मराठी मुख्य सूची|स्तोत्रे|सहस्रनामावली|
शौनक उवाच - कैलासशिखरे रम...

श्रीबालासहस्रनामस्तोत्रम् - शौनक उवाच - कैलासशिखरे रम...

हिंदू देवी देवतांची एक हजार नावे म्हणजेच सहस्त्रनामावली. हिंदू धर्मिय रोज सकाळी संध्याकाळी या नावांचा जप करतात.

A sahasranamavali is a type of Hindu scripture in which a diety is referred to by 1000 or more different names.Many devout Hindus chant them every morning or evening.


शौनक उवाच -
कैलासशिखरे रम्ये नानापुय्ष्पोपशोभिते ।
कल्पपादपमध्यस्थे गन्धर्वगणसेविते ॥१॥

मणिमण्डपमध्यस्थे नानारत्नोपशोभिते ।
तं कदाचित् सुखासीनं भगवन्तं जगद्गुरुम् ॥२॥

कपालखट्वाङ्गधरं चन्द्रार्धकृतशेखरम् ।
त्रिशूलडमरुधरं महावृषभवाहनम् ॥३॥

जटाजूटधरं देवं वासुकिकण्ठभूषणम् ।
विभूतिभूषणं देवं नीलकण्ठं त्रिलोचनम् ॥४॥

द्वीपिचर्मपरीधानं शुद्धस्फटिकसन्निभम् ।
सहस्रादित्यसङ्काशं गिरिजार्धाङ्गभूषणम् ॥५॥

प्रणम्य शिरसा नाथं कारणं विश्वरूपिणम् ।
कृताञ्जलिपुटो भूत्वा प्राह तं शिखिवाहनः ॥६॥

कार्तिकेय उवाच -
देवदेव महादेव ! सृष्टिस्थित्यन्तकारक ! ।
त्वं गतिः सर्वदेवानां त्वं गतिः सर्वदेहिनाम् ॥७॥

त्वं गतिः सर्वदेवानां सर्वेषां त्वं गतिर्विभो ! ।
त्वमेव जगदाधारस्त्वमेव विश्वकारणम् ॥८॥

त्वमेव पूज्यः सर्वेषां त्वदन्यो नास्ति मे गतिः ।
किं गुह्यं परमं लोके किमेकं सर्वसिद्धिदम् ॥९॥

किमेकं परमं सृष्टिः किं भौमैश्वर्यमोक्षदम् ।
विना तीर्थेन तपसा विना वेदैर्विना मखैः ॥१०॥

विना जाप्येन ध्यानेन कथं सिद्धिमवाप्नुयात् ।
कस्मादुत्पद्यते सृष्टिः कस्मिंश्च विलयो भवेत् ॥११॥

कस्मादुत्तीर्यते देव ! संसारार्णवसङ्कटात् ।
तदहं श्रोतुमिच्छामि कथयस्व महेश्वर ! ॥१२॥

श्रीमहादेव उवाच -
साधु साधु त्वया पृष्टोऽस्म्यहं पार्वतीनन्दन ! ।
अस्ति गुह्यतमं पुत्र ! कथयिष्याम्यसंशयम् ॥१३॥

सत्त्वं रजस्तमश्चैव ब्रह्मविष्णुशिवादयः ।
ये चान्ये बहवो भूताः सर्वे प्रकृतिसम्भवाः ॥१४॥

सैव देवी पराशक्तिर्महात्रिपुरसुन्दरी ।
सैव संहरते विश्वं जगदेतच्चराचरम् ॥१५॥

आधारं सर्वभूतानां सैव रोगार्तिहारिणी ।
इच्छाशक्तिः क्रियारूपा ब्रह्मविष्णुशिवात्मिका ॥१६॥

त्रिधा शक्तिस्वरूपेण सृष्टिस्थितिविनाशिनी ।
सृजति ब्रह्मरूपेण विष्णुरूपेण रक्षति ॥१७॥

हरते रुद्ररूपेण जगदेतच्चराचरम् ।
यस्य योनौ जगत्सर्वमद्यापि वर्ततेऽखिलम् ॥१८॥

यस्यां प्रलीयते चान्ते यस्यां च जायते पुनः ।
यां समाराध्य त्रैलोक्ये सम्प्राप्तं पदमुत्तमम् ।
तस्या नामसहस्रं ते कथयामि श‍ृणुष्व तत् ॥१९॥

ॐ अस्य श्रीबालासहस्रनामस्तोत्रमन्त्रस्य, भगवान्
दक्षिणामुर्तिर्वामदेवः ऋषिः, गायत्री छन्दः,
प्रकटगुप्तगुप्ततरसम्प्रदाय कुलकौलोत्तीर्णानिगर्भरहस्यातिरहस्य
परापररहस्या चिन्त्या वर्तिनी बाला देवता ।
आं बीजं, ह्रीं शक्तिः, क्लीं कीलकम्, श्री बालाप्रीत्यर्थे पारायणे विनियोगः ।

ध्यानं
आधारे तरुणार्कबिम्बसदृशं हेमप्रभं वाग्भवं
बीजं मान्मथमिन्द्रगोपसदृशं हृत्पङ्कजे संस्थितम् ।
चक्रं भालमयं शशाङ्करुचिरं बीजं तु तार्तीयकं
ये ध्यायन्ति पदत्रयं तव शिवे ते यान्ति सूक्ष्मां गतिम् ॥

कल्याणी कमला काली कराली कामरूपिणी ।
कामाक्षा कामदा काम्या कामना कामचारिणी ॥२२॥

कौमारी करुणामूर्तिः कलिकल्मषनाशिनी ।
कात्यायनी कलाधारा कौमुदी कमलप्रिया ॥२३॥

कीर्तिदा बुद्धिदा मेधा नीतिज्ञा नीतिवत्सला ।
माहेश्वरी महामाया महातेजा महेश्वरी ॥२४॥

महामोहान्धकारघ्नी महामोक्षप्रदयिनी ।
महादारिद्र्यराशिघ्नी महाशत्रुविमर्दिनी ॥२६॥

महाशक्तिर्महाज्योतिर्महासुरविमर्दिनी ।
महाकाया महाबीजा महापातकनाशिनी ॥२७॥

महामखा मन्त्रमयी मणिपुरनिवासिनी ।
मानसी मानदा मान्या मनश्चक्षुरगोचरा ॥२८॥

गणमाता च गायत्री गणगन्धर्वसेविता ।
गिरिजा गिरिशा साध्वी गिरिसूर्गिरिसम्भवा ॥२९॥

चण्डेश्वरी चन्द्ररूपा प्रचण्डा चण्डमालिनी ।
चर्चिका चर्चिताकारा चण्डिका चारुरूपिणी ॥३०॥

यज्ञेश्वरी यज्ञरूपा जपयज्ञपरायणा ।
यज्ञमाता यज्ञगोप्त्री यज्ञेशी यज्ञसम्भवा ॥३१॥

यज्ञसिद्धिः क्रियासिद्धिर्यज्ञाङ्गी यज्ञरक्षका ।
यज्ञप्रिया यज्ञरूपा याज्ञी यज्ञकृपालया ॥३२॥

जालन्धरी जगन्माता जातवेदा जगत्प्रिया ।
जितेन्द्रिया जितक्रोधा जननी जन्मदायिनी ॥३३॥

गङ्गा गोदावरी गौरी गौतभी च शतह्रदा ।
घुर्घुरा वेदगर्भा च रेविका करसम्भवा ॥३४॥

सिन्धुर्मन्दाकिनी क्षिप्रा यमुना च सरस्वती ।
चन्द्रभागा विपाशा च गण्डकी विन्ध्यवासिनी ॥३५॥

नर्मदा कह्नकावेरी वेत्रवत्या च कौशिकी ।
महोनतनया चैव अहल्या चम्पकावती ॥३६॥

अयोध्या मथुरा माया काशी काञ्ची अवन्तिका ।
द्वारावती च तीर्थेशी महाकिल्विषनाशिनी ॥३७॥

पद्मिनी पद्ममध्यस्था पद्मकिञ्जल्कवासिनी ।
पद्मवक्त्रा च पद्माक्षी पद्मस्था पद्मसम्भवा ॥३८॥

ह्रीङ्कारी कुण्डली धात्री हृत्पद्मथा सुलोचना ।
श्रीङ्कारी भूषणा लक्ष्मीः क्लीङ्कारी क्लेशनाशिनी ॥३९॥

हरिप्रिया हरेर्मूर्तिर्हरिनेत्रकृतालया ।
हरिवक्त्रोद्भवा शान्ता हरिवक्षःस्थितालया ॥४०॥

वैष्णवी विष्णुरूपा च विष्णुमातृस्वरूपिणी ।
विष्णुमाया विशालाक्षी विशालनयनोज्ज्वला ॥४१॥

विश्वेश्वरी च विश्वात्मा विश्वेशी विश्वरूपिणी ।
विश्वेश्वरी शिवाधारा शिवनाथा शिवप्रिया ॥४२॥

शिवमाता शिवाक्षी च शिवदा शिवरूपिणी ।
भवेश्वरी भवाराध्या भवेशी भवनायिका ॥४३॥

भवमाता भवागम्या भवकण्टकनाशिनी ।
भवप्रिया भवानन्दा भवानी भवमोचिनी ॥४४॥

गीतिर्वरेण्या सावित्री ब्रह्माणी ब्रह्मरूपिणी ।
ब्रह्मेशी ब्रह्मदा ब्राह्मी ब्रह्माणी ब्रह्मवादिनी ॥४५॥

दुर्गस्था दुर्गरूपा च दुर्गा दुर्गार्तिनाशिनी ।
त्रयीदा ब्रह्मदा ब्राह्मी ब्रह्माणी ब्रह्मवादिनी ॥४६॥

त्वक्स्था तथा च त्वग्रूपा त्वग्गा त्वगार्तिहारिणी ।
स्वगमा निर्गमा दात्री दाया दोग्ध्री दुरापहा ॥४७॥

दूरघ्नी च दुराराध्या दूरदुष्कृतनाशिनी ।
पञ्चस्था पञ्चमी पूर्णा पूर्णापीठ निवासिनी ॥४८॥

सत्त्वस्था सत्त्वरूपा च सत्त्वदा सत्त्वसम्भवा ।
रजःस्था च रजोतूपा रजोगुणसमुद्भवा ॥४९॥

तामसी च तमोरूपा तामसी तमसः प्रिया ।
तमोगुणसमुद्भूता सात्त्विकी राजसी तमी ॥५०॥

कला काष्ठा निमेषा च स्वकृता तदनन्तरा ।
अर्धमासा च मासा च संवत्सरस्वरूपिणी ॥५१॥

युगस्था युगरूपा च कल्पस्था कल्परूपिणी ।
नानारत्नविचित्राङ्गी नानाभरणमण्डिता ॥५२॥

विश्वात्मिका विश्वमाता विश्वपाशा विधायिनी ।
विश्वासकारिणी विश्वा विश्वशक्तिर्विचक्षणा ॥५३॥

जपाकुसुमसङ्काशा दाडिमीकुसुमोपमा ।
चतुरङ्गा चतुर्बाहुश्चतुरा चारुहासिनी ॥५४॥

सर्वेशी सर्वदा सर्वा सर्वज्ञा सर्वदायिनी ।
सर्वेश्वरी सर्वविद्या शर्वाणी सर्वमङ्गला ॥५५॥

नलिनी नन्दिनी नन्दा आनन्दानन्दवर्धिनी ।
व्यापिनी सर्वभूतेषु भवभारविनाशिनी ॥५६॥

कुलीना कुलमध्यस्था कुलधर्मोपदेशिनी ।
सर्वश‍ृङ्गारवेशाढ्या पाशाङ्कुशकरोद्यता ॥५७॥

सूर्यकोटिसहस्रभा चन्द्रकोटिनिभानना ।
गणेशकोटिलावण्या विष्णुकोट्यरिमर्दिनी ॥५८॥

दावाग्निकोटिज्वलिनी रुद्रकोट्युग्ररूपिणी
समुद्रकोटिगम्भीरा वायुकोटिमहाबला ॥५९॥

आकाशकोटिविस्तारा यमकोटिभयङ्करा ।
मेरुकोटिसमुञ्च्छ्रा या गुणकोटिसमृद्धिदा ॥६०॥

निष्कलङ्का निराधारा निर्गुणा गुणवर्जिता ।
अशोका शोकरहिता तापत्रयविवर्जिता ॥६१॥

विशिष्टा विश्वजननी विश्वमोहविधारिणी ।
चित्रा विचित्रा चित्राशी हेतुगर्भा कुलेश्वरी ॥६२॥

इच्छाशाक्तिः ज्ञानशक्तिः क्रियाशक्तिः शुचिस्मिता ।
श्रुतिस्मृतिमयी सत्या श्रुतिरूपा श्रुतिप्रिया ॥६३॥

श्रुतिप्रज्ञा महासत्या पञ्चतत्त्वोपरिस्थिता ।
पार्वती हिमवत्पुत्री पाशस्था पाशरूपिणी ॥६४॥

जयन्ती भद्रकाली च अहल्या कुलनायिका ।
भूतधात्री च भूतेशी भूतस्था भूतभाविनी ॥६५॥

महाकुण्डलिनीशक्तिर्महाविभववर्धिनी ।
हंसाक्षी हंसरूपा च हंसस्था हंसरूपिणी ॥६६॥

सोमसूर्याग्निमध्यस्था मणिपूरकवासिनी ।
षट् पत्राम्भोजमध्यस्था मणिपूरनिवासिनी ॥६७॥

द्वादशारसरोजस्था सूर्यमण्डलवासिनी ।
अकलङ्का शशाङ्काभा षोडशारनिवासिनी ॥६८॥

द्विपत्रदलमध्यस्था ललाटतलवासिनी ।
डाकिनी शाकिनी चैव लाकिनी काकिनी तथा ॥६९॥

राकिणी हाकिनी चैव षट्चक्रक्रमवासिनी ।
सृष्टिस्थितिविनाशा च सृष्टिस्थित्यन्तकारिणी ॥७०॥

श्रीकण्ठा श्रीप्रिया कण्ठनादाख्या बिन्दुमालिनी ।
चतुःषष्टिकलाधारा मेरुदण्डसमाश्रया ॥७१॥

महाकाली द्युतिर्मेधा स्वधा तुष्टिर्महाद्युतिः ।
हिङ्गुला मङ्गलशिवा सुषुम्णामध्यगामिनी ॥७२॥

परा घोरा करालाक्षी विजया जयशालिनी ।
हृत्पद्मनिलया देवी भीमा भैरवनादिनी ॥७३॥

आकाशलिङ्गभूता च भुवनोद्यानवासिनी ।
महासूक्ष्माऽभया काली भीमरूपा महाबला ॥७४॥

मेनकागर्भसम्भूता तप्तकाञ्चनसन्निभा ।
अन्तःस्था कूटबीजा च त्रिकूटाचलवासिनी ॥७५॥

वर्णाक्षा वर्णरहिता पञ्चाशद्वर्णभेदिनी ।
विद्याधरी लोकधात्री अप्सरा अप्सरःप्रिया ॥७६॥

दक्षा दाक्षायणी दीक्षा दक्षयज्ञविनाशिनी ।
यशस्विनी यशःपूर्णा यशोदागर्भसम्भवा ॥७७॥

देवकी देवमाता च राधिका कृष्णवल्लभा ।
अरुन्धती शचीन्द्राणी गान्धारी गन्धमोदिनी ॥७८॥

ध्यानातीता ध्यानगम्या ध्याना ध्यानावधारिणी ।
लम्बोदरी च लम्बोष्ठा जाम्बवती जलोदरी ॥७९॥

महोदरी मुक्तकेशी मुक्तिकामार्थसिद्धिदा ।
तपस्विनी तपोनिष्ठा चापर्णा पर्णभक्षिणी ॥८०॥

बाणचापधरा वीरा पाञ्चाली पञ्चमप्रिया ।
गुह्या गभीरा गहना गुह्यतत्त्वा निरञ्जना ॥८१॥

अशरीरा शरीरस्था संसारार्णवतारिणी ।
अमृता निष्कला भद्रा सकला कृष्णपिङ्गला ॥८२॥

चक्रेश्वरी चक्रहस्ता पाशचक्रनिवासिनी ।
पद्मरागप्रतीकाशा निर्मलाकाशसन्निभा ॥८३॥

ऊर्ध्वस्था ऊर्ध्वरूपा च ऊर्ध्वपद्मनिवासिनी ।
कार्यकारणकर्त्री च पर्वाख्या रूपसंस्थिता ॥८४॥

रसज्ञा रसमध्यस्था गन्धज्ञा गन्धरूपिणी ।
परब्रह्मस्वरूपा च परब्रह्मनिवासिनी ॥८५॥

शब्दब्रह्मस्वरूपा च शब्दस्था शब्दवर्जिता ।
सिद्धिर्वृद्धिपरा वृद्धिः सकीर्तिर्दीप्तिसंस्थिता ॥८६॥

स्वगुह्या शाम्भवीशक्तिस्तत्त्वज्ञा तत्त्वरूपिणी ।
सरस्वती भूतमाता महाभूताधिपप्रिया ॥८७॥

श्रुतिप्रज्ञादिमा सिद्धिः दक्षकन्याऽपराजिता ।
कामसन्दीपनी कामा सदाकामा कुतूहला ॥८८॥

भोगोपचारकुशला अमला ह्यमलानना ।
भक्तानुकम्पिनी मैत्री शरणागतवत्सला ॥८९॥

सहस्रभुजा चिच्छक्तिः सहस्राक्षा शतानन ।
सिद्धलक्ष्मीर्महालक्ष्मीर्वेदलक्ष्मीः सुलक्षणा ॥९०॥

यज्ञसारा तपस्सारा धर्मसारा जनेश्वरी ।
विश्वोदरी विश्वसृष्टा विश्वाख्या विश्वतोमुखी ॥९१॥

विश्वास्यश्रवणघ्राणा विश्वमाला परात्मिका ।
तरुणादित्यसङ्काशा करणानेकसङ्कुला ॥९२॥

क्षोभिणी मोहिनी चैव स्तम्भिनी जृम्भिनी तथा ।
रथिनी ध्वजिनी सेना सर्वमन्त्रमयी त्रयी ॥९३॥

ज्ञानमुद्रा महामुद्रा जपमुद्रा महोत्सवा ।
जटाजूट धरा मुक्ता सूक्ष्मशान्तिर्विभीषणा ॥९४॥

द्वीपिचर्मपरीधाना चीरवल्कलधारिणी ।
त्रिशूलडमरुधरा नरमालाविभूषिणी ॥९५॥

अत्युग्ररूपिणी चोग्रा कल्पान्तदहनोपमा ।
त्रैलोक्यसाधिनी साध्या सिद्धसाधकवत्सला ॥९६॥

सर्वविद्यामयी सारा असुराम्बुधिधारिणी ।
सुभगा सुमुखी सौम्या सुशूरा सोमभूषणा ॥९७॥

शुद्धस्फटिकसङ्कशा महावृषभवाहिनी ।
महिषी महिषारूढा महिषासुरघातिनी ॥९८॥

दमिनी दामिनी दान्ता दया दोग्ध्री दुरापहा ।
अग्निजिह्वा महाघोराऽघोरा घोरतरानना ॥९९॥

नारायणी नारसिंही नृसिंहहृदयस्थिता ।
योगेश्वरी योगरूपा योगमाला च योगिनी ॥१००॥

खेचरी भूचरी खेला निर्वाणपदसंश्रया ।
नागिनी नागकन्या च सुवेगा नागनायिका ॥१०१॥

विषज्वालावती दीप्ता कलाशतविभूषणा ।
भीमवक्त्रा महावक्त्रा वक्त्राणां कोटिधारिणी ॥१०२॥

महदात्मा च धर्मज्ञा धर्मातिसुखदायिनी ।
कृष्णमूर्तिर्महामूर्तिर्घोरमूर्तिर्वरानना ॥१०३॥

सर्वेन्द्रियमनोन्मत्ता सर्वेन्द्रियमनोमयी ।
सर्वसङ्ग्रामजयदा सर्वप्रहरणोद्यता ॥१०४॥

सर्वपीडोपशमनी सर्वारिष्टविनाशिनी ।
सर्वैश्वर्यसमुत्पत्तिः सर्वग्रहविनाशिनी ॥१०५॥

भीतिघ्नी भक्तिगम्या च भक्तानामार्तिनाशिनी ।
मातङ्गी मत्तमातङ्गी मातङ्गगणमण्डिता ॥१०६॥

अमृतोदधिमध्यस्था कटिसूत्रैरलङ्कृता ।
अमृतद्वीपमध्यस्था प्रबला वत्सलोज्ज्वला ॥१०७॥

मणिमण्डपमध्यस्था रत्नसिंहासनस्थिता ।
परमानन्दमुदिता ईषत्प्रहसितानना ॥१०८॥

कुमुदा ललिता लोला लाक्षा लोहितलोचना ।
दिग्वासा देवदूती च देवदेवादिदेवता ॥१०९॥

सिंहोपरिसमारूढा हिमाचलनिवासिनी ।
अट्टाट्टहासिनी घोरा घोरदैत्यविनाशिनी ॥११०॥

अत्युग्रा रक्तवसना नागकेयूरमण्डिता ।
मुक्ताहारस्तनोपेता तुङ्गपीनपयोधरा ॥१११॥

रक्तोत्पलदलाकारा मदाघूर्णितलोचना ।
गण्डमण्डितताटङ्का गुञ्जाहारविभूषणा ॥११२॥

सङ्गीतरङ्गरसना वीणावाद्यकुतूहला ।
समस्तदेवमूर्तिश्च ह्यसुरक्षयकारिणी ॥११३॥

खड्गिनी शूलहस्ता च चक्रिणी चाक्षमालिनी ।
पाशिनी चक्रिणी दान्ता वज्रिणी वज्रदण्डिनी ॥११४॥

आनन्दोदधिमध्यस्था कटिसूत्रैरलङ्कृता ।
नानाभरणदीप्ताङ्गी नानामणिविभूषणा ॥११५॥

जगदानन्दसम्भूतिश्चिन्तामणिगुणाकरा ।
त्रैलोक्यनमिता पूज्या चिन्मयाऽऽनन्दरूपिणी ॥११६॥

त्रैलोक्यनन्दिनी देवी दुःखदुःस्वप्ननाशिनी ।
घोराग्निदाहशमनी राजदैवादिशालिनी ॥११७॥

महाऽपराधराशिघ्नी महावैरिभयापहा ।
रागादिदोषरहिता जरामरणवर्जिता ॥११८॥

चन्द्रमण्डलमध्यस्था पीयूषार्णवसम्भवा ।
सर्वदेवैः स्तुता देवी सर्वसिद्धिनमस्कृता ॥११९॥

अचिन्त्यशक्तिरूपा च मणिमन्त्रमहौषधी ।
स्वस्तिः स्वस्तिमती बाला मलयाचलसंस्थिता ॥१२०॥

धात्री विधात्री संहारा रतिज्ञा रतिदायिनी ।
रुद्राणी रुद्ररूपा च रौद्री रौद्रार्तिहारिणी ॥१२१॥

सर्वज्ञा चौरधर्मज्ञा रसज्ञा दीनवत्सला ।
अनाहता त्रिनयना निर्भरा निर्वृतिः परा ॥१२२॥

परा घोरकरालाक्षी स्वमाता प्रियदायिनी ।
मन्त्रात्मिका मन्त्रगम्या मन्त्रमाता समन्त्रिणी ॥१२३॥

शुद्धानन्दा महाभद्रा निर्द्वन्द्वा निर्गुणात्मिका ।
धरणी धारिणी पृथ्वी धरा धात्री वसुन्धरा ॥१२४॥

मेरुमन्दिरमध्यस्था शिवा शङ्करवल्लभा ।
श्रीगतिः श्रीमती श्रेष्ठा श्रीकरी श्रीविभावनी ॥१२५॥

श्रीदा श्रीमा श्रीनिवासा श्रीमती श्रीमतां गतिः ।
उमा शारङ्गिणी कृष्णा कुटिला कुटिलालका ॥१२६॥

त्रिलोचना त्रिलोकात्मा पुण्यदा पुण्यकीर्तिदा ।
अमृता सत्यसङ्कल्पा सत्याशा ग्रन्थिभेदिनी ॥१२७॥

परेशा परमा विद्या पराविद्या परात्परा ।
सुन्दराङ्गी सुवर्णाभा सुरासुरनमस्कृता ॥१२८॥

प्रजा प्रजावती धन्या धनधान्यसमृद्धिदा ।
ईशानी भुवनेशानी भुवना भुवनेश्वरी ॥१२९॥

अनन्तानन्तमहिमा जगत्सारा जगद्भवा ।
अचिन्त्यशक्तिमहिमा चिन्त्याचिन्त्यस्वरूपिणी ॥१३०॥

ज्ञानगम्या ज्ञानमूर्तिर्ज्ञानदा ज्ञानशालिनी ।
अमिता घोररूपा च सुधाधारा सुधावहा ॥१३१॥

भास्करी भासुरी भाती भास्वदुत्तानशायिनी ।
अनसूया क्षमा लज्जा दुर्लभा भुवनान्तिका ॥१३२॥

विश्ववन्द्या विश्वबीजा विश्वधीर्विश्वसंस्थिता ।
शीलस्था शीलरूपा च शीला शीलप्रदायिनी ॥१३३॥

बोधिनी बोधकुशला रोधिनी बाधिनी तथा ।
विद्योतिनी विचित्रात्मा विद्युत्पटलसन्निभा ॥१३४॥

विश्वयोनिर्महायोनिः कर्मयोनिः प्रियंवदा ।
रोगिणी रोगशमनी महारोगभयावहा ॥१३५॥

वरदा पुष्टिदा देवी मानदा मानवप्रिया ।
कृष्णाङ्गवाहिनी चैव कृष्णा कृष्णसहोदरी ॥१३६॥

शाम्भवी शम्भुरूपा च तथैव शम्भुसम्भवा ।
विश्वोदरी विश्वमाता योगमुद्रा च योगिनी ॥१३७॥

वागीश्वरी योगमुद्रा योगिनीकोटिसेविता ।
कौलिकानन्दकन्या च श‍ृङ्गारपीठवासिनी ॥१३८॥

क्षेमङ्करी सर्वरूपा दिव्यरूपा दिगम्बरा ।
धूम्रवक्त्रा धूम्रनेत्रा धूम्रकेशी च धूसरा ॥१३९॥

पिनाकी रुद्रवेताली महावेतालरूपिणी ।
तपनी तापिनी दक्षा विष्णुविद्या त्वनाथिता ॥१४०॥

अङ्कुरा जठरा तीव्रा अग्निजिह्वा भयापहा ।
पशुघ्नी पशुरूपा च पशुदा पशुवाहिनी ॥१४१॥

पिता माता च भ्राता च पशुपाशविनाशिनी ।
चन्द्रमा चन्द्ररेखा च चन्द्रकान्तिविभूषणा ॥१४२॥

कुङ्कुमाङ्कितसर्वाङ्गी सुधीर्बुद्बुदलोचना ।
शुक्लाम्बरधरा देवी वीणापुस्तकधारिणी ॥१४३॥

श्वेतवस्त्रधरा देवी श्वेतपद्मासनस्थिता ।
रक्ताम्बरा च रक्ताङ्गी रक्तपद्मविलोचना ॥१४४॥

निष्ठुरा क्रूरहृदया अक्रूरा मितभाषिणी ।
आकाशलिङ्गसम्भूता भुवनोद्यानवासिनी ॥१४५॥

महासूक्ष्मा च कङ्काली भीमरूपा महाबला ।
अनौपम्यगुणोपेता सदा मधुरभाषिणी ॥१४६॥

विरूपाक्षी सहस्राक्षी शताक्षी बहुलोचना ।
दुस्तरी तारिणी तारा तरुणी ताररूपिणी ॥१४७॥

सुधाधारा च धर्मज्ञा धर्मयोगोपदेशिनी ।
भगेश्वरी भगाराध्या भगिनी भगिनीप्रिया ॥१४८॥

भगविश्वा भगक्लिन्ना भगयोनिर्भगप्रदा ।
भगेश्वरी भगरूपा भगगुह्या भगावहा ॥१४९॥

भगोदरी भगानन्दा भगाढ्या भगमालिनी ।
सर्वसङ्क्षोभिणीशक्तिः सर्वविद्राविणी तथा ॥१५०॥

मालिनी माधवी माध्वी मदरूपा मदोत्कटा ।
भेरुण्डा चण्डिका ज्योत्स्ना विश्वचक्षुस्तपोवहा ॥१५१॥

सुप्रसन्ना महादूती यमदूती भयङ्करी ।
उन्मादिनी महारूपा दिव्यरूपा सुरार्चिता ॥१५२॥

चैतन्यरूपिणी नित्या नित्यक्लिन्ना मदोल्लसा ।
मदिरानन्दकैवल्या मदिराक्षी मदालसा ॥१५३॥

सिद्धेश्वरी सिद्धविद्या सिद्धाद्या सिद्धवन्दिता ।
सिद्धार्चिता सिद्धमाता सिद्धसर्वार्थसाधिका ॥१५४॥

मनोन्मनी गुणातीता परञ्ज्योतिःस्वरूपिणी ।
परेशी पारगा पारा पारसिद्धिः परा गतिः ॥१५५॥

विमला मोहिनीरूपा मधुपानपरायणा ।
वेदवेदाङ्गजननी सर्वशास्त्रविशारदा ॥१५६॥

सर्ववेदमयी विद्या सर्वशास्त्रमयी तथा ।
सर्वज्ञानमयी देवी सर्वधर्ममयीश्वरी ॥१५७॥

सर्वयज्ञमयी यज्वा सर्वमन्त्राधिकारिणी ।
त्रैलोक्याकर्षिणी देवी सर्वाद्यानन्दरूपिणी ॥१५८॥

सर्वसम्पत्त्यधिष्ठात्री सर्वविद्राविणी परा ।
सर्वसङ्क्षोभिणी देवी सर्वमङ्गलकारिणी ॥१५९॥

त्रैलोक्यरञ्जनी देवी सर्वस्तम्भनकारिणी ।
त्रैलोक्यजयिनी देवी सर्वोन्मादस्वरूपिणी ॥१६०॥

सर्वसम्मोहिनी देवी सर्ववश्यङ्करी तथा ।
सर्वार्थसाधिनी देवी सर्वसम्पत्तिदायिनी ॥१६१॥

सर्वकामप्रदा देवी सर्वमङ्गलकारिणी ।
सर्वसिद्धिप्रदा देवी सर्वदुःखविमोचिनी ॥१६२॥

सर्वमृत्युप्रशमनी सर्वविघ्नविनाशिनी ।
सर्वाङ्गसुन्दरी माता सर्वसौभाग्यदायिनी ॥१६३॥

सर्वदा सर्वशक्तिश्च सर्वैश्वर्यफलप्रदा ।
सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी ॥१६४॥

सर्वाधारा सर्वरूपा सर्वपापहरा तथा ।
सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी ॥१६५॥

सर्वलक्ष्मीमयी विद्या सर्वेप्सितफलप्रदा ।
सर्वदुःखप्रशमनी परमानन्ददायिनी ॥१६६॥

त्रिकोणनिलया त्रीष्टा त्रिमता त्रितनुस्थिता ।
त्रैविद्या चैव त्रिस्मारा त्रैलोक्यत्रिपुरेश्वरी ॥१६७॥

त्रिकोदरस्था त्रिविधा त्रिपुरा त्रिपुरात्मिका ।
त्रिधात्री त्रिदशा त्र्यक्षा त्रिघ्नी त्रिपुरवाहिनी ॥१६८॥

त्रिपुराश्रीः स्वजननी बालात्रिपुरसुन्दरी ।
श्रीमत्त्रिपुरसुन्दर्या मन्त्रनामसहस्रकम् ॥१६९॥

गुह्याद्गुह्यतरं पुत्र ! तव प्रीत्या प्रकीर्तितम् ।
गोपनीयं प्रयत्नेने पठनीयं प्रयत्नतः ॥१७०॥

नातः परतरं पुण्यं नातः परतरं शुभम् ।
नातः परतरं स्तोत्रं नातः परतरा गतिः ॥१७१॥

स्तोत्रं सहस्रनामाख्यं मम वक्त्राद्विनिस्सृतम् ।
यः पठेत्परया भक्त्या श‍ृणुयाद्वा समाहितः ॥१७२॥

मोक्षार्थी लभते मोक्षं सुखार्थी सुखमाप्नुयात् ।
फलार्थी लभते कामान् धनार्थी लभते धनम् ॥१७३॥

विद्यार्थी लभते विद्यां यशोऽर्थी लभते यशः ।
कन्यार्थी लभते कन्यां सुतार्थी लभते सुतम् ॥१७४॥

गुर्विणी लभते पुत्रं कन्या विन्दति सत्पतिम् ।
मूर्खेऽपि लभते शास्त्रं चौरोऽपि लभते गतिम् ॥१७५॥

संक्रान्तावमावास्यायामष्टम्यां भौमवासरे ।
पठेद्वा पाठयेद्वापि श‍ृणुयाद्वा समाहितः ॥१७६॥

पौर्णमास्यां चतुर्दश्यां नवम्यां च विशेषतः ।
स मुक्तः सर्वपापेभ्यः कामेश्वरसमो भवेत् ॥१७७॥

लक्ष्मीवान् सुतवांश्चैव वल्लभः सर्वयोषिताम् ।
तस्या वश्यं भवेद्दास्ये त्रैलोक्यं सचराचरम् ॥१७८॥

रुद्रं दृष्ट्वा यथा देवा विष्णुं दृष्ट्वा च दानवाः ।
पन्नगा गरुडं दृष्ट्वा सिंहं दृष्ट्वा यथा मृगाः ॥१७९॥

मण्डूका भोगिनं दृष्ट्वा मार्जारं मूषको यथा ।
कीटवत्प्रपलायन्ते तस्य वक्त्रावलोकनात् ॥१८०॥

अग्निचौरभयं तस्य कदाचिन्नैव सम्भवेत् ।
पातका विविधाः सन्ति मेरुमन्दरसन्निभाः ॥१८१॥

भस्मसात्तत्क्षणं कुर्यात् तृणं वह्नियुतं यथा ।
एकधा पठनादेव सर्पपापक्षयो भवेत् ॥१८२॥

दशधा पठनादेव वाञ्छासिद्धिः प्रजायते ।
नश्यन्ति सहसा रोगा दशधाऽऽवर्तनेन च ॥१८३॥

सहस्रं वा पठेद्यस्तु खेचरो जायते नरः ।
सहस्रदशकं यस्तु पठेद्भक्तिपरायणः ॥१८४॥

सा तस्य जगतां धात्री प्रत्यक्षा भवति ध्रुवम् ।
लक्षं पूर्णं यदा पुत्र ! स्तवराजं पठेत्सुधीः ॥१८५॥

भवपाशविनिर्मुक्तो मम तुल्यो न संशयः ।
सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् ॥१८६॥

सर्ववेदेषु यत्पुण्यं तत्फलं परिकिर्तितम् ।
तत्फलं कोटिगुणितं सकृज्जप्त्वा लभेन्नरः ॥१८७॥

श्रुत्वा महाबलश्चाशु पुत्रवान् सर्वसम्पदः ।
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ॥१८८॥

अद्वैतयोगिभिर्ज्ञेयं मार्गगैरपि दुर्लभम् ।
स यास्यति न सन्देहः स्तवराजप्रकीर्तनात् ॥१८९॥

यः सदा पठते भक्तो मुक्तिस्तस्य न संशयः ॥१९०॥

इति श्रीवामकेश्वरतन्त्रान्तर्गतं श्रीबालासहस्रनामस्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : January 18, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP