मराठी मुख्य सूची|स्तोत्रे|सहस्रनामावली| श्रीगणेशाय नमः । श्रीकेदा... सहस्रनामावली ब्रह्मानन्दं परमसुखदं केव... अथ मूलम् । ॐ श्रीं ह्रीं ... ॐ श्रीगणेशाय नमः । श्वेता... श्रीअरुणाचलेश्वरसहस्रनामावली अर्धनारीश्वरसहस्रनामावलिः ॐ हिरण्यबाहवे हिरण्यवर्णा... श्रीहनुमत्सहस्रनामावलिः ॐ श्रीगणेशाय नमः । ॐ ब्र... ॐ इन्द्राय नमः । देवतमाय ... ॐ श्रीगणेशाय नमः । ॐ नमोद... ॐ अस्य श्रीसर्वसाम्राज्यम... ध्यानम् । कान्त्या काञ्चन... ॐ श्रीगणेशाय नमः । ॐ नका... ॐ अस्य कामकलाकालीसहस्रनाम... श्री गणेशाय नमः । श्रीकाम... कालोऽहम् । अस्य श्रीकालना... शिव उवाच- नाम्नां सहस्रं ... ॐ श्मशानकालिकायै नमः । ॐ ... अथ कुञ्चितपादसहस्रनामावलि... धनं दारान्सुतान्क्षेत्रं ... षड्वक्त्रं शिखिवाहनं त्रि... ॐ कृष्णाय नमः । श्रीवल्लभ... ॐ अस्य श्रीपुराणपुरुषोत्त... श्रीगणेशाय नमः । श्रीकेदा... सितमकरनिषण्णां शुभ्रवर्णा... श्रीगणेशाय नमः । श्रीसमर्... ॐ अस्य श्रीगणपतिगकारादिसह... ॐ सुमुखाय नमः । सुवहाय । ... ध्यानम् रक्तश्वेतहिरण्यनी... ध्यानम् - रक्तश्वेतहिरण्य... ॐ शं शां षं ह्रीं क्लीं ग... अथ ध्यानम् । सूर्यस्पर्धि... ॐ श्री गुरुभ्यो नमः । गुर... ॐ श्रीगणेशाय नमः । सर्वत्... अथ श्रीगोपालदिव्यसहस्रनाम... ॐ गवे नमः । ॐ गौविन्द्यै ... श्रीगुरुभ्यो नमः । श्रीका... ॐ अस्य श्रीप्रचण्डचण्डिका... अथ श्रीयोगेश्वरकवि द्वारा... अस्य श्रीज्वालामुखीसहस्रन... विश्वव्यापकवारिमध्यविलसच्... ॐ अस्य श्रीतारासहस्रनामस्... ॐ भुवनेश्यै नमः । ॐ भुवार... ॐ अस्य श्रीमहोग्रतारा दिव... वरिष्ठ उवाच - कथं नामसहस्... ॐ तुलस्यै नमः । ॐ श्रीप्र... ॐ श्रीमत्त्यागमहाराजाय नम... श्रीगणपतये नमः । ॐ अनेजते... ध्यानम् । उद्यद्भानुसहस्र... ॐ योगेशाय नमः । ॐ अमरप्रभ... महाकालभैरव ऋषिस्त्रिष्टुप... अस्य श्रीदक्षिणामूर्तिसहस... ॐ आदिदेवाय नमः । दयासिन्ध... ध्यानम् । स्फटिकरजतवर्णां... ऋषिच्छन्दांसि - अस्य श्री... तन्त्रराजतन्त्रे पूर्वपीठ... ध्यानम् । १. सिंहस्था शशि... महामन्त्रस्य श्रीमहेश्वर ... ध्यानम् - रक्ताभां रक्तवस... ॐ श्रीमते नमः । ॐ धन्वन्त... ॐ नमो भगवते भूतनाथाय । ॐ ... ध्यानम् । विवर्णा चञ्चला ... अस्य श्री शिवकामसुन्दरीसम... ॐ अस्य श्रीनटेशसहस्रनामस्... ॐ श्री गणेशाय नमः । अस्य ... श्री गुरुभ्यो नमः । ॐ श्र... श्री गुरुभ्यो नमः । ॐ श्र... ॥ ध्यानम् ॥ श्रीमित्रेश्... श्रीराधासर्वेश्वरो विजयते... पद्मावतीशतम् ॐ श्री पद्मा... ॐ श्रीगणेशाय नमः । ॐ अस्य... अथ विनियोगः । ॐ अस्य श्री... अथ अकारादि-क्षकारान्तासहस... ॐ शिवायै नमः । उमायै । पर... ॐ श्रीकृष्णाय नमः । सच्चि... अस्य श्रीप्रणवसहस्रनामस्त... ईश्वर उवाच । शृणु देवि प... ॐ ब्रह्मास्त्राय नमः । ॐ ... श्रीमहादेव उवाच - अस्य श्... विनियोगः - ॐ अस्य श्रीबटु... रुद्रयामलोक्तबटुकभैरवसहस्... ॐ अस्य श्रीबलभद्रसहस्रनाम... ॐ ऐं ह्रीं श्रीं-आनन्दसिन... शौनक उवाच - कैलासशिखरे रम... श्रीदेव्युवाच - भगवन्भाषि... ओं ऐं ह्रीं श्रीङ्कल्याण्... ॐ परमात्मने नमः ॐ धर्मक्... ॐ निस्सीमोद्यद्गुणाय नमः ... ॐ क्रकुच्छन्दाय नमः । ॐ क... ध्यानम् - बालार्कमण्डलाभा... विनोयोगः - ॐ अस्य श्रीभुव... प्रणवाय ब्रह्मणे उद्गीथाय... विनियोगः । ॐ अस्य श्रीमहा... श्रीः । ॐ नमश्चण्डिकायै ।... ॐ ह्रीं श्रीं क्लीं गणाध्... ॐ महामार्यै नमः । महामाया... पार्वत्युवाच - भगवन् वेदत... श्रीगणेशाय नमः । श्रीमहाल... ॐ ह्रीं ऐं ह्रीं महावाण्य... ध्यानम् श्रीमच्चन्दनचर्चि... ॐ अद्भुताय नमः । अद्भुतचा... ॐ सुमुख्यै नमः । ॐ शेमुष्... ॐ अम्बायै नमः । ॐ अम्बालि... ॐ अस्यश्री मूकाम्बिकायाः ... श्रीभैरव उवाच । अस्य श्री... अस्य श्री मेधादक्षिणामूर्... ॐ नमो भगवते दक्षिणामूर्तय... गर्गसंहितातः ॐ कालिन्द्य... अस्य श्रीयोगेश्वरीसहस्रना... ॐ योगिन्यै नमः । योगमायाय... देव्युवाच - भगवन्सर्वशास्... सोन्दूर श्रीकृष्ण अवधूतवि... वन्दे वृन्दावनानन्दा राधि... ॐ श्रीराधायै नमः । राधिका... ॐ श्रीराधायै नमः । राधिका... ॐ अस्य श्रीरामसहस्रनाममाल... ॐ आर्यश्रेष्ठाय नमः । धरा... सङ्कल्पः - यजमानः, आचम्य,... ॐ नमो भगवते वासुदेवाय । ॐ... ॐ स्थिराय नमः । स्थाणवे ।... न्यासः । अस्य श्रीरुद्रसह... अथ श्रीरेणुकातन्त्रान्तर्... सिन्दूरारुणविग्रहां त्रिन... ॐ श्रियै नमः । वासुदेवमहि... ॐ नित्यागतायै नमः । ॐ अनन... ॐ श्रीवराहाय नमः । भूवराह... ॐ वल्ल्यै नमः । ॐ वल्लीश्... ॐ श्रीवाग्मत्याः सहस्रनाम... ॐ श्रीगणेशाय नमः । श्रीनन... वराहमुख्यै विद्महे । दण्ड... ध्यानम् - ओङ्कारबीजाक्षरी... शुक्लाम्बरधरं विष्णुं शशि... ॐ क्लीं विट्टलाय नमः । पा... पूर्वन्यासः । श्रीवेदव्या... श्रीविष्णुसहस्रनामावलिः प... रुद्र उवाच । संसारसागराद... ॐ श्रीगणेशाय नमः । ॐ विष... श्रीशिवाय गुरवे श्रीवीरभ... वेङ्कटेशस्य नाम्नां हि सह... ॐ श्री गुरुभ्यो नमः । अथ ... ॐ शङ्कराय नमः । ॐ श्रीधरा... ॐ गाढध्वान्तनिमज्जनप्रमुष... ॐ अमिताभाषिणे नमः । ॐ अघह... ॐ श्रीगणेशाय नमः । ॐ श्री... विनियोगः - अस्य श्रीशारिक... अस्य श्रीशास्तृशवर्णसहस्र... ॐ अस्य श्री शिवकामसुन्दरी... अस्य श्रीशिवकामसुन्दरीसहस... ॐ अखिलेश्वर्यै नमः । अग्न... ॐ स्थिराय नमः । ॐ स्थाणवे... ॐ श्री गणेशाय नमः । अथ श्... ॐ ओङ्कारकण्ठनिलयाय नमः । ... ॐ ॐकारनिलयात्मस्थाय नमः ।... श्री विष्णुरुवाच ॐ भवाय ... अस्य श्रीशिवसहस्रनामस्तोत... ॐ सौभाग्यलक्ष्म्यै नमः । ... ॐ राधिकेशाय नमः । ॐ जगन्न... सद्गुरु श्रीधरस्वामिनाप्र... ईशानमुखपूजा- ॐ जगद्भुवे न... ॐ वचनभुवे नमः । पराय । शङ... ॐ रुद्रभुवनाय नमः । अनन्त... ॐ ब्रह्मभुवे नमः । भवाय ।... अघोर मुखपूजा । ॐ विश्वभुव... ॐ अचिन्त्य शक्तये नमः । अ... जपसाधना ॐ अस्य श्रीमहात्र... ॐ सङ्कटायै नमः । ॐ विजयाय... ॐ सङ्गीतालय-प्रतिष्ठित-भग... ॐ सीतायै नमः । उमायै । पर... ॐ श्रीचक्राय नमः । ॐ श्री... ॐ शुक्लाम्बरधरं विष्णुं श... ॐ श्री गणेशाय नमः । अस्य ... ॐ अस्य श्रीसुब्रह्मण्यसहस... बिल्वैर्वा चम्पकाद्यौर्वा... ध्यानम् - ध्येयः सदा सवित... श्रीरुद्रयामले तन्त्रे श्... श्रीसूर्यसहस्रनामावलिः ॐ सुब्रह्मण्याय । सुरेशान... ॐ नमः । ओङ्कारनमोरूपाय । ... ॐ श्रीहयग्रीवाय नमः । श्र... स्वामिनारायणं कृष्णं भक्त... १. ॐ स्थिराय नमः । २. ॐ ... ॥ श्रीदुर्गादैव्ये नम: ॥ ... १. ॐ राजीवलोचनाय नमः । ... १ ॐ अचिन्त्यलक्षणायै नमः ... १ ॐ कालिन्द्यै नमः । २ ॐ... १ ॐ अन्नपूर्णायै नमः । ... १. ॐ नारसिंहाय नमः । २. ... १ ॐ देवकीनन्दनाय नमः । २... १ ॐ क्लीं देवाय नमः । २ ... १ ॐ श्रियै नमः । २ ॐ पद्... १ ॐ हनुमते नमः । २ ॐ श्र... ॥ श्रीकृष्णाय नमः ॥ १. ॐ ... १. ॐ विश्वविदे नम: । २. ... १. ॐ गणेश्वराय नम: । २.... १. ॐ ऐं ह्रीं श्रीं श्रीम... १ ॐ सीतायै नमः । २ ॐ उमा... १ ॐ ओंकाररूपिण्यै नमः । ... १. ॐ विश्वस्मै नमः । २.ॐ... १. ॐ श्रीराधायै नमः । २.... ॐ गणपतये नमः ॥ ॥ ॐ गणेश्व... श्रीकेदारसहस्रनामावलिः - श्रीगणेशाय नमः । श्रीकेदा... हिंदू देवी देवतांची एक हजार नावे म्हणजेच सहस्त्रनामावली. हिंदू धर्मिय रोज सकाळी संध्याकाळी या नावांचा जप करतात.A sahasranamavali is a type of Hindu scripture in which a diety is referred to by 1000 or more different names.Many devout Hindus chant them every morning or evening. Tags : 1000godgoddesssahasranamavaliसहस्त्रनामावली श्रीकेदारसहस्रनामावलिः Translation - भाषांतर श्रीगणेशाय नमः ।श्रीकेदारनाथाय नमः ।श्रीदक्षिणामूर्तये नमः ।श्रीरवलनाथाय नमः ।कदाचित्सञ्चरन्योगी जामदग्न्याश्रमागतः ।सत्कृतस्तेन तं प्राह श्लक्ष्णं मधुरया गिरा ॥१॥मुने रवलनाथस्य रत्नाचलनिवासिनः ।सहस्रनामस्तोत्रं मे कथयस्व सविस्तरम् ॥२॥एवं स योगिना पृष्टो जामदग्न्य उवाच तम् ।त्वया रवळनाथस्य यत्पृष्टो मङ्गलप्रदम् ॥३॥सहस्रनामस्तोत्रं ते शृणुष्व वदतो मम ॥४॥अस्य श्रीकेदारसहस्रनामस्तोत्रमन्त्रस्य जामदग्न्य ऋषिः, अनुष्टुप् छन्दः,श्रीरवलनाथपरमात्मा देवता, श्रीरवलनाथप्रसादसिद्ध्यर्थे जपे विनियोगः ॥अथ न्यासः -ॐ रं अङ्गुष्ठाभ्यां नमः ।ॐ वं तर्जनीभ्यां नमः ।ॐ लं मध्यमाभ्यां नमः ।ॐ नं अनामिकाभ्यां नमः ।ॐ वं कनिष्ठिकाभ्यां नमः ।ॐ लं करतलकरपृष्ठाभ्यां नमः ॥एवं हृदयादि -ॐ रं हृदयाय नमः ।ॐ वं शिरसे स्वाहा ।ॐ लं शिखायै वषट् ।ॐ नं कवचाय हुम् ।ॐ वं नेत्रत्रयाय वौषट् ।ॐ यं अस्त्राय फट् ॥अथ ध्यानं -ध्यायेद्देवं परेशं त्रिगुणगुणमयं ज्योतिरूपस्वरूपंवामे पात्रं त्रिशूलं डमरुकसहितं खड्गदक्षेविराजम् ।शेषारूढं सुरेशं कमलपदयुगं भक्तकारुण्यगम्यं (क्रमणपदयुगम्)सर्वाङ्गेलिङ्गभूषं उपवितसहितं नाथमार्गाधिपत्यम् ॥१॥दैत्यघ्नं भक्तपालं सकलमघहरं ज्ञानमानन्दचित्तम् ।सर्वार्थं सर्वरूपं विगुणसगुणदं श्रीपदं नाथरूपम् ॥२॥शेषारूढो भवेद्विष्णुः त्रिशूली शिवरूपधृक् ।उपवीती भवेद् ब्रह्मा खड्गशक्तिसमन्वितः ॥३॥सर्वदेवमयीमूर्तिः सर्वाराध्यस्वरूपवान् ।सर्वाचरणमार्गाणां सर्वकर्मफलप्रदः ॥४॥हेतुभूतशरीरस्थं हेतुसाधनवर्जितम् ।अहेतुकसदानन्दं श्रीनाथप्रकृतीश्वरम् ॥५॥अथ सहस्रनामावलिः ।ॐ श्रीनाथाय नमः ।ॐ रेणुकानाथाय नमः ।ॐ जगन्नाथाय नमः ।ॐ जनाश्रयाय नमः ।ॐ श्रीगुरवे नमः ।ॐ गुरुगम्याय नमः ।ॐ गुरुरूपाय नमः ।ॐ कृपानिधये नमः ।ॐ गणेशाय नमः ।ॐ गणनाथाय नमः ।ॐ गणपूज्याय नमः ।ॐ गणाश्रयाय नमः ।ॐ पीठेशाय नमः ।ॐ पीठरूपस्थाय नमः ।ॐ पीठपूज्याय नमः ।ॐ सुखावहाय नमः ।ॐ भैरवाय नमः ।ॐ भैरवश्रेष्ठाय नमः ।ॐ भैरवायुधधारकाय नमः ।ॐ सिद्धये नमः । २०ॐ सिद्धिप्रदाय नमः ।ॐ साध्याय नमः ।ॐ सिद्धमण्डलपूजिताय नमः ।ॐ बटुरूपाय नमः ।ॐ बटुस्वामिने नमः ।ॐ बटुपालनकारणाय नमः ।ॐ पदरूपाय नमः ।ॐ पदप्राप्ताय नमः ।ॐ पदेशाय नमः ।ॐ पदनायकाय नमः ।ॐ दूतकर्मणे नमः ।ॐ दूतनाथाय नमः ।ॐ शाम्भवाय नमः ।ॐ शङ्करप्रभाय नमः ।ॐ वीराय नमः ।ॐ वीरप्रदाय नमः ।ॐ शूराय नमः ।ॐ वीरेशाय नमः ।ॐ वरदायकाय नमः ।ॐ वीरनाथाय नमः । ४०ॐ वीररूपाय नमः ।ॐ वीराय नमः ।ॐ आयुधधारकाय नमः ।ॐ चतुराश्रमनिष्ठाय नमः ।ॐ चतुर्मूर्तये नमः ।ॐ चतुर्भुजाय नमः ।ॐ षष्ठीशाय नमः ।ॐ घण्टिकारूपाय / घटिकानाथाय नमः ।ॐ पलसङ्केतवर्धकाय नमः ।ॐ नवनाथाय नमः ।ॐ नवाङ्कस्थाय नमः ।ॐ नवचक्रेश्वराय नमः ।ॐ विभवे नमः ।ॐ वीरावलिप्रियाय नमः ।ॐ शान्ताय नमः ।ॐ युद्धविक्रमदर्शकाय नमः ।ॐ पञ्चपञ्चकतत्त्वस्थाय नमः ।ॐ तत्त्वातीतस्वरूपकाय नमः ।ॐ श्रीमयाय नमः ।ॐ श्रीकलानाथाय नमः । ६०ॐ श्रेयोदाय नमः ।ॐ श्रेयसां निधये नमः ।ॐ मालाधराय नमः ।ॐ मुनिश्रेष्ठाय नमः ।ॐ मुनिमानसहंसकाय नमः ।ॐ मन्त्रराजाय नमः ।ॐ मन्त्ररूपाय नमः ।ॐ मन्त्रपुण्यफलप्रदाय नमः ।ॐ गुरुमण्डलरूपस्थाय नमः ।ॐ गुरुमण्डलकारणाय नमः ।ॐ तिथिमण्डलरूपाय नमः ।ॐ वृद्धिक्षयविवर्जिताय नमः ।ॐ तिथिरूपाय नमः ।ॐ तिथिप्रीताय नमः ।ॐ तिथिलावण्यसुन्दराय नमः ।ॐ प्रथमाय नमः ।ॐ प्रथमाकाराय नमः ।ॐ द्वितीयाय नमः ।ॐ शक्तिसंयुताय नमः ।ॐ गुणत्रयतृतीयाय नमः । ८०ॐ युगरूपाय नमः ।ॐ चतुर्थकाय नमः ।ॐ पञ्चभूतात्मसाक्षीशाय नमः ।ॐ ऋतुषड्गुणभावनाय नमः ।ॐ सप्तधातुस्वरूपाय नमः ।ॐ अष्टमाय नमः ।ॐ अष्टसिद्धिदाय नमः ।ॐ नवनाथाय नमः ।ॐ नवम्यस्थाय नमः ।ॐ दशदिग्रूपधारकाय नमः ।ॐ रुद्राय नमः ।ॐ एकादशाकाराय नमः ।ॐ द्वादशादित्यदीपगाय नमः ।ॐ सर्वसिद्धये नमः ।ॐ त्रयोदश्याय नमः ।ॐ मनुरूपचतुर्दशाय नमः ।ॐ पूर्णरूपाय नमः ।ॐ त्रिपञ्चस्थाय नमः ।ॐ त्रिपञ्चातीतमानसाय नमः ।ॐ रकाराय नमः । १००ॐ ब्रह्मरूपाय नमः ।ॐ वकाराय नमः ।ॐ विष्णवे नमः ।ॐ अव्ययाय नमः ।ॐ लकाराय नमः ।ॐ शिवरूपाय नमः ।ॐ श्रीनाथाय नमः ।ॐ प्रकृतीश्वराय नमः ।ॐ अकारादिक्षकारान्तवर्णसङ्करमन्त्रगाय नमः ।ॐ व्यञ्जनाय नमः ।ॐ व्यञ्जनातीताय नमः ।ॐ विसर्गाय नमः ।ॐ स्वरभूषणाय नमः ।ॐ अनन्ताय नमः ।ॐ अव्ययाय नमः ।ॐ आद्याय नमः ।ॐ आदिशक्तये नमः ।ॐ वरप्रदाय नमः ।ॐ आनन्दाय नमः ।ॐ आद्यसंस्थानाय नमः । १२०ॐ आद्यकारणलक्षणाय नमः ।ॐ कर्त्रे नमः ।ॐ कारयित्रे नमः ।ॐ कार्याय नमः ।ॐ कार्यकारणभावगाय नमः ।ॐ कलानाथाय नमः ।ॐ कलातीताय नमः ।ॐ काव्यनाटकबोधकाय नमः ।ॐ कालहन्त्रे नमः ।ॐ कालसाध्याय नमः ।ॐ कालवक्तृप्रवर्तकाय नमः ।ॐ कालाग्नये नमः ।ॐ रुद्रसन्दीप्ताय नमः ।ॐ कालान्तकभयङ्कराय नमः ।ॐ खड्गीशाय नमः ।ॐ खड्गनाथाय नमः ।ॐ खड्गशक्तिपरायणाय नमः ।ॐ गर्वघ्नाय नमः ।ॐ दैत्यसंहर्त्रे नमः ।ॐ गमागमविवर्जिताय नमः । १४०ॐ घनश्यामाय नमः ।ॐ घनानन्दाय नमः ।ॐ घनधाराप्रवर्तकाय नमः ।ॐ घनकर्त्रे नमः ।ॐ घनत्रात्रे नमः ।ॐ घनबीजसमृद्धिदाय नमः ।ॐ ओङ्कारबीजसाध्याय नमः ।ॐ नादवर्णनसाङ्गकाय नमः ।ॐ चत्वारकवर्णरूपाय नमः ।ॐ चतुराश्रमनिश्चयाय नमः ।ॐ छन्दःसाराय नमः ।ॐ छन्दःकर्त्रे नमः ।ॐ छन्दसो ऽन्वयधारकाय नमः ।ॐ छत्रसिंहासनाधीशाय नमः ।ॐ भक्तच्छत्रसमृद्धिमते नमः ।ॐ जपाय नमः ।ॐ जपप्रियाय नमः ।ॐ जाप्याय नमः ।ॐ जपसिद्धिप्रदायकाय नमः ।ॐ जपसङ्ख्यायै नमः । १६०ॐ जपाकाराय नमः ।ॐ सर्वमन्त्रजपप्रियाय नमः ।ॐ झषरूपधराय नमः ।ॐ देवाय नमः ।ॐ झषवृद्धिविवर्धकाय नमः ।ॐ यमशासनकर्त्रे नमः ।ॐ यमपूज्याय नमः ।ॐ धनाधिपाय नमः ।ॐ टङ्कायुधाय नमः ।ॐ शिवप्रीताय नमः ।ॐ ठकारलाङ्गलाश्रयाय नमः ।ॐ डमरुप्रीतिडामर्याय नमः ।ॐ तन्त्रडामरस्थापकाय नमः ।ॐ ढकारढवलाध्यानाय नमः ।ॐ पशुपाशविमोचकाय नमः ।ॐ नवार्णजपसुप्रीताय नमः ।ॐ तन्त्रविग्रहविग्रहाय नमः ।ॐ स्थगितचित्तचित्तस्थाय नमः ।ॐ दयारूपाय नमः ।ॐ दयाकराय नमः । १८०ॐ धनदाय नमः ।ॐ धननाथाय नमः ।ॐ धनधान्यप्रदायकाय नमः ।ॐ नररूपाय नमः ।ॐ नरश्रेष्ठाय नमः ।ॐ नरोत्तमाय नमः ।ॐ नराधिपाय नमः ।ॐ नरसंस्थानकर्त्रे नमः ।ॐ नराय नमः ।ॐ सर्वत्रव्यापकाय नमः ।ॐ नादाय नमः ।ॐ नादप्रियाय नमः ।ॐ नाद्याय नमः ।ॐ नादब्रह्माण्डपूरकाय नमः ।ॐ नादज्ञानरताय नमः ।ॐ नित्यनादान्तपददायकाय नमः ।ॐ पलरूपाय नमः ।ॐ पलातीताय नमः ।ॐ पलक्षारविलक्षणाय नमः ।ॐ पदसङ्ख्याक्षराय नमः । २००ॐ वर्णाय नमः ।ॐ सङ्ख्यासङ्केतकारकाय नमः ।ॐ फलदाय नमः ।ॐ फलदात्रे नमः ।ॐ फलकर्त्रे नमः ।ॐ फलप्रियाय नमः ।ॐ फलाश्रयाय नमः ।ॐ फलातीताय नमः ।ॐ फलमुक्तिनिरञ्जनाय नमः ।ॐ बलरूपाय नमः ।ॐ बलप्रीताय नमः ।ॐ बलाश्रयाय नमः ।ॐ निराश्रयाय नमः ।ॐ बलानन्दाय नमः ।ॐ बलग्रामाय नमः ।ॐ बलिशाय नमः ।ॐ बलनायकाय नमः ।ॐ भविष्यज्ञाय नमः ।ॐ भयत्रात्रे नमः ।ॐ भयकर्त्रे नमः । २२०ॐ भयारिघ्ने नमः ।ॐ भावनारूपध्यानस्थाय नमः ।ॐ भावार्थफलदायकाय नमः ।ॐ मनःस्थाय नमः ।ॐ मनुमध्यस्थाय नमः ।ॐ मनोमायाविवर्जिताय नमः ।ॐ मनःसन्तापहर्त्रे नमः ।ॐ मुनिमानसमोहनाय नमः ।ॐ मनःकल्पितकल्पस्थाय नमः ।ॐ कल्पनापूरणालयाय नमः ।ॐ मनःसङ्कल्पसङ्कल्पाय नमः ।ॐ मनःसङ्कल्पपूरकाय नमः ।ॐ मनःस्वच्छन्दकर्त्रे नमः ।ॐ छन्दमानसतोषकाय नमः ।ॐ मानसाय नमः ।ॐ मानसाक्षिस्थाय नमः ।ॐ मानसोल्लासकारणाय नमः ।ॐ मानातीताय नमः ।ॐ स्वयम्मान्याय नमः ।ॐ भक्तमानससंश्रयाय नमः । २४०ॐ मनःकामादिवाचांशाय नमः ।ॐ मनोबुद्धिविवर्जिताय नमः ।ॐ यशस्विने नमः ।ॐ यशःकर्त्रे नमः ।ॐ यक्षेशाय नमः ।ॐ यक्षनायकाय नमः ।ॐ यशोमार्गाय नमः ।ॐ यशःप्राप्ताय नमः ।ॐ यशोमार्गसुदीपकाय नमः ।ॐ रकाराय नमः ।ॐ अग्निबीजस्थाय नमः ।ॐ रवलाख्यानकीर्तनाय नमः ।ॐ रत्नप्रभाय नमः ।ॐ रत्नदीप्ताय नमः ।ॐ रत्नासुरवधोत्सवाय नमः ।ॐ रतिनाथाय नमः ।ॐ रतिप्रीताय नमः ।ॐ रतिलावण्यसुन्दराय नमः ।ॐ रमाप्रियकराय नमः ।ॐ रम्याय नमः । २६०ॐ रमासाम्यमहोत्सवाय नमः ।ॐ रत्नाचलनिवासस्थाय नमः ।ॐ रत्नभूषणभूषणाय नमः ।ॐ रत्नेशाय नमः ।ॐ रत्नदात्रे नमः ।ॐ रत्नविक्रमविग्रहाय नमः ।ॐ लययोगाय नमः ।ॐ लयध्येयाय नमः ।ॐ लयसाधनसाधकाय नमः ।ॐ लयालयजिताय नमः ।ॐ लभ्याय नमः ।ॐ लब्धवाञ्छाप्रवर्तकाय नमः ।ॐ वर्धमानाय नमः ।ॐ वृद्धरूपाय नमः ।ॐ वृद्धभक्तिप्रियोत्तमाय नमः ।ॐ वनस्थाय नमः ।ॐ वनरूपस्थाय नमः ।ॐ वनक्रीडापरायणाय नमः ।ॐ वयोतीताय नमः ।ॐ वयस्तृप्ताय नमः । २८०ॐ वरुणाय नमः ।ॐ वरुणालयाय नमः ।ॐ वर्षाकालाय नमः ।ॐ वर्षरूपाय नमः ।ॐ वर्षान्ताय नमः ।ॐ वर्षणक्रमाय नमः ।ॐ शक्तिरूपाय नमः ।ॐ शक्तिदात्रे नमः ।ॐ सर्वशक्तिपतये नमः ।ॐ प्रभवे नमः ।ॐ शक्तिनाथाय नमः ।ॐ शक्तिजिताय नमः ।ॐ शक्ताय नमः ।ॐ शक्तेरुपासकाय नमः ।ॐ षण्मासायनकर्त्रे नमः ।ॐ विषुवादिविभावकाय नमः ।ॐ ऋतुकर्त्रे नमः ।ॐ ऋतुप्रीताय नमः ।ॐ ऋतुषड्विग्रहाश्रयाय नमः ।ॐ सर्वत्रसर्वदापूज्याय नमः । ३००ॐ सर्वपूजकरक्षकाय नमः ।ॐ सर्वसौभाग्यनित्यस्थाय नमः ।ॐ नित्यार्चनरताश्रयाय नमः ।ॐ सदाचाररताय नमः ।ॐ नित्याय नमः ।ॐ नित्याश्रयाय नमः ।ॐ निराश्रयाय नमः ।ॐ सर्ववर्णमयाय नमः ।ॐ वर्णाय नमः ।ॐ वर्णधर्मपरायणाय नमः ।ॐ सर्वज्ञाय नमः ।ॐ सर्वगाय नमः ।ॐ सर्वस्मै नमः ।ॐ सर्वजिते नमः ।ॐ सर्वनायकाय नमः ।ॐ सर्वान्तराय नमः ।ॐ सर्वव्यापिने नमः ।ॐ सर्वकर्मप्रवर्तकाय नमः ।ॐ सर्वार्थसाधकाय नमः ।ॐ साध्याय नमः । ३२०ॐ सिद्धिसाधनसाधकाय नमः ।ॐ साधनोपायदात्रे नमः ।ॐ साधनाश्रयदायकाय नमः ।ॐ हयासनसमारूढाय नमः ।ॐ हयनाथाय नमः ।ॐ हयाधिपाय नमः ।ॐ हविर्भोक्त्रे नमः ।ॐ हविःप्रीताय नमः ।ॐ हव्यवाहनहव्यकृते नमः ।ॐ लकारवर्णभेदस्थाय नमः ।ॐ लघुरूपाय नमः ।ॐ लघुक्रियाय नमः ।ॐ स्थूलरूपाय नमः ।ॐ स्थूलकार्याय नमः ।ॐ स्थूलास्थूलविशालगाय नमः ।ॐ क्षमारूपाय नमः ।ॐ दयासिन्धवे नमः ।ॐ क्षमालक्षणदायकाय नमः ।ॐ क्षमाकाराय नमः ।ॐ क्षमानाथाय नमः । ३४०ॐ क्षमापूरितलोचनाय नमः ।ॐ क्षमाचिन्तनप्रीतस्थाय नमः ।ॐ क्षमासाधनसाधकाय नमः ।ॐ क्षमावद्भिरतिप्रीताय नमः ।ॐ क्षमासञ्चरणोन्मुखाय नमः ।ॐ ओङ्कारमूलमन्त्रस्थाय नमः ।ॐ मातृकार्णवसम्भवाय नमः ।ॐ मातृकाव्यापितब्रह्मणे नमः ।ॐ मातृकासिद्धिदायकाय नमः ।ॐ षट्चक्रभेदकर्त्रे नमः ।ॐ षट्चक्राश्रयसंश्रयाय नमः ।ॐ षट्चक्रमातृकाव्याप्ताय नमः ।ॐ षट्चक्रवर्णलक्षणाय नमः ।ॐ मूलाधारनिवासाय नमः ।ॐ गणेशाय नमः ।ॐ सिद्धिदायकाय नमः ।ॐ स्वाधिष्ठाने ब्रह्मरूपाय नमः ।ॐ प्रजासृजनकारणाय नमः ।ॐ मणिपूरे महाविष्णवे नमः ।ॐ इच्छाशक्तिसमन्विताय नमः । ३६०ॐ अनाहते महादेवाय नमः ।ॐ द्रव्यशक्तिसमाहिताय नमः ।ॐ जीवरूपाय नमः ।ॐ विशुद्धस्थाय नमः ।ॐ प्राणशक्तिसुखाश्रयाय नमः ।ॐ हंसार्णाय नमः ।ॐ गुरुरूपाय नमः ।ॐ हंसमन्त्रार्थमन्त्रगाय नमः ।ॐ सहस्रारे सहस्राक्षाय नमः ।ॐ शीर्षपादसहस्रवते नमः ।ॐ सहस्रायुधहस्ताय नमः ।ॐ वर्णसाहस्रकर्णिकाय नमः ।ॐ सच्चिन्मयसमाधिस्थाय नमः ।ॐ बिन्दुरूपसुखाश्रयाय नमः ।ॐ सर्वलक्षणसम्पन्नाय नमः ।ॐ सर्वत्रसर्वतोमुखाय नमः ।ॐ सर्वजप्रीतिचित्ताय नमः ।ॐ सर्वज्ञानप्रियोत्तमाय नमः ।ॐ सर्वसंस्थानदेवस्थाय नमः ।ॐ सर्वशक्तिसमन्विताय नमः । ३८०ॐ सर्वेश्वराय नमः ।ॐ सर्वकार्याय नमः ।ॐ कार्यकारणवर्जिताय नमः ।ॐ ज्योतिर्मयाय नमः ।ॐ जगत्साक्षिणे नमः ।ॐ ज्योतिर्विदे नमः ।ॐ ज्योतिराश्रयाय नमः ।ॐ ज्योतिर्लयाय नमः ।ॐ ज्योतिर्मूर्तये नमः ।ॐ ज्योतिःकर्त्रे नमः ।ॐ जगन्मयाय नमः ।ॐ लिङ्गचिन्हितसर्वाङ्गाय नमः ।ॐ लिङ्गार्चनप्रियोत्तमाय नमः ।ॐ एककालाय नमः ।ॐ द्विकालाय नमः ।ॐ त्रिकालाय नमः ।ॐ सार्वकालिकाय नमः ।ॐ कालकर्त्रे नमः ।ॐ कालनेमिने नमः ।ॐ कालसङ्ख्याग्निदीपकाय नमः । ४००ॐ उपासकप्रियोपास्याय नमः ।ॐ उपासकप्रियङ्कराय नमः ।ॐ महाकालाय नमः ।ॐ महारूपाय नमः ।ॐ महाशूराय नमः ।ॐ महोत्सवाय नमः ।ॐ महाभागाय नमः ।ॐ महावेगाय नमः ।ॐ महायोगाय नमः ।ॐ महानिधये नमः ।ॐ महानिर्वाणरूपस्थाय नमः ।ॐ चित्तनिर्वाणदर्शकाय नमः ।ॐ महाबोधाय नमः ।ॐ महायोद्धाय नमः ।ॐ स्वास्त्रप्रत्यस्त्रवर्षकाय नमः ।ॐ महायागहविर्भोक्त्रे नमः ।ॐ महाकर्मफलप्रदाय नमः ।ॐ ब्रह्मज्ञाय नमः ।ॐ ब्रह्मरूपाय नमः ।ॐ ब्रह्मण्याय नमः । ४२०ॐ ब्राह्मणोत्तमाय नमः ।ॐ ब्रह्मकर्मक्रियासक्ताय नमः ।ॐ कर्मब्रह्मस्वरूपकाय नमः ।ॐ क्षेत्रज्ञाय नमः ।ॐ क्षेत्रपालाय नमः ।ॐ क्षेत्रकीर्तनवर्धनाय नमः ।ॐ क्षात्रधर्मप्रवीणाय नमः ।ॐ ख्यातिकर्त्रे नमः ।ॐ क्षयातिगाय नमः ।ॐ विश्वरूपाय नमः ।ॐ विश्वकर्त्रे नमः ।ॐ विश्वासफलदायकाय नमः ।ॐ मुनिध्येयाय नमः ।ॐ मुनित्रात्रे नमः ।ॐ मुनिमानसहंसकाय नमः ।ॐ इच्छाज्ञानक्रियातीताय नमः ।ॐ इच्छाज्ञानक्रियाश्रयाय नमः ।ॐ वाञ्छाकल्पलतारूपाय नमः ।ॐ कल्पनावाञ्छितप्रदाय नमः ।ॐ कल्पवृक्षाय नमः । ४४०ॐ कल्पनाथाय नमः ।ॐ कल्पनाकारमानसाय नमः ।ॐ कल्पकर्त्रे नमः ।ॐ कल्पसाक्षिणे नमः ।ॐ महाकल्पप्रवर्तकाय नमः ।ॐ सामगायनसुप्रीताय नमः ।ॐ सामवेदप्रवर्तकाय नमः ।ॐ वेदसाराय नमः ।ॐ वेदगम्याय नमः ।ॐ वेदवेदाङ्गपारगाय नमः ।ॐ वेदान्तभाष्यरूपस्थाय नमः ।ॐ वेदान्तप्रीतिदायकाय नमः ।ॐ भाष्यलक्षणवेदान्ताय नमः ।ॐ सिद्धान्ताय नमः ।ॐ सर्वदर्शकाय नमः ।ॐ शास्त्रार्थाय नमः ।ॐ शास्त्रकर्त्रे नमः ।ॐ शास्त्रमार्गप्रवर्तकाय नमः ।ॐ शास्त्रशासनप्राप्तिस्थाय नमः ।ॐ शास्त्राधारजगन्मयाय नमः । ४६०ॐ आनन्दरूपनित्यस्थाय नमः ।ॐ प्रकाशानन्दरूपकाय नमः ।ॐ अखण्डानन्ददात्रे नमः ।ॐ पूर्णानन्दस्वरूपवते नमः ।ॐ निराधाराय नमः ।ॐ निराकाराय नमः ।ॐ निर्मलाय नमः ।ॐ निर्मलाश्रयाय नमः ।ॐ निर्गुणाय नमः ।ॐ निर्गुणातीताय नमः ।ॐ निष्कामाय नमः ।ॐ निरुपद्रवाय नमः ।ॐ नित्यमुक्ताय नमः ।ॐ निर्विकाराय नमः ।ॐ निष्प्रपञ्चाय नमः ।ॐ निराश्रयाय नमः ।ॐ नित्यशुद्धाय नमः ।ॐ नित्यसाध्याय नमः ।ॐ नित्यानन्दवरप्रदाय नमः ।ॐ निष्कारणाय नमः । ४८०ॐ निष्कलङ्काय नमः ।ॐ निरुपाधये नमः ।ॐ निरीश्वराय नमः ।ॐ निर्मदाय नमः ।ॐ मदहन्त्रे नमः ।ॐ निश्चिन्ताय नमः ।ॐ निरहङ्कृतये नमः ।ॐ निर्मोहाय नमः ।ॐ मोहनाशाय नमः ।ॐ निर्ममाय नमः ।ॐ ममताहराय नमः ।ॐ निष्पापाय नमः ।ॐ पापनाशाय नमः ।ॐ निष्क्रोधाय नमः ।ॐ क्रोधनाशकाय नमः ।ॐ निःसंशयाय नमः ।ॐ संशयघ्नाय नमः ।ॐ निर्लोभाय नमः ।ॐ लोभनाशकाय नमः ।ॐ निर्भावाय नमः । ५००ॐ भावनाशाय नमः ।ॐ निर्विकल्पाय नमः ।ॐ विकल्पहृते नमः ।ॐ निर्भेदाय नमः ।ॐ भेदहन्त्रे नमः ।ॐ निर्नाशाय नमः ।ॐ मृत्युनाशकाय नमः ।ॐ निन्दाद्वेषातीतकर्त्रे नमः ।ॐ निन्दाद्वेषापहारकाय नमः ।ॐ गोपालाय नमः ।ॐ गोमतिप्रीताय नमः ।ॐ गोधनाधिपाय नमः ।ॐ ईश्वराय नमः ।ॐ गोसाक्षिणे नमः ।ॐ गोप्रवर्त्रे नमः ।ॐ गोरक्षकाय नमः ।ॐ गुहाश्रयाय नमः ।ॐ ग्रहनक्षत्रतारस्थाय नमः ।ॐ तारकज्योतिर्दायकाय नमः ।ॐ तारणाश्रयरूपस्थाय नमः । ५२०ॐ तारणाश्रयदायकाय नमः ।ॐ तारकाय नमः ।ॐ तारकस्वामिने नमः ।ॐ तारणाय नमः ।ॐ तारणाप्रियाय नमः ।ॐ एकताराय नमः ।ॐ द्विताराय नमः ।ॐ त्रिताराय नमः ।ॐ मन्त्रकाश्रयाय नमः ।ॐ एकरूपाय नमः ।ॐ एकनाथाय नमः ।ॐ बहुरूपस्वरूपवते नमः ।ॐ लोकसाक्षिणे नमः ।ॐ त्रिलोकेशाय नमः ।ॐ त्रिगुणातीतमूर्तिमते नमः ।ॐ यज्ञप्रियाय नमः ।ॐ यज्ञकर्त्रे नमः ।ॐ यजमानस्वरूपवते नमः ।ॐ यजुर्वेदाय नमः ।ॐ यजुःसाक्षिणे नमः । ५४०ॐ यजुर्वेदहविःप्रियाय नमः ।ॐ बालतारुण्यरूपस्थाय नमः ।ॐ वृद्धरूपप्रदर्शकाय नमः ।ॐ अवस्थात्रयभूतस्थाय नमः ।ॐ अवस्थात्रयवर्जिताय नमः ।ॐ वाक्चत्वारकनिर्माणाय नमः ।ॐ वाचातीतप्रकाशवते नमः ।ॐ वाच्यवाचकभावार्थाय नमः ।ॐ वाक्यार्थप्रियमानसाय नमः ।ॐ महावाक्यप्रमाणस्थाय नमः ।ॐ महावाक्यार्थबोधकाय नमः ।ॐ अर्थसाक्षिणे नमः ।ॐ अर्थरूपाय नमः ।ॐ ज्योतीरूपाय नमः ।ॐ प्रकाशवते नमः ।ॐ जिताहाराय नमः ।ॐ जितक्रोधाय नमः ।ॐ जितमानसमानसाय नमः ।ॐ परमाणवे नमः ।ॐ प्रमाणस्थाय नमः । ५६०ॐ कोटिब्रह्माण्डनायकाय नमः ।ॐ श्रीकृष्णाय नमः ।ॐ द्वारकानाथाय नमः ।ॐ गोपिकाभोगदायकाय नमः ।ॐ कंसारये नमः ।ॐ पूतनाहन्त्रे नमः ।ॐ संसारश्रमनाशकाय नमः ।ॐ मुकुन्दाय नमः ।ॐ मुक्तिदात्रे नमः ।ॐ मुक्ताय नमः ।ॐ मुक्तजनाश्रयाय नमः ।ॐ मुचुकुन्दवरप्रीताय नमः ।ॐ दैत्यसंहारकारकाय नमः ।ॐ नादासक्ताय नमः ।ॐ नादकर्त्रे नमः ।ॐ वेणुवादनतत्पराय नमः ।ॐ गोपिकामनःसंहर्त्रे नमः ।ॐ गोपबालकनायकाय नमः ।ॐ गोवर्धनधराय नमः ।ॐ गुप्तभावनागुप्तसंज्ञकाय नमः । ५८०ॐ भावनापूरणश्रेष्ठाय नमः ।ॐ भावाभावविवर्जिताय नमः ।ॐ नरनारायणाय नमः ।ॐ विष्णवे नमः ।ॐ कार्यकारणरूपवते नमः ।ॐ कार्यसाक्षिणे नमः ।ॐ कार्यरूपिणे नमः ।ॐ कार्याकार्यप्रवर्तकाय नमः ।ॐ पन्नगाय नमः ।ॐ पन्नगाधीशाय नमः ।ॐ पन्नगासनविग्रहाय नमः ।ॐ पञ्चाशद्वर्णपीठस्थाय नमः ।ॐ पञ्चाक्षरजपप्रियाय नमः ।ॐ स्वरविकृतिकर्त्रे नमः ।ॐ स्वरातीताय नमः ।ॐ स्वयंविभवे नमः ।ॐ स्वर्गताय नमः ।ॐ स्वर्गतेर्दात्रे नमः ।ॐ नियन्त्रे नमः ।ॐ नियताश्रयाय नमः । ६००ॐ भूमिरूपाय नमः ।ॐ भूमिकर्त्रे नमः ।ॐ भूधराय नमः ।ॐ भूधराश्रयाय नमः ।ॐ भूतनाथाय नमः ।ॐ भूतकर्त्रे नमः ।ॐ भूतसंहारकारकाय नमः ।ॐ भूतावासाय नमः ।ॐ भूपतये नमः ।ॐ भूतभद्रप्रदायकाय नमः ।ॐ भविष्यज्ञाय नमः ।ॐ भयत्रात्रे नमः ।ॐ भवदाय नमः ।ॐ भवहारकाय नमः ।ॐ वरदाय नमः ।ॐ वरदात्रे नमः ।ॐ वरप्रीताय नमः ।ॐ वरप्रदाय नमः ।ॐ कूटस्थाय नमः ।ॐ कूटरूपस्थाय नमः । ६२०ॐ त्रिकूटाय नमः ।ॐ मन्त्रविग्रहाय नमः ।ॐ मन्त्रार्थाय नमः ।ॐ मन्त्रगम्याय नमः ।ॐ मन्त्रांशाय नमः ।ॐ मन्त्रभागकाय नमः ।ॐ सिद्धिमन्त्राय नमः ।ॐ सिद्धिदात्रे नमः ।ॐ जपसिद्धिस्वभागकाय नमः ।ॐ नामातीताय नमः ।ॐ नामरूपाय नमः ।ॐ नामरूपगुणाश्रयाय नमः ।ॐ गुणकर्त्रे नमः ।ॐ गुणत्रात्रे नमः ।ॐ गुणातीताय नमः ।ॐ गुणारिघ्ने नमः ।ॐ गुणप्राप्ताय नमः ।ॐ गुणाधीशाय नमः ।ॐ गुणनिर्गुणकारकाय नमः ।ॐ अकारमातृरूपस्थाय नमः । ६४०ॐ अकारातीतभावनाय नमः ।ॐ परमैश्वर्यदात्रे नमः ।ॐ परमप्रीतिदायकाय नमः ।ॐ परमाय नमः ।ॐ परमानन्दाय नमः ।ॐ परानन्दपरायणाय नमः ।ॐ वैकुण्ठपीठरूपस्थाय नमः ।ॐ वैकुण्ठाय नमः ।ॐ विष्णुविग्रहाय नमः ।ॐ कैलासवासिने नमः ।ॐ कैलासाय नमः ।ॐ शिवरूपाय नमः ।ॐ शिवप्रदाय नमः ।ॐ जटाजूटाभूषिताङ्गाय नमः ।ॐ भस्मधूसरभूषणाय नमः ।ॐ दिग्विलासाय नमः ।ॐ दिग्विभागाय नमः ।ॐ दिगन्तरनिवासकाय नमः ।ॐ ध्यानकर्त्रे नमः ।ॐ ध्यानमूर्तये नमः । ६६०ॐ धारणाधारणप्रियाय नमः ।ॐ तत्त्वस्थाय नमः ।ॐ तत्त्वरूपस्थाय नमः ।ॐ तत्त्वातीताय नमः ।ॐ अतितत्त्वविदे । नमः ।ॐ तत्त्वसाम्याय नमः ।ॐ तत्त्वगम्याय नमः ।ॐ तत्त्वार्थाय नमः ।ॐ तत्त्वदर्शकाय नमः ।ॐ तत्त्वसाराय नमः ।ॐ तत्वमार्गाय नमः ।ॐ तत्त्वान्ताय नमः ।ॐ तत्त्वविग्रहाय नमः ।ॐ तत्त्वेश्वराय नमः ।ॐ तत्त्वनाथाय नमः ।ॐ तत्त्वदाय नमः ।ॐ तत्त्वकारणाय नमः ।ॐ दर्शनातीतगोदृश्याय नमः ।ॐ दृश्यातीताय नमः ।ॐ अतिदर्शकाय नमः । ६८०ॐ दर्शनाय नमः ।ॐ दर्शनातीताय नमः ।ॐ भावनाकाररूपधृके नमः ।ॐ मणिपर्वतसंस्थानाय नमः ।ॐ मणिभूषणभूषणाय नमः ।ॐ मणिप्रीताय नमः ।ॐ मणिस्रष्ट्रे (मणिश्रेष्ठाय) नमः ।ॐ मणिस्थाय नमः ।ॐ मणिरूपकाय नमः ।ॐ चिन्तामणिगृहान्तस्थाय नमः ।ॐ सर्वचिन्ताविवर्जिताय नमः ।ॐ चिन्ताक्रान्ताय नमः ।ॐ भक्तचिन्ताय नमः ।ॐ चिन्तनाकारचिन्तकाय नमः ।ॐ अचिन्त्याय नमः ।ॐ चिन्त्यरूपाय नमः ।ॐ निश्चिन्ताय नमः ।ॐ निश्चयात्मकाय नमः ।ॐ निश्चयाय नमः ।ॐ निश्चयाधीशाय नमः । ७००ॐ निश्चयात्मकदर्शकाय नमः ।ॐ त्रिविक्रमाय नमः ।ॐ त्रिकालज्ञाय नमः ।ॐ त्रिधाम्ने नमः ।ॐ त्रिपुरान्तकाय नमः ।ॐ ब्रह्मचारिणे नमः ।ॐ व्रतप्रीताय नमः ।ॐ गृहस्थाय नमः ।ॐ गृहवासकाय नमः ।ॐ परब्रह्मणे नमः ।ॐ पञ्चधाम्ने नमः ।ॐ परमात्मने नमः ।ॐ परन्तपाय नमः ।ॐ सर्वेश्वराय नमः ।ॐ सर्वमयाय नमः ।ॐ सर्वसाक्षिविलक्षणाय नमः ।ॐ मणिद्वीपाय नमः ।ॐ द्वीपनाथाय नमः ।ॐ द्वीपान्ताय नमः ।ॐ द्वीपरक्षकाय नमः । ७२०ॐ सप्तसागरकर्त्रे नमः ।ॐ सप्तसागरनायकाय नमः ।ॐ महीधराय नमः ।ॐ महीभर्त्रे नमः ।ॐ महीपालाय नमः ।ॐ महीस्वकाय नमः ।ॐ महीव्याप्ताय नमः ।ॐ व्यक्तरूपाय नमः ।ॐ सुव्यक्ताय नमः ।ॐ व्यक्तभावनाय नमः ।ॐ सुवेषाढ्याय नमः ।ॐ सुखप्रीताय नमः ।ॐ सुगमाय नमः ।ॐ सुगमाश्रयाय नमः ।ॐ नारसिंहाय नमः ।ॐ वीरसिंहाय नमः ।ॐ विराजाय नमः ।ॐ रञ्जनाश्रयाय नमः ।ॐ तापत्रयाग्निसन्तप्तसमाह्लादनचन्द्रमसे नमः ।ॐ तरुणाय नमः । ७४०ॐ तपसाराध्याय नमः ।ॐ तनुमध्याय नमः ।ॐ तमोपहाय नमः ।ॐ पररूपाय नमः ।ॐ परध्येयाय नमः ।ॐ परदैवतदैवताय नमः ।ॐ ब्रह्मपूज्याय नमः ।ॐ जगत्पूज्याय नमः ।ॐ भक्तपूज्याय नमः ।ॐ वरप्रदाय नमः ।ॐ अश्विन्यै नमः ।ॐ अश्वकर्त्रे नमः ।ॐ भरण्यै नमः ।ॐ भरणोत्सवाय नमः ।ॐ कृत्तिकायै नमः ।ॐ कृत्यरूपाय नमः ।ॐ रोहिण्यै नमः ।ॐ बीजरोहकाय नमः ।ॐ मृगशीर्षाय नमः ।ॐ मृगस्वामिने नमः । ७६०ॐ आर्द्रायै नमः ।ॐ आर्द्रकचित्तकाय नमः ।ॐ पुनर्वसवे नमः ।ॐ वसुप्रीताय नमः ।ॐ पुष्याय नमः ।ॐ पुष्यार्काय नमः ।ॐ उत्तमाय नमः ।ॐ आश्लेषाय नमः ।ॐ श्लेषनाशाय नमः ।ॐ मघायै नमः ।ॐ मघवगर्जकाय नमः ।ॐ पूर्वायै नमः ।ॐ पूर्वापराय दैवाय नमः ।ॐ उत्तरायै नमः ।ॐ उत्तरोत्तराय नमः ।ॐ हस्ताय नमः ।ॐ हस्तक्रियाशक्तये नमः ।ॐ चित्रायै नमः ।ॐ चित्रविचित्रगाय नमः ।ॐ स्वातये नमः । ७८०ॐ स्वस्थमनसे नमः ।ॐ विशाखायै नमः ।ॐ विषहारकाय नमः ।ॐ अनुराधायै नमः ।ॐ राधिकेशाय नमः ।ॐ ज्येष्ठायै नमः ।ॐ ज्येष्ठप्रियोत्तमाय नमः ।ॐ मूलकन्दाय नमः ।ॐ जगत्स्रष्ट्रे नमः ।ॐ पूर्वाषाढाय नमः ।ॐ धनाश्रयाय नमः ।ॐ उत्तराषाढाय नमः ।ॐ उद्योगाय नमः ।ॐ श्रवणाय नमः ।ॐ श्रवणप्रियाय नमः ।ॐ धनिष्ठायै नमः ।ॐ धनरूपाय नमः ।ॐ शततारकतारकाय नमः ।ॐ पूर्वभाद्रपदायै नमः ।ॐ भद्राय नमः । ८००ॐ उत्तराभद्रदायकाय नमः ।ॐ रेवत्यै नमः ।ॐ रवलेशाय नमः ।ॐ सपिण्डाक्षरविग्रहाय नमः ।ॐ अद्वैतद्वैतचित्तस्थाय नमः ।ॐ द्वैताद्वैतविवर्जिताय नमः ।ॐ अभेद्याय नमः ।ॐ सर्वभेद्याय नमः ।ॐ भेदाभेदकबोधकाय नमः ।ॐ लाक्षारससुवर्णाभाय नमः ।ॐ लक्ष्मणाय नमः ।ॐ लक्ष्मणाग्रजाय नमः ।ॐ अयोध्यावासकर्त्रे नमः ।ॐ रामरूपाय नमः ।ॐ नृपोत्तमाय नमः ।ॐ धनुर्धराय नमः ।ॐ धनुर्वेदिने नमः ।ॐ धनुर्भङ्गाय नमः ।ॐ धनुर्जिताय नमः ।ॐ नृपरूपाय नमः । ८२०ॐ नृपाधीशाय नमः ।ॐ प्लवङ्गमप्रियोत्तमाय नमः ।ॐ यागरक्षणकर्त्रे नमः ।ॐ हयमेधहविर्हविषे नमः ।ॐ रावणान्तकाय नमः ।ॐ रामाय नमः ।ॐ विभीषणवरप्रदाय नमः ।ॐ दैत्यसंहारकर्त्रे नमः ।ॐ अवतारपराय नमः ।ॐ हरये नमः ।ॐ सीतावरणकर्त्रे नमः ।ॐ सीताप्राणप्रियोत्तमाय नमः ।ॐ संविदीशाय नमः ।ॐ संविदात्मने नमः ।ॐ संविज्ञानप्रदायकाय नमः ।ॐ भक्तस्य संवित्कर्त्रे नमः ।ॐ संविदानन्दरूपवते नमः ।ॐ संशयातीतसर्वार्थाय नमः ।ॐ सर्वसंशयहारकाय नमः ।ॐ निःसंशयमनोध्येयाय नमः । ८४०ॐ संशयात्मातिदूरगाय नमः ।ॐ शिवमन्त्राय नमः ।ॐ शिवप्रीताय नमः ।ॐ दीक्षाशैवस्य भावुकाय नमः ।ॐ भूपशिक्षायकृताय नमः ।ॐ भूपाय नमः ।ॐ भूपभूपत्वदायकाय नमः ।ॐ सर्वधर्मसमायुक्ताय नमः ।ॐ सर्वधर्मविवर्धकाय नमः ।ॐ धर्मार्थकाममोक्षस्थाय नमः ।ॐ चातुर्वर्गफलप्रदाय नमः ।ॐ इच्छाज्ञानक्रियाकर्त्रे नमः ।ॐ इच्छाज्ञानस्य साधकाय नमः ।ॐ इच्छामयाय नमः ।ॐ इच्छितश्रिये नमः ।ॐ इच्छितार्थाय नमः ।ॐ अर्थनिश्चयाय नमः ।ॐ रविवंशकुलोत्पन्नाय नमः ।ॐ सर्ववंशाधिकारणाय नमः ।ॐ सर्वशास्त्रे नमः । ८६०ॐ सर्ववेत्त्रे नमः ।ॐ सर्वभोक्त्रे नमः ।ॐ स्वतृप्तिमते नमः ।ॐ भक्तिभावावताराय नमः ।ॐ भुक्तिमुक्तिप्रदायकाय नमः ।ॐ भक्तसिद्धार्थसिद्धाय नमः ।ॐ सिद्धिबुद्धिप्रदायकाय नमः ।ॐ वाराणसीवासदात्रे नमः ।ॐ वाराणसीवरप्रदाय नमः ।ॐ वाराणसीनाथरूपाय नमः ।ॐ गङ्गामस्तकधारणाय नमः ।ॐ यमुनाप्रियवित्ताय नमः ।ॐ यमुनातीरवासकाय नमः ।ॐ गङ्गाधराय नमः ।ॐ गिरिपतये नमः ।ॐ गजचर्मविभूषणाय नमः ।ॐ पार्वतीशाय नमः ।ॐ पर्वतेशाय नमः ।ॐ पर्वताय नमः ।ॐ पर्वतालयाय नमः । ८८०ॐ पर्वताश्रयकर्त्रे नमः ।ॐ लिङ्गपर्वतत्र्यम्बकाय नमः ।ॐ द्वादशज्योतिर्लिङ्गाय नमः ।ॐ सर्वलिङ्गस्वरूपवते नमः ।ॐ लिङ्गदेहाय नमः ।ॐ लिङ्गकर्त्रे नमः ।ॐ लिङ्गपूज्याय नमः ।ॐ अतिदुर्लभाय नमः ।ॐ रुद्रप्रियाय नमः ।ॐ रुद्रसेव्याय नमः ।ॐ रुद्ररूपाय नमः ।ॐ विरावकृते नमः ।ॐ मालारुद्राक्षभूषाङ्गाय नमः ।ॐ जपरुद्राक्षतोषकाय नमः ।ॐ सत्यसन्धाय नमः ।ॐ सत्यदात्रे नमः ।ॐ सत्यकर्त्रे नमः ।ॐ सदाश्रयाय नमः ।ॐ सत्यसाक्षिणे नमः ।ॐ सत्यलक्षिणे नमः । ९००ॐ लक्ष्यातीतमनोहराय नमः ।ॐ जनकाय नमः ।ॐ जगदादीशाय नमः ।ॐ जननीजनकाय नमः ।ॐ जगदाय नमः ।ॐ जगदाकाराय नमः ।ॐ जगद्रूपजनाश्रयाय नमः ।ॐ सृष्टिस्थिताय नमः ।ॐ सृष्टिरूपाय नमः ।ॐ स्थितिरूपाय नमः ।ॐ स्थितिप्रदाय नमः ।ॐ संहाररूपाय नमः ।ॐ कालाग्नये नमः ।ॐ कालसंहारकारकाय नमः ।ॐ पञ्चवक्त्राय नमः ।ॐ पञ्चभूताय नमः ।ॐ त्रिनेत्राय नमः ।ॐ त्रिपुरारिघ्ने नमः ।ॐ सप्तपातालपादस्थाय नमः ।ॐ महदाकाशशीर्षवते नमः । ९२०ॐ जातवेदसे नमः ।ॐ महादेवाय नमः ।ॐ सद्योजाताय नमः ।ॐ श्रुतये नमः ।ॐ स्मृतये नमः ।ॐ श्रेष्ठाय नमः ।ॐ श्रेष्ठकराय नमः ।ॐ ज्येष्ठाय नमः ।ॐ जयिष्णवे नमः ।ॐ जयवर्धनाय नमः ।ॐ नागभूषाय नमः ।ॐ नागनाथाय नमः ।ॐ नागरूपाय नमः ।ॐ नगाधिपाय नमः ।ॐ नगाय नमः ।ॐ नगप्रियाय नमः ।ॐ नाम्याय नमः ।ॐ नागालयाय नमः ।ॐ नगान्तकाय नमः ।ॐ अमृताशाय नमः । ९४०ॐ अमृताकाराय नमः ।ॐ अमृतामृतरूपगाय नमः ।ॐ अमृताकारचित्तस्थाय नमः ।ॐ अमृतोद्भवकारणाय नमः ।ॐ अमृताहारनित्यस्थाय नमः ।ॐ अमृतद्रवरूपवते नमः ।ॐ अमृतांशाय नमः ।ॐ अमृताधीशाय नमः ।ॐ अमृतप्रीतिवर्धनाय नमः ।ॐ अनिर्देशाय नमः ।ॐ अहिशयाय नमः ।ॐ अनन्ताय नमः ।ॐ जगदाश्रयाय नमः ।ॐ श्रेयोदाय नमः ।ॐ श्रेयोरूपाय नमः ।ॐ श्रेयोतीतफलप्रदाय नमः ।ॐ उत्तमाय नमः ।ॐ अनुत्तमध्येयाय नमः ।ॐ ध्येयातीताय नमः ।ॐ अतिधेयकृते नमः । ९६०ॐ ध्रुवसंस्थानदात्रे नमः ।ॐ ध्रुवनिश्चयकारणाय नमः ।ॐ निश्चयाय नमः ।ॐ निश्चयश्रेष्ठाय नमः ।ॐ निश्चयातीतनिश्चयाय नमः ।ॐ निश्चिन्ताय नमः ।ॐ चित्तरहिताय नमः ।ॐ चित्तनिश्चयकारकाय नमः ।ॐ सुरसाय नमः ।ॐ सुरसाक्षिणे नमः ।ॐ सारासारविचारणाय नमः ।ॐ विचार्यमाणमानस्थाय नमः ।ॐ विचारातीतधारणाय नमः ।ॐ धारणातीतभावस्थाय नमः ।ॐ धारणन्वयगोचराय नमः ।ॐ गोचराय नमः ।ॐ गोचरातीताय नमः ।ॐ अतीवप्रियगोचराय नमः ।ॐ प्रियातीताय नमः ।ॐ प्रियस्वार्थाय नमः । ९८०ॐ स्वार्थाय नमः ।ॐ स्वार्थफलप्रदाय नमः ।ॐ अर्थार्थसाक्षिणे नमः ।ॐ लक्षांशाय नमः ।ॐ लक्षलक्षणविग्रहाय नमः ।ॐ विग्रहाय नमः ।ॐ विग्रहातीताय नमः ।ॐ भक्तनाथाय नमः ।ॐ जनार्दनाय नमः ।ॐ जगदीशाय नमः ।ॐ जगत्त्रात्रे नमः ।ॐ जगन्मयाय नमः ।ॐ जगद्गुरवे नमः ।ॐ गुरुमूर्ते नमः ।ॐ स्वयंवेद्याय नमः ।ॐ वेद्यवेदकरूपकाय नमः ।ॐ रूपातीताय नमः ।ॐ रूपकर्त्रे नमः ।ॐ सर्वरूपार्थदायकाय नमः ।ॐ अर्थदाय नमः । १०००ॐ अर्थमान्याय नमः ।ॐ अर्थार्थिने नमः ।ॐ अर्थदायकाय नमः ।ॐ अर्थांशाय नमः ।ॐ अर्थकर्त्रे नमः ।ॐ अर्थान्तरमनोगताय नमः ।ॐ मनोगताय नमः ।ॐ मनःस्वामिने नमः ।ॐ मनोबुद्धिपरायणाय नमः ।ॐ बुद्धिप्रदाय नमः ।ॐ बुद्धिदात्रे नमः ।ॐ विबुद्धजनमानसाय नमः ।ॐ मानसाय नमः ।ॐ मानसाकाराय नमः ।ॐ मानसातीतमानसाय नमः ।ॐ सर्वमानससम्पूर्णाय नमः ।ॐ पूर्णाश्रयाय नमः ।ॐ जगत्प्रभवे नमः ।ॐ विभवाय नमः ।ॐ वैभवश्रेष्ठाय नमः । १०२०ॐ सर्ववैभवदायकाय नमः ।ॐ चतुःषष्टिकलाश्रेष्ठाय नमः ।ॐ चतुःषष्टिकलालयाय नमः ।ॐ पुराणश्रवणाकाराय नमः ।ॐ पुराणपुरुषोत्तमाय नमः ।ॐ पुरातनाय नमः ।ॐ पुराख्याताय नमः ।ॐ पूर्वजाय नमः ।ॐ पूर्वपूर्वगाय नमः ।ॐ मन्त्रतन्त्रार्थसर्वज्ञाय नमः ।ॐ सर्वतन्त्रप्रकाशकाय नमः ।ॐ तन्त्रवेत्त्रे नमः ।ॐ तन्त्रकर्त्रे नमः ।ॐ तन्त्रान्तरनिवारकाय नमः ।ॐ तन्त्रगम्याय नमः ।ॐ तन्त्रमान्याय नमः ।ॐ तन्त्रयन्त्रफलप्रदाय नमः ।ॐ सर्वतन्त्रार्थसर्वज्ञाय नमः ।ॐ तन्त्रराजाय नमः ।ॐ स्वतन्त्रगाय नमः । १०४०ॐ ब्रह्माण्डकोटिकर्त्रे नमः ।ॐ ब्रह्माण्डोदरपूरकाय नमः ।ॐ ब्रह्मोपदेशदात्रे नमः ।ॐ ब्रह्मज्ञानपरायणाय नमः ।ॐ जन्मकर्त्रे नमः ।ॐ जन्मदात्रे नमः ।ॐ जन्मकर्मफलप्रदाय नमः ।ॐ जन्मनाशाय नमः ।ॐ जन्मवेद्याय नमः ।ॐ जन्मान्तरनिवारकाय नमः ।ॐ जगद्वन्द्याय नमः ।ॐ जगत्पूज्याय नमः ।ॐ जङ्गमाजङ्गमाश्रयाय नमः ।ॐ जगदाधारकर्त्रे नमः ।ॐ जगदाकारधारणाय नमः ।ॐ नरनारीशरीरस्थाय नमः ।ॐ नरनारीस्वभावकाय नमः ।ॐ हेतुभूताय नमः ।ॐ हेतुरूपाय नमः ।ॐ हेतुसाधनवर्जिताय नमः । १०६०ॐ सर्वधातुस्वरूपस्थाय नमः ।ॐ सर्वधातुविवर्जिताय नमः ।ॐ स्वयम्भुवे नमः ।ॐ शम्भुरूपाय नमः ।ॐ सर्वसंशयहारकाय नमः ।ॐ सोऽहम्भावस्वभावाय नमः ।ॐ सोऽहंरूपप्रदर्शकाय नमः ।ॐ सोऽहमस्मीति नित्यस्थाय नमः ।ॐ सोऽहंहंसस्वरूपवते नमः ।ॐ सोऽहंहंसस्वरूपाय नमः ।ॐ हंसविग्रहनिस्पृहाय नमः ।ॐ श्वासनिश्वासायविश्वासाय नमः ।ॐ केदाराय नमः ।ॐ रवलेश्वराय नमः । १०७४इति श्रीब्रह्माण्डपुराणे केदारमाहात्म्ये जामदग्न्ययोगिसंवादेजामदग्न्यप्रोक्तं श्रीकेदारसहस्रनामस्तोत्राधिष्थितसहस्राधिका नामावलिः सम्पूर्णा ।श्रीकेदारनाथचरणार्पणमस्तु ॥ ॥शुभं भवतु ॥ N/A References : N/A Last Updated : January 12, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP