्धमुखाय । महेशाय । मीनविग्रहाय । भीमाय ।भीमाङ्गजातीरवासिने । भीमार्तिभञ्जनाय । भूभारहरणाय ।भूतभावनाय । भरताग्रजाय । बलाय । बलप्रियाय । बालाय ।बालक्रीडनतत्पराय । बकासुरान्तकाय । बाणासुरदर्पकबाडवाय नमः ॥४००ॐ बृहस्पतये । बलारातिसूनवे । बलिवरप्रदाय । बोद्ध्रे ।बन्धुवधोद्युक्ताय । बन्धमोक्षप्रदाय । बुधाय । फाल्गुनानिष्टघ्ने ।फल्गुकृतारातये । फलप्रदाय ।फेनजातैरकावज्रकृतयादवसङ्क्षयाय । फाल्गुनोत्सवसंसक्ताय ।फणितल्पाय । फणानटाय । पुण्याय । पवित्राय । पापात्मदूरगाय ।पण्डिताग्रण्ये । पोषणाय । पुलिनावासाय नम ॥४२०ॐ पुण्डरीकमनोर्वशाय नमः । निरन्तराय । निराकाङ्क्षाय ।निरातङ्काय । निरञ्जनाय । निर्विण्णमानसोल्लासाय । सतां नयनानन्दनाय ।नियमाय । नियमिने । नम्याय । नन्दबन्धनमोचनाय ।निपुणाय । नीतिमते । नेत्रे । नरनारायणवपुषे । धेनुकासुरविद्वेषिणे ।धाम्ने । धात्रे । धनिने । धनाय नमः ॥४४०ॐ धन्याय नमः । धन्यप्रियाय । धर्त्रे । धीमते । धर्मविदुत्तमाय ।धरणीधरसन्धर्त्रे । धराभूषितदंष्ट्रकाय । दैतेयहन्त्रे । दिग्वाससे ।देवाय । देवशिखामणये । दाम्ने । दात्रे । दीप्तिभानवे । दानवादमित्रे ।दमाय । स्थिरकार्याय । स्थितप्रज्ञाय । स्थविराय । स्थापकाय ।स्थितये नमः ॥४६०ॐ स्थितलोकत्रयवपुषे नमः । स्थितिप्रलयकारणाय ।स्थापकाय । तीर्थचरणाय । तर्पकाय । तरुणीरसाय ।तारुण्यकेलिनिपुणाय । तरणाय । तरणि प्रभवे । तोयमूर्तये ।तमोऽतीताय । स्तभोद्भूताय । तपः पराय । तडिद्वाससे । तोयदाभाय ।ताराय । तारस्वरप्रियाय । णकाराय । ढौकितजगते ।त्रितूर्यप्रीतभूसुराय । डमरूप्रियाय । ऋद्वासिने । डिण्डिमध्वनि-गोचराय नमः ॥४८४ॐ ठयुगस्थमनोर्गम्याय नमः । ठङ्कारिधनुरायुधाय ।टणत्कारितकोदण्डहतारये । गणसौख्यदाय । झाङ्कारिचञ्चरीकाङ्किने ।श्रुतिकल्हारभूषणाय । जरासन्धार्दितजगत्सुखभुवे ।जङ्गमात्मकाय । जगज्जनये । जगद्भूषाय । जानकीविरहाकुलाय ।जिष्णुशोकापहरणाय । जन्महीनाय । जगत्पतये । छत्रिताहीन्द्र-सुभगाय । छद्मिने । छत्रितभूधराय । छायास्थलोकत्रितयच्छलेनबलिनिग्रहिणे । चेतश्चमत्कारकराय । चित्रिणे नमः ॥५०४ॐ चित्रस्वभाववते नमः । चारुभुवे । चन्द्रचूडाय ।चन्द्रकोटिसमप्रभाय । चूडात्नवद्योतिभालाय । चलन्मकरकुण्डलाय ।चरुभुजे । चयनप्रीताय । चम्पकाटविमध्यगाय । चाणूरहन्त्रे ।चन्द्राङ्कनाशनाय । चन्द्रदीधितये । चन्दनालिप्तसर्वाङ्गाय ।चारुचामरमण्डिताय । घनश्यामाय । घनरवाय । घटोत्कचपितृप्रियाय । घनस्तनीपरीवाराय । घनवाहनगर्वघ्ने ।गङ्गापदाय नमः ॥५२४ॐ गतक्लेशाय नमः । गतक्लेशनिषेविताय । गणनाथाय ।गजोद्धर्त्रे । गायकाय । गायनप्रियाय । गोपतये । गोपिकावश्याय ।गोपबालानुगाय । पतये । गणकोटिपरीवाराय । गम्याय । गगन-निर्मलाय । गायत्रीजपसम्प्रीताय । गण्डकीस्थाय । गुहाशयाय ।गुहारण्यप्रतिष्ठात्रे । गुहासुरनिषूदनाय । गीतकीर्तये । गुणारामाय ।गोपालाय नमः ॥५४५ॐ गुणवर्जिताय नमः । गोप्रियाय । गोचरप्रीताय ।गाननाट्यप्रवर्तकाय । खड्गायुधाय । खरद्वेषिणे । खातीताय ।खगमोचनाय । खगपुच्छकृतोत्तंसाय । खेलद्बालकृतप्रियाय ।खट्वाङ्गपतोथितारातये । खञ्जनाक्षाय । खशीर्षकाय । कलवंश-रवाक्रान्तगोपीविस्मारितार्भकाय । कलिप्रमाथिने । कञ्जास्याय ।कमलायतलोचनाय । कालनेमिप्रहरणाय । कुण्ठितार्तिकिशोरकाय ।केशवाय नमः ॥५६५ॐ केवलाय नमः । कण्ठीरवास्याय । कोमलाङ्घ्रियुजे ।कम्बलिने । कीर्तिमते । कान्ताय । करुणामृतसागराय ।कुब्जासौभाग्यदाय । कुब्जाचन्दनालिप्तगात्रकाय । कालाय ।कुवलयापीडहन्त्रे । क्रोधसमाकुलाय । कालिन्दीपुलिनाक्रीडाय ।कुञ्जकेलिकुतूहलिने । काञ्चनाय । कमलाजानये । कलाज्ञाय ।कामितार्थदाय । कारणाय । कारणातीताय नमः ॥५८५ॐ कृपापूर्णाय नमः । कलानिधये । क्रियारूपाय ।क्रियातीताय । कालरूपाय । क्रतुप्रभवे । कटाक्षस्तम्भितारातये ।कुटिलालकभूषिताय । कूर्माकाराय । कालरूपिणे । करीरवन-मध्यगाय । कलकण्ठिने । कलरवाय । कलकण्ठरुतानुकृते ।करद्वारपुराय । कूटाय । सर्वेषाङ्कवलप्रियाय । कलिकल्मषघ्ने ।क्रान्तगोकुलाय । कुलभूषणाय । कूटारये नमः ॥६०६ॐ कुतुपाय नमः । कीशपरिवाराय । कविप्रियाय ।कुरुवन्याय । कठिनदोर्दण्डखण्डितभूभराय । किङ्करप्रियकृते ।कर्मरतभक्तप्रियङ्कराय । अम्बुजास्याय । अङ्गनाकेलये । अम्बुशायिने ।अम्बुधिस्तुताय । अम्भोजमालिने । अम्बुवाहलसदङ्गाय ।अन्त्रमालकाय । औदुम्बरफलप्रख्यब्रह्माण्डावलिचालकाय ।ओष्ठस्फुरन्मुरलिकारवाकर्षितगोकुलाय । ऐरावतसमारूढाय ।ऐन्द्रीशोकापहारकाय । ऐश्वर्यावधये । ऐश्वर्याय नमः ॥६२६ॐ ऐश्वर्याष्टदलस्थिताय नमः । एणशाबसमानाक्षाय ।एधस्तोषितपावकाय । एनोऽन्तकृन्नामधेयस्मृतिसंसृतिदर्पघ्ने ।लूनपश्चक्लेशपदाय । लूतातन्तुजगत्कृतये । लुप्तदृश्याय ।लुप्तजगज्जयाय । लुप्तसुपावकाय । रूपातीताय । रूपनामरूपमायादि-कारणाय । ऋणहीनाय । ऋद्धिकारिणे । ऋणातीताय । ऋतंवदाय ।उषानिमित्तबाणघ्नाय । उषाहारिणे । ऊर्जिताशयाथ । ऊर्ध्वरूपाय ।ऊर्ध्वाधरगाय नमः ॥६४०ॐ ऊष्मदग्धजगत्त्रयाय नमः । उद्धवत्राणनिरताय ।उद्धवज्ञानदायकाय । उद्धर्त्रे । उद्धवाय । उन्निद्राय । उद्बोधाय ।उपरिस्थिताय । उदधिक्रीडाय । उदधितनयाप्रियाय । उत्सवाय ।उच्छिन्नदेवतारातये । उदध्यावृतिमेखलाय । ईतिघ्नाय । ईशित्रे ।ईज्याय । ईड्याय । ईहाविवर्जिताय । ईशध्येयपदाम्भोजाय ।इनाय नमः ॥६६६ॐ इनविलोचनाय नमः । इन्द्राय । इन्द्रानुजनटाय ।इन्दिराप्राणवल्लभाय । इन्द्रादिस्तुताय । इन्द्रश्रिये । इदमित्थमभीतकृते ।आनन्दाभासाय । आनन्दाय । आनन्दनिधये । आत्मदृशे ।आयुषे । आर्तिघ्नाय । आयुष्याय । आदये । आमयवर्जिताय ।आदिकारणाय । आधाराय । आधारादिकृताश्रयाय ।अच्युतैश्वर्याय नमः ॥६८६ॐ अमिताय नमः । अरिनाशाय । अघान्तकृते । अन्नप्रदाय ।अन्नाय । अखिलाधाराय । अच्युताय । अब्जभृते । चन्द्रभागाजल-क्रीडासक्ताय । गोपविचेष्टिताय । हृदयाकारहृद्भूषाय । यष्टिमते ।गोकुलानुगाय । गवां हुङ्कृतिसुप्रीताय । गवालीढपदाम्बुजाय ।गोगोपत्राणसुश्रान्ताय । अश्रमिणे । गोपवीजिताय । पाथेयाशन-सम्प्रीताय । स्कन्धशिक्याय नमः ॥७०६ॐ मुखाम्बुपाय नमः । क्षेत्रपारोपितक्षेत्राय । रक्षोऽधिकृतभैरवाय ।कार्यकारणसङ्घाताय । ताटकान्ताय । रक्षोघ्ने । हन्त्रे ।तारापतिस्तुत्याय । यक्षाय । क्षेत्राय । त्रयीवपुषे । प्राञ्जलये ।लोलनयनाय । नवनीताशनप्रियाय । यशोदातर्जिताय ।क्षीरतस्कराय । भाण्डभेदनाय । मुखाशनाय । मातृवश्याय ।मातृदृश्यमुखान्तराय नमः ॥७२६ॐ व्यात्तवक्त्राय नमः । गतभयाय । मुखलक्ष्यजगत्त्रयाय ।यशोदास्तुतिसम्प्रीताय । नन्दविज्ञातवैभवाय । संसारनौकाधर्मज्ञाय ।ज्ञाननिष्ठाय । धनार्जकाय । कुबेराय । क्षत्रनिधनाय ।ब्रह्मर्षये । ब्राह्मणप्रियाय । ब्रह्मशापप्रतिष्ठात्रे ।यदुराजकुलान्तकाय । युधिष्ठिरसखाय । युद्धदक्षाय ।कुरुकुलान्तकृते । अजामिलोद्धारकारिणे । गणिकामोचनाय ।गुरवे नमः ॥७४६ॐ जाम्बवद्युद्धरसिकाय नमः । स्यमन्तमणिभूषणाय ।सुभद्राबन्धवे । अक्रूरवन्दिताय । गदपूर्वजाय । बलानुजाय ।बाहुयुद्धरसिकाय । मयमोचनाय । दग्धखाण्डवसम्प्रीतहुताशाय ।हवनप्रियाय । उद्यदादित्यसङ्काशवसनाय । हनुमद्रुचये । भीष्म-बाणव्रणाकीर्णाय । सारथ्यनिपुणाय । गुणिने । भीष्मप्रतिभटाय ।चक्रधराय । सम्प्रीणितार्जुनाय । स्वप्रतिज्ञाहानिहृष्टाय ।मानातीताय नमः ॥७६६ॐ विदूरगाय नमः । विरागाय । विषयासक्ताय । वैकुण्ठाय ।अकुण्ठवैभवाय । सङ्कल्पाय । कल्पनातीताय । समाधये ।निर्विकल्पकाय । सविकल्पाय । वृत्तिशून्याय । वृत्तये । बीजाय ।अतिगताय । महादेवाय । अखिलोद्धारिणे । वेदान्तेषु प्रतिष्ठिताय ।तनवे । बृहत्तनवे । रण्वराजपूज्याय नमः ॥७८६ॐ अजराय नमः । अमराय । भीमाहाजरासन्धाय ।प्रार्थितायुधसङ्गराय । स्वसङ्केतप्रक्लृप्तार्थाय । निरर्थ्याय ।अर्थिने । निराकृतये । गुणक्षोभाय । समगुणाय । सद्गुणाढ्याय ।प्रमाप्रजाय । स्वाङ्गजाय । सात्यकिभ्रात्रे । सन्मार्गाय ।भक्तभूषणाय । अकार्यकारिणे । अनिर्वेदाय । वेदाय ।गोपाङ्कनिद्रिताय नमः ॥८०६ॐ अनाथाय नमः । दावपाय । दावाय । दाहकाय । दुर्धराय ।अहताय । ऋतवाचे । याचकाय । विप्राय । खर्वाय । इन्द्रपदप्रदाय ।बलिमूर्धस्थितपदाय । बलियज्ञविघातकृते । यज्ञपूर्तये ।यज्ञमूर्तये । यज्ञविघ्नाय । अविघ्नकृते । बलिद्वाःस्थाय ।दानशीलाय । दानशीलप्रियाय नभः ॥८२६ॐ व्रतिने नमः । अव्रताय । जतुकागारस्थितपाण्डवजीवनाय ।मार्गदर्शिने । मृदवे । हेलादूरीकृतजगद्भयाय । सप्तपातालपादाय ।अस्थिपर्वताय । द्रुमरोमकाय । उडुमालिने । ग्रहाभूषाय ।दिक्श्रुतये । तटिनीशिराय । वेदश्वासाय । जितश्वासाय ।चित्तस्थाय । चित्तशुद्धिकृते । धियै । स्मृत्यै । पुष्ट्यै नमः ॥८४६ॐ अजयाय नमः । तुष्ट्यै । कान्त्यै । धृत्यै । त्रपायै । हलाय ।कृष्यै । कलाय । वृष्ट्यै । गृष्ट्यै । गौरवनाय । वनाय ।क्षीराय । हव्याय । हव्यवाहाय । होमाय । वेद्यै । समिधे । स्रुवाय ।कर्मणे नमः ॥८६६ॐ कर्मफलाय नमः । स्वर्गाय । भूष्याय । भूषायै महाप्रभवे ।भुवे । भुवः । स्वः । महर्लोकाय । जनोलोकाय । तपसे । जनाय ।सत्याय । विधये । दैवाय । अधोलोकाय । पातालमण्डनाय ।जरायुजाय । स्वेदजनये । उद्बीजाय । कुलपर्वताय नमः ॥८८७ॐ कुलस्तम्भाय नमः । सर्वकुलाय । कुलभुवे । कौलदूरगाय ।धर्मतत्त्वाय । निर्विषयाय । विषयाय । भोगलालसाय । वेदान्त-साराय । निर्मोक्त्रे । जीवाय । बद्धाय । बहिर्मुखाय । प्रधानाय ।प्रकृत्यै । विश्वद्रष्ट्रे । विश्वनिषेधनाय । अन्तश्चतुर्द्वारमयाय ।बहिर्द्वारचतुष्टयाय । भुवनेशाय नमः ॥९०७ॐ क्षेत्रदेवाय नमः । अनन्तकायाय । विनायकाय । पित्रे ।मात्रे । सुहृदे । बन्धवे । भ्रात्रे । श्राद्धाय । यमाय । अर्यम्णे ।विश्वेभ्यो देवेभ्यः । श्राद्धदेवाय । मनवे । नान्दीमुखाय । धनुषे ।हेतये । खड्गाय । रथाय । युद्धाय ॥९२७ॐ युद्धकर्त्रे । शराय । गुणाय । यशसे । यशोरिपवे । शत्रवे ।अशत्रवे । विजितेन्द्रियाय । पात्राय । दात्रे । दापयित्रे । देशाय ।कालाय । धनागमाय । काञ्चनाय । प्रेम्णे । सन्मित्राय । पुत्राय ।कोशाय । विकोशकाय नमः ॥९४७ॐ अनीत्यै नमः । शरभाय । हिंस्राय । द्विपाय । द्वीपिने ।द्विपाङ्कुशाय । यन्त्रे । निगडाय । आलानाय । सन्मनोगजशृङ्खलाय ।मनोऽब्जभृङ्गाय । विटपिगजाय । क्रोष्ट्रे । वृशाय । वृकाय ।सत्पथाचारनलिनीषट्पदाय । कामभञ्जनाय । स्वीयचित्त-चकोराब्जाय । स्वलीलाकृतकौतुकाय । लीलधामाम्बुभृन्नाथाय ।क्षोणीभर्त्रे नमः ॥९६८सुधाब्धिदाय नमः । मल्लान्तकाय । मल्लरूपाय । बालयुद्ध-प्रवर्तनाय । चन्द्रभागासरोनीरसीकरग्लपितश्रमाय । कन्दुकक्रीडन-क्लान्ताय । नेत्रमीलनकेलिमते । गोपीवस्त्रापहरणाय । कदम्ब-शिखरस्थिताय । वल्लवीप्रार्थिताय । गोपीनतिदेष्ट्रे । अञ्जलि-प्रियाय । रासे परिहासपराय । रासमण्डलमध्यगाय । वल्लवीद्वय-संवीताय । स्वात्मद्वैतात्मशक्तिकाय । चतुर्विंशतिभिन्नात्मने ।चतुर्विंशतिशक्तिकाय । स्वात्मज्ञानाय । स्वात्मजातजगत्त्रय-मयात्मकाय नमः ॥९८८इति विठ्ठलसहस्रनामावलिः समाप्ता । N/A References : N/A Last Updated : January 19, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP