मराठी मुख्य सूची|स्तोत्रे|सहस्रनामावली| ध्यानम् । १. सिंहस्था शशि... सहस्रनामावली ब्रह्मानन्दं परमसुखदं केव... अथ मूलम् । ॐ श्रीं ह्रीं ... ॐ श्रीगणेशाय नमः । श्वेता... श्रीअरुणाचलेश्वरसहस्रनामावली अर्धनारीश्वरसहस्रनामावलिः ॐ हिरण्यबाहवे हिरण्यवर्णा... श्रीहनुमत्सहस्रनामावलिः ॐ श्रीगणेशाय नमः । ॐ ब्र... ॐ इन्द्राय नमः । देवतमाय ... ॐ श्रीगणेशाय नमः । ॐ नमोद... ॐ अस्य श्रीसर्वसाम्राज्यम... ध्यानम् । कान्त्या काञ्चन... ॐ श्रीगणेशाय नमः । ॐ नका... ॐ अस्य कामकलाकालीसहस्रनाम... श्री गणेशाय नमः । श्रीकाम... कालोऽहम् । अस्य श्रीकालना... शिव उवाच- नाम्नां सहस्रं ... ॐ श्मशानकालिकायै नमः । ॐ ... अथ कुञ्चितपादसहस्रनामावलि... धनं दारान्सुतान्क्षेत्रं ... षड्वक्त्रं शिखिवाहनं त्रि... ॐ कृष्णाय नमः । श्रीवल्लभ... ॐ अस्य श्रीपुराणपुरुषोत्त... श्रीगणेशाय नमः । श्रीकेदा... सितमकरनिषण्णां शुभ्रवर्णा... श्रीगणेशाय नमः । श्रीसमर्... ॐ अस्य श्रीगणपतिगकारादिसह... ॐ सुमुखाय नमः । सुवहाय । ... ध्यानम् रक्तश्वेतहिरण्यनी... ध्यानम् - रक्तश्वेतहिरण्य... ॐ शं शां षं ह्रीं क्लीं ग... अथ ध्यानम् । सूर्यस्पर्धि... ॐ श्री गुरुभ्यो नमः । गुर... ॐ श्रीगणेशाय नमः । सर्वत्... अथ श्रीगोपालदिव्यसहस्रनाम... ॐ गवे नमः । ॐ गौविन्द्यै ... श्रीगुरुभ्यो नमः । श्रीका... ॐ अस्य श्रीप्रचण्डचण्डिका... अथ श्रीयोगेश्वरकवि द्वारा... अस्य श्रीज्वालामुखीसहस्रन... विश्वव्यापकवारिमध्यविलसच्... ॐ अस्य श्रीतारासहस्रनामस्... ॐ भुवनेश्यै नमः । ॐ भुवार... ॐ अस्य श्रीमहोग्रतारा दिव... वरिष्ठ उवाच - कथं नामसहस्... ॐ तुलस्यै नमः । ॐ श्रीप्र... ॐ श्रीमत्त्यागमहाराजाय नम... श्रीगणपतये नमः । ॐ अनेजते... ध्यानम् । उद्यद्भानुसहस्र... ॐ योगेशाय नमः । ॐ अमरप्रभ... महाकालभैरव ऋषिस्त्रिष्टुप... अस्य श्रीदक्षिणामूर्तिसहस... ॐ आदिदेवाय नमः । दयासिन्ध... ध्यानम् । स्फटिकरजतवर्णां... ऋषिच्छन्दांसि - अस्य श्री... तन्त्रराजतन्त्रे पूर्वपीठ... ध्यानम् । १. सिंहस्था शशि... महामन्त्रस्य श्रीमहेश्वर ... ध्यानम् - रक्ताभां रक्तवस... ॐ श्रीमते नमः । ॐ धन्वन्त... ॐ नमो भगवते भूतनाथाय । ॐ ... १. ॐ स्थिराय नमः । २. ॐ ... ॥ श्रीदुर्गादैव्ये नम: ॥ ... १. ॐ राजीवलोचनाय नमः । ... १ ॐ अचिन्त्यलक्षणायै नमः ... १ ॐ कालिन्द्यै नमः । २ ॐ... १ ॐ अन्नपूर्णायै नमः । ... १. ॐ नारसिंहाय नमः । २. ... १ ॐ देवकीनन्दनाय नमः । २... १ ॐ क्लीं देवाय नमः । २ ... १ ॐ श्रियै नमः । २ ॐ पद्... १ ॐ हनुमते नमः । २ ॐ श्र... ॥ श्रीकृष्णाय नमः ॥ १. ॐ ... १. ॐ विश्वविदे नम: । २. ... १. ॐ गणेश्वराय नम: । २.... १. ॐ ऐं ह्रीं श्रीं श्रीम... १ ॐ सीतायै नमः । २ ॐ उमा... १ ॐ ओंकाररूपिण्यै नमः । ... १. ॐ विश्वस्मै नमः । २.ॐ... १. ॐ श्रीराधायै नमः । २.... ॐ गणपतये नमः ॥ ॥ ॐ गणेश्व... श्रीदुर्गासहस्रनामावलिः - ध्यानम् । १. सिंहस्था शशि... हिंदू देवी देवतांची एक हजार नावे म्हणजेच सहस्त्रनामावली. हिंदू धर्मिय रोज सकाळी संध्याकाळी या नावांचा जप करतात.A sahasranamavali is a type of Hindu scripture in which a diety is referred to by 1000 or more different names.Many devout Hindus chant them every morning or evening. Tags : 1000godgoddesssahasranamavaliसहस्त्रनामावली श्रीदुर्गासहस्रनामावलिः Translation - भाषांतर ध्यानम् ।१. सिंहस्था शशिशेखरा मरकतप्रख्यैश्चतुर्भिर्भुजैः ।शङ्खं चक्रधनुः शरांश्च दधती नेत्रैस्त्रिभिः शोभिता ॥आमुक्ताङ्गदहारकङ्कणरणत्काञ्ची रणन्नूपुरा ।दुर्गा दुर्गतिहारिणी भवतु नो रत्नेल्लसत्कुण्डला ॥ २. मातर्मे मधुकैटभघ्नि महिषप्राणापहारोद्यमे ।हेलानिर्जितधूम्रलोचनवधे हे चण्डमुण्डार्दिनि ॥निश्शेषीकृतरक्तबीजदनुजे नित्ये निशुम्भापहे ।शुम्भध्वंसिनि संहराशु दुरितं दुर्गे नमस्तेऽम्बिके ॥ ३. हेमप्रख्यामिन्दुखण्डार्धमौलिम् ।शङ्खारिष्टाभीतिहस्तां त्रिणेत्राम् ॥हेमाब्जस्थां पीतवस्त्रां प्रसन्नाम् ।देवीं दुर्गां दिव्यरूपां नमामि ॥ ४. उद्यद्विद्युत्करालाकुलहरिगलसंस्थारिशङ्खासिखेटे-ष्विष्वासाख्यत्रिशूलानरिगणभयदा तर्जनीं सन्दधाना ।चर्मास्युत्तीर्णदोर्भिः प्रहरणनिपुणाभिर्वृता कन्यकाभिःदद्यात्कार्शानभीष्टान् त्रिणयनललिता चापि कात्यायनी वः ॥ ५. अरिशङ्खकृपाणखेटबाणान् सुधनुः शूलककर्तरीं तर्जनीं दधाना ।भजतां महिषोत्तमाङ्गसंस्था नवदूर्वासदृशीश्रियेऽस्तु दुर्गा ॥अथ सहस्रनामावलिः ।ॐ श्रीदुर्गायै नमः ।ॐ त्रिजगन्मात्रे नमः ।ॐ श्रीमत्कैलासवासिन्यै नमः ।ॐ हिमाचलगुहाकान्तमाणिक्यमणिमण्डपायै नमः ।ॐ गिरिदुर्गायै नमः ।ॐ गौरहस्तायै नमः ।ॐ गणनाथवृताङ्गणायै नमः ।ॐ कल्पकारण्यसंवीतमालतीकुञ्जमन्दिरायै नमः ।ॐ धर्मसिंहासनारूढायै नमः ।ॐ डाकिन्यादि समाश्रितायै नमः । १०ॐ सिद्धविद्याधरामर्त्यवधूटीनिकरस्तुतायै नमः ।ॐ चिन्तामणिशिलाक्लृप्तद्वारावलिगृहान्तरायै नमः ।ॐ कटाक्षवीक्षणापेक्षकमलाक्षिसुराङ्गनायै नमः ।ॐ लीलाभाषणसंलोलकमलासनवल्लभायै नमः ।ॐ यामलोपनिषन्मन्त्रविलपच्छुकपुङ्गवायै नमः ।ॐ दूर्वादलश्यामरूपायै नमः ।ॐ दुर्वारमतविह्वलायै नमः ।ॐ नवकोरकसम्पत्श्रीकल्पकारण्यकुन्तलायै नमः ।ॐ वेणीकैतकबर्हांशुविजितस्मरपट्टसायै नमः ।ॐ कचसीमन्तरेखान्तलम्बमाणिक्यलम्बिकायै नमः । २०ॐ पुष्पबाणशरालीढघनधम्मिल्लभूषणायै नमः ।ॐ भालचन्द्रकलाप्रान्तसत्सुधाबिन्दुमौक्तिकायै नमः ।ॐ चूलीकादम्बिनीश्लिष्टचन्द्ररेखाललाटिकायै नमः ।ॐ चन्द्रमण्डलसंयुक्तभौमकुङ्कुमरेखिकायै नमः ।ॐ केशाभ्रमुक्तकोदण्डसदृग्भ्रूलतिकाञ्चितायै नमः ।ॐ मारचापलसच्छुभ्रमृगनाभिविशेषकायै नमः ।ॐ कर्णपूरितकह्लाराकाङ्क्षितापाङ्गवीक्षणायै नमः ।ॐ क्षीराशयोत्पलाकारविलसत्कृष्णतारकायै नमः ।ॐ नेत्रपङ्केरुहान्तःस्थभ्रमद्भ्रमरतारकायै नमः ।ॐ गरलावृतकल्लोलनिमेषाञ्जनभासुरायै नमः । ३०ॐ तीक्ष्णाग्रधारप्रद्युम्नशस्त्रप्रत्यस्त्रवीक्षणायै नमः ।ॐ मुखचन्द्रसुधापूरलुढन्मीनाभलोचनायै नमः ।ॐ मौक्तिकावृतताटङ्कमण्डलद्वयमण्डितायै नमः ।ॐ कन्दर्पध्वजताकीर्णमकराङ्कितकुण्डलायै नमः ।ॐ कर्णरत्नौघचिन्तार्ककमनीयमुखाम्बुजायै नमः ।ॐ कारुण्यस्यन्दिवदनायै नमः ।ॐ कण्ठमूलसुकुङ्कुमायै नमः ।ॐ ओष्ठबिम्बफलामोदशुकतुण्डाभनासिकायै नमः ।ॐ तिलचम्पकपुष्पश्रीनासिकाभरणोज्ज्वलायै नमः ।ॐ नासाचम्पकसंस्रस्तमधुबिन्दुकमौक्तिकायै नमः । ४०ॐ मुखपङ्कजकिञ्जल्कमुक्ताजालसुनासिकायै नमः ।ॐ सालुवेशमुखास्वाद लोलुपाधरपल्लवायै नमः ।ॐ रदनांशनटीरङ्गप्रस्तावनपटाधरायै नमः ।ॐ दन्तलक्ष्मीगृहद्वारनीहारांश्वधरच्छदायै नमः ।ॐ विद्रुमाधरबालार्कमिश्रस्मेरांशुकौमुद्यै नमः ।ॐ मन्त्रबीजाङ्कुराकारद्विजावलिविराजितायै नमः ।ॐ सल्लापलक्ष्मीमाङ्गल्यमौक्तिकस्रग्रदालयायै नमः ।ॐ ताम्बूलसारसौगन्धिसकलाम्नायतालुकायै नमः ।ॐ कर्णलक्ष्मीविलासार्थमणिदर्पणगण्डभुवे नमः ।ॐ कपोलमुकुलाक्रान्तकर्णताटङ्कदीधितये नमः । ५०ॐ मुखपद्मरजस्तूलहरिद्राचूर्णमण्डितायै नमः ।ॐ कण्ठादर्शप्रभासान्द्रविजितश्रीविराजितायै नमः ।ॐ देशिकेशहृदानन्दसम्पच्चिबुकपेटिकायै नमः ।ॐ शरभाधीशसम्बद्धमाङ्गल्यमणिकन्धरायै नमः ।ॐ कस्तूरीपङ्कसञ्जातगलनालमुखाम्बुजायै नमः ।ॐ लावण्याम्भोधिमध्यस्थशङ्खसन्निभकन्धरायै नमः ।ॐ गलशङ्खप्रसूतांशुमुक्तादामविराजितायै नमः ।ॐ मालतीमल्लिकातुल्यभुजद्वयमनोहरायै नमः ।ॐ कनकाङ्गदकेयूरच्छविनिर्जितभास्करायै नमः ।ॐ प्रकोष्ठवलयाक्रान्तपरिवेषग्रहद्युतये नमः । ६०ॐ वलयद्वयवैडूर्यज्वालालीढकराम्बुजायै नमः ।ॐ बाहुद्वयलताग्रस्तपल्लवाभकराङ्गुल्यै नमः ।ॐ करपङ्केरुहभ्राम्यद्रविमण्डलकङ्कणायै नमः ।ॐ अङ्गुलीविद्रुमलतापर्वस्वर्णाङ्गुलीयकायै नमः ।ॐ भाग्यप्रदकरान्तस्थशङ्खचक्राङ्कमुद्रिकायै नमः ।ॐ करपद्मदलप्रान्तभास्वद्रत्ननखाङ्कुरायै नमः ।ॐ रत्नग्रैवेयहारातिरमणीयकुचान्तरायै नमः ।ॐ प्रालम्बिकौस्तुभमणिप्रभालिप्तस्तनान्तरायै नमः ।ॐ शरभाधीशनेत्रांशुकञ्चुकस्तनमण्डलायै नमः ।ॐ रतीविवाहकालश्रीपूर्णकुम्भस्तनद्वयायै नमः । ७०ॐ अनङ्गजीवनप्राणमन्त्रकुम्भस्तनद्वयायै नमः ।ॐ मध्यवल्लीप्राज्यफलद्वयवक्षेजभासुरायै नमः ।ॐ स्तनपर्वतपर्यन्तचित्रकुङ्कुमपत्रिकायै नमः ।ॐ भ्रमरालीढराजीवकुड्मलस्तनचूचुकायै नमः ।ॐ महाशरभहृद्रागरक्तवस्त्रेत्तरीयकायै नमः ।ॐ अनौपम्यातिलावण्यपार्ष्णिभागाभिनन्दितायै नमः ।ॐ स्तनस्तबकराराजद्रोमवल्लीतलोदरायै नमः ।ॐ कृष्णरोमावलीकृष्णसप्तपत्रोदरच्छवये नमः ।ॐ सौन्दर्यपूरसम्पूर्णप्रवाहावर्तनाभिकायै नमः ।ॐ अनङ्गरसपूराब्धितरङ्गाभवलित्रयायै नमः । ८०ॐ सन्ध्यारुणांशुकौसुम्भपटावृतकटीतट्यै नमः ।ॐ सप्तकिङ्किणिकाशिञ्जद्रत्नकान्तिकलापिन्यै नमः ।ॐ मेखलादामसङ्कीर्णमयूखावृतनीविकायै नमः ।ॐ सुवर्णसूत्राकलितसूक्ष्मरत्नाम्बराचलायै नमः ।ॐ वीरेश्वरानङ्गसरित्पुलिनीजघनस्थलायै नमः ।ॐ असादृश्यनितम्बश्रीरम्यरम्भोरुकाण्डयुजे नमः ।ॐ हलमल्लकनेत्राभाव्याप्तसन्धिमनोहरायै नमः ।ॐ जानुमण्डलधिक्कारिराशिकूटतटीकट्यै नमः ।ॐ स्मरतूणीरसङ्काशजङ्घाद्वितयसुन्दर्यै नमः ।ॐ गुल्फद्वितयसौभाग्यजिततालफलद्वय्यै नमः । ९०ॐ द्युमणिम्रक्षणाभाङ्घ्रियुग्मनूपुरमण्डलायै नमः ।ॐ रणद्वलयसल्लापद्रत्नमालाभपादुकायै नमः ।ॐ प्रपदात्मकशस्त्रौघविलसच्चर्मपुस्तकायै नमः ।ॐ आधारकूर्मपृष्ठाभपादपृष्ठविराजितायै नमः ।ॐ पादाङ्गुलिप्रभाजालपराजितदिवाकरायै नमः ।ॐ चक्रचामरमत्स्याङ्कचरणस्थलपङ्कजायै नमः ।ॐ सुरेन्द्रकोटिमुकुटीरत्नसङ्क्रान्तपादुकायै नमः ।ॐ अव्याजकरुणागुप्ततन्वै नमः ।ॐ अव्याजसुन्दर्यै नमः ।ॐ शृङ्गाररससाम्राज्यपदपट्टाभिषेचितायै नमः । १००ॐ शिवायै नमः ।ॐ भवान्यै नमः ।ॐ रुद्राण्यै नमः ।ॐ शर्वाण्यै नमः ।ॐ सर्वमङ्गलायै नमः ।ॐ उमायै नमः ।ॐ कात्यायन्यै नमः ।ॐ भद्रायै नमः ।ॐ पार्वत्यै नमः ।ॐ पावनाकृत्यै नमः । ११०ॐ मृडान्यै नमः ।ॐ चण्डिकायै नमः ।ॐ मात्रे नमः ।ॐ रत्यै नमः ।ॐ मङ्गलदेवतायै नमः ।ॐ काल्यै नमः ।ॐ हैमवत्यै नमः ।ॐ वीरायै नमः ।ॐ कपालशूलधारिण्यै नमः ।ॐ शरभायै नमः । १२०ॐ शाम्भव्यै नमः ।ॐ मायातन्त्रायै नमः ।ॐ तन्त्रार्थरूपिण्यै नमः ।ॐ तरुण्यै नमः ।ॐ धर्मदायै नमः ।ॐ धर्मतापस्यै नमः ।ॐ तारकाकृत्यै नमः ।ॐ हरायै नमः ।ॐ महेश्वर्यै नमः ।ॐ मुग्धायै नमः । १३०ॐ हंसिन्यै नमः ।ॐ हंसवाहनायै नमः ।ॐ भाग्यायै नमः ।ॐ बलकर्यै नमः ।ॐ नित्यायै नमः ।ॐ भक्तिगम्यायै नमः ।ॐ भयापहायै नमः ।ॐ मातङ्ग्यै नमः ।ॐ रसिकायै नमः ।ॐ मत्तायै नमः । १४०ॐ मालिनीमाल्यधारिण्यै नमः ।ॐ मोहिन्यै नमः ।ॐ मुदितायै नमः ।ॐ कृष्णायै नमः ।ॐ मुक्तिदायै नमः ।ॐ मोदहर्षितायै नमः ।ॐ शृङ्गार्यै नमः ।ॐ श्रीकर्यै नमः ।ॐ शूरजयिन्यै नमः ।ॐ जयशृङ्खलायै नमः । १५०ॐ सत्यै नमः ।ॐ तारात्मिकायै नमः ।ॐ तन्व्यै नमः ।ॐ तारनादायै नमः ।ॐ तडित्प्रभायै नमः ।ॐ अपर्णायै नमः ।ॐ विजयायै नमः ।ॐ नीलीरञ्जितायै नमः ।ॐ अपराजितायै नमः ।ॐ शङ्कर्यै नमः । १६०ॐ रमणीरामायै नमः ।ॐ शैलेन्द्रतनयायै नमः ।ॐ मह्यै नमः ।ॐ बालायै नमः ।ॐ सरस्वत्यै नमः ।ॐ लक्ष्म्यै नमः ।ॐ परमायै नमः ।ॐ परदेवतायै नमः ।ॐ गायत्रीरसिकायै नमः ।ॐ विद्यायै नमः । १७०ॐ गङ्गायै नमः ।ॐ गम्भीरवैभवायै नमः ।ॐ देव्यै नमः ।ॐ दाक्षायण्यै नमः ।ॐ दक्षदमन्यै नमः ।ॐ दारुणप्रभायै नमः ।ॐ मार्यै नमः ।ॐ मारकर्यै नमः ।ॐ मृष्टायै नमः ।ॐ मन्त्रिण्यै नमः । १८०ॐ मन्त्रविग्रहायै नमः ।ॐ ज्वालामय्यै नमः ।ॐ परारक्तायै नमः ।ॐ ज्वालाक्ष्यै नमः ।ॐ धूम्रलोचनायै नमः ।ॐ वामाकुतूहलायै नमः ।ॐ कुल्यायै नमः ।ॐ कोमलायै नमः ।ॐ कुड्मलस्तन्यै नमः ।ॐ दण्डिन्यै नमः । १९०ॐ मुण्डिन्यै नमः ।ॐ धीरायै नमः ।ॐ जयकन्यायै नमः ।ॐ जयङ्कर्यै नमः ।ॐ चामुण्ड्यै नमः ।ॐ चण्डमुण्डेश्यै नमः ।ॐ चण्डमुण्डनिषूदिन्यै नमः ।ॐ भद्रकाल्यै नमः ।ॐ वह्निदुर्गायै नमः ।ॐ पालितामरसैनिकायै नमः ।ॐ योगिनीगणसंवीतायै नमः ।ॐ प्रबलायै नमः ।ॐ हंसगामिन्यै नमः ।ॐ शुम्भासुरप्राणहन्त्र्यै नमः ।ॐ सूक्ष्मायै नमः ।ॐ शोभनविक्रमायै नमः ।ॐ निशुम्भवीर्यशमन्यै नमः ।ॐ निर्निद्रायै नमः ।ॐ निरुपप्लवायै नमः ।ॐ धर्मसिंहधृतायै नमः । २१०ॐ माल्यै नमः ।ॐ नारसिंहाङ्गलोलुपायै नमः ।ॐ भुजाष्टकयुतायै नमः ।ॐ तुङ्गायै नमः ।ॐ तुङ्गसिंहासनेश्वर्यै नमः ।ॐ राजराजेश्वर्यै नमः ।ॐ ज्योत्स्नायै नमः ।ॐ राज्यसाम्राज्यदायिन्यै नमः ।ॐ मन्त्रकेलिशुकालापायै नमः ।ॐ महनीयायै नमः । २२०ॐ महाशनायै नमः ।ॐ दुर्वारकरुणासिन्धवे नमः ।ॐ धूमलायै नमः ।ॐ दुष्टनाशिन्यै नमः ।ॐ वीरलक्ष्म्यै नमः ।ॐ वीरपूज्यायै नमः ।ॐ वीरवेषमहोत्सवायै नमः ।ॐ वनदुर्गायै नमः ।ॐ वह्निहस्तायै नमः ।ॐ वाञ्छितार्थप्रदायिन्यै नमः । २३०ॐ वनमाल्यै नमः ।ॐ वाराह्यै नमः ।ॐ वागासारनिवासिन्यै नमः ।ॐ एकाकिन्यै नमः ।ॐ एकसिंहस्थायै नमः ।ॐ एकदन्तप्रसूतिन्यै नमः ।ॐ नृसिंहचर्मवसनायै नमः ।ॐ निर्निरीक्ष्यायै नमः ।ॐ निरङ्कुशायै नमः ।ॐ नृपालवीर्यनिर्वेगायै नमः । २४०ॐ नीचग्रामनिषूदिन्यै नमः ।ॐ सुदर्शनास्त्रदर्पघ्न्यै नमः ।ॐ सोमखण्डावतंसिकायै नमः ।ॐ पुलिन्दकुलसंसेव्यायै नमः ।ॐ पुष्पधुत्तूरमालिकायै नमः ।ॐ गुञ्जामणिलसन्मालाशङ्खताटङ्कशोभिन्यै नमः ।ॐ मातङ्गमदसिन्दूरतिलकायै नमः ।ॐ मधुवासिन्यै नमः ।ॐ पुलिन्दिनीश्वर्यै नमः ।ॐ श्यामायै नमः । २५०ॐ चलचेलकटिस्थलायै नमः ।ॐ बर्हावतंसधम्मिल्लायै नमः ।ॐ तमालश्यामलाकृतये नमः ।ॐ शत्रुसंहारशस्त्राङ्गपाशकोदण्डधारिण्यै नमः ।ॐ कङ्काल्यै नमः ।ॐ नारसिंहाङ्गरक्तपानसमुत्सुकायै नमः ।ॐ वसामलिनवाराहदंष्ट्राप्रालम्बमालिकायै नमः ।ॐ सन्ध्यारुणजटाधारिकालमेघसमप्रभायै नमः ।ॐ चतुर्मुखशिरोमालायै सर्पयज्ञेपवीतिन्यै नमः ।ॐ दक्षयज्ञानलध्वंसदलितामरडाम्भिकायै नमः । २६०ॐ वीरभद्रामोदकरवीराटोपविहारिण्यै नमः ।ॐ जलदुर्गायै नमः ।ॐ महामत्तदनुजप्राणभक्षिण्यै नमः ।ॐ परमन्त्रभक्षिवह्निज्वालाकीर्णत्रिलोचनायै नमः ।ॐ शत्रुशल्यमयामोघनादनिर्भिन्नदानवायै नमः ।ॐ राक्षसप्राणमथनवक्रदंष्ट्रायै महोज्ज्वलायै नमः ।ॐ क्षुद्रग्रहापहायै नमः ।ॐ क्षुद्रमन्त्रतन्त्रक्रियापहायै नमः ।ॐ व्याघ्राजिनाम्बरधरायै नमः ।ॐ व्यालकङ्कणभूषणायै नमः । २७०ॐ बलिपूजाप्रियक्षुद्रपैशाचमदनाशिन्यै नमः ।ॐ सम्मोहनास्त्रमन्त्रात्तदानवौघविनाशिन्यै नमः ।ॐ कामक्रान्तमनोवृत्त्यै नमः ।ॐ कामकेलिकलारतायै नमः ।ॐ कर्पूरवीटिकाप्रीतायै नमः ।ॐ कामिनीजनमोहिन्यै नमः ।ॐ स्वप्नवत्यै नमः ।ॐ स्वप्नभोगध्वंसिताखिलदानवायै नमः ।ॐ आकर्षणक्रियालोलायै नमः ।ॐ आश्रिताभीष्टदायिन्यै नमः । २८०ॐ ज्वालामुख्यै नमः ।ॐ ज्वालनेत्रायै नमः ।ॐ ज्वालाङ्गायै नमः ।ॐ ज्वरनाशिन्यै नमः ।ॐ शल्याकर्यै नमः ।ॐ शल्यहन्त्र्यै नमः ।ॐ शल्यमन्त्रचलाचलायै नमः ।ॐ चतुर्थ्यै नमः ।ॐ अकुहरायै नमः ।ॐ रौद्र्यै नमः । २९०ॐ तापघ्न्यै नमः ।ॐ दरनाशिन्यै नमः ।ॐ दारिद्र्यशमन्यै नमः ।ॐ क्रुद्धायै नमः ।ॐ व्याधिन्यै नमः ।ॐ व्याधिनाशिन्यै नमः ।ॐ ब्रह्मरक्षोहरायै नमः ।ॐ ब्राह्म्यै नमः ।ॐ गणहार्यै नमः ।ॐ गणेश्वर्यै नमः । ३००ॐ आवेशग्रहसंहार्यै नमः ।ॐ हन्त्र्यै नमः ।ॐ मन्त्र्यै नमः ।ॐ हरिप्रियायै नमः ।ॐ कृत्तिकायै नमः ।ॐ कृत्तिहरणायै नमः ।ॐ गौर्यै नमः ।ॐ गम्भीरमानसायै नमः ।ॐ युद्धप्रीतायै नमः ।ॐ युद्धकार्यै नमः । ३१०ॐ योद्धगृण्यायै नमः ।ॐ युधिष्ठिरायै नमः ।ॐ तुष्टिदायै नमः ।ॐ पुष्टिदायै नमः ।ॐ पुण्यभोगमोक्षफलप्रदायै नमः ।ॐ अपापायै नमः ।ॐ पापशमन्यै नमः ।ॐ अरूपायै नमः ।ॐ रूपदारुणायै नमः ।ॐ अन्नदायै नमः । ३२०ॐ धनदायै नमः ।ॐ पूतायै नमः ।ॐ अणिमादिफलप्रदायै नमः ।ॐ सिद्धिदायै नमः ।ॐ बुद्धिदायै नमः ।ॐ शूलायै नमः ।ॐ शिष्टाचारपरायणायै नमः ।ॐ अमायायै नमः ।ॐ अमराराध्यायै नमः ।ॐ हंसमन्त्रायै नमः । ३३०ॐ हलायुधायै नमः ।ॐ क्षामप्रध्वंसिन्यै नमः ।ॐ क्षोभ्यायै नमः ।ॐ शार्दूलासनवासिन्यै नमः ।ॐ सत्त्वरूपायै नमः ।ॐ तमोहन्त्र्यै नमः ।ॐ सौम्यायै नमः ।ॐ सारङ्गभावनायै नमः ।ॐ द्विसहस्रकरायै नमः ।ॐ शुद्धायै नमः । ३४०ॐ स्थूलसिंहसुवासिन्यै नमः ।ॐ नारायण्यै नमः ।ॐ महावीर्यायै नमः ।ॐ नादबिन्द्वन्तरात्मिकायै नमः ।ॐ षड्गुणायै नमः ।ॐ तत्त्वनिलयायै नमः ।ॐ तत्त्वातीतायै नमः ।ॐ अमृतेश्वर्यै नमः ।ॐ सुरमूर्त्यै नमः ।ॐ सुराराध्यायै नमः । ३५०ॐ सुमुखायै नमः ।ॐ कालरूपिण्यै नमः ।ॐ सन्ध्यारूपायै नमः ।ॐ कान्तिमत्यै नमः ।ॐ खेचर्यै नमः ।ॐ भुवनेश्वर्यै नमः ।ॐ मूलप्रकृत्यै नमः ।ॐ अव्यक्तायै नमः ।ॐ महामायायै नमः ।ॐ मनोन्मन्यै नमः । ३६०ॐ ज्येष्ठायै नमः ।ॐ वामायै नमः ।ॐ जगन्मूलायै नमः ।ॐ सृष्टिसंहारकारणायै नमः ।ॐ स्वतन्त्रायै नमः ।ॐ स्ववशायै नमः ।ॐ लोकभोगदायै नमः ।ॐ सुरनन्दिन्यै नमः ।ॐ चित्राचित्राकृत्यै नमः ।ॐ सचित्रवसनप्रियायै नमः । ३७०ॐ विषापहायै नमः ।ॐ वेदमन्त्रायै नमः ।ॐ वेदविद्याविलासिन्यै नमः ।ॐ कुण्डलीकन्दनिलयायै नमः ।ॐ गुह्यायै नमः ।ॐ गुह्यकवन्दितायै नमः ।ॐ कालरात्र्यै नमः ।ॐ कलानिष्ठायै नमः ।ॐ कौमार्यै नमः ।ॐ काममोहिन्यै नमः । ३८०ॐ वश्यादिन्यै नमः ।ॐ वरारोहायै नमः ।ॐ वन्दारुजनवत्सलायै नमः ।ॐ सञ्ज्वालामालिनीशक्त्यै नमः ।ॐ सुराप्रीतायै नमः ।ॐ सुवासिन्यै नमः ।ॐ महिषासुरसंहार्यै नमः ।ॐ मत्तमातङ्गगामिन्यै नमः ।ॐ मदगन्धितमातङ्गायै नमः ।ॐ विद्युद्दामाभिसुन्दर्यै नमः । ३९०ॐ रक्तबीजासुरध्वंस्यै नमः ।ॐ वीरपाणारुणेक्षणायै नमः ।ॐ महिषोत्तमसंरूढमांसप्रोतायुताञ्चलायै नमः ।ॐ यशोवत्यै नमः ।ॐ हेमकूटतुङ्गशृङ्गनिकेतनायै नमः ।ॐ दानकल्पकसच्छायायै नमः ।ॐ सन्तानादिफलप्रदायै नमः ।ॐ आश्रिताभीष्टवरदायै नमः ।ॐ अखिलागमगोपितायै नमः ।ॐ दारिद्र्यशैलदम्भोल्यै नमः । ४००ॐ क्षुद्रपङ्कजचन्द्रिकायै नमः ।ॐ रोगान्धकारचण्डांशवे नमः ।ॐ पापद्रुमकुठारिकायै नमः ।ॐ भवाटवीदाववह्न ये नमः ।ॐ शत्रुतूलस्फुलिङ्गरुचे नमः ।ॐ स्फोटकोरगमायूर्यै नमः ।ॐ क्षुद्रप्राणनिवारिण्यै नमः ।ॐ अपस्मारमृगव्याघ्रायै नमः ।ॐ चित्तक्षोभविमोचिन्यै नमः ।ॐ क्षयमातङ्गपञ्चास्यायै नमः । ४१०ॐ कृच्छ्रवर्गापहारिण्यै नमः ।ॐ पीनसश्वासकासघ्न्यै नमः ।ॐ पिशाचोपाधिमोचिन्यै नमः ।ॐ विवादशमन्यै नमः ।ॐ लोकबाधापञ्चकनाशिन्यै नमः ।ॐ अपवादहरायै सेव्यायै नमः ।ॐ सङ्ग्रामविजयप्रदायै नमः ।ॐ रक्तपित्तगलव्याधिहरायै नमः ।ॐ हरविमोहिन्यै नमः ।ॐ क्षुद्रशल्यमयायै नमः । ४२०ॐ दासकार्यारम्भसमुत्सुकायै नमः ।ॐ कुष्ठगुल्मप्रमेहघ्न्यै नमः ।ॐ गूढशल्यविनाशिन्यै नमः ।ॐ भक्तिमत्प्राणसौहार्दायै नमः ।ॐ सुहृद्वंशाभिवर्धिकायै नमः ।ॐ उपास्यायै नमः ।ॐ अखिलम्लेच्छमदमानविमोचन्यै नमः ।ॐ भैरव्यै नमः ।ॐ भीषणायै नमः ।ॐ भीषायै नमः । ४३०ॐ भिन्नारातिरणाञ्चलायै नमः ।ॐ व्यूहध्वंस्यै नमः ।ॐ वीरहव्यायै नमः ।ॐ वीर्यात्मने नमः ।ॐ व्यूहरक्षिकायै नमः ।ॐ महाराष्ट्रायै नमः ।ॐ महासेनायै नमः ।ॐ मांसाश्यै नमः ।ॐ माधवानुजायै नमः ।ॐ व्याघ्रध्वजायै नमः । ४४०ॐ वज्रनख्यै नमः ।ॐ वज्रायै नमः ।ॐ व्याघ्रनिषूदिन्यै नमः ।ॐ खड्गिनीकन्यकावेषायै नमः ।ॐ कौमार्यै नमः ।ॐ खड्गवासिन्यै नमः ।ॐ सङ्ग्रामवासिन्यस्तास्त्रायै नमः ।ॐ धीरज्यासायकासनायै नमः ।ॐ कोदण्डध्वनिकृते नमः ।ॐ क्रुद्धायै नमः । ४५०ॐ क्रूरदृष्टिभयानकायै नमः ।ॐ वीराग्रगामिन्यै नमः ।ॐ दुष्टासन्तुष्टायै नमः ।ॐ शत्रुभक्षिण्यै नमः ।ॐ सन्ध्याटवीचरायै नमः ।ॐ वित्तगोपनायै नमः ।ॐ वित्तकृच्चलायै नमः ।ॐ कैटभासुरसंहार्यै नमः ।ॐ काल्यै नमः ।ॐ कल्याणकोमलायै नमः । ४६०ॐ नन्दिन्यै नमः ।ॐ नन्दिचरितायै नमः ।ॐ नरकालयमोचनायै नमः ।ॐ मलयाचलशृङ्गस्थायै नमः ।ॐ गन्धिन्यै नमः ।ॐ सुरतालसायै नमः ।ॐ कादम्बरीकान्तिमत्यै नमः ।ॐ कान्तायै नमः ।ॐ कादम्बराशनायै नमः ।ॐ मधुदानवविद्राव्यै नमः । ४७०ॐ मधुपायै नमः ।ॐ पाटलारुणायै नमः ।ॐ रात्रिञ्चरायै नमः ।ॐ राक्षसघ्न्यै नमः ।ॐ रम्यायै नमः ।ॐ रात्रिसमर्चितायै नमः ।ॐ शिवरात्रिमहापूज्यायै नमः ।ॐ देवलोकविहारिण्यै नमः ।ॐ ध्यानादि कालसञ्जप्यायै नमः ।ॐ भक्तसन्तानभाग्यदायै नमः । ४८०ॐ मध्याह्नकालसन्तर्प्यायै नमः ।ॐ जयसंहारशूलिन्यै नमः ।ॐ त्रियम्बकायै नमः ।ॐ मखध्वंस्यै नमः ।ॐ त्रिपुरायै नमः ।ॐ पुरशूलिन्यै नमः ।ॐ रङ्गस्थायै नमः ।ॐ रञ्जिन्यै नमः ।ॐ रङ्गायै नमः ।ॐ सिन्दूरारुणशालिन्यै नमः । ४९०ॐ सुन्दोपसुन्दहन्त्र्यै नमः ।ॐ सूक्ष्मायै नमः ।ॐ मोहनशूलिन्यै नमः ।ॐ अष्टमूर्त्यै नमः ।ॐ कलानाथायै नमः ।ॐ अष्टहस्तायै नमः ।ॐ सुतप्रदायै नमः ।ॐ अङ्गारकायै नमः ।ॐ कोपनाक्ष्यै नमः ।ॐ हंसासुरमदापहायै नमः । ५००ॐ आपीनस्तननम्राङ्ग्यै नमः ।ॐ हरिद्रालेपितस्तन्यै नमः ।ॐ इन्द्राक्ष्यै नमः ।ॐ हेमसङ्काशायै नमः ।ॐ हेमवस्त्रायै नमः ।ॐ हरप्रियायै नमः ।ॐ ईश्वर्यै नमः ।ॐ इतिहासात्मने नमः ।ॐ ईतिबाधानिवारिण्यै नमः ।ॐ उपास्यायै नमः । ५१०ॐ उन्मदाकारायै नमः ।ॐ उल्लङ्घितसुरापगायै नमः ।ॐ ऊषरस्थलकासारायै नमः ।ॐ उत्पलश्यामलाकृत्यै नमः ।ॐ ऋङ्मय्यै नमः ।ॐ सामसङ्गीतायै नमः ।ॐ शुद्ध्यै नमः ।ॐ कल्पकवल्लर्यै नमः ।ॐ सायन्तनाहुतये नमः ।ॐ दासकामधेनुस्वरूपिण्यै नमः । ५२०ॐ पञ्चदशाक्षरीमन्त्रायै नमः ।ॐ तारकावृतषोडश्यै नमः ।ॐ ह्रींकारनिष्ठायै नमः ।ॐ ह्रींकारहुङ्कार्यै नमः ।ॐ दुरितापहायै नमः ।ॐ षडङ्गायै नमः ।ॐ नवकोणस्थायै नमः ।ॐ त्रिकोणायै नमः ।ॐ सर्वतोमुख्यै नमः ।ॐ सहस्रवदनायै नमः । ५३०ॐ पद्मायै नमः ।ॐ शूलिन्यै नमः ।ॐ सुरपालिन्यै नमः ।ॐ महाशूलधरायै नमः ।ॐ शक्त्यै नमः ।ॐ मात्रे नमः ।ॐ माहेन्द्रपूजितायै नमः ।ॐ शूलदुर्गायै नमः ।ॐ शूलहरायै नमः ।ॐ शोभनायै नमः । ५४०ॐ शूलिन्यै नमः ।ॐ श्रीशूलिन्यै नमः ।ॐ जगद्बीजायै नमः ।ॐ मूलाहङ्कारशूलिन्यै नमः ।ॐ प्रकाशायै नमः ।ॐ परमाकाशायै नमः ।ॐ भावितायै नमः ।ॐ वीरशूलिन्यै नमः ।ॐ नारसिंह्यै नमः ।ॐ महेन्द्राण्यै नमः । ५५०ॐ सालीशरभशूलिन्यै नमः ।ॐ ऋङ्कार्यै नमः ।ॐ ऋतुमत्यै नमः ।ॐ अघोरायै नमः ।ॐ अथर्वणगोपिकायै नमः ।ॐ घोरघोरायै नमः ।ॐ जपारागप्रसूनाञ्चितमालिकायै नमः ।ॐ सुस्वरूपायै नमः ।ॐ सौहृदाढ्यालीढायै नमः ।ॐ दाडिमपाटकायै नमः । ५६०ॐ लयायै नमः ।ॐ लम्पटायै नमः ।ॐ लीनायै नमः ।ॐ कुङ्कुमारुणकन्धरायै नमः ।ॐ इकाराध्यायै नमः ।ॐ इलानाथायै नमः ।ॐ इलावृतजनावृतायै नमः ।ॐ ऐश्वर्यनिष्ठायै नमः ।ॐ हरितायै नमः ।ॐ हरितालसमप्रभायै नमः । ५७०ॐ मुद्गमाषाज्यभोज्यायै नमः ।ॐ युक्तायुक्तभटान्वितायै नमः ।ॐ औत्सुक्यै नमः ।ॐ अणिमद्गम्यायै नमः ।ॐ अखिलाण्डनिवासिन्यै नमः ।ॐ हंसमुक्तामणिश्रेण्यै नमः ।ॐ हंसाख्यायै नमः ।ॐ हासकारिण्यै नमः ।ॐ कलिदोषहरायै नमः ।ॐ क्षीरपायिन्यै नमः । ५८०ॐ विप्रपूजितायै नमः ।ॐ खट्वाङ्गस्थायै नमः ।ॐ खड्गरूपायै नमः ।ॐ खबीजायै नमः ।ॐ खरसूदनायै नमः ।ॐ आज्यपायिन्यै नमः ।ॐ अस्थिमालायै नमः ।ॐ पार्थिवाराध्यपादुकायै नमः ।ॐ गम्भीरनाभिकायै नमः ।ॐ सिद्धकिन्नरस्त्रीसमावृतायै नमः । ५९०ॐ खड्गात्मिकायै नमः ।ॐ घननिभायै नमः ।ॐ वैश्यार्च्यायै नमः ।ॐ माक्षिकप्रियायै नमः ।ॐ मकारवर्णायै नमः ।ॐ गम्भीरायै नमः ।ॐ शूद्रार्च्यायै नमः ।ॐ आसवप्रियायै नमः ।ॐ चातुर्यै नमः ।ॐ पार्वणाराध्यायै नमः । ६००ॐ मुक्ताधावल्यरूपिण्यै नमः ।ॐ छन्दोमय्यै नमः ।ॐ भौमपूज्यायै नमः ।ॐ दुष्टशत्रुविनाशिन्यै नमः ।ॐ जयिन्यै नमः ।ॐ अष्टमीसेव्यायै नमः ।ॐ क्रूरहोमसमन्वितायै नमः ।ॐ झङ्कार्यै नमः ।ॐ नवमीपूज्यायै नमः ।ॐ लाङ्गलीकुसुमप्रियायै नमः । ६१०ॐ सदाचतुर्दशीपूज्यायै नमः ।ॐ भक्तानां पुष्टिकारिण्यै नमः ।ॐ ज्ञानगम्यायै नमः ।ॐ दर्शपूज्यायै नमः ।ॐ डामर्यै नमः ।ॐ रिपुमारिण्यै नमः ।ॐ सत्यसङ्कल्पसंवेद्यायै नमः ।ॐ कलिकालसुसन्धिकायै नमः ।ॐ डम्भाकारायै नमः ।ॐ कल्पसिद्धायै नमः । ६२०ॐ शल्यकौतुकवर्धिन्यै नमः ।ॐ ठाकृत्यै नमः ।ॐ कविवराराध्यायै नमः ।ॐ सर्वसम्पत्प्रदायिकायै नमः ।ॐ नवरात्रिदिनाराध्यायै नमः ।ॐ राष्ट्रदायै नमः ।ॐ राष्ट्रवर्धिन्यै नमः ।ॐ पानासवमदध्वंसिमूलिकासिद्धिदायिन्यै नमः ।ॐ फलप्रदायै नमः ।ॐ कुबेराराध्यायै नमः । ६३०पारिजातप्रसूनभाजेॐ बलिमन्त्रौघसंसिद्धायै नमः ।ॐ मन्त्रचिन्त्यफलावहायै नमः ।ॐ भक्तिप्रियायै नमः ।ॐ भक्तिगम्यायै नमः ।ॐ किङ्करायै नमः ।ॐ भगमालिन्यै नमः ।ॐ माधवीविपिनान्तस्स्थायै नमः ।ॐ महत्यै नमः ।ॐ महिषार्दिन्यै नमः । ६४०ॐ यजुर्वेदगतायै नमः ।ॐ शङ्खचक्रहस्ताम्बुजद्वयायै नमः ।ॐ राजसायै नमः ।ॐ राजमातङ्ग्यै नमः ।ॐ राकाचन्द्रनिभाननायै नमः ।ॐ लाघवालाघवाराध्यायै नमः ।ॐ रमणीजनमध्यगायै नमः ।ॐ वागीश्वर्यै नमः ।ॐ वकुलमाल्यायै नमः ।ॐ वाङ्मय्यै नमः । ६५०ॐ वारितासुखायै नमः ।ॐ शरभाधीशवनितायै नमः ।ॐ चन्द्रमण्डलमध्यगायै नमः ।ॐ षडध्वान्तरतारायै नमः ।ॐ रक्तजुष्टाहुतावहायै नमः ।ॐ तत्त्वज्ञानानन्दकलामयायै नमः ।ॐ सायुज्यसाधनायै नमः ।ॐ सदा कर्मसाधकसंलीनधनदर्शनदायै नमः ।ॐ हङ्कारिकायै नमः ।ॐ स्थावरात्मने नमः । ६६०ॐ अमरीलास्यमोदनायै नमः ।ॐ लकारत्रयसम्भूतायै नमः ।ॐ ललितायै नमः ।ॐ लक्ष्मणार्चितायै नमः ।ॐ लक्ष्ममूर्त्यै नमः ।ॐ सदाहारायै नमः ।ॐ प्रासादावासलोचनायै नमः ।ॐ नीलकण्ठ्यै नमः ।ॐ हरिद्रश्म्यै नमः ।ॐ शुक्यै नमः । ६७०ॐ गौर्यै नमः ।ॐ गोत्रजायै नमः ।ॐ अपर्णायै नमः ।ॐ यक्षिण्यै नमः ।ॐ यक्षायै नमः ।ॐ हरिद्रायै नमः ।ॐ हलिन्यै नमः ।ॐ हल्यै नमः ।ॐ ददत्यै नमः ।ॐ उन्मदायै नमः । ६८०ॐ ऊर्म्यै नमः ।ॐ रसायै नमः ।ॐ विश्वम्भरायै नमः ।ॐ स्थिरायै नमः ।ॐ पञ्चास्यायै नमः ।ॐ पञ्चमीरागायै नमः ।ॐ भाग्ययोगात्मिकायै नमः ।ॐ अम्बिकायै नमः ।ॐ गणिकायै नमः ।ॐ काल्यै नमः । ६९०ॐ वीणायै नमः ।ॐ शोणारुणात्मिकायै नमः ।ॐ रमादूत्यै नमः ।ॐ कलासिंह्यै नमः ।ॐ लज्जायै नमः ।ॐ धूमवत्यै नमः ।ॐ जडायै नमः ।ॐ भृङ्गिसङ्गिसख्यै नमः ।ॐ पीनायै नमः ।ॐ स्नेहारोगमनस्विन्यै नमः । ७००ॐ रणीमृडायै नमः ।ॐ दृढायै नमः ।ॐ ज्येष्ठायै नमः ।ॐ रमण्यै नमः ।ॐ यमुनारतायै नमः ।ॐ मुसलीकुण्ठितामोटायै नमः ।ॐ चण्डखण्डायै नमः ।ॐ गणाबलायै नमः ।ॐ शुक्लायै नमः ।ॐ स्रष्ट्रीवशायै नमः । ७१०ॐ ज्ञानिमान्यै नमः ।ॐ लीलालकायै नमः ।ॐ शच्यै नमः ।ॐ सूरचन्द्रघृणिर्योषावीर्याक्रीडायै नमः ।ॐ रसावहायै नमः ।ॐ नूत्नायै नमः ।ॐ सोमायै नमः ।ॐ महाराज्ञ्यै नमः ।ॐ गयायागाहुतप्रभायै नमः ।ॐ धूर्तायै नमः । ७२०ॐ सुधाघनालीनपुष्टिमृष्टसुधाकरायै नमः ।ॐ करिणीकामिनीमुक्तामणिश्रेणीफणीश्वरायै नमः ।ॐ तार्क्ष्यै नमः ।ॐ सूक्ष्मायै नमः ।ॐ नताचार्यायै नमः ।ॐ गौरिकायै नमः ।ॐ गिरिजाङ्गनायै नमः ।ॐ इन्द्रजालायै नमः ।ॐ इन्दुमुख्यै नमः ।ॐ इन्द्रोपेन्द्रादिसंस्तुतायै नमः । ७३०ॐ शिवदूत्यै नमः ।ॐ गरलशितिकण्ठकुटुम्बिन्यै नमः ।ॐ ज्वलन्तीज्वलनाकारायै नमः ।ॐ ज्वलज्जाज्वल्यजम्भदायै नमः ।ॐ ज्वालाशयायै नमः ।ॐ ज्वालमणये नमः ।ॐ ज्योतिषां गत्यै नमः ।ज्योतिश्शास्त्रानुमेयात्मनेॐ ज्योतिषि ज्वलितोज्ज्वलायै नमः ।ॐ ज्योतिष्मतीदुर्गवासिज्योत्स्नाभायै नमः । ७४०ॐ ज्वलनार्चितायै नमः ।ॐ लङ्कार्यै नमः ।ॐ ललितावासायै नमः ।ॐ ललिताललितात्मिकायै नमः ।ॐ लङ्काधिपायै नमः ।ॐ लास्यलोलायै नमः ।ॐ लयभोगमयालयायै नमः ।ॐ लावण्यशालिन्यै नमः ।ॐ लोलायै नमः ।ॐ लाङ्गलायै नमः । ७५०ॐ ललिताम्बिकायै नमः ।ॐ लाञ्छनायै नमः ।ॐ लम्पटालङ्घ्यायै नमः ।ॐ लकुलार्णवमुक्तिदायै नमः ।ॐ ललाटनेत्रायै नमः ।ॐ लज्जाढ्यायै नमः ।ॐ लास्यालापमुदाकरायै नमः ।ॐ ज्वालाकृत्यै नमः ।ॐ ज्वलद्बीजायै नमः ।ॐ ज्योतिर्मण्डलमध्यगायै नमः ।ॐ ज्योतिस्स्तम्भायै नमः ।ॐ ज्वलद्वीर्यायै नमः ।ॐ ज्वलन्मन्त्रायै नमः ।ॐ ज्वलत्फलायै नमः ।ॐ जुषिरायै नमः ।ॐ जुम्पटायै नमः ।ॐ ज्योतिर्मालिकायै नमः ।ॐ ज्योतिकास्मितायै नमः ।ॐ ज्वलद्वलयहस्ताब्जायै नमः ।ॐ ज्वलत्प्रज्वलकोज्ज्वलायै नमः । ७७०ॐ ज्वालमाल्यायै नमः ।ॐ जगज्ज्वालायै नमः ।ॐ ज्वलज्ज्वलनसज्ज्वलायै नमः ।ॐ लम्बीजायै नमः ।ॐ लेलिहानात्मने नमः ।ॐ लीलाक्लिन्नायै नमः ।ॐ लयावहायै नमः ।ॐ लज्जावत्यै नमः ।ॐ लब्धपुत्र्यै नमः ।ॐ लाकिन्यै नमः । ७८०ॐ लोलकुण्डलायै नमः ।ॐ लब्धभाग्यायै नमः ।ॐ लब्धकामायै नमः ।ॐ लब्धधिये नमः ।ॐ लब्धमङ्गलायै नमः ।ॐ लब्धवीर्यायै नमः ।ॐ लब्धवृतायै नमः ।ॐ लाभायै नमः ।ॐ लब्धविनाशिन्यै नमः ।ॐ लसद्वस्त्रायै नमः । ७९०ॐ लसत्पीडायै नमः ।ॐ लसन्माल्यायै नमः ।ॐ लसत्प्रभायै नमः ।ॐ शूलहस्तायै नमः ।ॐ शूरसेव्यायै नमः ।ॐ शूलिन्यै नमः ।ॐ शूलनाशिन्यै नमः ।ॐ शूङ्कृत्यनुमत्यै नमः ।ॐ शूर्पशोभनायै नमः ।ॐ शूर्पधारिण्यै नमः । ८००ॐ शूलस्थायै नमः ।ॐ शूरचित्तस्थायै नमः ।ॐ शूलायै नमः ।ॐ शुक्लसुरार्चितायै नमः ।ॐ शुक्लपद्मासनारूढायै नमः ।ॐ शुक्लायै नमः ।ॐ शुक्लाम्बरांशुकायै नमः ।ॐ शुकलालितहस्ताब्जायै नमः ।ॐ श्वेतायै नमः ।ॐ शुकनुतायै नमः । ८१०ॐ शुभायै नमः ।ॐ ललिताक्षरमन्त्रस्थायै नमः ।ॐ लिप्तकुङ्कुमभासुरायै नमः ।ॐ लिपिरूपायै नमः ।ॐ लिप्तभस्मायै नमः ।ॐ लिप्तचन्दनपङ्किलायै नमः ।ॐ लीलाभाषणसंलोलायै नमः ।ॐ लीनकस्तूरिकाद्रवायै नमः ।ॐ लिखिताम्बुजचक्रस्थायै नमः ।ॐ लिख्यालिखितवैभवायै नमः ।ॐ नीलालकायै नमः ।ॐ नीतिमत्यै नमः ।ॐ नीतिशास्त्रस्वरूपिण्यै नमः ।ॐ नीचघ्न्यै नमः ।ॐ निष्कलायै नमः ।ॐ नित्यायै नमः ।ॐ नीलकण्ठप्रियाङ्गनायै नमः ।ॐ निराशायै नमः ।ॐ निर्गुणातीतायै नमः ।ॐ निर्मदायै नमः । ८३०ॐ निरुपप्लवायै नमः ।ॐ निर्णीतायै नमः ।ॐ निर्मलायै नमः ।ॐ निष्ठायै नमः ।ॐ निरङ्कुशपराक्रमायै नमः ।ॐ निर्विण्णदानवबलायै नमः ।ॐ निश्शेषीकृततारकायै नमः ।ॐ निरञ्जनकरामन्त्र्यै नमः ।ॐ निर्विघ्नपरनाशिन्यै नमः ।ॐ नित्यक्लिन्नायै नमः । ८४०ॐ निराहारायै नमः ।ॐ नीवीनीलाम्बराञ्चितायै नमः ।ॐ निशाचरकुलध्वंस्यै नमः ।ॐ नित्यानन्दपरम्परायै नमः ।ॐ निम्बप्रियायै नमः ।ॐ निरावेशायै नमः ।ॐ निन्दितासुरसुन्दर्यै नमः ।ॐ निर्घोषायै नमः ।ॐ निगलाकृष्टकृत्तिज्ज्वालावृताङ्गणायै नमः ।ॐ नीरसायै नमः । ८५०ॐ नित्यकल्याण्यै नमः ।ॐ निरन्तरसुखप्रदायै नमः ।ॐ निर्लोभायै नमः ।ॐ नीतिमत्प्रीतायै नमः ।ॐ निर्विघ्नायै नमः ।ॐ निमिषापहायै नमः ।ॐ दुम्बीजायै नमः ।ॐ दुष्टसंहार्यै नमः ।ॐ दुर्मदायै नमः ।ॐ दुरितापहायै नमः । ८६०ॐ दुरुत्सहमहावीर्यायै नमः ।ॐ दुर्मेधोत्सवनाशिन्यै नमः ।ॐ दुर्मांसभक्षिण्यै नमः ।ॐ दुष्टायै नमः ।ॐ दूरीकृतनिशाचरायै नमः ।ॐ दूतीदुष्टग्रहमदचुम्ब्यै नमः ।ॐ दुर्बलरक्षक्यै नमः ।ॐ ष्टङ्कार्यै नमः ।ॐ ष्टम्मय्यै नमः ।ॐ ष्टम्भायै नमः । ८७०ॐ ष्टम्बीजायै नमः ।ॐ ष्टम्भकीलकायै नमः ।ॐ ग्रहेश्वर्यै नमः ।ॐ ग्रहाराध्यायै नमः ।ॐ ग्रहणीरोगमोचिन्यै नमः ।ॐ ग्रहावेशकर्यै नमः ।ॐ ग्राह्यायै नमः ।ॐ ग्रहग्रामाभिरक्षिण्यै नमः ।ॐ ग्रामौषधमहावीर्यायै नमः ।ॐ ग्राम्यसर्वभयापहायै नमः । ८८०ॐ ग्रहद्वेष्यै नमः ।ॐ ग्रहारूढायै नमः ।ॐ ग्रामण्यै नमः ।ॐ ग्रामदेवतायै नमः ।ॐ गृहीतब्रह्ममुख्यास्त्रायै नमः ।ॐ गृहीतायुधशक्तिदायै नमः ।ॐ ग्रासमांसायै नमः ।ॐ गृहस्थार्च्यायै नमः ।ॐ ग्रहभूतनिवारिण्यै नमः ।ॐ हम्भूतायै नमः । ८९०ॐ हलधृक्सेव्यायै नमः ।ॐ हारहारिकुचाञ्चलायै नमः ।ॐ हर्षप्रदायै नमः ।ॐ हराराध्यायै नमः ।ॐ हासनिन्द्यनिशाकरायै नमः ।ॐ हविर्भोक्त्र्यै नमः ।ॐ हरिद्राभायै नमः ।ॐ हरिताश्वाधिरोहिण्यै नमः ।ॐ हरित्पतिसमाराध्यायै नमः ।ॐ हलाकृष्टसुरासुरायै नमः । ९००ॐ हारीतशुकवत्पाण्यै नमः ।ॐ हयमेधाभिरक्षक्यै नमः ।ॐ हंसाक्षर्यै नमः ।ॐ हंसबीजायै नमः ।ॐ हाहाकारहराशुगायै नमः ।ॐ हय्यङ्गवीनहृद्वृत्त्यै नमः ।ॐ हारीतांशुमणिद्युत्यै नमः ।ॐ हुङ्कारात्मने नमः ।ॐ हुताहोम्यायै नमः ।ॐ हुङ्कारालयनायिकायै नमः । ९१०ॐ हुङ्कारपञ्जरशुक्यै नमः ।ॐ हुङ्कारकमलेन्दिरायै नमः ।ॐ हुङ्काररात्रिकाज्योत्स्नायै नमः ।ॐ हुङ्कारद्रुममञ्जर्यै नमः ।ॐ हुङ्कारदीपिकाज्वालायै नमः ।ॐ हुङ्कारार्णवकौमुद्यै नमः ।ॐ हुम्फट्कर्यै नमः ।ॐ हुम्फट्द्युत्यै नमः ।ॐ हुङ्काराकाशभास्करायै नमः ।ॐ फट्कार्यै नमः । ९२०ॐ स्फाटिकाकारायै नमः ।ॐ स्फटिकाक्षकराम्बुजायै नमः ।ॐ फट्कीलकायै नमः ।ॐ फडस्त्रायै नमः ।ॐ फट्काराहिशिखामण्यै नमः ।ॐ फट्कारसुमनोमाध्व्यै नमः ।ॐ फट्कारकमलेन्दिरायै नमः ।ॐ फट्कारसौधशृङ्गस्थायै नमः ।ॐ फट्काराध्वरदक्षिणायै नमः ।ॐ फट्कारशुक्तिकामुक्तायै नमः । ९३०ॐ फट्कारद्रुममञ्जर्यै नमः ।ॐ फट्कारवीरखड्गास्त्रायै नमः ।ॐ फट्कारतनुमध्यगायै नमः ।ॐ फट्कारशिबिकारूढायै नमः ।ॐ फट्कारच्छत्रलाञ्छितायै नमः ।ॐ फट्कारपीठनिलयायै नमः ।ॐ फट्कारावृतमण्डलायै नमः ।ॐ फट्कारकुञ्जरमदप्रवाहायै नमः ।ॐ भाललोचनायै नमः ।ॐ फलाशिन्यै नमः । ९४०ॐ फलकर्यै नमः ।ॐ फलदानपरायणायै नमः ।ॐ फट्कारास्त्रफलाकारायै नमः ।ॐ फलन्त्यै नमः ।ॐ फलवर्जितायै नमः ।ॐ स्वातन्त्र्यचरितायै नमः ।ॐ स्वस्थायै नमः ।ॐ स्वप्नग्रहनिषूदिन्यै नमः ।ॐ स्वाधिष्ठानाम्बुजारूढायै नमः ।ॐ स्वयम्भूतायै नमः । ९५०ॐ स्वरात्मिकायै नमः ।ॐ स्वर्गाधिपायै नमः ।ॐ स्वर्णवर्णायै नमः ।ॐ स्वाहाकारस्वरूपिण्यै नमः ।ॐ स्वयंवरायै नमः ।ॐ स्वरारोहायै नमः ।ॐ स्वप्रकाशायै नमः ।ॐ स्वरप्रियायै नमः ।ॐ स्वचक्रराजनिलयायै नमः ।ॐ स्वसैन्यविजयप्रदायै नमः । ९६०ॐ स्वप्रधानायै नमः ।ॐ स्वापकार्यै नमः ।ॐ स्वकृताखिलवैभवायै नमः ।ॐ स्वैरिणीखेदशमन्यै नमः ।ॐ स्वरूपजितमोहिन्यै नमः ।ॐ हानोपादाननिर्मुक्तायै नमः ।ॐ हानिदौघनिरासनायै नमः ।ॐ हस्तिकुम्भद्वयकुचायै नमः ।ॐ हस्तिराजाधिरोहिण्यै नमः ।ॐ हयग्रीवसमाराध्यायै नमः । ९७०ॐ हस्तिकृत्तिप्रियाङ्गनायै नमः ।ॐ हालीकृतस्वरकुलायै नमः ।ॐ हानिवृद्धिविवर्जितायै नमः ।ॐ हाहाहूहूमुखस्तुत्यायै नमः ।ॐ हठदानितकृत्तिकायै नमः ।ॐ हतासुरायै नमः ।ॐ हतद्वेषायै नमः ।ॐ हाटकाद्रिगुहागृहायै नमः ।ॐ हल्लीनटनसन्तुष्टायै नमः ।ॐ हरिगह्वरवल्लभायै नमः । ९८०ॐ हनुमद्गीतसङ्गीतहासितायै नमः ।ॐ हरिसोदर्यै नमः ।ॐ हकारकन्दरासिंह्यै नमः ।ॐ हकारकुसुमासवायै नमः ।ॐ हकारतटिनीपूरायै नमः ।ॐ हकारजलपङ्कजायै नमः ।ॐ हकारयामिनीज्योत्स्नायै नमः ।ॐ हकारखजितारसायै नमः ।ॐ हकारचक्रवालार्कायै नमः ।ॐ हकारमरुदीधित्यै नमः । ९९०ॐ हकारवासरङ्ग्यै नमः ।ॐ हकारगिरिनिर्झरायै नमः ।ॐ हकारमधुमाधुर्यायै नमः ।ॐ हकाराश्रमतापस्यै नमः ।ॐ हकारमधुवासन्त्यै नमः ।ॐ हकारस्वरकाहल्यै नमः ।ॐ हकारमन्त्रबीजार्णायै नमः ।ॐ हकारपटहध्वन्यै नमः ।ॐ हकारनारीलावण्यायै नमः ।ॐ हकारपरदेवतायै नमः । १०००इति श्रीदुर्गासहस्रनामावलिः सम्पूर्णा ॥ N/A References : N/A Last Updated : January 15, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP