मराठी मुख्य सूची|स्तोत्रे|सहस्रनामावली|
श्री गणेशाय नमः । श्रीकाम...

श्रीकामाक्षीसहस्रनामावलिः - श्री गणेशाय नमः । श्रीकाम...

हिंदू देवी देवतांची एक हजार नावे म्हणजेच सहस्त्रनामावली. हिंदू धर्मिय रोज सकाळी संध्याकाळी या नावांचा जप करतात.
A sahasranamavali is a type of Hindu scripture in which a diety is referred to by 1000 or more different names.Many devout Hindus chant them every morning or evening.


श्री गणेशाय नमः ।
श्रीकामाक्ष्यै नमः ।
अस्य श्रीकामाक्षीसहस्रनामस्तोत्रमहामन्त्रस्य आनन्दभैरवऋषिः
(शिरसि) । अनुष्टुप्छन्दः (मुखे) । स्वबिम्बायै-श्रीचक्रबिलान्तस्तेजसे
ललितायै द्विभुजायै सिद्धश्रीकामाक्षी देवता (हृदये) ।

ऐं ह्रीं श्रीं कां कएईलह्रीं बीजं (गुह्ये) ।
ऐं ह्रीं श्रीं मां हसकहलह्रीं शक्तिः (पादयोः) ।
ऐं ह्रीं श्रीं क्ष्यैं सकलह्रीं कीलकं (नाभौ) ।
मम श्रीललिताकामाक्षी प्रसादसिद्ध्यर्थे अर्चने विनियोगः (सर्वाङ्गे) ॥

करन्यासः -
ॐ ऐं ह्रीं श्रीं कां कएईलह्रीं अङ्गुष्ठाभ्यां नमः ।
ॐ ऐं ह्रीं श्रीं मां हसकहलह्रीं तर्जनीभ्यां नमः ।
ॐ ऐं ह्रीं श्रीं क्ष्यैं सकलह्रीं मध्यमाभ्यां नमः ।
ॐ ऐं ह्रीं श्रीं कां कएईलह्रीं अनामिकाभ्यां नमः ।
ॐ ऐं ह्रीं श्रीं मां हसकहलह्रीं कनिष्ठिकाभ्यां नमः ।
ॐ ऐं ह्रीं श्रीं क्ष्यैं सकलह्रीं करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः -
ॐ ऐं ह्रीं श्रीं कां कएईलह्रीं हृदयाय नमः ।
ॐ ऐं ह्रीं श्रीं मां हसकहलह्रीं शिरसे स्वाहा ।
ॐ ऐं ह्रीं श्रीं क्ष्यैं सकलह्रीं शिखायै वषट् ।
ॐ ऐं ह्रीं श्रीं कां कएईलह्रीं कवचाय हुम् ।
ॐ ऐं ह्रीं श्रीं मां हसकहलह्रीं नेत्रत्रयाय वौषट् ।
ॐ ऐं ह्रीं श्रीं क्ष्यैं सकलह्रीं अस्त्राय फट् ।
ॐ भूर्भुवस्वरों इति दिग्बन्धः ॥

ध्यानं -
लम्बमानेतर-कर-ललिता स्वर्णविग्रहा ।
अम्बुजाब्जं प्रतिदक्षहस्तेनास्ते बिलाद्बहिः ॥

कामाक्षी इति द्विरुक्तैः शब्दैः ध्यात्वा ऐक्यतः
कामाक्षी कामाक्षी

पञ्चपूजा -
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाय्वात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृत्मिकायै अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ॥

अथ सहस्रनामावलिः ।
ॐ अन्नाढ्यायै नमः ।
ॐ क्षमा-संहर्त्र्यै नमः ।
ॐ सेशायै नमः ।
ॐ काश्यागतायै नमः ।
ॐ शिवायै नमः ।
ॐ काञ्ची-नगर्यभिमानायै नमः ।
ॐ बिलान्तर्बहिस्थितायै नमः ।
ॐ द्विभुजायै नमः ।
ॐ पद्महस्तायै नमः ।
ॐ श्रियै नमः । (१०)
ॐ गिरे नमः ।
ॐ ह्रियै नमः ।
ॐ कीर्त्यै नमः ।
ॐ उमायै नमः ।
ॐ सत्यै नमः ।
ॐ मीन-पौर्णम्यहोद्वाहायै नमः ।
ॐ रक्तबीज-संहारिण्यै नमः ।
ॐ पञ्चतीर्थ-समीपस्थायै नमः ।
ॐ पटकृत्-स्तनोत्सवायै नमः ।
ॐ रात्रि-कन्यालङ्करणायै नमः । (२०)
ॐ अपक्व-फलहारिण्यै नमः ।
ॐ मनुष्यलोक-प्रत्यक्षायै नमः ।
ॐ कन्यकाप्रदायै नमः ।
ॐ कन्यका-दर्शन-श्रीदायै नमः ।
ॐ कन्यका-वर्धन-सन्तुष्टायै नमः ।
ॐ कन्यका-दान-पुष्टिदायै नमः ।
ॐ कन्यका-सन्तत्युभय-वंश-सालोक्यताङ्कितायै नमः ।
ॐ चतुर्युग-प्रतिवर्ष-पूजितायै नमः ।
ॐ परमाद्भुतायै नमः ।
ॐ मेष-पौर्णम्यर्चिताङ्गायै नमः । (३०)
ॐ पल्लवोत्सव-तोषितायै नमः ।
ॐ शीत-ताप-ज्वरहरायै नमः ।
ॐ वृष-डोलोत्सव-प्रियायै नमः ।
ॐ वैशाख-धर्मसन्तुष्टायै नमः ।
ॐ ऐहिकामुष्मिकप्रदायै नमः ।
ॐ मिथुनैकाम्र-सहित-पूजितायै नमः ।
ॐ मिथुनोन्मुख्यै नमः ।
ॐ अर्कजेशालिङ्गितायै नमः ।
ॐ बिलान्तर-विहारिण्यै नमः ।
ॐ सिंह-श्रीमञ्चशयनायै नमः । (४०)
ॐ अर्धनारीश्वराकृतये नमः ।
ॐ कन्यायै नमः ।
ॐ श्रीयज्ञवरायै नमः ।
ॐ त्रिपुरायै नमः ।
ॐ पूज्यायै नमः ।
ॐ डोलोत्सवप्रियायै नमः ।
ॐ उमामहेश्वराकारायै नमः ।
ॐ विमान-त्रय-रूपिण्यै नमः ।
ॐ तुलामासोत्सवानन्दायै नमः ।
ॐ पौर्णमी-दीपिकार्चितायै नमः । (५०)
ॐ कृत्तिकाराधनानन्दायै नमः ।
ॐ आर्द्रा-चित्रान्न-भोजनायै नमः ।
ॐ अश्विकाराधनोत्सुकायै नमः ।
ॐ घृत-होम-सुपुष्टिदायै नमः ।
ॐ घृताभ्याङ्गनाशुद्धायै नमः ।
ॐ षड्रसान्न-सुभोजनायै नमः ।
ॐ धनुर्मुद्रान्न-सन्तुष्टायै नमः ।
ॐ पापकर्म-विनाशिन्यै नमः ।
ॐ मकरे-काम्बु-संयुक्तायै नमः ।
ॐ मधुस्नान-सुनिर्मलायै नमः । (६०)
ॐ कुम्भ-गङ्गास्नान-शुद्धायै नमः ।
ॐ शिवरात्रि-फलप्रदायै नमः ।
ॐ अरुणायै नमः ।
ॐ सूर्यरूपायै नमः ।
ॐ वेदाङ्गायै नमः ।
ॐ भानु-संज्ञिकायै नमः ।
ॐ उपेन्द्रायै नमः ।
ॐ रवि-सच्छायायै नमः ।
ॐ गभस्थि-क्षय-वृद्धिदायै नमः ।
ॐ सुवर्णवर्णायै नमः । (७०)
ॐ ज्ञानाख्यायै नमः ।
ॐ नित्यायै नमः ।
ॐ सौख्यायै नमः ।
ॐ वैष्णव्यै नमः ।
ॐ द्वादशस्वर्चितायै नमः ।
ॐ काख्यायै नमः । (का-आख्यायै नमः)
ॐ माख्यायै नमः । (मा-आख्यायै नमः)
ॐ अक्षिद्वयाह्वयायै नमः । (अक्षि-द्वय-आह्वयायै नमः)
ॐ चिदग्नि-कुण्डजायै नमः ।
ॐ देवकार्योद्युक्तायै नमः । (८०)
ॐ हितैषिण्यै नमः ।
ॐ क्रोधाङ्कुशायै नमः ।
ॐ रागपाशायै नमः ।
ॐ मनसेक्षुधनुर्धरायै नमः ।
ॐ स्वबिम्बायै नमः ।
ॐ श्रीचक्रदेहायै नमः ।
ॐ भगिन्यन्तर-तैजसायै नमः ।
ॐ श्रीगन्ध-तैलाङ्गभूषायै नमः ।
ॐ गन्धद्वारानु-वश्यदायै नमः ।
ॐ दुराधर्षायै नमः । (९०)
ॐ सिद्धमूर्तये नमः ।
ॐ सर्वभूतगणेश्वर्यै नमः ।
ॐ सलक्षणाश्व-लक्ष्मीदायै नमः ।
ॐ गजलक्ष्मी-प्रदायिन्यै नमः ।
ॐ सु-गो-लक्ष्मीप्रदायै नमः ।
ॐ भास्वत्-धनलक्ष्मीप्रदायिन्यै नमः ।
ॐ समृद्धा-धान्यलक्ष्मीदायै नमः ।
ॐ जयलक्ष्मी-प्रदायिन्यै नमः ।
ॐ वीरलक्ष्मी-प्रदायिन्यै नमः ।
ॐ धैर्यलक्ष्मी-प्रदायिन्यै नमः । (१००)
ॐ महासाम्राज्यलक्ष्मी-दायिन्यै नमः ।
ॐ नवानर्घ्य-निधिदायै नमः ।
ॐ छन्दःपरम्परायै नमः ।
ॐ काल्यै नमः ।
ॐ लक्ष्म्यै नमः ।
ॐ सरस्वत्यै नमः ।
ॐ अनन्तगुण-सम्पन्नायै नमः ।
ॐ आनन्दायै नमः ।
ॐ आनन्द-दायिन्यै नमः ।
ॐ इडायै नमः । (११०)
ॐ त्रिपुरायै नमः ।
ॐ ईशानायै नमः ।
ॐ उदारायै नमः ।
ॐ ऊर्जितप्रभायै नमः ।
ॐ बुद्धिदायै नमः ।
ॐ जक्षहारिण्यै नमः ।
ॐ ऌठन्त्यै नमः ।
ॐ भक्तवत्सलायै नमः ।
ॐ सज्जनायै नमः ।
ॐ ॡनब्रह्म-ऋषि-देवारि-मुख्यार्द्धित-दर्शनायै नमः । (१२०)
ॐ ऐरावतार्चित-पदायै नमः ।
ॐ ओङ्कारमध्य-विग्रहायै नमः ।
ॐ औदासीन्यहरायै नमः ।
ॐ अम्बायै नमः ।
ॐ अस्तपूर्वाद्रिपादुकायै नमः ।
ॐ घर्मिण्यै नमः ।
ॐ घरनिघ्नन्त्यै नमः ।
ॐ गणेक्षायै नमः ।
ॐ घनचारिण्यै नमः ।
ॐ शार्ङ्गसव्य-कराभयायै नमः । (१३०)
ॐ चलद्बाण-करप्रभायै नमः ।
ॐ पद्मचन्दन-नेत्राभायै नमः ।
ॐ ज्ञानानन्द-वर्धनायै नमः ।
ॐ झषाक्ष्यै नमः ।
ॐ अगण्यचरितायै नमः ।
ॐ सत्कटाक्षायै नमः ।
ॐ वनाटनायै नमः ।
ॐ वनस्थयोग्य-सुध्यातायै नमः ।
ॐ गरुडार्चित-पादुकायै नमः ।
ॐ वेदमानायै नमः । (१४०)
ॐ आढकस्थायै नमः ।
ॐ गणनाख्यायै नमः ।
ॐ विराजितायै नमः ।
ॐ तरुणाङ्गायै नमः ।
ॐ सत्यकथायै नमः ।
ॐ दयापूर्णायै नमः ।
ॐ धरायै नमः ।
ॐ वनायै नमः ।
ॐ परमाणुमयायै नमः ।
ॐ अशेषफणिरत्न-विभूषितायै नमः । (१५०)
ॐ बलभद्रायै नमः ।
ॐ मनोरूपायै नमः ।
ॐ यज्ञभोक्त्र्यै नमः ।
ॐ रमालयायै नमः ।
ॐ वरायै नमः ।
ॐ शर्वायै नमः ।
ॐ षड्गुणाढ्यायै नमः ।
ॐ सर्वाभायै नमः ।
ॐ हररूपिण्यै नमः ।
ॐ निर्मलाङ्ग्यै नमः । (१६०)
ॐ क्षमायै नमः ।
ॐ शब्दायै नमः ।
ॐ ब्रह्मरूपार्धवार्चितायै नमः ।
ॐ सत्त्वसत्यक्षरायै नमः ।
ॐ मल्लिकाशोक-सङ्गत्यै नमः ।
ॐ तद्वर्णध्यानसम्पत्यै नमः ।
ॐ अर्गलाङ्गायै नमः ।
ॐ कीलकायै नमः ।
ॐ कवचाच्छादित-दिव्याङ्गायै नमः ।
ॐ स्वमाहात्म्य-प्रकाशितायै नमः । (१७०)
ॐ रहस्य-श्लोक-सङ्काशायै नमः ।
ॐ नवाक्षर-समुज्ज्वलायै नमः ।
ॐ अग्निसूर्याम्बुज-कलायै नमः ।
ॐ षण्णवत्याख्य-सत्कलायै नमः ।
ॐ निवृत्यादि-कलायै नमः ।
ॐ ब्रह्मघण्टाहस्तायै नमः ।
ॐ सुरेश्वर्यै नमः ।
ॐ श्रीविद्यापीठ-संस्थानायै नमः ।
ॐ चतुर्युग-सुरार्चितायै नमः ।
ॐ श्रीकालचक्रेशानायै नमः । (१८०)
ॐ मीनार्क्षार्कायन-स्थितायै नमः ।
ॐ अयनादि-श‍ृङ्गारान्त-प्राकारस्थायै नमः ।
ॐ तटित्प्रभायै नमः ।
ॐ वनर्क्ष-देवपक्षादि-प्रभावायै नमः ।
ॐ ललिताकृतये नमः ।
ॐ पद्माटवीप्रभायै नमः ।
ॐ वीरभद्रनाथ-प्रभदायै नमः ।
ॐ नागानन्देन्द्र-युग्माभायै नमः ।
ॐ मर्त्यानन्द-द्वयप्रभायै नमः ।
ॐ स्वर्गानन्देश-युग्माभायै नमः । (१९०)
ॐ पवनानन्द-युग्माभायै नमः ।
ॐ गगनानन्द-युग्मश्रियै नमः ।
ॐ रेखात्रयायै नमः ।
ॐ चतुर्द्वारायै नमः ।
ॐ बीजालङ्कार-मण्डितायै नमः ।
ॐ शाकम्भर्यै नमः ।
ॐ ईशानदेव्यै नमः ।
ॐ इन्दुशेखर-सत्सख्यै नमः ।
ॐ अघोरायै नमः ।
ॐ अर्धनारीश्वरायै नमः । (२००)
ॐ वह्निनेत्रायै नमः ।
ॐ विषोद्धारायै नमः ।
ॐ भेरेन्दुशेखर-सख्यै नमः ।
ॐ तमोवृत्ति-स्थिताकारायै नमः ।
ॐ नारायण्यै नमः ।
ॐ त्रिविक्रमायै नमः ।
ॐ केशव्यै नमः ।
ॐ माधव्यै नमः ।
ॐ ध्रुवायै नमः ।
ॐ गोविन्दायै नमः । (२१०)
ॐ वैष्णव्यै नमः ।
ॐ विद्यायै नमः ।
ॐ मधुघ्न्यै नमः ।
ॐ मानवोरुगायै नमः ।
ॐ श्रीधरायै नमः ।
ॐ हृषीकेशायै नमः ।
ॐ कमलायै नमः ।
ॐ कमलोदरायै नमः ।
ॐ कमलाक्ष्यै नमः ।
ॐ तेजोवृतायै नमः । (२२०)
ॐ स्थानायै नमः ।
ॐ राजन्यै नमः ।
ॐ चतुर्मुख्यै नमः ।
ॐ चतुर्वक्त्रायै नमः ।
ॐ दिगन्तरायै नमः ।
ॐ चतुरश्र-गेहिण्यै नमः ।
ॐ उग्रायै नमः ।
ॐ चतुरश्र-तनुश्रितायै नमः ।
ॐ चतुर्वर्गायै नमः ।
ॐ त्रयीरूपायै नमः । (२३०)
ॐ त्रिमुखायै नमः ।
ॐ त्रिकालगायै नमः ।
ॐ त्रिरेखायै नमः ।
ॐ त्रिगुणायै नमः ।
ॐ सिद्धायै नमः ।
ॐ त्रिमूर्तिसिद्धि-संज्ञिकायै नमः ।
ॐ त्रैलोक्यमोहन-प्रकटायै नमः ।
ॐ मुद्राद्यायुधान्वयायै नमः ।
ॐ परिवारायै नमः ।
ॐ वाहनाढ्यायै नमः । (२४०)
ॐ सोपचाराङ्ग-देवतायै नमः ।
ॐ सर्वाशापूर-चक्राङ्गायै नमः ।
ॐ कामाकर्षणी-पूरितायै नमः ।
ॐ बुद्ध्याकारायै नमः ।
ॐ अहङ्कारायै नमः ।
ॐ शब्दायै नमः ।
ॐ स्पर्शायै नमः ।
ॐ रूपिण्यै नमः ।
ॐ रसायै नमः ।
ॐ गन्धायै नमः । (२५०)
ॐ चित्तायै नमः ।
ॐ धैर्यायै नमः ।
ॐ स्मृत्यायै नमः ।
ॐ नामाकार्षिणिकास्मितायै नमः ।
ॐ बीजाकर्षिण्यै नमः ।
ॐ आत्माकर्षिण्यै नमः ।
ॐ अमृताकर्षिण्यै नमः ।
ॐ शरीराकर्षणगुणायै नमः ।
ॐ कलायै नमः ।
ॐ नित्यार्चनक्रमायै नमः । (२६०)
ॐ त्रितयायै नमः ।
ॐ अष्टदलाब्जायै नमः ।
ॐ सर्वसङ्क्षोभणरतायै नमः ।
ॐ अनङ्गकुसुमायै नमः ।
ॐ अनङ्गमेखलायै नमः ।
ॐ अनङ्गमन्मथायै नमः ।
ॐ कामातुरायै नमः ।
ॐ अनङ्गरेखायै नमः ।
ॐ अनङ्गजीवन-वर्धनायै नमः ।
ॐ कामाङ्कुशायै नमः । (२७०)
ॐ अनङ्गमालायै नमः ।
ॐ गुप्तयोगिन्यै नमः ।
ॐ अमोघदायै नमः ।
ॐ सौभाग्यदायकायै नमः ।
ॐ सौम्यायै नमः ।
ॐ मनुकोणान्तरस्थितायै नमः ।
ॐ सङ्क्षोभिण्यै नमः ।
ॐ द्राविण्यै नमः ।
ॐ आकृष्टायै नमः ।
ॐ आह्लादिन्यै नमः । (२८०)
ॐ सम्मोहायै नमः ।
ॐ जम्भिन्यै नमः ।
ॐ मोहिन्यै नमः ।
ॐ स्तम्भिन्यै नमः ।
ॐ सुवश्यायै नमः ।
ॐ सर्वरञ्जन्यै नमः ।
ॐ उन्मादिन्यै नमः ।
ॐ अर्थसाध्यायै नमः ।
ॐ स्रवत्यै नमः ।
ॐ मन्त्रमालिन्यै नमः । (२९०)
ॐ द्वन्द्वक्षयकरायै नमः ।
ॐ सर्वसम्प्रदाययोगिन्यै नमः ।
ॐ सिद्धिप्रदायै नमः ।
ॐ सम्पत्प्रदायै नमः ।
ॐ प्रियङ्कर्यै नमः ।
ॐ मङ्गलकारिण्यै नमः ।
ॐ कामप्रदायै नमः ।
ॐ अघहरायै नमः ।
ॐ मृत्युघ्न्यै नमः ।
ॐ विघ्ननाशिन्यै नमः । (३००)
ॐ सर्वाङ्गसुन्दर्यै नमः ।
ॐ सर्वसौभाग्यायै नमः ।
ॐ कुलयोगिन्यै नमः ।
ॐ सर्वकर्त्र्यै नमः ।
ॐ सर्वसिद्धायै नमः ।
ॐ सर्वज्ञायै नमः ।
ॐ सर्वशक्तिकायै नमः ।
ॐ ऐश्वर्यदायै नमः ।
ॐ ज्ञानदायै नमः ।
ॐ सर्वव्याधि-विनाशिन्यै नमः । (३१०)
ॐ सर्वाधारायै नमः ।
ॐ पापहरायै नमः ।
ॐ आनन्दायै नमः ।
ॐ सकलायै नमः ।
ॐ वनायै नमः ।
ॐ सर्वेप्सिताङ्कुश-धरायै नमः ।
ॐ निगर्भाह्वय-योगिन्यै नमः ।
ॐ वशिन्यै नमः ।
ॐ वाक्कामिकायै नमः ।
ॐ मोहिन्यै नमः । (३२०)
ॐ विमलायै नमः ।
ॐ अरुणायै नमः ।
ॐ जयिन्यै नमः ।
ॐ वागीश्वर्यै नमः ।
ॐ वाक्कारिण्यै नमः ।
ॐ गुह्ययोगिन्यै नमः ।
ॐ खेचरीमुद्रिकायै नमः ।
ॐ सर्वसिद्धिदायै नमः ।
ॐ बुद्धिदायै नमः ।
ॐ जितायै नमः । (३३०)
ॐ विजृम्भणायै नमः ।
ॐ पुष्पबाणायै नमः ।
ॐ सम्मोहायै नमः ।
ॐ पुष्पधनुर्धरायै नमः ।
ॐ वशङ्करायै नमः ।
ॐ पुष्पपाशायै नमः ।
ॐ स्तम्भनायै नमः ।
ॐ कुसुमाङ्कुशायै नमः ।
ॐ विश्वात्मकोश-हृदयायै नमः ।
ॐ तदुक्ति-मन्त्रायै नमः । (३४०)
ॐ समन्वयायै नमः ।
ॐ परादिशक्ति-संविदे नमः ।
ॐ स्फुरत्यै नमः ।
ॐ नमस्कृतायै नमः ।
ॐ पक्षायै नमः ।
ॐ मध्यबिन्दुस्थितायै नमः ।
ॐ त्रिकोणायै नमः ।
ॐ अष्टकोणगायै नमः ।
ॐ तदन्तर-चतुस्स्थानायै नमः ।
ॐ दशारद्वय-संस्थितायै नमः । (३५०)
ॐ चतुर्दश-महाकोणायै नमः ।
ॐ अष्टपत्राब्ज-संस्थितायै नमः ।
ॐ षोडशछदनाब्जस्थायै नमः ।
ॐ वृत्तत्रय-सुवेष्टितायै नमः ।
ॐ चतुरश्र-त्रिरेखायै नमः ।
ॐ सिंहासनायै नमः ।
ॐ श्रीचक्रस्थायै नमः ।
ॐ त्रिकोणान्तर-बिन्दुगायै नमः ।
ॐ आनन्दमय-चक्राभायै नमः ।
ॐ मणितल्प-समाश्रयायै नमः । (३६०)
ॐ ब्रह्म-विष्णु-कपर्दीश-मञ्चपादोत्तमप्रभायै नमः ।
ॐ षट्त्रिंशत्-तत्त्वसोपानायै नमः ।
ॐ महेश्वरफलकप्रभायै नमः ।
ॐ हंसतूल-चतुष्काढ्यायै नमः ।
ॐ कौसुम्भ-वसनास्तरायै नमः ।
ॐ कामेश्वरी-कामेश्वराख्यायै नमः ।
ॐ अतिरहस्य-मनुप्रभायै नमः ।
ॐ बिलान्त-दर्पण-सद्यनामरूपायै नमः ।
ॐ सर्वफलप्रदायै नमः ।
ॐ कामेश्वरानन्द-युक्तायै नमः । (३७०)
ॐ मन्त्रद्वय-सुगोपितायै नमः ।
ॐ पञ्चकूट-महाविद्यायै नमः ।
ॐ मूलविद्यायै नमः ।
ॐ कुण्डलिन्यै नमः ।
ॐ शिवतेजः समागमायै नमः ।
ॐ सुधाधार-स्वरूपिण्यै नमः ।
ॐ निर्भराज्ञायै नमः ।
ॐ स्थाणुगतायै नमः ।
ॐ दिव्यपुष्पवर्षितायै नमः ।
ॐ परामृतप्रियायै नमः । (३८०)
ॐ साध्यायै नमः ।
ॐ महापद्मासन-स्थितायै नमः ।
ॐ सर्वभूतहितायै नमः ।
ॐ साध्व्यै नमः ।
ॐ कारणानन्द-विग्रहायै नमः ।
ॐ देवदेवेश्यै नमः ।
ॐ भक्तसुलभायै नमः ।
ॐ सर्वाभरण-सम्युक्तायै नमः ।
ॐ दशमुद्रायै नमः ।
ॐ सुप्रसन्नायै नमः । (३९०)
ॐ स्नान-मण्डप-प्रवेशितायै नमः ।
ॐ चतुष्षष्टि-उपचाराङ्ग-शोभितायै नमः ।
ॐ कामेश्वर्यै नमः ।
ॐ भगायै नमः ।
ॐ नित्यक्लिन्नायै नमः ।
ॐ भेरुण्डायै नमः ।
ॐ इन्दुरेखायै नमः ।
ॐ वह्निवासिन्यै नमः ।
ॐ महाविद्यायै नमः ।
ॐ शिवदूत्यै नमः । (४००)
ॐ त्वरितायै नमः ।
ॐ कुलसुन्दर्यै नमः ।
ॐ नित्यायै नमः ।
ॐ नीलपताकायै नमः ।
ॐ विजयायै नमः ।
ॐ सर्वमङ्गलायै नमः ।
ॐ ज्वालामालिन्यै नमः ।
ॐ चित्रायै नमः ।
ॐ शुक्लपक्षादिक्रमायै नमः ।
ॐ कामेश्वरी-संश्रिताद्यायै नमः । (४१०)
ॐ कृष्णपक्ष-अक्रमान्वितायै नमः ।
ॐ तिथि-नित्यार्चनानन्दायै नमः ।
ॐ महात्रिपुरसुन्दर्यै नमः ।
ॐ गुरुपङ्क्त्यार्चित-ख्यातायै नमः ।
ॐ हृदयादि-षडर्चितायै नमः ।
ॐ अणिमाद्यष्टसिद्ध्यर्चितायै नमः ।
ॐ अणिमायै नमः ।
ॐ लघिमायै नमः ।
ॐ महिमायै नमः ।
ॐ ईशित्वायै नमः । (४२०)
ॐ वशित्वायै नमः ।
ॐ प्राकाम्यायै नमः ।
ॐ भुक्तये नमः ।
ॐ इच्छायै नमः ।
ॐ प्राप्त्यै नमः ।
ॐ मोक्षदायै नमः ।
ॐ ब्राह्म्यै नमः ।
ॐ ब्रह्मरूपायै नमः ।
ॐ माहेश्वर्यै नमः ।
ॐ माहेश्वररूपायै नमः । (४३०)
ॐ कौमार्यै नमः ।
ॐ गुहरूपायै नमः ।
ॐ वैष्णव्यै नमः ।
ॐ वैष्णवप्रभायै नमः ।
ॐ वाराह्यै नमः ।
ॐ वराहरूपायै नमः ।
ॐ माहेन्द्राण्यै नमः ।
ॐ इन्द्ररूपायै नमः ।
ॐ चामुण्ड्यै नमः ।
ॐ महोत्तमायै नमः । (४४०)
ॐ महालक्ष्म्यै नमः ।
ॐ चित्ररूपायै नमः ।
ॐ अष्टभैरवसेवितायै नमः ।
ॐ चतुर्द्वाराञ्चिताकृतये नमः ।
ॐ पश्चिमादिदिशे नमः ।
ॐ प्रागादिदिशे नमः ।
ॐ दिग्विदिक्क्रमशार्चनायै नमः ।
ॐ बलिप्रदानसन्तुष्टायै नमः ।
ॐ कुलदीपप्रदर्शिन्यै नमः ।
ॐ सर्वमन्त्रेश्वर्यै नमः । (४५०)
ॐ सर्वमन्त्रेशायै नमः ।
ॐ तन्त्रनायिकायै नमः ।
ॐ पात्रत्रय-क्रमानन्दायै नमः ।
ॐ स्थूलदेह-प्रशोधिन्यै नमः ।
ॐ मायायै नमः ।
ॐ कालात्मिकायै नमः ।
ॐ तत्त्वायै नमः ।
ॐ सूक्ष्मदेहादि-शोधिन्यै नमः ।
ॐ भूम्यात्मक-सुरायै नमः ।
ॐ नाभायै नमः । (४६०)
ॐ परापराङ्गशोधनायै नमः ।
ॐ तत्त्वत्रयस्वरूपायै नमः ।
ॐ गुरुशिक्षापरम्परायै नमः ।
ॐ जगद्गुरु-ख्यातमूर्तये नमः ।
ॐ जगज्जनन्यै नमः ।
ॐ सुहृदे नमः ।
ॐ हेमचक्रायै नमः ।
ॐ ताम्रचक्रायै नमः ।
ॐ सुलोहजायै नमः ।
ॐ पट्टालिस्थायै नमः । (४७०)
ॐ भद्राङ्गायै नमः ।
ॐ भूर्जलिस्थायै नमः ।
ॐ पञ्चशक्तये नमः ।
ॐ चतुर्वह्नये नमः ।
ॐ तद्विलासाञ्जनात्मिकायै नमः ।
ॐ भू-गृहायै नमः ।
ॐ स्वरपत्राब्जायै नमः ।
ॐ निस्वरायै नमः ।
ॐ भुवनाश्रितायै नमः ।
ॐ दशारद्वययुतायै नमः । (४८०)
ॐ अष्टारायै नमः ।
ॐ त्रयश्रायै नमः ।
ॐ मध्यायै नमः ।
ॐ भेदनायै नमः ।
ॐ संहारादि-क्रमाख्यायै नमः ।
ॐ नवरेखा-क्रमाकृतये नमः ।
ॐ बाह्यवृत्तायै नमः ।
ॐ अष्टपत्रस्थायै नमः ।
ॐ बाह्यवृत्त-स्वरूपाम्बुजायै नमः ।
ॐ व्योमवृत्तायै नमः । (४९०)
ॐ चतुर्द्वारायै नमः ।
ॐ चतुरश्रक्रमार्चितायै नमः ।
ॐ शान्तिपाठायै नमः ।
ॐ आनन्दसुखायै नमः ।
ॐ जगत्यज्ञ-फलप्रदायै नमः ।
ॐ स्वर्गाधिक-बलैश्वर्यप्रदायै नमः ।
ॐ द्विभुजायै नमः ।
ॐ स्वर्णविग्रहायै नमः ।
ॐ बिलोर्ध्व-काञ्चि-संस्थानायै नमः ।
ॐ पञ्चयोजन-मानकायै नमः । (५००)
ॐ बिलाष्ट-दिग्देवता-रक्षायै नमः ।
ॐ तत्-तत्-नाम प्रकाशितायै नमः ।
ॐ प्राग्-असुरेश्वराराध्यायै नमः ।
ॐ ज्वरघ्नेश्वरपूजितायै नमः ।
ॐ अग्निदिग्-मणिरुद्रेश्वरेज्यायै नमः ।
ॐ दक्षिण-अंशुकर-स्तुतायै नमः ।
ॐ अध्यापकेश्वराराध्यायै नमः ।
ॐ वेदपुर्यालायार्चितायै नमः ।
ॐ वाराहेश-स्तुताकारायै नमः ।
ॐ कायारोहाम्बु-वासिन्यै नमः । (५१०)
ॐ नैरृत्या-इन्द्रेश्वरनुतायै नमः ।
ॐ चिदम्बरेश-पूजितायै नमः ।
ॐ कच्छपेशार्चित-फलायै नमः ।
ॐ पश्चिमादिशि-संवृतायै नमः ।
ॐ वायव्य-भार्गवेशाराध्यायै नमः ।
ॐ एकाम्रेशाङ्क-संस्थितायै नमः ।
ॐ बिलान्तरे-श्रितनुतायै नमः ।
ॐ बिलाग्नेये-हरिस्तुतायै नमः ।
ॐ वेगवत्याम्बु-रोधायै नमः ।
ॐ इभगिरीनद्र-स्तुतायै नमः । (५२०)
ॐ रामेश्वर-स्तुतायै नमः ।
ॐ रामकृष्ण-स्तुतायै नमः ।
ॐ पराक्रमायै नमः ।
ॐ सभाङ्गायै नमः ।
ॐ नरसिंहाभायै नमः ।
ॐ शेषपूजित-बिलान्तरमयायै नमः ।
ॐ शेषपत्न्यार्चितायै नमः ।
ॐ रत्नदीपाङ्गार्चितायै नमः ।
ॐ मोहायै नमः ।
ॐ त्रिविक्रमाकृतये नमः । (५३०)
ॐ हंसरूपायै नमः ।
ॐ अष्टभुजरूपिण्यै नमः ।
ॐ बिलेशान्ये-पतङ्गेशायै नमः ।
ॐ श्मशानेशामृत-प्रभायै नमः ।
ॐ पञ्चतीर्थ-भृगु-स्नातायै नमः ।
ॐ विष्णुपञ्चक-दर्शिन्यै नमः ।
ॐ अष्टादश-श्रीपतिरक्षायै नमः ।
ॐ काञ्चीनाम-द्वयेश्वर्यै नमः ।
ॐ चतुर्नागर-वेलायै नमः ।
ॐ बिल-प्रागिन्द्रपट्टणायै नमः । (५४०)
ॐ बिल-दक्षिणासम्याम्यै नमः ।
ॐ बिल-पश्चिम-वैधिन्यै नमः ।
ॐ बिलोत्तरे-श्रीशपुरायै नमः ।
ॐ ग्रामदेव-जनार्चितायै नमः ।
ॐ पुत्रायै नमः ।
ॐ त्रिपुरदायिन्यै नमः ।
ॐ भ्रामर्यै नमः ।
ॐ कृतोत्सवायै नमः ।
ॐ महादूरार्चितायै नमः ।
ॐ शीघ्रफलदायै नमः । (५५०)
ॐ कामरूपिण्यै नमः ।
ॐ एकपादायै नमः ।
ॐ द्विपादायै नमः ।
ॐ चतुष्पादायै नमः ।
ॐ अष्टपादायै नमः ।
ॐ नवपादायै नमः ।
ॐ अन्नगलायै नमः ।
ॐ गौर्ये नमः ।
ॐ सहस्राक्षर-मालिकायै नमः ।
ॐ सर्वराक्षस-संहार-सङ्कल्पायै नमः । (५६०)
ॐ सत्यवादिन्यै नमः ।
ॐ कौशिक-ख्याति-सम्युक्तायै नमः ।
ॐ चण्ड्यै नमः ।
ॐ अनेकविग्रहायै नमः ।
ॐ जपाकुसुम-सङ्काशायै नमः ।
ॐ सप्ताश्वरथ-मध्यस्थायै नमः ।
ॐ हेमपीठासनायै नमः ।
ॐ प्रियङ्गु-कलिकप्रभायै नमः ।
ॐ धृतवेणु-करद्वयायै नमः ।
ॐ मृगेन्द्ररथ-मध्यस्थायै नमः । (५७०)
ॐ रौप्यपीठासनायै नमः ।
ॐ सुधापात्राधारायै नमः ।
ॐ कृष्णदुग्धाभायै नमः ।
ॐ वृद्धिकारिण्यै नमः ।
ॐ मत्तेभ-रथमध्यस्थायै नमः ।
ॐ माणिक्य-मणिपीठगायै नमः ।
ॐ माणिक्य-वर्णायै नमः ।
ॐ माणिक्य-पूर्णपात्र-करद्वयायै नमः ।
ॐ कृष्णाश्व-रथमध्यस्थायै नमः ।
ॐ वज्रपीठासन-स्थितायै नमः । (५८०)
ॐ पाण्डुराभायै नमः ।
ॐ मधु-घृत-सत्पात्रद्वयधारिण्यै नमः ।
ॐ नवनिधिप्रभायै नमः ।
ॐ नक्र-रथस्थायै नमः ।
ॐ विद्रुमासनायै नमः ।
ॐ दध्यान्न-प्रदानायै नमः ।
ॐ भू-समृद्धिदायै नमः ।
ॐ गो-रथस्थायै नमः ।
ॐ गारुत्ममणि-पिङ्गायै नमः ।
ॐ व्याख्यान-पुस्तकधरायै नमः । (५९०)
ॐ सर्वविद्या-प्रदायिन्यै नमः ।
ॐ रक्तमेष-रथारूढायै नमः ।
ॐ सुपुष्प-मणिपिङ्गायै नमः ।
ॐ वीणाधृत-करद्वन्द्वायै नमः ।
ॐ दूर्वावर्णायै नमः ।
ॐ अखिलार्थदायै नमः ।
ॐ महाव्याघ्र-रथस्थायै नमः ।
ॐ गोमेदक-सुपिङ्गायै नमः ।
ॐ मेचकाभायै नमः ।
ॐ कुम्भाक्षस्रक्-कराद्वेष्टि-वर्धनायै नमः । (६००)
ॐ गोपालरथमध्यस्थायै नमः ।
ॐ वैडूर्य-मणिपिङ्गायै नमः ।
ॐ सजोषस-करायै नमः ।
ॐ आदर्श-चामर-द्वयधारिण्यै नमः ।
ॐ वाराह-रथमध्यस्थायै नमः ।
ॐ पद्माख्य-मणिपीठगायै नमः ।
ॐ पुष्पमालास्रक्-विशायै नमः ।
ॐ सालापुक-रथस्थायै नमः ।
ॐ शुद्धस्फटिक-पीठगायै नमः ।
ॐ रजिताभायै नमः । (६१०)
ॐ अष्टपुत्रदायै नमः ।
ॐ पायसाढ्य-स्वर्णपात्रकरायै नमः ।
ॐ वेश्मप्रदायिन्यै नमः ।
ॐ भल्लूक-रथमध्यस्थायै नमः ।
ॐ लसन्मरकतासनायै नमः ।
ॐ नानाविधातिमधुर-फलपात्रदायै नमः ।
ॐ सिद्धिदायै नमः ।
ॐ रतिप्रदायै नमः ।
ॐ ऐणरथस्थितायै नमः ।
ॐ कर्मणि-मणिपीठगायै नमः । (६२०)
ॐ सूर्याभायै नमः ।
ॐ दिव्य-गन्धाढ्यायै नमः ।
ॐ हेमपात्रदायै नमः ।
ॐ शुभाक्षदायै नमः ।
ॐ सारङ्ग-रथमध्यस्थायै नमः ।
ॐ प्रयोग-मणिपीठगायै नमः ।
ॐ नानाभरण-सम्पूर्णपात्रदायै नमः ।
ॐ मणिप्रभायै नमः ।
ॐ रासभेन्द्र-रथस्थायै नमः ।
ॐ विचित्र-मणिपीठगायै नमः । (६३०)
ॐ पुष्यराग-प्रकाशायै नमः ।
ॐ शीतलायै नमः ।
ॐ चतुर्विधान्न-सम्पूर्णपात्रदायै नमः ।
ॐ हेममालिन्यै नमः ।
ॐ गोमयूर-रथसंस्थायै नमः ।
ॐ निशाकार-सुपीठगायै नमः ।
ॐ सस्यपूर्णायै नमः ।
ॐ स्वर्णपात्रदायिन्यै नमः ।
ॐ शिंशुपा-प्रभायै नमः ।
ॐ सलिल-रथमध्यस्थायै नमः । (६४०)
ॐ इन्द्रनील-शिलासनायै नमः ।
ॐ गोमेधक-प्रभायै नमः ।
ॐ हेमपूर्णपात्र-प्रदायिन्यै नमः ।
ॐ महोष्ट्र-रथमध्यस्थायै नमः ।
ॐ पुन्नाग-कुसुमप्रभायै नमः ।
ॐ मुक्तापीठस्थायै नमः ।
ॐ दिव्यपुष्पस्रक्-पात्रधारिण्यै नमः ।
ॐ गण्डभेरण्ड-रथगायै नमः ।
ॐ सुदाम-मणिपीठगायै नमः ।
ॐ अशोकपुष्प-सङ्काशायै नमः । (६५०)
ॐ रौप्यपात्रायै नमः ।
ॐ अन्नदायिन्यै नमः ।
ॐ चमरी-रथारोहणायै नमः ।
ॐ सुधाकर-शिलाननायै नमः ।
ॐ हेमाभायै नमः ।
ॐ षड्रसोपेत-रुक्म-पात्रप्रदायिन्यै नमः ।
ॐ शरभेन्द्र-रथस्थायै नमः ।
ॐ ऐश्वर्य-मणिपीठगायै नमः ।
ॐ सन्तान-कुसुमप्रभायै नमः ।
ॐ सम्पत्पात्र-प्रदायिन्यै नमः । (६६०)
ॐ महाहंस-रथस्थायै नमः ।
ॐ केतकी-कुसुमप्रभायै नमः ।
ॐ वैराग्य-मणिपीठस्थायै नमः ।
ॐ ज्ञानदायै नमः ।
ॐ तत्त्वमुद्रिकायै नमः ।
ॐ महामयूर-रथगायै नमः ।
ॐ मध्यन्दिन-रविप्रभायै नमः ।
ॐ सद्धर्म-मणिपीठस्थायै नमः ।
ॐ योगमुद्रा-करद्वयायै नमः ।
ॐ गारुत्मरथ-मध्यस्थायै नमः । (६७०)
ॐ तत्त्वमाणिक्य-पीठगायै नमः ।
ॐ चिन्मुद्रा-करयुग्मायै नमः ।
ॐ ज्ञानदायै नमः ।
ॐ सूर्यकान्तिकायै नमः ।
ॐ महेन्द्ररथ-मध्यस्थायै नमः ।
ॐ विज्ञान-मणिपीठगायै नमः ।
ॐ स्फटिकाभायै नमः ।
ॐ तत्त्वदायै नमः ।
ॐ आत्ममुद्रा-करद्वयायै नमः ।
ॐ महाभूत-रथस्थायै नमः । (६८०)
ॐ योगमाणिक्य-पीठगायै नमः ।
ॐ आनन्दायै नमः ।
ॐ अमृत-सङ्काशायै नमः ।
ॐ चामुण्डायै नमः ।
ॐ आत्मैक्य-दायिन्यै नमः ।
ॐ मानुष्य-पुष्पक-रथस्थितायै नमः ।
ॐ आनन्दाकृति-सङ्काशायै नमः ।
ॐ ताम्राङ्गायै नमः ।
ॐ अभीष्टदायिन्यै नमः ।
ॐ सुधावारिधि-सञ्चारायै नमः । (६९०)
ॐ मध्यहेम-महिचरायै नमः ।
ॐ मद्योद्यान-समिक्षायै नमः ।
ॐ चन्द्र-ज्योत्स्ना-विराजितायै नमः ।
ॐ वसन्त-कामार्चितायै नमः ।
ॐ भृङ्गोद्यान-हर्षितायै नमः ।
ॐ सर्व-ऋतु-दिव्यकुसुम-धरायै नमः ।
ॐ स्वनील-सेवितायै नमः ।
ॐ सुवर्ण-मण्टपस्थायै नमः ।
ॐ चतुरश्र-विशोभितायै नमः ।
ॐ सुगन्ध-धूप-दीपायै नमः । (७००)
ॐ सुपुष्पाकृत-मालिकायै नमः ।
ॐ शतयोजन-वेदि-श्रीचक्रस्थायै नमः ।
ॐ मणिमण्डितायै नमः ।
ॐ माणिक्यतोरण-द्वारायै नमः ।
ॐ मणिदर्पण-दर्शनायै नमः ।
ॐ सुवर्णापूर्ण-कुम्भायै नमः ।
ॐ गान्धर्वस्तोत्र-जृंहितायै नमः ।
ॐ गान्धर्वरस-शोभितायै नमः ।
ॐ श‍ृङ्गार-शोभायै नमः ।
ॐ वीणा-वाद्यादि-तोषितायै नमः । (७१०)
ॐ पुष्पपर्यङ्किलायै नमः ।
ॐ योनिमध्यस्थायै नमः ।
ॐ ओड्याण-पीठगायै नमः ।
ॐ सुस्पस्थिकायै नमः ।
ॐ सुखासीनायै नमः ।
ॐ बालार्क-किरणारुणायै नमः ।
ॐ जपाकुसुम-सङ्काशायै नमः ।
ॐ दाडिमी-कुसुमोपमायै नमः ।
ॐ स्फुरन्मकुटायै नमः ।
ॐ माणिक्य-किङ्किणिजाल-मण्डितायै नमः । (७२०)
ॐ लीलान्दोलित-नेत्रायै नमः ।
ॐ सुगन्धायै नमः ।
ॐ शुभनासिकायै नमः ।
ॐ स्थिर-माधुर्यायै नमः ।
ॐ रुचिरायै नमः ।
ॐ माधुर्यरस-सागरायै नमः ।
ॐ अनौपम्य-गुणोपेतायै नमः ।
ॐ चुबुकोद्देश-शोभितायै नमः ।
ॐ मृणालाच्छा-भुजायै नमः ।
ॐ रक्तोत्पलाकृतये नमः । (७३०)
ॐ सुकुमाराङ्घ्रि-हस्ताब्जायै नमः ।
ॐ नखान्दीप्तायै नमः ।
ॐ नभस्थायै नमः ।
ॐ मुक्ताहार-लतोपेतायै नमः ।
ॐ समुन्नत-पयोधरायै नमः ।
ॐ त्रिवलीयुक्त-मध्यगायै नमः ।
ॐ नतनाभि-विराजितायै नमः ।
ॐ रक्त-काञ्चीयुक्तायै नमः ।
ॐ रोमराजि-वराङ्कुशायै नमः ।
ॐ सुकुमारोरुयुगलायै नमः । (७४०)
ॐ गूढगुल्फ-पदद्वयायै नमः ।
ॐ तनुदीर्घाङ्गुलीयकायै नमः ।
ॐ विशेष-स्वचराणाम्बुजायै नमः ।
ॐ शीतांशु-कान्ति-हासाभायै नमः ।
ॐ जगदानन्द-कारणायै नमः ।
ॐ जगदानन्द-जनन्यै नमः ।
ॐ जगत्कारण-रूपिण्यै नमः ।
ॐ जगदाकर्षणकर्यै नमः ।
ॐ सर्वमन्त्रमयायै नमः ।
ॐ प्रभायै नमः । (७५०)
ॐ सौभाग्यसुन्दर्यै नमः ।
ॐ रक्तपद्मस्थायै नमः ।
ॐ रक्तभूषणायै नमः ।
ॐ चतुर्भुजायै नमः ।
ॐ त्रिनेत्रायै नमः ।
ॐ पञ्चबाणधरायै नमः ।
ॐ धनुर्धरायै नमः ।
ॐ दिव्यताम्बूल-वक्त्रायै नमः ।
ॐ कर्पूरोद्वासिताननायै नमः ।
ॐ बिल-बाह्यरत-ख्यातये नमः । (७६०)
ॐ बिलान्तर्गुह्यचारिण्यै नमः ।
ॐ चतुर्विंशत्यवतारायै नमः ।
ॐ तत्त्वर्णन्यास-मालिकायै नमः ।
ॐ ध्यानभेद-गतिक्रमायै नमः ।
ॐ विनताष-भैदाख्यायै नमः ।
ॐ सौङ्कारायै नमः । (स-ओं-कारायै नमः)
ॐ व्याहृतित्रयायै नमः ।
ॐ पञ्चाशत्-वर्ण-मालाख्यायै नमः ।
ॐ कालब्रह्मानुसारिण्यै नमः ।
ॐ लक्षयोगायै नमः । (७७०)
ॐ महानन्दायै नमः ।
ॐ तदङ्गायै नमः । (तत्-अङ्गायै नमः)
ॐ विनिश्चित-वत्सरायै नमः ।
ॐ शार्ङ्गायै नमः ।
ॐ चम्पक-पुष्पाभायै नमः ।
ॐ बिन्दुमध्यस्थितायै नमः ।
ॐ मोक्षफलदायै नमः ।
ॐ व्यञ्जनाञ्चितायै नमः ।
ॐ साङ्गायै नमः । (स-अङ्गायै नमः)
ॐ अतसीपुष्पकान्त्यै नमः । (७८०)
ॐ श्वेतपङ्कज-संस्थितायै नमः ।
ॐ वराभय-करद्वन्द्वायै नमः ।
ॐ महाघौघ-निवारिण्यै नमः ।
ॐ व्यङ्गायै नमः । (वि-अङ्गायै नमः)
ॐ विद्रुम-सङ्काशायै नमः ।
ॐ द्विभुजायै नमः ।
ॐ कुमुदाननायै नमः ।
ॐ खड्गधरायै नमः ।
ॐ चर्मधरायै नमः ।
ॐ क्रूर-ब्रह्महत्याघहारिण्यै नमः । (७९०)
ॐ तुरङ्गायै नमः । (तुः अङ्गायै नमः)
ॐ नकुली-निलयायै नमः ।
ॐ द्विकरायै नमः ।
ॐ स्फटिकप्रभायै नमः ।
ॐ धनुर्धरायै नमः ।
ॐ बाणधरायै नमः ।
ॐ अवार्य-सुरापान-हारिण्यै नमः ।
ॐ वाङ्गायै नमः । (व-अङ्गायै नमः)
ॐ पद्मकुम्भायै नमः ।
ॐ शक्तिधारिण्यै नमः । (८००)
ॐ तोमरधारिण्यै नमः ।
ॐ उत्पलोदर-मध्यस्थायै नमः ।
ॐ स्वर्णस्तेयाघ-हारिण्यै नमः ।
ॐ रेङ्गायै नमः । (रे-अङ्गायै नमः)
ॐ शयाङ्कुशासीनायै नमः ।
ॐ द्विभुजायै नमः ।
ॐ रक्ताङ्गाभायै नमः ।
ॐ कुन्तधरायै नमः ।
ॐ मुष्टिधरायै नमः ।
ॐ गुरुतल्पाघ-हारिण्यै नमः । (८१०)
ॐ तत्सम्योगाघ-हारिण्यै नमः ।
ॐ ण्यङ्गायै नमः । (णि-अङ्गायै नमः)
ॐ पद्मरागाभायै नमः ।
ॐ कल्हारोदर-संस्थितायै नमः ।
ॐ कुठारधरायै नमः ।
ॐ कुलिशधरायै नमः ।
ॐ यमङ्गायै नमः । (यं-अङ्गायै नमः)
ॐ तरुणार्काभायै नमः ।
ॐ लसत्-कुवलयालयायै नमः ।
ॐ त्रिशूलधरायै नमः । (८२०)
ॐ खेटकधरायै नमः ।
ॐ भ्रूणहत्याघ-हारिण्यै नमः ।
ॐ भाङ्गायै नमः । (भ-अङ्गायै नमः)
ॐ दिव्यशङ्खाभायै नमः ।
ॐ पुण्डरीकासनस्थितायै नमः ।
ॐ पाशधरायै नमः ।
ॐ अङ्कुशधरायै नमः ।
ॐ सर्ववीरहत्याघ-हारिण्यै नमः ।
ॐ र्गोङ्गायै नमः । (र्गो-अङ्गायै नमः)
ॐ कुन्दप्रसूनाभायै नमः । (८३०)
ॐ द्रुमधारिण्यै नमः ।
ॐ खट्वाङ्गधारिण्यै नमः ।
ॐ पुन्नागपुष्पमध्यस्थायै नमः ।
ॐ अश्वाहत्याघहारिण्यै नमः ।
ॐ देङ्गायै नमः । (दे-अङ्गायै नमः)
ॐ इन्दुसङ्काशायै नमः ।
ॐ मौण्डधारिण्यै नमः ।
ॐ मौसलधारिण्यै नमः ।
ॐ अशोक-कुसुमासीनायै नमः ।
ॐ गजहत्याघहारिण्यै नमः । (८४०)
ॐ वाङ्गायै नमः । (व-अङ्गायै नमः)
ॐ चम्पकस्थायै नमः ।
ॐ धृतातस-कृपाणकायै नमः । (कृपाणकातस-धृतायै नमः)
ॐ प्रवाल-सदृशाकारायै नमः ।
ॐ गोहत्याघ-हारिण्यै नमः ।
ॐ स्याङ्गायै नमः । (स्य-अङ्गायै नमः)
ॐ पद्मवक्त्राभायै नमः ।
ॐ द्रुतशङ्कादि जृम्भणायै नमः ।
ॐ पाटली-कुसुमासीनायै नमः ।
ॐ पशु-सङ्ख्यवधाघ-हारिण्यै नमः । (८५०)
ॐ धीकाराङ्गायै नमः । (धी-कार अङ्गायै नमः)
ॐ उत्पलप्रख्यायै नमः ।
ॐ धृतटङ्कायुधायै नमः ।
ॐ धृतगदायुधायै नमः ।
ॐ मल्लिका-कुसुममस्तायै नमः ।
ॐ मृगसङ्घ-वधाघहायै नमः ।
ॐ माङ्गायै नमः । (म-अङ्गायै नमः)
ॐ इन्दुनील-सङ्काशायै नमः ।
ॐ अतसी-कुसुमासीनायै नमः ।
ॐ घण्टाधरायै नमः । (८६०)
ॐ परशुधरायै नमः ।
ॐ भ्रूणादि-वधहारिण्यै नमः ।
ॐ ह्यङ्गायै नमः । हि-अङ्गायै नमः)
ॐ मौक्तिक-प्रख्यायै नमः ।
ॐ रम्भाकुसुम-मध्यस्थायै नमः ।
ॐ धृत-वेणवदण्डायै नमः ।
ॐ सर्वपक्षि-वधाघहायै नमः ।
ॐ ध्यर्णगायै नमः । (धि-अर्णगायै नमः)
ॐ डमरुकधारिण्यै नमः ।
ॐ मृगधारिण्यै नमः । (८७०)
ॐ कुङ्कुमप्रभायै नमः ।
ॐ लसत्कुसुम-पुष्पस्थायै नमः ।
ॐ सूकाराश्व-वधाघहायै नमः ।
ॐ योर्णगायै नमः । (यो-अर्णगायै नमः)
ॐ योगसदृशायै नमः ।
ॐ धत्तूर-कुसुमासनायै नमः ।
ॐ धृतमुष्टि-द्वयायै नमः ।
ॐ सर्वजलजाख्य-वधाघहायै नमः ।
ॐ योर्णाङ्गायै नमः । (यो-अर्णाङ्गायै नमः)
ॐ हरिपुष्पस्थायै नमः । (८८०)
ॐ धृतपट्टसायै नमः ।
ॐ धृतमुद्गरायै नमः ।
ॐ अज्ञानप्रति-सङ्काशायै नमः ।
ॐ सूचराख्य-वधाघहायै नमः ।
ॐ नरङ्गायै नमः । (नः अङ्गायै नमः)
ॐ वैडूर्यसदृशायै नमः ।
ॐ सन्तान-कुसुमासनायै नमः ।
ॐ धृतवेत्रायै नमः ।
ॐ धृतविषाणायै नमः ।
ॐ सर्वप्राणि-वधाघहायै नमः । (८९०)
ॐ प्राङ्गायै नमः । (प्र-अङ्गायै नमः)
ॐ क्षमारूपायै नमः ।
ॐ पलाश-कुसुमासनायै नमः ।
ॐ नखायुध-धरायै नमः ।
ॐ दंष्ट्रायुध-धरायै नमः ।
ॐ महाकपि-वधाघहायै नमः ।
ॐ चोवर्णाङ्गायै नमः । (चो-वर्णाङ्गायै नमः)
ॐ सोमपुष्प-स्थितायै नमः ।
ॐ हरिद्रासन्निभायै नमः ।
ॐ हल्लवज्रायुध-धरायै नमः । (९००)
ॐ सर्वाण्डज-वधाघहायै नमः ।
ॐ दार्णाङ्गायै नमः । (द-अर्णाङ्गायै नमः)
ॐ शङ्ख-मध्यस्थायै नमः ।
ॐ शिखि-पिञ्चप्रभायै नमः ।
ॐ अर्धचन्द्रायुध-धरायै नमः ।
ॐ मृगशाख-वधाघहायै नमः ।
ॐ यादङ्गायै नमः । (यात्-अङ्गायै नमः)
ॐ शुकपिञ्चाभायै नमः ।
ॐ सिंहासनस्थितायै नमः ।
ॐ महापातक-दन्तीन्द्र-सिंहोत्तूर्य-प्रपूरितायै नमः । (९१०)
ॐ भूः पादाख्यायै नमः ।
ॐ भुवः पदायै नमः ।
ॐ सुवः पादाकृतिक्रमायै नमः ।
ॐ त्रिपाद-भूषणायै नमः ।
ॐ तुर्यपादाख्य-भूषणायै नमः ।
ॐ षोडशाक्षर-भूषणायै नमः ।
ॐ महागायत्री-नामगायै नमः ।
ॐ द्विपञ्चाद्वर्ण-भूषायै नमः ।
ॐ छन्दोकार-किरीटिन्यै नमः ।
ॐ हंसस्सोहं-पराङ्गायै नमः । (९२०)
ॐ गुणागण-समाश्रयायै नमः ।
ॐ नमश्शिवायै नमः ।
ॐ शिवतराह्वय-सम्युक्तायै नमः ।
ॐ शिवायै नमः ।
ॐ पञ्चाख्यायै नमः ।
ॐ एकाम्रेश्वर-भामिन्यै नमः ।
ॐ पट्टाभिषेक-राज्यश्रियै नमः ।
ॐ बिलान्तःपुरवासिन्यै नमः ।
ॐ लक्षश्रीरुद्रफलदायै नमः ।
ॐ पञ्चसम्पुट-सुस्थिरायै नमः । (९३०)
ॐ श्रीमहात्रिपुरसुन्दर्यै नमः ।
ॐ श्रीकामाक्षीदेव्यै नमः । (९३२)

इति नामावलिः ।

अङ्गन्यासः -
ॐ ऐं ह्रीं श्रीं कां कएईलह्रीं हृदयाय नमः ।
ॐ ऐं ह्रीं श्रीं मां हसकहलह्रीं शिरसे स्वाहा ।
ॐ ऐं ह्रीं श्रीं क्ष्यैं सकलह्रीं शिखायै वषट् ।
ॐ ऐं ह्रीं श्रीं कां कएईलह्रीं कवचाय हुम् ।
ॐ ऐं ह्रीं श्रीं मां हसकहलह्रीं नेत्रत्रयाय वौषट् ।
ॐ ऐं ह्रीं श्रीं क्ष्यैं सकलह्रीं अस्त्राय फट् ।
ॐ भूर्भुवस्वरों इति दिग्विमोकः ॥

ध्यानं -
लम्बमानेतर-कर-ललिता स्वर्णविग्रहा ।
अम्बुजाब्जं प्रतिदक्षहस्तेनास्ते बिलाद्बहिः ॥

पञ्चपूजा -
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाय्वात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृत्मिकायै अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।

फलश्रुतिः -
इत्येतत्कथितं देवि कविप्राधान्यमुत्तमम् ।
श्रीकामाक्ष्याः सहस्रनामस्तोत्रं शीघ्रफलप्रदम् ॥१॥

योगसिद्धिप्रदं नाममन्त्रादि पठनेन च ।
बिलान्तरस्थितं यश्च बिलात्-बहिरवस्थितम् ॥२॥

यत्-रहस्यं महागोप्यं तत्समाज्ञायते स्तवात् ।
देविलोक इति प्रोक्तं बिलान्तः भूमिमण्डलम् ॥३॥

एतत्पठनमात्रेण लभते भूमिमण्डलम् ।
त्रिमूर्तीन्द्रादि लोकेभ्यो लभते सौख्यमुत्तमम् ॥४॥

खेचरत्वं सर्वलोकगमनं कामरूपता ।
त्रिमूर्तीन्द्रारादि देवर्षिपूज्यत्वं लभते पुमान् ॥५॥

स्त्रीणामनन्तफलं प्रोक्तं सद्योस्तवे न संशयः ।
ब्रह्मक्षत्रियवैश्यानां शूद्राणामस्ति तत्फलम् ॥६॥

सम्प्राप्य देवीभुवनं कुलकोटि समुद्धरेत् ।
सहस्रनाम्नः वक्तारं सर्वदा वास्त्रियोन्नरम् ॥७॥

धनधान्यप्रदानेन परिष्कुर्वन्ति पोषणम् ।
मातृतः पितृतः चैव सप्तकोटि कुलान्वितः ॥८॥

श्रीशम्भुलोकं स्वारामं प्राप्नुवन्ति न संशयः ।
त्रेतायुगे हैमवीति महागौरी तपस्विभिः ॥९॥

सहस्रनामभिः सर्वेकारिता द्वापरे युगे ।
विन्ध्याचले पूजितासि सर्वकामवरेश्वरी ॥१०॥

कलौ युगे दिव्यहोम कामाक्षी द्विभुजास्थिता ।
काञ्चीनगराभिमाना चतुर्युग-सुपूजिता ॥११॥

सहस्रनामभिर्दिव्यैः मनादि क्रमवाचितः ।
श्रीविद्याद्यवतारैश्च गायत्री वर्णधारिभिः ॥१२॥

सम्यक्सम्पूजिता नित्यं सर्वैः कामान् प्रयच्छति ।
बहुना किमिहोक्तेन नास्तैतत्सदृशं भुवि ॥१३॥

॥ इति सृष्टिसंहितायां भृगवे ब्रह्म प्रोक्त रहस्ये पञ्चमसर्गः ॥

N/A

References : N/A
Last Updated : January 12, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP