माणिक्यवाचकसहस्रनामावलिः - ॐ अद्भुताय नमः । अद्भुतचा...
हिंदू देवी देवतांची एक हजार नावे म्हणजेच सहस्त्रनामावली. हिंदू धर्मिय रोज सकाळी संध्याकाळी या नावांचा जप करतात.
A sahasranamavali is a type of Hindu scripture in which a diety is referred to by 1000 or more different names.Many devout Hindus chant them every morning or evening.
ॐ अद्भुताय नमः । अद्भुतचारित्राय । अनपायाय ।
अनङ्गरूपवते । अतिबुद्धये । अतिश्रेष्ठाय । अशेषजन-सौख्यदाय ।
अमात्यवर्याय । अगधृते । अरिमर्दनपूजिताय । अगजाकरुणापात्राय ।
अग्निभूसदृशाय । अव्ययाय । अनेकाम्नायवेत्त्रे ।
अनेकागमवाचकाय । अतिसुन्दरवाचे । अब्जनयनाय ।
अतिदयान्विताय । अरिजेत्रे । असाध्यबलाय नमः । २०
ॐ अवाङ्मानसगोचराय नमः । अप्रमेयबलाय ।
अनन्तमहिम्ने । अतिमुदान्विताय । अचिन्त्यशक्तये । अक्षोभ्याय ।
अग्रगण्याय । अजराय । अमराय । अत्युदाराय । अनघाय ।
अमोघाय । अशोकाय । अनाथवत्सलाय । अपाराय ।
अनन्तमहिम्ने । अद्वयाय । अनन्तमोक्षदाय । अकल्मषाय ।
अभिरामाय नमः । ४०
ॐ अप्रमेयाय । अध्वराय । अचराय । अग्र्याय । अतुलाय ।
अमृताय । अघोराय । अधुर्याय । अमितविक्रमाय ।
अनाथनाथाय । अमलाय । अप्रमत्ताय । अचञ्चलाय ।
अरिन्दमाय । अखिलाधाराय । अकलङ्काय । अचलिताय ।
अचपलाय । अभीष्टदायकाय । अदृश्याय । ६०
ॐ अमेयात्मने नमः । अतीन्द्रियाय । अव्यक्त-लक्षणाय ।
आत्मपतये । आत्मनिष्ठाय । आत्मनाथाङ्घ्रिपूजकाय ।
आर्यवेदविदे । आत्मवेत्रे । आदये । आप्तकामदाय ।
आगमाम्भोधिभुवे । आनन्दामृतदायकाय । आचार्यपादभक्ताय ।
आश्रितामरपादपाय । आबालगोपविदिताय । आसेतुकीर्तिमते ।
आकाश-गमनाय । आकाशसञ्चारपरसौख्यदाय ।
आत्मपूजापराय । आत्ममन्त्रोद्धारप्रवर्तकाय नमः । ८०
ॐ आत्मेश्वराप्तमन्त्राय नमः । आशाविरहिताय ।
आशापालनुताय । आदित्यसमकान्तिमते । आदिकैलास-
नगरीनायकाभिमताय । आर्याय । आढ्याय । आनन्दाय ।
आपद्विनाशकाय । आनन्दात्मफलप्रदाय । आर्तसंरक्षणाय ।
आश्रितेष्टार्थदायकाय । आपन्नार्तिविनाशकाय ।
आर्यसंसर्गतत्पराय । इन्दिरावासवक्त्रश्रिये । इन्दिरापाङ्गवीक्षिताय ।
इन्दिरारमणस्निग्धाय । इन्दिरावासपात्रकाय । इन्द्रादिदेवतापूज्याय ।
इन्द्रगोपसमांशुकाय नमः । १००
ॐ इलाधरसुतापुत्राय । इतिहासपराय । इयत्ताविच्छिन्नयशसे ।
इक्षुसारसमानवाचे । इच्छाविरहिताय । इन्द्रविमानप्रवरस्थिताय ।
इष्टापूर्तफलप्राप्ताय । इष्टेष्टवरदायकाय । इतिहासस्तुतिस्तुत्याय ।
इहामुत्रफलप्रदाय । इन्द्रोपेन्द्रसमाभोगाय । इष्टदाय । इष्टवत्सलाय ।
ईशानचरणासक्ताय । ईप्सितार्थप्रदायकाय । ईहाविरहिताय । ईड्याय ।
ईतिबाधाविनाशकाय । ईषणात्रयविनिर्मुक्ताय ।
ईश्वराङ्घ्रिप्रपूजकाय नमः । १२०
ॐ ईशताण्डवसेविने नमः । ईशित्वाद्यष्टसिद्धिदाय ।
ईश्वरोत्सङ्गनिलयाय । ईश्वरध्यानचेतसे । ईशानादिब्रह्मचिन्त्याय ।
ईशपूजापरायणाय । ईश्वरप्रेरणकराय । ईशाज्ञापरिपालकाय ।
ईदृगित्यविनिर्देश्याय । ईश्वरारा-धनोत्सुकाय । ईशक्षेत्ररताय ।
ईशाय । ईश्वरप्रेमभाजे । ईश्वरावासरसिकाय । ईशैश्वर्यसमृद्धिमते ।
ईतिभीतिहराय । ईडनीयपराक्रमाय । उदारकीर्तये । उत्कृष्टाय ।
उद्योगिने नमः । १४०
ॐ उत्सवप्रियाय नमः । उत्कृष्टशक्तये । उत्साहाय ।
उज्जृम्भाय । उद्भवाय । उत्कृष्टबुद्धये । उन्मत्ताय । उद्वेगघ्नाय ।
उरगेश्वराय । उदग्रलोचनाय । उदग्राय । उमाचरणभक्तिमते ।
उरुप्रभावाय । उरुतराय । उमासूनवे । उदारधिये । ऊर्ध्वरेतसे ।
ऊर्ध्वगतये । ऊर्ध्वाय । ऊर्ध्वगाय नमः । १६०
ॐ ऊर्जिताय नमः । ऊर्जवते । ऊर्जितकीर्तये ।
ऊर्जिताघप्रमर्दनाय । ऊर्जिताज्ञाय । ऊर्जितगतये । ऊर्जितवाचे ।
ऊर्जितासनाय । ऋजुरूपाय । ऋजुकराय । ऋजुमार्गप्रदर्शकाय ।
ऋणत्रयविनिर्मुक्ताय । ऋग्यजुर्वेद-पारगाय । ऋतवाचे ।
ऋतुपर्णश्रिये । ऋचीकप्रियदर्शनाय । ऋद्धाय । ऋद्ध्यात्मकाय ।
ऋभुक्षापतिसेविताय । लिङ्गार्चनपराय नमः । १८०
ॐ लिङ्गपुराणश्रवणोत्सुकाय नमः । एणाजिनधराय ।
एणाङ्कधरपूजकाय । एनौघनाशनाय । एकवीराय । एकाग्रचित्ताय ।
एधमानप्रभावाय । एणाक्षिप्रियभक्तिमते । एकत्र निश्चलमतये ।
एकभोगाय । एकमानसाय । ऐश्वर्यदायकाय । ऐतिह्माय । ऐन्द्रभोगवते ।
ऐरावतसमारूढाय । ऐरावतसुपूजिताय । ओजस्विने । ओषधीपतये ।
ओङ्कारनिरताय । ओम्पदार्थविचारकाय नमः । २००
ॐ ओदनप्रियाय नमः । औदार्यशीलाय । औदार्याय । औन्नत्याय ।
औन्नतिदायकाय । औपकार्यवरिष्ठाय । औपकाररताय । अम्बरस्थाय ।
अम्बरतरवे । अम्बरप्रभुसेवकाय । अम्बरारण्यरसिकाय । अंशुमते ।
अन्नदाय । अम्बराय । अम्बिकातनयाय । अम्बिकारमणप्रियाय ।
अन्धकारविनाशनाय । अन्धत्वविनिवर्तकाय । अन्धकारिप्रियाय ।
अन्तकान्तकभक्तिमते नमः । २२०
ॐ अम्बुजातमुखाय नमः । अम्बुजावाससुन्दराय । आस्थानमण्डपकराय ।
आस्थानस्थप्रपूजकाय । आस्थानस्थानरसिकाय । आस्थानावाससौख्यदाय ।
कल्याणशीलाय । काव्यज्ञाय । कन्दर्पसमकान्तिमते ।
कनकाङ्गदकेयूरधराय । कनकाम्बरधारकाय । कारुण्यामृतवर्षिणे ।
करुणारसशेवध्यै । कलिदोषनिवृत्ताय ।
कमनीयाय । कलान्विताय । कलानाथाय । कल्पवल्ली-समभुजाय ।
कवाटकठिनोरस्काय । करेणुमन्दगमनाय नमः । २४०
ॐ करेणुसमविक्रमाय । कटीतटलसत्सूत्राय । कौपीनवरधारकाय ।
करस्थपुस्तकधराय । करस्थाक्षस्रगुज्ज्वलाय । कम्बुकण्ठाय ।
कलालापाय । कर्मठाय । कञ्जलोचनाय । करभोरवे । कामहराय ।
कामतूणीरजङ्घिकाय । कमलत्विट्पदाय । कान्ताय ।
कामशासन सेवकाय । कालज्ञाय । काङ्क्षारहिताय ।
कारणज्ञाय । कृपानिधये । कामप्रदाय नमः । २६०
ॐ कान्तियुक्ताय नमः । काञ्चनाभाय । कवीश्वराय ।
कान्तिमते । क्लेशनाशाय । कलुषघ्नाय । कलाधराय । क्रूरघ्नाय ।
कवचिने । कोमलाङ्गाय । कृतिने । कृशाय । कल्याय । कृतज्ञाय ।
कलितापहृते । कामरूपाय । कल्पतरवे । करुणाकराय ।
ख्यातिप्रदाय । खेचरेशाय नमः । २८०
ॐ ख्याताय नमः । खेचरसंश्रयाय । खस्थप्रियाय । खण्डिताघाय ।
खस्थाय । खेचरपालकाय । खण्डेन्दुमौलिभक्ताय । खरतापहराय ।
खेलाय । खेटधराय । खट्वाङ्गिने । खलनिग्रहाय । खण्डितैनसे ।
खण्डिताशाय । खण्डिताय । खण्डपातकाय । खरान्तकहिताय ।
खेचरीजनपूजिताय । गम्भीराय । गगनानन्दाय नमः । ३००
ॐ गुप्ताय नमः । गुह्याय । गुणाश्रयाय । गुणातीताय ।
गुणनिधये । गूढरूपाय । गुणाग्रण्यै । गोप्त्रे । गुणज्ञाय ।
गीतज्ञाय । गुणवते । गुणवर्धनाय । गुहावासाय । गतातङ्काय ।
गद्यपद्यप्रियाय । गताविद्याय । गतक्लेशाय । गण्याय ।
गगनगोचराय । गाङ्गेयसमबुद्धिमते नमः ॥३२०
ॐ गणनीयचरित्राय नमः । गन्धर्वसेव्याय । गन्धर्वाय ।
गोपालसचिवोत्तमाय । गोप्रियाय । गोनुतयशसे । गिरिशाप्तमनवे ।
गुणिने । गोपूज्याय । गिरिजासूनवे । गोधराय । गगनस्थिताय ।
गाङ्गेयशोभिततनवे । गीतवादित्रकौशलाय । घनानन्दाय ।
घृणाम्भोधये । घनवते । घनपतये । घनविक्रमाय ।
घनगम्भीरघोषाय नमः । ३४०
ॐ घोरासुरविनाशकाय नमः । घनर्द्धये । घननादाय ।
घटितैश्वर्यवते । घृष्टिमते । घोषिताम्नायाय ।
घटिताशेष-राज्यवते । चण्डाय । चामीकरप्रख्याय ।
चण्डाज्ञाय । चिन्मयाय । चिन्मुद्राधारकाय । चित्ज्ञाय ।
चिदम्बरनिवासकाय । चित्रवेषाय । चित्ररथाय ।
चिदाज्ञापरिपूजकाय । चिदेकरसाय । चिद्रूपाय ।
चित्रभानुसमद्युतये नमः । ३६०
ॐ चीर्णव्रताय नमः । चीर्णतपसे । चिन्तितार्थप्रदायकाय ।
चमत्कृते । चिन्तनीयाय । चोरघ्नाय । चतुराय ।
चन्द्रशेखरसूनवे । चामीकरविभूषणाय । चारवे ।
चन्द्रार्कसदृशाय । चित्रचेलाय । चिरन्तनाय । छन्दोमयाय ।
छद्महन्त्रे । छिन्नपाशाय । छविच्छदाय । छत्रीकृतमहाकीर्तये ।
छेदिताखिलपातकाय । छाडीकृतमहाक्लेशाय नमः । ३८०
ॐ छान्दसज्योतिर्दर्शकाय नमः । छान्दसैकरताय ।
छान्दसाराधनप्रियाय । छन्दस्साराय । छिन्नपाशात्मने ।
छन्दोगाय । छिन्नसंशयाय । छादितानङ्गवृत्तये ।
छेदिताखिलसंशयाय । जम्भारिमित्राय । जयदाय । जगत्पूज्याय ।
जगद्धिताय । जगज्ज्येष्ठाय । जितामित्राय । जेत्रे । ज्योतिर्मयाय ।
जयाय । जितेन्द्रियाय । जगन्नाथाय नमः ॥४००॥
ॐ जगज्जीवाय नमः । जनाश्रयाय । जगद्वन्द्याय ।
जितक्लेशाय । जगत्कीर्तये । जगत्प्रियाय । जगदानन्द-जनकाय ।
जनाज्ञानापहारकाय । जितमायाय । जितक्रोधाय । जितासङ्गाय ।
जनप्रियाय । जयन्ताय । जन्तुतापघ्नाय । जन्मकर्मनिवर्तकाय ।
जनेश्वराय । जगद्भव्याय । जन्मादिवर्जिताय । जगदाह्लादजनकाय ।
जगद्गुरवे नमः । ४२०
ॐ जयत्सेनाय नमः । जपरताय । जपमालाधराय । जपिने ।
झञ्झानिलमहावेगाय । झल्लरीवाद्यसुप्रियाय । झङ्कारीकृतवेदाय ।
झटिताशेषपातकाय । ज्ञानज्ञेयाय । ज्ञानगम्याय । ज्ञानमूर्तये ।
ज्ञानाम्भोधये । ज्ञाननिधये । ज्ञानिने । ज्ञेयस्वरूपवते ।
ज्ञानशास्त्रप्रवक्त्रे । ज्ञानशास्त्रविशारदाय ।
ज्ञापकाय । ज्ञापिताम्नायाय । ज्ञानदीप्ताय नमः । ४४०
ॐ टीकाकृतत्रयीघोषाय नमः । टीकावाचे । टङ्किताखिलाय ।
टङ्कारनृत्यविभवाय । टङ्कावज्रध्वजाङ्किताय । टङ्कितैनस्तमोरवये ।
डाडिमीसुमचेलाय । डाडिमीबीजदन्तवते । डमड्डमरुकाय ।
ढङ्कावाद्यप्रियकराय । ढङ्कितामरपूजकाय । ढङ्कानादोन्-मुखाय ।
तत्त्वज्ञानिने । तपोरूपाय । त्रिगुणात्मकाय । तत्पदाय । तत्त्वगाय ।
तीव्राय । त्रिकालज्ञाय । त्रयीमयाय नमः । ४६०
ॐ तुष्टिदाय नमः । तीक्ष्णाय । त्रिदशेशाय । तपोरूपाय ।
त्रिमूर्तिमते । स्तवाय । स्तोत्रे । स्तवप्रीताय । त्रिकालविदे ।
तत्पदज्ञाय । त्वम्पदज्ञाय । त्रयीतनवे । तत्त्वमस्यादिवाक्यज्ञाय ।
ताराधिपमुखाय । स्थिताय । स्थायिने । स्थापकाय ।
स्थूलसूक्ष्मप्रदर्शकाय । स्थैर्यदाय । स्थानदाय नमः । ४८०
ॐ स्थूलाय नमः । स्थिरप्रज्ञाय । स्थिरपूज्याय । स्थिरकीर्तये ।
स्थविष्ठाय । स्थापितेश्वराय । दात्रे । दयानिधये । दान्ताय ।
दुरितघ्नाय । दुरासदाय । दर्शनीयाय । देवपूज्याय । दीर्घबाहवे ।
दृढव्रताय । दुराधर्षाय । दुर्विगाह्माय । दक्षाय । दर्पणशोभिताय ।
दुर्धराय नमः । ५००
ॐ दानशीलाय नमः । दीनसन्तापनाशनाय । दीप्याय ।
दिव्याकृतये । देवाय । दीर्घदृष्टये । दिवस्पतये । दमाय । दण्डाय ।
दमयित्रे । दर्पदाय । दुर्लभाय । दुष्प्रेक्ष्याय । दुर्गमाय । दीप्ताय ।
दिव्यमण्डनाय । दुःखघ्नाय । दुरितघ्नाय । दुर्जयाय ।
दुरतिक्रमाय नमः । ५२०
ॐ देवर्षये नमः । देवपूज्याय । देवज्ञाय । दैवचिन्तकाय ।
दुर्ज्ञेयाय । दुष्टदूराय । देवसिंहाय । दिनेश्वराय । दान्ताय ।
दयापराय । दुरारिघ्ने । दिशाम्पतये । दण्डनीतये । दण्डकामाय ।
दहराकाश-पूजिताय । धर्मेशाय । धर्मशास्त्रज्ञाय । धृतिमते ।
धूतकल्मषाय । धुरन्धराय नमः । ५४०
ॐ धर्मपराय नमः । धनदाय । धृतिवर्धनाय । धनाध्यक्षाय ।
धनपतये । धन्विने । धर्मपरायणाय । धर्मकृते । धर्मशूराय ।
धर्महेतवे । धर्मव्रताय । धात्रे । धीमते । धर्मचारिणे । धन्याय ।
धुर्याय । नित्याय । नित्यपतये । नन्द्याय । नित्यतृप्ताय नमः । ५६०
ॐ निरञ्जनाय नमः । नित्योत्सवाय । निश्चलात्मने । निर्लेपाय ।
निरहङ्कृतये । निरवद्याय । निष्कलङ्काय । निर्मोहाय । निरुपद्रवाय ।
नित्यानन्दाय । निरातङ्काय । निर्ममाय । निरामयाय । निरीहाय ।
निर्मलाय । निष्प्रत्यूहाय । निरालम्बाय । निस्सङ्गाय । निगमस्तुताय ।
नैकरूपाय नमः । ५८०
ॐ निराकाराय नमः । निधये । नेत्रे । निराश्रयाय ।
निजोद्भवाय । निर्विकल्पाय । नियतपूजकाय । नादान्तदृशे ।
नादनुताय । नारदेड्याय । नृवाहनाय । नरसिंहाय । नृपामात्याय ।
नवात्मने । नादभक्तिमते । पवित्राय । परमोदाराय । पराय ।
परमपूरुषाय । परब्रह्मविचारज्ञाय नमः । ६००
ॐ परमाय नमः । पावनाकृतये । प्रत्यक्षमूर्तये । परेशाय ।
परमप्रियाय । पितृभक्ताय । पीतवर्णाय । पुण्याय ।
पुण्यविवर्धनाय । पुण्यरूपाय । पुण्यकराय । पुण्यकृते ।
पापनाशनाय । परस्मैज्योतिषे । प्रसन्नात्मने । प्रणतार्तिहराय ।
प्रभवे । पूतात्मने । परमात्मने । परमात्मेशभक्तिमते नमः । ६२०
ॐ परार्थाय नमः । परमस्पष्टाय । पटवे । परिबृढाय ।
पूर्णाय । पुरुषाय । प्रभवाय । पुरुषोत्तमाय । परस्मै ब्रह्मणे ।
पवित्राय । पुष्टिमते । पुष्टिवर्धनाय । पापहारिणे । पाशमुक्ताय ।
पूर्णानन्दाय । पुष्कलाय । परात्पराय । पावनाय । पूज्याय ।
पूज्यजनावृताय नमः । ६४०
ॐ प्रवराय नमः । पवमानज्ञाय । प्रकाशात्मने ।
प्रतापवते । परब्रह्मस्वरूपाय । प्रज्ञावते । पाण्ड्यराट्प्रियाय ।
प्रकृष्टार्थाय । प्रशान्ताय । पृथवे । पृथुपराक्रमाय ।
पवित्रमाणिक्यपतये । परमैश्वर्यकारणाय । परमभागवताय ।
पार्थिवात्मप्रपूजकाय । पुरन्दरनुताय । पुरुहूतसमद्युतये ।
पावकाभाय । पातकभिदे । पातकाद्रिपवये नमः । ६६०
ॐ परस्मै नमः । प्रार्थितात्मविनोदाय । पतङ्गार्चिषे ।
परेश्वराय । परमस्वामिशिष्याय । परब्रह्मैकभावनाय ।
फणिराड्धरभक्ताय । फणामणिविभूषणाय । फलदाय ।
फलहस्ताय । फुल्लाम्बुजविलोचनाय । बलवते । बहुमित्राय ।
बभ्रवे । बुधप्रियाय । बहुश्रुताय । बहुमताय । ब्रह्मण्याय ।
ब्राह्मणप्रियाय । ब्रह्मचारिणे नमः । ६८०
ॐ बालरूपाय नमः । ब्रह्मविष्ण्वीशसेवकाय । बहुरूपाय ।
बृहद्भानवे । बोधाय । ब्रह्मणे । बहुप्रदाय । बहुभाग्याय ।
बलश्रीमते । बालार्करोचिष्मते । बृहच्चक्षुषे । बृहद्देहाय ।
बृहद्भावाय । बुधार्चिताय । बन्धमुक्ताय । बन्धशून्याय ।
ब्रह्मबन्धाय । बिलेशयाय । ब्रह्माराध्याय । ब्रह्मवेद्याय नमः । ७००
ॐ ब्रह्मविदे नमः । ब्रह्मनिष्ठाय । भवभक्ताय ।
भक्तिगम्याय । भव्याय । भाग्यवर्धनाय । भ्राजिष्णवे । भगवते ।
भोगिने । भुक्तिमुक्तिप्रदायकाय । भावनाय । भावनागम्याय ।
भवनाशाय । भवप्रियाय । भाव्याय । भोगीश्वराय । भर्त्रे ।
भीमाय । भीमपराक्रमाय । भूतिकृते नमः । ७२०
ॐ भूतिदाय नमः । भोक्त्रे । भावुकाय । भुवनेश्वराय ।
भवतापप्रशमनाय । भीकराय । भूतभावनाय । भ्रान्तिनाशाय ।
भावुकेष्टाय । भानुमते । भुवनाश्रयाय । भोज्यप्रदाय ।
भूरिभोगप्रदाय । भद्राय । भिषगीश्वराय । भजनीयाय । भद्रमूर्तये ।
भक्तभक्ताय । भयापहाय । भरतज्ञाय नमः । ७४०
ॐ भारतीशाय नमः । भूपमन्त्रिणे । भौतिकाय ।
महाबुद्धये । महावीर्याय । महोत्साहाय । महाबलाय ।
महाभोगाय । महाशक्तये । महामायिने । महाद्युतये ।
मुनिस्तुताय । महामात्याय । मेधाविने । मेखलिने । महते ।
महानन्दाय । माननिधये । महापुण्याय । महोदयाय नमः । ७६०
ॐ मानदाय नमः । मुदिताय । मानिने । महाबलपराक्रमाय ।
महोत्तमाय । महामुख्याय । महार्थिने । मूर्तिमते । मुक्तिमते ।
मुनये । मुक्तिदात्रे । महाभागाय । मोक्षदाय । मङ्गलप्रदाय ।
मुक्तामालादिभूषाढ्याय । मुनिमानसहंसकाय । मौनिने । मङ्गलवाचे ।
मालिने । महेशाराधनोत्सुकाय नमः । ७८०
ॐ माणिक्यवाचकाय । मनोदूराय । महोन्नताय । यमिने ।
यशस्कराय । योगिने । योगनिष्ठाय । यतिव्रताय । योगयुक्ताय ।
योगनिधये । योगविदे । योगसिद्धये । यातनारहिताय । यन्त्रिणे ।
यन्त्राय । यन्त्रज्ञाय । योगीश्वराय । योग्याय । यमिसेव्याय ।
यथेष्टदाय नमः । ८००
ॐ यमाद्यष्टाङ्गनिरताय नमः । यजुर्वेदमनुप्रियाय । यशस्विने ।
यज्ञनिरताय । यतिरूपाय । यतेन्द्रियाय । रमणीयाय ।
रम्यरूपाय । रसज्ञाय । रसभावुकाय । रञ्जनाय । रञ्जिताय ।
रम्याय । रागद्वेषविनाशनाय । रणप्रियाय । रतोदाराय ।
रक्तार्चिषे । रुचिराय । रुचये । रूपलावण्यसौन्दर्याय नमः । ८२०
ॐ रक्तमाल्यानुशोभिताय नमः । रजस्तमोगुणातीताय ।
रजनीशमुखोज्ज्वलाय । राजीवाक्षाय । राजराजाय । रोगनाशनाय ।
रक्ताङ्गदधराय । रक्तकुण्डलमण्डिताय । रणमण्डलमण्डिताय ।
रणन्मञ्जीरपादाढ्याय । रुचिकृते । रुचिरेक्षणाय । लोकैकनाथाय ।
लोकेशाय । ललिताय । लोकनायकाय । लोकरक्षकाय । लोकशिक्षकाय ।
लोकलोचनरञ्जिताय । लोकबन्धवे नमः । ८४०
लोचनत्रयमण्डिताय नमः । लावण्याब्धये । लैङ्गवेत्रे ।
लिङ्गाराधनतत्पराय । वश्याय । वरिष्ठाय । वरदाय । विभवे ।
वन्द्याय । विरोचनाय । विद्याधराय । विचित्राङ्गाय । विगतातङ्काय ।
विशोकाय । विद्वत्तमाय । वेद्याय । विभवे । विदुषे । विशाम्पतये ।
वीतरागाय नमः । ८६०
ॐ विधेयात्मने नमः । विश्वदृशे । विमलाय । वराय ।
वाचालकाय । वाग्विशदाय । वातुलागमपारगाय ।
वाङ्मनोतीतविभवाय । वटवे । वाचामगोचराय । वाचकप्रभवाय ।
वाग्मिने । वनसञ्चारवते । विशुद्धात्मने । वेदविदे । विबुधप्रियाय ।
विज्ञानिने । व्यापकाय । वातग्रामाधिपाय । वेदगर्भाय नमः । ८८०
ॐ वीतभयाय नमः । वसवे । विश्वदीप्तये । विशालाक्षाय ।
विजितात्मने । विभावनाय । वेद्यलक्ष्याय । विद्यात्मने ।
विभवात्मने । वीतदोषाय । वसुप्रदाय । विश्वमूर्तये । विश्वकर्मणे ।
विश्वरूपाय । वीरासनाय । वीरचूडामणये । वेत्त्रे । विद्येशाय ।
विबुधाश्रयाय । विनयिने नमः । ९००
ॐ विजयिने नमः । वरीयसे । विरजाय । विधये । वेगवते ।
वीर्यवते । वशिने । वरगुणाय । विशोकाय । वरशीलाय ।
वन्दारुजनवत्सलाय । शरजन्मसमाय । श्रीमते । शङ्करप्रियाय ।
शूराय । शुद्धाय । शुचये । शिष्टाय । शुद्धात्मने ।
शोकनाशनाय नमः । ९२०
ओ शमादिषट्कसम्पन्नाय नमः । शीलवते । शोभनाकृतये ।
षट्चक्रज्ञाय । षडूर्मिज्ञाय । षडङ्गश्रुतिपारगाय । षडरिघ्नाय ।
षडाधाराय । षड्वर्गिणे । षट्क्रमाय । सिद्धार्थाय । सिद्धसङ्कल्पाय ।
सिद्धाय । साधवे । सुरेश्वराय । स्वयञ्ज्योतिषे । सुप्रसन्नाय ।
सुमुखाय । सुखदाय । सुहृदे नमः । ९४०
ॐ सम्भाव्याय नमः । सौमनस्याय । सकलागम-पारगाय ।
सर्वलक्षणसम्पन्नाय । सत्त्वधर्मपरायणाय । सच्चिदानन्दद्रष्ट्रे ।
सदामृष्टान्नदायकाय । सर्ववेदनिधये । सत्याय ।
सर्वविघ्नविनाशकृते । सुकुमाराय । सुनासाय । सुमुखाय ।
सुलोचनाय । स्वर्णवर्णाय । सुक्रमाय । सुग्रीवाय । सदाशुचये ।
सर्वदर्शिने । सर्ववेद्याय नमः । ९६०
ॐ सर्वायुधविशारदाय । सदाशिवसमाराध्याय । सर्वमङ्गलदायकाय ।
समाय । समविभक्ताङ्गाय । समलोष्टाश्मकाञ्चनाय ।
संसारसङ्गनिर्मुक्ताय । सदाब्रह्मैकभावनाय । सद्विवेकाय ।
साध्यनिष्ठाय । साधुसङ्गाय । समात्मवते । हस्तलग्नशुकाय ।
हृताघाय । हतकिल्बिषाय । हविषे । हिरण्यवर्णाय । हितकृते ।
हेमभूषणाय । हतपापाय नमः ॥९८०॥
ॐ हतारये नमः । हर्षदाय । हसिताननाय । हस्तिवाहाय ।
हर्म्यवासाय । हतद्वैताय । हतार्तिमते । हानिवृद्धिनिवृत्ताय ।
हरभक्ताय । हुताग्निमते । क्षेत्रज्ञाय । क्षेत्रपालकाय । क्षेत्रवासाय ।
क्षमाकराय । क्षेत्रपाय । क्षान्तिदाय । क्षेम्याय । क्षालिताघाय ।
क्षमाक्षमाय । क्षीणसंरक्षणाय । क्षितीशसचिवोत्तमाय ।
माणिक्यवाचक-स्वामिने नमः । १००२
इति श्रीमाणिक्यवाचकसहस्रनामावलिः समाप्ता ।
N/A
References : N/A
Last Updated : January 18, 2026

TOP