मराठी मुख्य सूची|स्तोत्रे|सहस्रनामावली| ॐ हिरण्यबाहवे हिरण्यवर्णा... सहस्रनामावली ब्रह्मानन्दं परमसुखदं केव... अथ मूलम् । ॐ श्रीं ह्रीं ... ॐ श्रीगणेशाय नमः । श्वेता... श्रीअरुणाचलेश्वरसहस्रनामावली अर्धनारीश्वरसहस्रनामावलिः ॐ हिरण्यबाहवे हिरण्यवर्णा... श्रीहनुमत्सहस्रनामावलिः ॐ श्रीगणेशाय नमः । ॐ ब्र... ॐ इन्द्राय नमः । देवतमाय ... ॐ श्रीगणेशाय नमः । ॐ नमोद... ॐ अस्य श्रीसर्वसाम्राज्यम... ध्यानम् । कान्त्या काञ्चन... ॐ श्रीगणेशाय नमः । ॐ नका... ॐ अस्य कामकलाकालीसहस्रनाम... श्री गणेशाय नमः । श्रीकाम... कालोऽहम् । अस्य श्रीकालना... शिव उवाच- नाम्नां सहस्रं ... ॐ श्मशानकालिकायै नमः । ॐ ... अथ कुञ्चितपादसहस्रनामावलि... धनं दारान्सुतान्क्षेत्रं ... षड्वक्त्रं शिखिवाहनं त्रि... ॐ कृष्णाय नमः । श्रीवल्लभ... ॐ अस्य श्रीपुराणपुरुषोत्त... श्रीगणेशाय नमः । श्रीकेदा... सितमकरनिषण्णां शुभ्रवर्णा... श्रीगणेशाय नमः । श्रीसमर्... ॐ अस्य श्रीगणपतिगकारादिसह... ॐ सुमुखाय नमः । सुवहाय । ... ध्यानम् रक्तश्वेतहिरण्यनी... ध्यानम् - रक्तश्वेतहिरण्य... ॐ शं शां षं ह्रीं क्लीं ग... अथ ध्यानम् । सूर्यस्पर्धि... ॐ श्री गुरुभ्यो नमः । गुर... ॐ श्रीगणेशाय नमः । सर्वत्... अथ श्रीगोपालदिव्यसहस्रनाम... ॐ गवे नमः । ॐ गौविन्द्यै ... श्रीगुरुभ्यो नमः । श्रीका... ॐ अस्य श्रीप्रचण्डचण्डिका... अथ श्रीयोगेश्वरकवि द्वारा... अस्य श्रीज्वालामुखीसहस्रन... विश्वव्यापकवारिमध्यविलसच्... ॐ अस्य श्रीतारासहस्रनामस्... ॐ भुवनेश्यै नमः । ॐ भुवार... ॐ अस्य श्रीमहोग्रतारा दिव... वरिष्ठ उवाच - कथं नामसहस्... ॐ तुलस्यै नमः । ॐ श्रीप्र... ॐ श्रीमत्त्यागमहाराजाय नम... श्रीगणपतये नमः । ॐ अनेजते... ध्यानम् । उद्यद्भानुसहस्र... ॐ योगेशाय नमः । ॐ अमरप्रभ... महाकालभैरव ऋषिस्त्रिष्टुप... अस्य श्रीदक्षिणामूर्तिसहस... ॐ आदिदेवाय नमः । दयासिन्ध... ध्यानम् । स्फटिकरजतवर्णां... ऋषिच्छन्दांसि - अस्य श्री... तन्त्रराजतन्त्रे पूर्वपीठ... ध्यानम् । १. सिंहस्था शशि... महामन्त्रस्य श्रीमहेश्वर ... ध्यानम् - रक्ताभां रक्तवस... ॐ श्रीमते नमः । ॐ धन्वन्त... ॐ नमो भगवते भूतनाथाय । ॐ ... ध्यानम् । विवर्णा चञ्चला ... अस्य श्री शिवकामसुन्दरीसम... ॐ अस्य श्रीनटेशसहस्रनामस्... ॐ श्री गणेशाय नमः । अस्य ... श्री गुरुभ्यो नमः । ॐ श्र... श्री गुरुभ्यो नमः । ॐ श्र... ॥ ध्यानम् ॥ श्रीमित्रेश्... श्रीराधासर्वेश्वरो विजयते... पद्मावतीशतम् ॐ श्री पद्मा... ॐ श्रीगणेशाय नमः । ॐ अस्य... अथ विनियोगः । ॐ अस्य श्री... अथ अकारादि-क्षकारान्तासहस... ॐ शिवायै नमः । उमायै । पर... ॐ श्रीकृष्णाय नमः । सच्चि... अस्य श्रीप्रणवसहस्रनामस्त... ईश्वर उवाच । शृणु देवि प... ॐ ब्रह्मास्त्राय नमः । ॐ ... श्रीमहादेव उवाच - अस्य श्... विनियोगः - ॐ अस्य श्रीबटु... रुद्रयामलोक्तबटुकभैरवसहस्... ॐ अस्य श्रीबलभद्रसहस्रनाम... ॐ ऐं ह्रीं श्रीं-आनन्दसिन... शौनक उवाच - कैलासशिखरे रम... श्रीदेव्युवाच - भगवन्भाषि... ओं ऐं ह्रीं श्रीङ्कल्याण्... ॐ परमात्मने नमः ॐ धर्मक्... ॐ निस्सीमोद्यद्गुणाय नमः ... ॐ क्रकुच्छन्दाय नमः । ॐ क... ध्यानम् - बालार्कमण्डलाभा... विनोयोगः - ॐ अस्य श्रीभुव... प्रणवाय ब्रह्मणे उद्गीथाय... विनियोगः । ॐ अस्य श्रीमहा... श्रीः । ॐ नमश्चण्डिकायै ।... ॐ ह्रीं श्रीं क्लीं गणाध्... ॐ महामार्यै नमः । महामाया... पार्वत्युवाच - भगवन् वेदत... श्रीगणेशाय नमः । श्रीमहाल... ॐ ह्रीं ऐं ह्रीं महावाण्य... ध्यानम् श्रीमच्चन्दनचर्चि... ॐ अद्भुताय नमः । अद्भुतचा... ॐ सुमुख्यै नमः । ॐ शेमुष्... ॐ अम्बायै नमः । ॐ अम्बालि... ॐ अस्यश्री मूकाम्बिकायाः ... श्रीभैरव उवाच । अस्य श्री... अस्य श्री मेधादक्षिणामूर्... ॐ नमो भगवते दक्षिणामूर्तय... गर्गसंहितातः ॐ कालिन्द्य... अस्य श्रीयोगेश्वरीसहस्रना... ॐ योगिन्यै नमः । योगमायाय... देव्युवाच - भगवन्सर्वशास्... सोन्दूर श्रीकृष्ण अवधूतवि... वन्दे वृन्दावनानन्दा राधि... ॐ श्रीराधायै नमः । राधिका... ॐ श्रीराधायै नमः । राधिका... ॐ अस्य श्रीरामसहस्रनाममाल... ॐ आर्यश्रेष्ठाय नमः । धरा... सङ्कल्पः - यजमानः, आचम्य,... ॐ नमो भगवते वासुदेवाय । ॐ... ॐ स्थिराय नमः । स्थाणवे ।... न्यासः । अस्य श्रीरुद्रसह... अथ श्रीरेणुकातन्त्रान्तर्... सिन्दूरारुणविग्रहां त्रिन... ॐ श्रियै नमः । वासुदेवमहि... ॐ नित्यागतायै नमः । ॐ अनन... ॐ श्रीवराहाय नमः । भूवराह... ॐ वल्ल्यै नमः । ॐ वल्लीश्... ॐ श्रीवाग्मत्याः सहस्रनाम... ॐ श्रीगणेशाय नमः । श्रीनन... वराहमुख्यै विद्महे । दण्ड... ध्यानम् - ओङ्कारबीजाक्षरी... शुक्लाम्बरधरं विष्णुं शशि... ॐ क्लीं विट्टलाय नमः । पा... पूर्वन्यासः । श्रीवेदव्या... श्रीविष्णुसहस्रनामावलिः प... रुद्र उवाच । संसारसागराद... ॐ श्रीगणेशाय नमः । ॐ विष... श्रीशिवाय गुरवे श्रीवीरभ... वेङ्कटेशस्य नाम्नां हि सह... ॐ श्री गुरुभ्यो नमः । अथ ... ॐ शङ्कराय नमः । ॐ श्रीधरा... ॐ गाढध्वान्तनिमज्जनप्रमुष... ॐ अमिताभाषिणे नमः । ॐ अघह... ॐ श्रीगणेशाय नमः । ॐ श्री... विनियोगः - अस्य श्रीशारिक... अस्य श्रीशास्तृशवर्णसहस्र... ॐ अस्य श्री शिवकामसुन्दरी... अस्य श्रीशिवकामसुन्दरीसहस... ॐ अखिलेश्वर्यै नमः । अग्न... ॐ स्थिराय नमः । ॐ स्थाणवे... ॐ श्री गणेशाय नमः । अथ श्... ॐ ओङ्कारकण्ठनिलयाय नमः । ... ॐ ॐकारनिलयात्मस्थाय नमः ।... श्री विष्णुरुवाच ॐ भवाय ... अस्य श्रीशिवसहस्रनामस्तोत... ॐ सौभाग्यलक्ष्म्यै नमः । ... ॐ राधिकेशाय नमः । ॐ जगन्न... सद्गुरु श्रीधरस्वामिनाप्र... ईशानमुखपूजा- ॐ जगद्भुवे न... ॐ वचनभुवे नमः । पराय । शङ... ॐ रुद्रभुवनाय नमः । अनन्त... ॐ ब्रह्मभुवे नमः । भवाय ।... अघोर मुखपूजा । ॐ विश्वभुव... ॐ अचिन्त्य शक्तये नमः । अ... जपसाधना ॐ अस्य श्रीमहात्र... ॐ सङ्कटायै नमः । ॐ विजयाय... ॐ सङ्गीतालय-प्रतिष्ठित-भग... ॐ सीतायै नमः । उमायै । पर... ॐ श्रीचक्राय नमः । ॐ श्री... ॐ शुक्लाम्बरधरं विष्णुं श... ॐ श्री गणेशाय नमः । अस्य ... ॐ अस्य श्रीसुब्रह्मण्यसहस... बिल्वैर्वा चम्पकाद्यौर्वा... ध्यानम् - ध्येयः सदा सवित... श्रीरुद्रयामले तन्त्रे श्... श्रीसूर्यसहस्रनामावलिः ॐ सुब्रह्मण्याय । सुरेशान... ॐ नमः । ओङ्कारनमोरूपाय । ... ॐ श्रीहयग्रीवाय नमः । श्र... स्वामिनारायणं कृष्णं भक्त... १. ॐ स्थिराय नमः । २. ॐ ... ॥ श्रीदुर्गादैव्ये नम: ॥ ... १. ॐ राजीवलोचनाय नमः । ... १ ॐ अचिन्त्यलक्षणायै नमः ... १ ॐ कालिन्द्यै नमः । २ ॐ... १ ॐ अन्नपूर्णायै नमः । ... १. ॐ नारसिंहाय नमः । २. ... १ ॐ देवकीनन्दनाय नमः । २... १ ॐ क्लीं देवाय नमः । २ ... १ ॐ श्रियै नमः । २ ॐ पद्... १ ॐ हनुमते नमः । २ ॐ श्र... ॥ श्रीकृष्णाय नमः ॥ १. ॐ ... १. ॐ विश्वविदे नम: । २. ... १. ॐ गणेश्वराय नम: । २.... १. ॐ ऐं ह्रीं श्रीं श्रीम... १ ॐ सीतायै नमः । २ ॐ उमा... १ ॐ ओंकाररूपिण्यै नमः । ... १. ॐ विश्वस्मै नमः । २.ॐ... १. ॐ श्रीराधायै नमः । २.... ॐ गणपतये नमः ॥ ॥ ॐ गणेश्व... श्रीअर्धनारीश्वरसहस्रनामावलिः - ॐ हिरण्यबाहवे हिरण्यवर्णा... हिंदू देवी देवतांची एक हजार नावे म्हणजेच सहस्त्रनामावली. हिंदू धर्मिय रोज सकाळी संध्याकाळी या नावांचा जप करतात. A sahasranamavali is a type of Hindu scripture in which a diety is referred to by 1000 or more different names. Many devout Hindus chant them every morning or evening. Tags : 1000godgoddesssahasranamavaliसहस्त्रनामावली श्रीअर्धनारीश्वरसहस्रनामावलिः Translation - भाषांतर ॐ हिरण्यबाहवे हिरण्यवर्णायै नमः ॐ ।ॐ सेनानये महासेनान्यै नमः ॐ ।ॐ दिग्पतये सर्वदिग्रक्षेश्वर्यै नमः ॐ ।ॐ तरुराजे कल्पतरुनिकरायै नमः ॐ ।ॐ हराय हरहृदयविहारिण्यै नमः ॐ ।ॐ हरिकेशाय जटालङ्कारायै नमः ॐ ।ॐ पशुपतये कामधेनवे नमः ॐ ।ॐ महते महादेव्यै नमः ॐ ।ॐ सस्पिञ्जराय नीललोहितरमण्यै नमः ॐ ।ॐ मृडाय मृडान्यै नमः ॐ । १०ॐ विव्याधिने सर्वशत्रुविनाशिन्यै नमः ॐ ।ॐ बभ्लुशाय महिषासनायै नमः ॐ ।ॐ श्रेष्ठाय प्रपञ्च्यै नमः ॐ ।ॐ परमात्मने सनातनाय लक्ष्यालक्ष्यस्वरूपायै नमः ॐ ।ॐ सर्वान्नराजे अन्नपूर्णेश्वर्यै नमः ॐ ।ॐ जगत्कर्त्रे जगज्जनन्यै नमः ॐ ।ॐ पुष्टेशाय पुष्टायै नमः ॐ ।ॐ नन्दिकेश्वराय नन्दिन्यै नमः ॐ ।ॐ आततायिने बाणहस्तायै नमः ॐ ।ॐ महारुद्राय महेश्वर्यै नमः ॐ । २०ॐ संसारास्त्राय संसारयोन्यै नमः ॐ ।ॐ सुरेश्वराय महाश्रेष्ठायै नमः ॐ ।ॐ उपवीतये माङ्गल्यधरायै नमः ॐ ।ॐ अहन्त्यात्मने अजायै नमः ॐ ।ॐ क्षेत्रेशाय क्षेत्रज्ञपालिन्यै नमः ॐ ।ॐ वननायकाय कदम्बवनवासिन्यै नमः ॐ ।ॐ रोहिताय लाक्षारससवर्णाभायै नमः ॐ ।ॐ स्थपतये सर्वरक्षिण्यै नमः ॐ ।ॐ सूताय रथारूढायै नमः ॐ ।ॐ वाणिजाय सर्वात्मिकायै नमः ॐ । ३०ॐ मन्त्रिणे मन्त्ररूपिण्यै नमः ॐ ।ॐ उन्नताय उन्नतकर्त्र्यै नमः ॐ ।ॐ वृक्षेशाय वृक्षवाटिवासिन्यै नमः ॐ ।ॐ हुतभुजे यक्षरक्षिण्यै नमः ॐ ।ॐ देवाय देवेज्यायै नमः ॐ ।ॐ भुवन्तये प्रपञ्चपालिन्यै नमः ॐ ।ॐ वारिवस्कृताय प्रपूजानायिकायै नमः ॐ ।ॐ उच्चैर्घोषाय वेदघोषप्रियायै नमः ॐ ।ॐ घोररूपाय अघोररूपिण्यै नमः ॐ ।ॐ पत्तीशाय महासैन्यनायिकायै नमः ॐ । ४०ॐ पाशमोचकाय सांहित्यै नमः ॐ ।ॐ ओषधीशाय औषध्यै नमः ॐ ।ॐ पञ्चवक्त्राय पञ्चभूतेश्यै नमः ॐ ।ॐ कृत्स्नवीताय परिवारायै नमः ॐ ।ॐ भयानकाय महाघोरायै नमः ॐ ।ॐ सहमानाय सरसिजाक्ष्यै नमः ॐ ।ॐ स्वर्णरेतसे सर्वारुणायै नमः ॐ ।ॐ निव्याधिने दुष्टदमन्यै नमः ॐ ।ॐ निरुपप्लवाय दुराचारशमन्यै नमः ॐ ।ॐ आव्याधिनीशाय सेनरक्षक्यै नमः ॐ । ५०ॐ ककुभाय श्रेष्ठायै नमः ॐ ।ॐ निषङ्गिणे शूलधारिण्यै नमः ॐ ।ॐ स्तेनरक्षकाय स्वस्तिमत्यै नमः ॐ ।ॐ मन्त्रात्मने मन्त्रविग्रहायै नमः ॐ ।ॐ तस्कराध्यक्षाय शतयष्टिकायै नमः ॐ ।ॐ वञ्चकाय मधुकरवेण्यै नमः ॐ ।ॐ परिवञ्चकाय दोषवर्जितायै नमः ॐ ।ॐ अरण्येशाय अरण्येश्वर्यै नमः ॐ ।ॐ परिचराय समूहसेवितायै नमः ॐ ।ॐ निचेरवे जगत्प्रतिष्ठायै नमः ॐ । ६०ॐ स्तायुरक्षकाय एनःकूटविनाशिन्यै नमः ॐ ।ॐ प्रकृन्तेशाय महापातकनाशिन्यै नमः ॐ ।ॐ गिरिचराय गिरिराजतनयायै नमः ॐ ।ॐ कुलुञ्चेशाय नन्दनविहारिण्यै नमः ॐ ।ॐ गुहेष्टदाय गुहाम्बायै नमः ॐ ।ॐ भवाय भवान्यै नमः ॐ ।ॐ शर्वाय शुकस्यामळयै नमः ॐ ।ॐ नीलकण्ठाय नीलोत्पलविलोचनायै नमः ॐ ।ॐ कपर्दिने सिद्घेश्वर्यै नमः ॐ ।ॐ त्रिपुरान्तकाय महात्रिपुरसुन्दर्यै नमः ॐ । ७०ॐ व्युप्तकेशाय नीलचिकुरायै नमः ॐ ।ॐ गिरिशयाय महाकैलासनिलयायै नमः ॐ ।ॐ सहस्राक्षाय द्विसहस्रलोचनायै नमः ॐ ।ॐ सहस्रपदे सहस्रदलपद्मस्थायै नमः ॐ ।ॐ शिपिविष्टाय पौर्णमासतेजस्विन्यै नमः ॐ ।ॐ चन्द्रमौलये अम्बिकायै नमः ॐ ।ॐ ह्रस्वाय गुह्यरूपिण्यै नमः ॐ ।ॐ मीढुष्टमाय मेघस्वनायै नमः ॐ ।ॐ अनघाय निष्कलङ्कायै नमः ॐ ।ॐ वामनाय वामदेव्यै नमः ॐ । ८०ॐ व्यापकाय व्यापकभण्डासुरच्छेदिन्यै नमः ॐ ।ॐ शूलिने शूलाद्यायुधधृते नमः ॐ ।ॐ वर्षीयसे वेदमन्त्रात्मिकायै नमः ॐ ।ॐ अजडाय सविकल्पसमाध्यै नमः ॐ ।ॐ अनणवे आन्तरस्वरूपिण्यै नमः ॐ ।ॐ ऊर्व्याय काञ्चीनगरवासिन्यै नमः ॐ ।ॐ सूर्म्याय गङ्गोधर्यै नमः ॐ ।ॐ अग्रियाय लोकनायिकायै नमः ॐ ।ॐ शीभ्याय सलिलप्रवाहिन्यै नमः ॐ ।ॐ प्रथमाय एजत् अनेकजगदीश्वर्यै नमः ॐ । ९०ॐ पावकाकृतये वह्निमण्डलवासिन्यै नमः ॐ ।ॐ आचाराय वर्णिकायै नमः ॐ ।ॐ तारकाय रक्तनेत्रायै नमः ॐ ।ॐ ताराय अतिसौम्यायै नमः ॐ ।ॐ अवस्वन्याय सुन्दर्यै नमः ॐ ।ॐ अनन्तविग्रहाय सदानन्दायै नमः ॐ ।ॐ द्वीप्याय कौमार्यै नमः ॐ ।ॐ स्रोतस्याय विशाललोचनायै नमः ॐ ।ॐ ईशानाय राजराजेश्वर्यै नमः ॐ ।ॐ धुर्याय मूलाधारिण्यै नमः ॐ । १००ॐ गव्ययनाय गोकर्णनिलयायै नमः ॐ ।ॐ यमाय यमप्रियायै नमः ॐ ।ॐ पूर्वजाय प्रथमजायै नमः ॐ ।ॐ अपरजाय अपराजितायै नमः ॐ ।ॐ ज्येष्ठाय पूर्वजायै नमः ॐ ।ॐ कनिष्ठाय बालायै नमः ॐ ।ॐ विश्वलोचनाय मीनलोचन्यै नमः ॐ ।ॐ अपगल्भाय स्वधायै नमः ॐ ।ॐ मध्यमाय सुवासिन्यै नमः ॐ ।ॐ ऊर्म्याय मह्यै नमः ॐ । ११०ॐ जघन्याय ह्रीङ्काररूपायै नमः ॐ ।ॐ बुध्नियाय ह्रीङ्कारनिलयायै नमः ॐ ।ॐ प्रभवे पराम्बिकायै नमः ॐ ।ॐ प्रतिसर्याय अखिलेश्वर्यै नमः ॐ ।ॐ अनन्तरूपाय अनन्तविग्रहायै नमः ॐ ।ॐ सोभ्याय सौभाग्यनिलयायै नमः ॐ ।ॐ याम्याय कर्मफलप्रदायै नमः ॐ ।ॐ सुराश्रयाय सुरसेवितायै नमः ॐ ।ॐ खल्याय अव्यक्तायै नमः ॐ ।ॐ उर्वर्याय उडुप्रभायै नमः ॐ । १२०ॐ अभयाय अभयप्रदायै नमः ॐ ।ॐ क्षेम्याय स्वर्गापवर्गदायै नमः ॐ ।ॐ श्लोक्याय मन्त्रार्थबोधकायै नमः ॐ ।ॐ पथ्याय नभसे लब्धसम्पत्समुन्नत्यै नमः ॐ ।ॐ अग्रण्ये अग्रगण्यायै नमः ॐ ।ॐ वन्याय एकाम्रतरुमूलायै नमः ॐ ।ॐ अवसान्याय वेदवेदान्तवितरणायै नमः ॐ ।ॐ पूतात्मने पूतान्तरस्थायै नमः ॐ ।ॐ श्रवाय गानरूपायै नमः ॐ ।ॐ कक्ष्याय सर्वव्यापिन्यै नमः ॐ । १३०ॐ प्रतिश्रवाय प्रत्युतिधारिण्यै नमः ॐ ।ॐ आशुषेणाय अचिन्त्यरूपायै नमः ॐ ।ॐ महासेनाय शुक्रसेनानायिकायै नमः ॐ ।ॐ महावीराय एकवीरादिसंसेव्यायै नमः ॐ ।ॐ महारथाय हंसयुक्तविमानस्थायै नमः ॐ ।ॐ शूराय स्वर्णभूषणभूषितायै नमः ॐ ।ॐ अतिघातकाय अतिपराक्रमायै नमः ॐ ।ॐ वर्मिणे पाशभुशुण्ड्यै नमः ॐ ।ॐ वरूथिने महारथायै नमः ॐ ।ॐ बिल्मिने मुकुटेश्वर्यै नमः ॐ । १४०ॐ उद्यताय उद्दामवैभवायै नमः ॐ ।ॐ श्रुतसेनाय परात्परसेनायै नमः ॐ ।ॐ श्रुताय पराकृत्यै नमः ॐ ।ॐ साक्षिणे सर्वसाक्षिण्यै नमः ॐ ।ॐ कवचिने सर्वमन्त्रस्वरूपिण्यै नमः ॐ ।ॐ वशकृते वशिने निरूपमगुणशालिन्यै नमः ॐ ।ॐ आहनन्याय स्वरात्मिकायै नमः ॐ ।ॐ अनन्यनाथाय रतिरूपायै नमः ॐ ।ॐ दुन्दुभ्याय झल्लीमद्दलनादमुदितायै नमः ॐ ।ॐ अरिष्टनाशकाय सौभाग्यप्रदायै नमः ॐ । १५०ॐ धृष्णवे शस्त्रप्रत्यस्त्रवर्षिण्यै नमः ॐ ।ॐ प्रमृशाय शक्तिसेनासमन्वितायै नमः ॐ ।ॐ इत्यात्मने कामेश्वरास्त्रायै नमः ॐ ।ॐ वदान्याय वदनैकसमन्वितायै नमः ॐ ।ॐ वेदसम्मताय वेदविद्यायै नमः ॐ ।ॐ तीक्ष्णेषुपाणये लाङ्गलायुधायै नमः ॐ ।ॐ प्रहिताय कोटिकोटिभिरावृतायै नमः ॐ ।ॐ स्वायुधाय शक्तिविक्रमहर्षितायै नमः ॐ ।ॐ शस्त्रवित्तमाय सर्वायुधपरिष्कृतायै नमः ॐ ।ॐ सुधन्वने महावज्रायै नमः ॐ । १६०ॐ सुप्रसन्नात्मने नित्यतृप्तायै नमः ॐ ।ॐ विश्ववक्त्राय ताम्बूलपूरितमुख्यै नमः ॐ ।ॐ सदागतये उदारकीर्तयै नमः ॐ ।ॐ स्तुत्याय शाश्वत्यै नमः ॐ ।ॐ पथ्याय शिशिरितभुवन्यै नमः ॐ ।ॐ विश्वबाहवे लक्षणोज्ज्वलदिव्याङ्गयै नमः ॐ ।ॐ काट्याय पामरफालिन्यै नमः ॐ ।ॐ नीप्याय नीरजायै नमः ॐ ।ॐ शुचिस्मिताय वसुमत्यै नमः ॐ ।ॐ सूद्याय चिन्तामणिनगराधिपत्यै नमः ॐ । १७०ॐ सरस्याय सिंहासनस्थितायै नमः ॐ ।ॐ वैशन्ताय कमलालयतीर्थवैभव्यै नमः ॐ ।ॐ नाद्याय नर्मदायै नमः ॐ ।ॐ कूप्याय कूपरक्षिण्यै नमः ॐ ।ॐ ऋषये स्वप्रकाशिन्यै नमः ॐ ।ॐ मनवे मानिन्यै नमः ॐ ।ॐ सर्वस्मै सर्वेश्वर्यै नमः ॐ ।ॐ वर्ष्याय वर्षिण्यै नमः ॐ ।ॐ वर्षरूपाय वर्षप्रदायै नमः ॐ ।ॐ कुमाराय कुमारजनन्यै नमः ॐ । १८०ॐ कुशलाय अक्षयायै नमः ॐ ।ॐ अमलाय शुद्घमानसायै नमः ॐ ।ॐ मेघयाय मेघवर्णायै नमः ॐ ।ॐ अवर्ष्याय अवर्षिण्यै नमः ॐ ।ॐ अमोघशक्तये पराशक्त्यै नमः ॐ ।ॐ विद्युत्याय विद्याशक्त्यै नमः ॐ ।ॐ अमोघविक्रमाय परापराणां परायै नमः ॐ ।ॐ दुरासदाय एकभक्तिमदर्चितायै नमः ॐ ।ॐ दुराराध्याय भक्तिगम्यायै नमः ॐ ।ॐ निर्द्वन्द्वाय द्वैतनिवारिण्यै नमः ॐ । १९०ॐ दुःसहर्षभाय परमपावन्यै नमः ॐ ।ॐ ईध्रियाय निर्मलायै नमः ॐ ।ॐ क्रोधशमनाय निष्क्रोधायै नमः ॐ ।ॐ जातुकर्णाय कर्णपूरमनोहरायै नमः ॐ ।ॐ पुरुष्टुताय पौरुष्यै नमः ॐ ।ॐ आतप्याय वसन्तरूपिण्यै नमः ॐ ।ॐ वायवे वायुमण्डलमध्यस्थायै नमः ॐ ।ॐ अजराय अम्बुजाक्ष्यै नमः ॐ ।ॐ वात्याय समरुच्यै नमः ॐ ।ॐ कात्यायनीप्रियाय कात्यायन्यै नमः ॐ । २००ॐ वास्तव्याय सरोजदलनेत्रियै नमः ॐ ।ॐ वास्तुपाय सदाशिवकुटुम्बिन्यै नमः ॐ ।ॐ रेष्म्याय शीतलदेशनिवासिन्यै नमः ॐ ।ॐ विश्वमूर्ध्ने विश्वावस्थायै नमः ॐ ।ॐ वसुप्रदाय सर्वैश्वर्यप्रदायिन्यै नमः ॐ ।ॐ सोमाय उमामहेश्वर्यै नमः ॐ ।ॐ ताम्राय ताम्रवर्णायै नमः ॐ ।ॐ अरुणाय ईन्द्राण्यै नमः ॐ ।ॐ शङ्खाय सकलसौभाग्यदायिन्यै नमः ॐ ।ॐ रुद्राय रौद्रिण्यै नमः ॐ । २१०ॐ सुखकराय मयूरवल्यै नमः ॐ ।ॐ सुकृते सुकृतसहायदायै नमः ॐ ।ॐ उग्राय उग्ररूपिण्यै नमः ॐ ।ॐ अनुग्राय अनुग्रहदायै नमः ॐ ।ॐ भीमकर्मणे परापर्यै नमः ॐ ।ॐ भीमाय बिम्बाधर्यै नमः ॐ ।ॐ भीमपराक्रमाय सर्वशक्तिसमन्वितायै नमः ॐ ।ॐ अग्रेवधाय सर्ववैरिविनाशिन्यै नमः ॐ ।ॐ हनीयात्मने सर्वशत्रुदमनायै/सर्वारिदमनायै नमः ॐ ।ॐ हन्त्रे कामकलारूपिण्यै नमः ॐ । २२०ॐ दूरेवधाय दुष्टनाशिन्यै नमः ॐ ।ॐ वधाय दुष्टदूरायै नमः ॐ ।ॐ शम्भवे शम्भुमोहिन्यै नमः ॐ ।ॐ मयोभवाय मोक्षसुखदायिन्यै नमः ॐ ।ॐ नित्याय निरन्तरायै नमः ॐ ।ॐ शङ्कराय शाङ्कर्यै नमः ॐ ।ॐ कीर्तिसागराय समानाधिकवर्जितायै नमः ॐ ।ॐ मयस्कराय सर्वसिद्धिबोधिन्यै नमः ॐ ।ॐ शिवतराय शिवज्ञानप्रदायै नमः ॐ ।ॐ खण्डपर्शवे श्रीकण्ठप्रियायै नमः ॐ । २३०ॐ अजाय निर्भवायै नमः ॐ ।ॐ शुचये दुःखहन्त्र्यै नमः ॐ ।ॐ तीर्थ्याय महातीर्थप्रवाहिन्यै नमः ॐ ।ॐ कूल्याय यमुनातीरविहारिण्यै नमः ॐ ।ॐ अमृताधीशाय अमृतेश्वर्यै नमः ॐ ।ॐ पार्याय संसारपारायै नमः ॐ ।ॐ अवार्याय संसारपरिवर्तिकायै नमः ॐ ।ॐ अमृताकराय अमृतवर्षिण्यै नमः ॐ ।ॐ शुद्घाय शैलेन्द्र्यै नमः ॐ ।ॐ प्रतरणाय पापशमन्यै नमः ॐ । २४०ॐ मुख्याय ईषत्स्मिताननायै नमः ॐ ।ॐ शुद्घपाणये चित्राप्रमरपाणये नमः ॐ ।ॐ अलोलुपाय कुङ्कुमातिलेपनायै नमः ॐ ।ॐ उच्चाय उन्नतायै नमः ॐ ।ॐ उत्तरणाय संसारपङ्कनिर्मग्नसमुद्घरणपण्डितायै नमः ॐ ।ॐ तार्याय कुलयोगिन्यै नमः ॐ ।ॐ तार्यज्ञाय संसाररक्षिण्यै नमः ॐ ।ॐ तार्यहृद्गतये संसारधारिण्यै नमः ॐ ।ॐ आतार्याय कामदायिन्यै नमः ॐ ।ॐ सारभूतात्मने श्रेयस्यै नमः ॐ । २५०ॐ सारग्राहिणे संश्रयायै नमः ॐ ।ॐ दुरत्ययाय दुर्धेष्यायै नमः ॐ ।ॐ आलाद्याय कर्मादिसाक्षिण्यै नमः ॐ ।ॐ मोक्षदाय, पथ्याय-लकुलेश्वर्यै नमः ॐ ।ॐ अनर्थघ्ने अघारिण्यै नमः ॐ ।ॐ सत्यसङ्गराय सत्यकल्पायै नमः ॐ ।ॐ शष्प्याय मन्दाकिन्यै नमः ॐ ।ॐ फेन्याय गङ्गातीरवासिन्यै नमः ॐ ।ॐ प्रवाह्याय प्रवाहिन्यै नमः ॐ ।ॐ ऊढायै परिमलायै नमः ॐ । २६०ॐ सिकत्याय शिखारिण्यै नमः ॐ ।ॐ सैकताश्रयाय चक्रनिलयायै नमः ॐ ।ॐ इरिण्याय महाबोधकायै नमः ॐ ।ॐ ग्रामण्ये उत्तरकाञ्चीनिलयायै नमः ॐ ।ॐ पुण्याय पुण्यवत्यै नमः ॐ ।ॐ शरण्याय शरणागत्यै नमः ॐ ।ॐ शुद्घशासनाय सुरपूजितायै नमः ॐ ।ॐ वरेण्याय सर्वोत्तुङ्गायै नमः ॐ ।ॐ यज्ञपुरुषाय यज्ञतायै नमः ॐ ।ॐ यज्ञेशाय यज्ञरूपिण्यै नमः ॐ । २७०ॐ यज्ञनायकाय यज्ञरक्षिण्यै नमः ॐ ।ॐ यज्ञकर्त्रे यज्ञशक्त्यै नमः ॐ ।ॐ यज्ञभोक्त्रे यज्ञप्रियायै नमः ॐ ।ॐ यज्ञविघ्नविनाशकाय मराळकमन्यै नमः ॐ ।ॐ यज्ञकर्मफलाध्यक्षाय यज्ञकर्मफलप्रदायिन्यै नमः ॐ ।ॐ यज्ञमूर्तये यज्ञदेव्यै नमः ॐ ।ॐ अनातुराय अनाद्यै नमः ॐ ।ॐ प्रपथ्याय सर्वावगुणवर्जितायै नमः ॐ ।ॐ किंशिलाय कृपानिध्यै नमः ॐ ।ॐ गेह्याय श्रीचक्रराजनिलयायै नमः ॐ । २८०ॐ गृह्याय चिन्तामणिगृहेश्वर्यै नमः ॐ ।ॐ तल्प्याय पञ्चब्रह्मासनस्थितायै नमः ॐ ।ॐ धनाकराय धनधान्यविवर्धिन्यै नमः ॐ ।ॐ पुलस्त्याय भक्ताभयप्रदायै नमः ॐ ।ॐ क्षयणाय चक्रमय्यै नमः ॐ ।ॐ गोष्ठ्याय कमलनिलयायै नमः ॐ ।ॐ गोविन्दाय गोविन्दसोदर्यै नमः ॐ ।ॐ गीतसत्क्रियाय गीतार्धस्वरूपिण्यै नमः ॐ ।ॐ हृदय्याय शिवहृदयकमलायै नमः ॐ ।ॐ हृद्यकृते हराराध्यायै नमः ॐ । २९०ॐ हृद्याय शिवमनोरमण्यै नमः ॐ ।ॐ गह्वरेष्ठाय गह्वरेष्ठप्रियायै नमः ॐ ।ॐ प्रभाकराय प्रभावत्यै नमः ॐ ।ॐ निवेष्प्याय कैलाशिन्यै नमः ॐ ।ॐ नियताय निखिलेश्वर्यै नमः ॐ ।ॐ अयन्त्रे समाकृत्यै नमः ॐ ।ॐ पांसव्याय तुर्यायै नमः ॐ ।ॐ सम्प्रतापनाय सम्प्रदाययोगिन्यै नमः ॐ ।ॐ शुष्क्याय श्वेताननायै नमः ॐ ।ॐ हरित्याय गौर्यै नमः ॐ । ३००ॐ अपूतात्मने पुनितायै नमः ॐ ।ॐ रजस्याय रक्तपादायै नमः ॐ ।ॐ सात्विकप्रियाय सात्विकायै नमः ॐ ।ॐ लोप्याय भूमात्रे नमः ॐ ।ॐ उलप्याय दर्भासनायै नमः ॐ ।ॐ पर्णशद्याय अपर्णायै नमः ॐ ।ॐ पर्ण्याय सुचित्रजगन्नायिकायै नमः ॐ ।ॐ पूर्णाय सम्पूर्णाम्बिकायै नमः ॐ ।ॐ पुरातनाय निष्प्रपञ्चायै नमः ॐ ।ॐ भूताय भूताधिपत्यै नमः ॐ । ३१०ॐ भूतपतये देवेश्यै नमः ॐ ।ॐ भूपाय नळिनपरिमलायै नमः ॐ ।ॐ भूधराय सकललोकनायिकायै नमः ॐ ।ॐ भूधरायुधाय देवसंस्तुतवैभवायै नमः ॐ ।ॐ भूतसङ्घाय भूतिमालिन्यै नमः ॐ ।ॐ भूतमूर्तये भूतेश्वर्यै नमः ॐ ।ॐ भूतघ्ने भूतिदायै नमः ॐ ।ॐ भूतिभूषणाय श्रीपदाम्बुजायै नमः ॐ ।ॐ मदनाय साम्बशिवप्रियायै नमः ॐ ।ॐ मादकाय मधुमत्यै नमः ॐ । ३२०ॐ माद्याय लकाररूपायै नमः ॐ ।ॐ मदघ्ने मनोन्मन्यै नमः ॐ ।ॐ मधुरप्रियाय मधुसम्भूतायै नमः ॐ ।ॐ मधवे मदनप्रियायै नमः ॐ ।ॐ मधुकराय मधुजिह्वायै नमः ॐ ।ॐ क्रूराय विकाराङ्ग्यै नमः ॐ ।ॐ मधुराय शिवरञ्जन्यै नमः ॐ ।ॐ मदनान्तकाय मेनकात्मजायै नमः ॐ ।ॐ निरञ्जनाय निर्लोपायै नमः ॐ ।ॐ निराधाराय सर्वाधारायै नमः ॐ । ३३०ॐ निर्लुप्ताय निष्कलायै नमः ॐ ।ॐ निरुपाधिकाय निरीश्वरायै नमः ॐ ।ॐ निष्प्रपञ्चाय निरपायायै नमः ॐ ।ॐ निराकाराय निर्विकारायै नमः ॐ ।ॐ निरीहाय निरवद्यायै नमः ॐ ।ॐ निरुपद्रवाय निर्भेदायै नमः ॐ ।ॐ सत्त्वाय साध्व्यै नमः ॐ ।ॐ सत्त्वगुणोपेताय सत्यज्ञानान्दरूपायै नमः ॐ ।ॐ सत्त्वविते सत्त्वसिद्ध्यै नमः ॐ ।ॐ सत्त्ववित्प्रियाय सत्त्वगुणजनप्रियायै नमः ॐ । ३४०ॐ सत्त्वनिष्ठाय सत्त्वगुणेश्वर्यै नमः ॐ ।ॐ सत्त्वमूर्तये सत्त्वरूपिण्यै नमः ॐ ।ॐ सत्त्वेशाय सत्त्वात्मिकायै नमः ॐ ।ॐ सत्त्ववित्तमाय सत्त्वजनरक्षिण्यै नमः ॐ ।ॐ समस्तजगदाधाराय जननरक्षणमोक्षविदारिण्यै नमः ॐ ।ॐ समस्तगुणसागराय शिवकल्याणगुणसारायै नमः ॐ ।ॐ समस्तदुःखविध्वंसिने समस्तदुःखविनाशिन्यै नमः ॐ ।ॐ समस्तानन्दकारणाय चिदानन्दस्वरूपिण्यै नमः ॐ ।ॐ रुद्राक्षमालाभरणाय काञ्चनभूषणायै नमः ॐ ।ॐ रुद्राक्षप्रियवत्सलाय भूषणप्रियायै नमः ॐ । ३५०ॐ रुद्राक्षवक्षसे भाषाढ्यायै नमः ॐ ।ॐ रुद्राक्षरूपाय पूर्णिकायै नमः ॐ ।ॐ रुद्राक्षपक्षकाय सहस्राभायै नमः ॐ ।ॐ विश्वेश्वराय विश्वेश्वर्यै नमः ॐ ।ॐ वीरभद्राय विरूपाक्ष्यै नमः ॐ ।ॐ सम्राजे सांयस्थायै नमः ॐ ।ॐ दक्षमखान्तकाय दाक्षायण्यै नमः ॐ ।ॐ विघ्नेश्वराय सर्वविघ्ननिवारिण्यै नमः ॐ ।ॐ विघ्नकर्त्रे सर्वविघ्ननाशिन्यै नमः ॐ ।ॐ गुरवे देवशिखामणये ईश्वरार्धाङ्गशरीरायै नमः ॐ । ३६०ॐ भुजगेन्द्रलसत्कण्ठाय भुजङ्गाक्ष्यै नमः ॐ ।ॐ भुजङ्गाभरणप्रियाय भुजङ्गाभरणभूषितायै नमः ॐ ।ॐ भुजङ्गविलसत्कर्णाय अलङ्कारप्रियायै नमः ॐ ।ॐ भुजङ्गवलयावृताय अक्षमालाङ्कुशधरायै नमः ॐ ।ॐ मुनिवन्द्याय मुनिप्रियायै नमः ॐ ।ॐ मुनिश्रेष्ठाय मुनिस्तुत्यै नमः ॐ ।ॐ मुनिवृन्दनिषेविताय मुनिजनमण्डलायै नमः ॐ ।ॐ मुनिहृत्पुण्डरीकस्थाय मुनिजनानुकूल्यै नमः ॐ ।ॐ मुनिसङ्घैकजीवनाय मुनिकुलफालिन्यै नमः ॐ ।ॐ मुनिमृग्याय मुनिवैरिविनाशिन्यै नमः ॐ । ३७०ॐ वेदमृग्याय वेदनायिकायै नमः ॐ ।ॐ मृगहस्ताय कमलहस्तायै नमः ॐ ।ॐ मुनीश्वराय मुनिमानस्यै नमः ॐ ।ॐ मृगेन्द्रचर्मवसनाय श्रीचक्रकोणनिवासिन्यै नमः ॐ ।ॐ नरसिह्मनिपातनाय नारसिह्मै नमः ॐ ।ॐ मृत्युञ्जयाय मृत्युञ्जयेश्वर्यै नमः ॐ ।ॐ मृत्युमृत्यवे मृत्युमथन्यै नमः ॐ ।ॐ अपमृत्युविनाशकाय रक्तदन्तिकायै नमः ॐ ।ॐ दुष्टमृत्यवे ऐश्वर्यायै नमः ॐ ।ॐ अदुष्टेष्टाय दुष्टसंहारिण्यै नमः ॐ । ३८०ॐ मृत्युघ्ने मृत्युपूजिताय देवदेवार्चनप्रियायै नमः ॐ ।ॐ ऊर्ध्वाय शिखिवाहनायै नमः ॐ ।ॐ हिरण्याय हिरण्मय्यै नमः ॐ ।ॐ परमाय परमात्मिकायै नमः ॐ ।ॐ निधनेशाय सूक्ष्मरूपिण्यै नमः ॐ ।ॐ धनाधिपाय धनलक्ष्मीस्वरूपिण्यै नमः ॐ ।ॐ यजुर्मूर्तये यजुर्वेदनायिकायै नमः ॐ ।ॐ साममूर्तये सामगानप्रियायै नमः ॐ ।ॐ ऋड्मूर्तये ऋड्वेदजनन्यै नमः ॐ ।ॐ मूर्तिवर्जिताय अमूर्त्यै नमः ॐ । ३९०ॐ व्यक्ताय व्यक्तस्वरूपिण्यै नमः ॐ ।ॐ व्यक्ततमाय व्यक्तशक्त्यै नमः ॐ ।ॐ अव्यक्ताय अव्यक्तायै नमः ॐ ।ॐ व्यक्ताव्यक्ताय आनन्दसन्दायिन्यै नमः ॐ ।ॐ तमसे चित्रकण्ठायै नमः ॐ ।ॐ जविष्ठाय जगत्साक्षिण्यै नमः ॐ ।ॐ लिङ्गमूर्तये क्षमायै नमः ॐ ।ॐ अलिङ्गात्मने अलिङ्गशक्त्यै नमः ॐ ।ॐ लिङ्गालिङ्गात्मविग्रहाय स्वाहायै नमः ॐ ।ॐ ग्रहग्रहाय कालग्रहायै नमः ॐ । ४००ॐ ग्रहाधाराय ग्रहरक्षिण्यै नमः ॐ ।ॐ गृहाकाराय गृहमङ्गलायै नमः ॐ ।ॐ गृहेश्वराय गृहसन्तुष्टायै नमः ॐ ।ॐ गृहकृते गृहशोभितकारणायै नमः ॐ ।ॐ गृहभिदे गृहलक्ष्म्यै नमः ॐ ।ॐ ग्राहिणे गृहमात्रे नमः ॐ ।ॐ गृहाय गृहेश्वर्यै नमः ॐ ।ॐ गृहविलक्षणाय गृहविभवायै नमः ॐ ।ॐ कल्पाकाराय कल्पलतिकायै नमः ॐ ।ॐ कल्पकर्त्रे अपारकृपानिधये नमः ॐ । ४१०ॐ कल्पलक्षणतत्पराय कल्पतरुवे नमः ॐ ।ॐ कल्पाय अनुशासनायै नमः ॐ ।ॐ कल्पाकृतये अनाथरक्षक्यै नमः ॐ ।ॐ कल्पनाशकाय कनकाम्बिकायै नमः ॐ ।ॐ कल्पकल्पकाय कल्पनायिकायै नमः ॐ ।ॐ परमात्मने परमेश्वर्यै नमः ॐ ।ॐ प्रधानात्मने प्रधानपुरुषातीतायै नमः ॐ ।ॐ प्रधानपुरुषाय प्रधानपुरुषेश्वर्यै नमः ॐ ।ॐ शिवाय शिवोमायै नमः ॐ ।ॐ वेद्याय वेदरूपिण्यै नमः ॐ । ४२०ॐ वैद्याय वैद्युत्यै नमः ॐ ।ॐ वेदवेद्याय वेदरत्नाम्बिकायै नमः ॐ ।ॐ वेदवेदान्तसंस्तुताय जीवाधारिण्यै नमः ॐ ।ॐ वेदवक्त्राय वेदमात्रे नमः ॐ ।ॐ वेदजिह्वाय ईडितायै नमः ॐ ।ॐ विजिह्वाय विजिह्यै नमः ॐ ।ॐ जिह्मनाशकाय दुष्कर्मनाशिन्यै नमः ॐ ।ॐ कल्याणरूपाय कल्याणसुन्दर्यै नमः ॐ ।ॐ कल्याणाय कल्याण्यै नमः ॐ ।ॐ कल्याणगुणसंश्रयाय कल्याणगुणशालिन्यै नमः ॐ । ४३०ॐ भक्तकल्याणदाय करुणालयायै नमः ॐ ।ॐ भक्तकामधेनवे भक्तवत्सलायै नमः ॐ ।ॐ सुराधिपाय ईशाधिदेवतायै नमः ॐ ।ॐ पावनाय क्षेमङ्कर्यै नमः ॐ ।ॐ पावकाय यज्ञपावकायै नमः ॐ ।ॐ वामाय वासव्यै नमः ॐ ।ॐ महाकालाय कालरात्र्यै नमः ॐ ।ॐ मदापहाय मधुकैटभ भञ्चन्यै नमः ॐ ।ॐ घोरपातकदावाग्नये भण्डासुरमदभञ्चन्यै नमः ॐ ।ॐ दवभस्मकणप्रियाय देवदानववन्दितायै नमः ॐ । ४४०ॐ अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभाय ईश्वरतत्त्वविचारिण्यै नमः ॐ ।ॐ जगदेकप्रभवे जगज्ज्येष्ठायै नमः ॐ ।ॐ स्वामिने जगदीश्वर्यै नमः ॐ ।ॐ जगद्वन्द्याय देवासुरजनवन्दितायै नमः ॐ ।ॐ जगन्मयाय सर्वलोकव्यापिन्यै नमः ॐ ।ॐ जगदानन्ददाय भुवनात्मकानन्ददायै नमः ॐ ।ॐ जन्मजरामरणवर्जिताय आब्रह्मपीठजनन्यै नमः ॐ ।ॐ खट्वाङ्गिने वारुण्यै नमः ॐ ।ॐ नीतिमते धर्मिण्यै नमः ॐ ।ॐ सत्याय सत्यरूपिण्यै नमः ॐ । ४५०ॐ देवतात्मने देवाश्रयायै नमः ॐ ।ॐ आत्मसम्भवाय स्वयम्भवायै नमः ॐ ।ॐ कपालमालाभरणाय शिरोमालालङ्कृतचतुर्भुजायै नमः ॐ ।ॐ कपालिने कापालिकायै नमः ॐ ।ॐ विष्णुवल्लभाय योगनिद्रायै नमः ॐ ।ॐ कमलासनकालाग्नये कालाग्निरुद्राण्यै नमः ॐ ।ॐ कमलासनपूजिताय कमलापुरसदन्यै नमः ॐ ।ॐ कालाधीशाय कालक्रमायै नमः ॐ ।ॐ त्रिकालज्ञाय त्रिदशेश्वर्यै नमः ॐ ।ॐ दुष्टविग्रहवारकाय दुर्गमार्गप्रविष्टायै नमः ॐ । ४६०ॐ नाट्यकर्त्रे नटपुरिनिलयायै नमः ॐ ।ॐ नटपराय नटनाधिपत्यै नमः ॐ ।ॐ महानाट्यविशारदाय शिवताण्डवसाक्षिण्यै नमः ॐ ।ॐ विराड्रूपधराय कालिकाभवान्यै नमः ॐ ।ॐ धीराय धनुर्वेदविशारदायै नमः ॐ ।ॐ वीराय वामदेवप्रियायै नमः ॐ ।ॐ वृषभवाहनाय वृषारूढायै नमः ॐ ।ॐ वृषाङ्काय वृषभवाहन अलङ्कर्यै नमः ॐ ।ॐ वृषभाधीशाय नन्दिकेश्वर्यै नमः ॐ ।ॐ वृषात्मने हम्सगमन्यै नमः ॐ । ४७०ॐ वृषभध्वजाय सिह्मध्वजायै नमः ॐ ।ॐ महोन्नताय महापुराणायै नमः ॐ ।ॐ महाकायाय महानिलयायै नमः ॐ ।ॐ महावक्षसे महातपस्विन्यै नमः ॐ ।ॐ महाभुजाय महाभालायै नमः ॐ ।ॐ महास्कन्धाय महासुधायै नमः ॐ ।ॐ महाग्रीवाय महाब्राह्म्यै नमः ॐ ।ॐ महावक्त्राय महाविशाखायै नमः ॐ ।ॐ महाशिरसे महाक्षेमाङ्ग्यै नमः ॐ ।ॐ महाहनवे महाहेतव्यै नमः ॐ । ४८०ॐ महादंष्ट्राय महामन्त्रायै नमः ॐ ।ॐ महदोष्ठाय महामुद्रायै नमः ॐ ।ॐ महोदराय महामङ्गलकारिण्यै नमः ॐ ।ॐ सुन्दरभ्रुवे ज्ञानसुन्दर्यै नमः ॐ ।ॐ सुनयनाय पङ्कजदलनेत्रायै नमः ॐ ।ॐ सुललाटाय ललन्तिकालसत्फालायै नमः ॐ ।ॐ सुकन्दराय सौगन्धिकायै नमः ॐ ।ॐ सत्यवाक्याय भाग्यवत्यै नमः ॐ ।ॐ धर्मवेत्रे धर्मशीलायै नमः ॐ ।ॐ सत्यज्ञाय सत्यायै नमः ॐ । ४९०ॐ सत्यवित्तमाय सत्यवत्यै नमः ॐ ।ॐ धर्मवते धर्मचारिण्यै नमः ॐ ।ॐ धर्मनिपुणाय धर्मशास्त्रप्रकाशिन्यै नमः ॐ ।ॐ धर्माय धर्मराजप्रियायै नमः ॐ ।ॐ धर्मप्रवर्तकाय धर्मफलप्रदायै नमः ॐ ।ॐ कृतज्ञाय कर्त्र्यै नमः ॐ ।ॐ कृतकृत्यात्मने कृतमत्यै नमः ॐ ।ॐ कृतकृत्याय सर्वकर्त्र्यै नमः ॐ ।ॐ कृतागमाय कृतनायिकायै नमः ॐ ।ॐ कृत्यविते वरदायिकायै नमः ॐ । ५००ॐ कृत्यविच्छ्रेष्ठाय सर्वकार्यनियन्त्र्यै नमः ॐ ।ॐ कृतज्ञप्रियकृत्तमाय तत्त्वज्ञानरूपिण्यै नमः ॐ ।ॐ व्रतकृते व्रताश्रयायै नमः ॐ ।ॐ व्रतविच्छ्रेष्ठाय जनपापविमोचिन्यै नमः ॐ ।ॐ व्रतविद्वते व्रतदेव्यै नमः ॐ ।ॐ महाव्रतिने महाव्रतिनःप्रियायै नमः ॐ ।ॐ व्रतप्रियाय व्रतफलप्रदायै नमः ॐ ।ॐ व्रतधाराय व्रतमूलाधारिण्यै नमः ॐ ।ॐ व्रताकाराय सारसमुख्यै नमः ॐ ।ॐ व्रतेश्वराय व्रतसम्प्रदायपरिपालिन्यै नमः ॐ । ५१०ॐ अतिरागिणे भक्तप्रियायै नमः ॐ ।ॐ वीतरागिणे नीरागायै नमः ॐ ।ॐ रागहेतवे रागिण्यै नमः ॐ ।ॐ विरागविदे रागमथन्यै नमः ॐ ।ॐ रागघनाय रागेश्वर्यै नमः ॐ ।ॐ रागशमनाय रागराज्ञ्यै नमः ॐ ।ॐ रागदाय रागस्वरूपिण्यै नमः ॐ ।ॐ रागिरागविदे महारागिण्यै नमः ॐ ।ॐ विद्वते सर्वज्ञायै नमः ॐ ।ॐ विद्वत्तमाय विद्वज्जनरक्षिण्यै नमः ॐ । ५२०ॐ विद्वज्जनमानससंश्रयाय विद्वज्जनाभीष्टप्रदायै नमः ॐ ।ॐ विद्वज्जनाश्रयाय विद्वज्जनानुग्रहायै नमः ॐ ।ॐ विद्वज्जनस्तव्यपराक्रमाय विद्वज्जनज्ञानप्रदायै नमः ॐ ।ॐ नीतिकृते नीतिमात्रे नमः ॐ ।ॐ नीतिविदे नीतिनिलयायै नमः ॐ ।ॐ नीतिप्रदात्रे सद्गुणशीलायै नमः ॐ ।ॐ नीतिवित्प्रियाय सदाचारप्रवर्तिकायै नमः ॐ ।ॐ विनीतवत्सलाय तापसाराध्यायै नमः ॐ ।ॐ नीतिस्वरूपाय नीतिदायै नमः ॐ ।ॐ नीतिसंश्रयाय नीतिपत्यै नमः ॐ । ५३०ॐ क्रोधविदे क्रोधशमन्यै नमः ॐ ।ॐ क्रोधकृते भयनाशिन्यै नमः ॐ ।ॐ क्रोधिजनकृते छत्रेश्वर्यै नमः ॐ ।ॐ क्रोधरूपधृषे क्रोधाकाराङ्ककुशोज्ज्वलायै नमः ॐ ।ॐ सक्रोधाय शान्तायै नमः ॐ ।ॐ क्रोधघ्ने अग्निदेवतायै नमः ॐ ।ॐ क्रोधिजनघ्ने क्रोधसमाकुलायै नमः ॐ ।ॐ क्रोधकारणाय स्नेहरत्नायै नमः ॐ ।ॐ गुणवते गुणशालिन्यै नमः ॐ ।ॐ गुणविच्छ्रेष्ठाय पुण्यकीर्त्यै नमः ॐ । ५४०ॐ निर्गुणाय सद्गुणायै नमः ॐ ।ॐ गुणवित्प्रियाय पुण्यलभ्यायै नमः ॐ ।ॐ गुणाधाराय सर्गुणायै नमः ॐ ।ॐ गुणाकाराय कल्याणगुणप्रकाशिन्यै नमः ॐ ।ॐ गुणकृते ममताहन्त्र्यै नमः ॐ ।ॐ गुणनाशकाय सौदामिन्यै नमः ॐ ।ॐ वीर्यवते महावीर्यायै नमः ॐ ।ॐ वीर्यविच्छ्रेष्ठाय स्वाधीनवल्लभायै नमः ॐ ।ॐ वीर्यविदे बालाविक्रमनन्दितायै नमः ॐ ।ॐ वीर्यसंश्रयाय वीर्यशक्तिप्रदायै नमः ॐ । ५५०ॐ वीर्यकाराय सौजन्यायै नमः ॐ ।ॐ वीर्यकराय सर्वार्थसाधनानुग्रहायै नमः ॐ ।ॐ वीर्यघ्ने वीर्यवन्दितायै नमः ॐ ।ॐ वीर्यवर्धकाय महालावण्यसेवधये नमः ॐ ।ॐ कालविदे कालकालायै नमः ॐ ।ॐ कालकृते भोगेश्वर्यै नमः ॐ ।ॐ कालाय जयचामुण्डेश्वर्यै नमः ॐ ।ॐ बलकृते बान्धव्यै नमः ॐ ।ॐ बलविदे बलभद्रप्रियायै नमः ॐ ।ॐ बलिने बलिप्रियायै नमः ॐ । ५६०ॐ मनोन्मनाय विष्णुमायायै नमः ॐ ।ॐ मनोरूपाय क्षेत्रस्वरूपायै नमः ॐ ।ॐ बलप्रमथनाय बृहत्यै नमः ॐ ।ॐ बलाय बहुरूपायै नमः ॐ ।ॐ विद्याप्रदात्रे सर्वविद्यामात्रे नमः ॐ ।ॐ विद्येशाय विज्ञानघनरूपिण्यै नमः ॐ ।ॐ विद्यामात्रैकसंश्रयाय विद्यारूपिण्यै नमः ॐ ।ॐ विद्याऽऽकराय आत्मविद्यायै नमः ॐ ।ॐ महाविद्याय श्रीविद्यायै नमः ॐ ।ॐ विद्याविद्याय महाबुद्ध्यै नमः ॐ । ५७०ॐ विशारदाय निजाज्ञारूपनिगमायै नमः ॐ ।ॐ वसन्तकृते वसन्तायै नमः ॐ ।ॐ वसन्तात्मने इन्दुमुख्यै नमः ॐ ।ॐ वसन्तेशाय वसन्तप्रियायै नमः ॐ ।ॐ वसन्तदाय ऋतुमात्रे नमः ॐ ।ॐ ग्रीष्मात्मने सर्वजनप्रियायै नमः ॐ ।ॐ ग्रीष्मकृते अवधारायै नमः ॐ ।ॐ ग्रीष्मवर्धकाय मूलभूतायै नमः ॐ ।ॐ ग्रीष्मनाशकाय मुख्यनायिकायै नमः ॐ ।ॐ प्रावृट्कृते जम्बुकेश्वराय अखिलाण्डेश्वर्यै नमः ॐ । ५८०ॐ प्रावृडाकाराय दिव्यरूपिण्यै नमः ॐ ।ॐ प्रावृट्कालप्रवर्तकाय मायारूपिण्यै नमः ॐ ।ॐ प्रावृट्प्रवर्धकाय स्वरूपायै नमः ॐ ।ॐ प्रावृण्णाथाय सर्वस्याद्यायै नमः ॐ ।ॐ प्रावृड्विनाशकाय बहिःस्थायै नमः ॐ ।ॐ शरदात्मने मूर्धन्यै नमः ॐ ।ॐ शरद्धेतवे ह्रीमत्यै नमः ॐ ।ॐ शरत्कालप्रवर्तकाय भगाराध्यायै नमः ॐ ।ॐ शरन्नाथाय शाम्यावस्थायै नमः ॐ ।ॐ शरत्कालनाशकाय संहितायै नमः ॐ । ५९०ॐ शरदाश्रयाय स्थूलरूपिण्यै नमः ॐ ।ॐ हिमस्वरूपाय मातुलिङ्गगदायै नमः ॐ ।ॐ हिमदाय स्त्रीरत्नायै नमः ॐ ।ॐ हिमघ्ने हेमकुण्डलिन्यै नमः ॐ ।ॐ हिमनायकाय हिमवपुत्र्यै नमः ॐ ।ॐ शैशिरात्मने लोकपालिन्यै नमः ॐ ।ॐ शैशिरेशाय षड्दर्शनविचक्षणायै नमः ॐ ।ॐ शैशिरर्तुप्रवर्तकाय षड्शास्त्रनिपुणायै नमः ॐ ।ॐ प्राच्यात्मने प्रज्ञानफलदायिन्यै नमः ॐ ।ॐ दक्षिणाकाराय दक्षिणेश्वर्यै नमः ॐ । ६००ॐ प्रतीच्यात्मने महामार्यै नमः ॐ ।ॐ उत्तराकृतये अण्डमध्यायै नमः ॐ ।ॐ आग्नेयात्मने अरुणाचलाय अपीतकुचाम्बायै नमः ॐ ।ॐ निरृतीशाय चित्पुरायै नमः ॐ ।ॐ वायव्यात्मने कालहस्तीशाय ज्ञानप्रसूनाम्बिकायै नमः ॐ ।ॐ ईशनायकाय ईश्वराण्यै नमः ॐ ।ॐ ऊर्ध्वाधराय ऊर्ध्वबाहुप्रियायै नमः ॐ ।ॐ सुदिगाकाराय सुकपालिन्यै नमः ॐ ।ॐ नानादेशैकनायकाय एकाग्रमनोलयकर्यै नमः ॐ ।ॐ सर्वपक्षिमृगाकाराय शङ्करेच्छानुवर्तिन्यै नमः ॐ । ६१०ॐ सर्वपक्षिमृगाधिपाय ईश्वरार्द्घासनगतायै नमः ॐ ।ॐ सर्वपक्षिमृगाधाराय सर्वजीवमूलमात्रे नमः ॐ ।ॐ मृगाद्युत्पत्तिकारणाय क्रियाशक्त्यै नमः ॐ ।ॐ जीवाध्यक्षाय सर्वजीवनिलयायै नमः ॐ ।ॐ जीववन्द्याय सर्वजीवनमस्कृत्यै नमः ॐ ।ॐ जीवविदे सर्वजीवपरिपालिन्यै नमः ॐ ।ॐ जीवरक्षकाय रुद्रप्रियायै नमः ॐ ।ॐ जीवकृते वंशकर्यै नमः ॐ ।ॐ जीवघ्ने शुक्लसंस्थितायै नमः ॐ ।ॐ जीवजीवनाय प्रपञ्चसारायै नमः ॐ । ६२०ॐ जीवसंश्रयाय अभिमान्यै नमः ॐ ।ॐ ज्योतिःस्वरूपिणे महानुभाव्यै नमः ॐ ।ॐ विश्वात्मने विश्वरूपायै नमः ॐ ।ॐ विश्वनाथाय विशालाक्ष्यै नमः ॐ ।ॐ वियत्पतये विषयवासनायै नमः ॐ ।ॐ वज्रात्मने इन्द्रशक्त्यै नमः ॐ ।ॐ वज्रहस्तात्मने बीजाङ्कुरायै नमः ॐ ।ॐ वज्रेशाय वज्रेशप्रियायै नमः ॐ ।ॐ वज्रभूषिताय वज्रेश्वर्यै नमः ॐ ।ॐ कुमारगुरवे ईशानाय स्कन्दमात्रे नमः ॐ । ६३०ॐ गणाध्यक्षाय यक्षविधानज्ञायै नमः ॐ ।ॐ गणाधिपाय गणगन्धर्वसेवितायै नमः ॐ ।ॐ पिनाकपाणये नागाभरणायै नमः ॐ ।ॐ सूर्यात्मने भास्करचक्रनिवासिन्यै नमः ॐ ।ॐ सोमसूर्याग्निलोचनाय कोटिसूर्यसमाननयनायै नमः ॐ ।ॐ अपायरहिताय अभयाम्बिकायै नमः ॐ ।ॐ शान्ताय प्रशान्त्यै नमः ॐ ।ॐ दान्ताय ईहाविरहितायै नमः ॐ ।ॐ दमयित्रे धर्मद्रवायै नमः ॐ ।ॐ दमाय जयशीलायै नमः ॐ । ६४०ॐ ऋषये पुराणपुरुषाय ऋषिदेवनमस्कृतायै नमः ॐ ।ॐ पुरुषेशाय प्रधानपुरुषनायिकायै नमः ॐ ।ॐ पुरन्दराय प्रधानानुप्रवेशिन्यै नमः ॐ ।ॐ कालाग्निरुद्राय कालचक्रवितनास्थायै नमः ॐ ।ॐ सर्वेशाय महेश्वरपदाश्रयायै नमः ॐ ।ॐ शमरूपाय रूपवर्जितायै नमः ॐ ।ॐ शमेश्वराय शमेश्वर्यै नमः ॐ ।ॐ प्रलयानलकृते शारदापीठनिलयायै नमः ॐ ।ॐ दिव्याय दिव्यमङ्गलायै नमः ॐ ।ॐ प्रलयानलनाशकाय महामहनायिकायै नमः ॐ । ६५०ॐ त्र्यम्बकाय त्रिकोणकायै नमः ॐ ।ॐ अरिषड्वर्गनाशकाय अखिलागमसंस्तुतायै नमः ॐ ।ॐ धनदप्रियाय नागवल्यै नमः ॐ ।ॐ अक्षोभ्याय नटराजप्रियायै नमः ॐ ।ॐ क्षोभरहिताय शिवकामेश्वर्यै नमः ॐ ।ॐ क्षोभदाय नृत्यमालिन्यै नमः ॐ ।ॐ क्षोभनाशकाय भवभावविनाशिन्यै नमः ॐ ।ॐ सदम्भाय लक्ष्यायै नमः ॐ ।ॐ दम्भरहिताय अकलङ्गकलाधर्यै नमः ॐ ।ॐ दम्भदाय गदाखेटायुधायै नमः ॐ । ६६०ॐ दम्भनाशकाय कालजिह्वायै नमः ॐ ।ॐ कुन्देन्दुशङ्खधवलाय महावृषासनायै नमः ॐ ।ॐ भस्मोद्घूलितविग्रहाय लोहितचन्दनधरायै नमः ॐ ।ॐ भस्मधारणहृष्टात्मने महाविभूतये दुर्द्घर्षायै नमः ॐ ।ॐ तुष्टये महातुष्ट्यै नमः ॐ ।ॐ पुष्टये महापुष्ट्यै नमः ॐ ।ॐ अरिसूदनाय करिमुखकुमारजनन्यै नमः ॐ ।ॐ स्थाणवे निरत्ययायै नमः ॐ ।ॐ दिगम्बराय नन्दायै निर्वाणजनन्यै नमः ॐ ।ॐ भर्गाय भारत्यै नमः ॐ । ६७०ॐ भगनेत्रभिदे हरिणेक्षणायै नमः ॐ ।ॐ उद्यमाय लब्धवृद्घये नमः ॐ ।ॐ त्रिकाग्नये त्रिस्थायै नमः ॐ ।ॐ कालकालाग्नये सङ्गीतप्रियायै नमः ॐ ।ॐ अद्वितीयाय परमाद्वैतमात्रे नमः ॐ ।ॐ महायशसे सम्प्रदायान्तकरणायै नमः ॐ ।ॐ सामप्रियाय सामघोषप्रियायै नमः ॐ ।ॐ सामवेत्रे सामगानलोलायै नमः ॐ ।ॐ सामगाय सामस्विन्यै? नमः ॐ ।ॐ सामगप्रियाय सामगीत्यै नमः ॐ । ६८०ॐ धीरोदात्ताय धीमत्यै नमः ॐ ।ॐ महाधीराय धीरसमर्चितायै नमः ॐ ।ॐ धैर्यदाय वीर्यप्रदायै नमः ॐ ।ॐ धैर्यवर्धकाय सर्वजगतां परमार्तिहन्त्र्यै नमः ॐ ।ॐ लावण्यराशये सुन्दरमनप्रियसख्यै नमः ॐ ।ॐ सर्वज्ञाय सुबुद्घये ज्ञानज्ञेयायै नमः ॐ ।ॐ बुद्घिमतां वराय सनातनज्ञानशक्तिप्रदायिन्यै नमः ॐ ।ॐ तुम्बवीणाय तुम्बरनादप्रियायै नमः ॐ ।ॐ कम्बुकण्ठाय श्रीशैलनिलयायै नमः ॐ ।ॐ शम्बरारिनिकृन्तनाय महादेवमनोरम्यायै नमः ॐ । ६९०ॐ शार्दूलचर्मवसनाय विन्द्यावासिन्यै नमः ॐ ।ॐ पूर्णानन्दाय परमानन्ददेव्यै नमः ॐ ।ॐ जगत्प्रियाय जगद्द्योतन्यै नमः ॐ ।ॐ जयप्रदाय जयेन्द्रायै नमः ॐ ।ॐ जयाध्यक्षाय विश्वेश्वरभास्वर्यै नमः ॐ ।ॐ जयात्मने जयशिवशङ्कर्यै नमः ॐ ।ॐ जयकारणाय जयविजयीभवायै नमः ॐ ।ॐ जङ्गमाजङ्गमाकाराय जगत्सम्पूर्णायै नमः ॐ ।ॐ जगदुत्पत्तिकारणाय व्यात्तकृत्स्नव्यवस्थितायै नमः ॐ ।ॐ जगद्रक्षाकराय जगदानन्ददायै नमः ॐ । ७००ॐ वश्याय वारिजासनसंस्थितायै नमः ॐ ।ॐ जगत्प्रलयकारणाय लयस्थित्युद्भवेश्वर्यै नमः ॐ ।ॐ पूषादन्तभिदे मत्तमातङ्गगमनायै नमः ॐ ।ॐ उत्कृष्टाय सुप्रकाशायै नमः ॐ ।ॐ पञ्चयज्ञाय पञ्चम्यै नमः ॐ ।ॐ प्रभञ्जकाय भाव्यायै नमः ॐ ।ॐ अष्टमूर्तये अष्टदेवीसमूह्यै नमः ॐ ।ॐ विश्वमूर्तये विश्वाम्बरायै नमः ॐ ।ॐ अतिमूर्तये अकलङ्कायै नमः ॐ ।ॐ अमूर्तिमते अर्धमात्रे नमः ॐ । ७१०ॐ कैलासशिखरावासाय कैलासनाथगृहेश्वर्यै नमः ॐ ।ॐ कैलासशिखरप्रियाय कैलासशिखरप्रकाशिन्यै नमः ॐ ।ॐ भक्तकैलासदाय भक्तवाञ्छितदायकायै नमः ॐ ।ॐ सूक्ष्माय सुनिर्मलायै नमः ॐ ।ॐ मर्मज्ञाय मानस्तोकायै नमः ॐ ।ॐ सर्वशिक्षकाय सिद्घविद्यायै नमः ॐ ।ॐ सोमाय सोमकलाकाराय कल्पितायै नमः ॐ ।ॐ महातेजसे महालावण्यशालिन्यै नमः ॐ ।ॐ महातपसे महायोगिन्यै नमः ॐ ।ॐ हिरण्यश्मश्रवे पुष्पितायै नमः ॐ । ७२०ॐ आनन्दाय शक्त्यैन आनन्दायै नमः ॐ ।ॐ स्वर्णकेशाय कचजिताम्बुदायै नमः ॐ ।ॐ सुवर्णदृषे निगमान्तवासिन्यै नमः ॐ ।ॐ ब्रह्मणे ब्रह्मग्रन्थ्यै नमः ॐ ।ॐ विश्वसृजे कमलवदनायै नमः ॐ ।ॐ उर्वीशाय और्व्यै नमः ॐ ।ॐ मोचकाय अनर्घ्यकैवल्यपददायिन्यै नमः ॐ ।ॐ बन्धवर्जिताय बन्धमोचन्यै नमः ॐ ।ॐ स्वतन्त्राय विनयप्रदायै नमः ॐ ।ॐ सर्वमन्त्रात्मने सर्वमन्त्रश्रेयस्यै नमः ॐ । ७३०ॐ द्युतिमते अमितप्रभाय विश्वेशेच्छानुवर्तिन्यै नमः ॐ ।ॐ पुष्कराक्षाय कमलालयतटनिवासिन्यै नमः ॐ ।ॐ पुण्यकीर्तये सकलतत्त्वस्वरूपप्रकाशिन्यै नमः ॐ ।ॐ पुण्यश्रवणकीर्तनाय कलाशेखरकौमुद्यै नमः ॐ ।ॐ पुण्यमूर्तये त्रिलोकजनन्यै नमः ॐ ।ॐ पुण्यदात्रे पुण्यकायै नमः ॐ ।ॐ पुण्यापुण्यफलप्रदाय हरिण्यै नमः ॐ ।ॐ सारभूताय वेदमालिन्यै नमः ॐ ।ॐ स्वरमयाय नादान्तरायै नमः ॐ ।ॐ रसभूताय रसायै नमः ॐ । ७४०ॐ रसाश्रयाय ह्रींशीलायै नमः ॐ ।ॐ ओङ्काराय ओङ्कारपञ्चरसुख्यै नमः ॐ ।ॐ प्रणवाय ह्रीङ्कारप्रणवात्मिकायै नमः ॐ ।ॐ नादाय नादकलाधरायै नमः ॐ ।ॐ प्रणतार्तिप्रभञ्जनाय प्रणतार्तिप्रियायै नमः ॐ ।ॐ निकटस्थाय लभ्यायै नमः ॐ ।ॐ अतिदूरस्थाय अमरकुमार्यै नमः ॐ ।ॐ वशिने सुन्दरेशराण्यै नमः ॐ ।ॐ ब्रह्माण्डनायकाय ब्रह्माण्डमण्डलायै नमः ॐ ।ॐ मन्दारमूलनिलयाय जगत्प्रियायै नमः ॐ । ७५०ॐ मन्दारकुसुमावृताय मन्दारकुसुमप्रियायै नमः ॐ ।ॐ वृन्दारकप्रियतमाय कौलिनीकेवलायै नमः ॐ ।ॐ वृन्दारकवरार्चिताय महाभैरवपूजितायै नमः ॐ ।ॐ श्रीमते सदाशिवकुटुम्बिन्यै नमः ॐ ।ॐ अनन्तकल्याणपरिपूर्णाय बन्धिकायै नमः ॐ ।ॐ महोदयाय दयाऽऽकरायै नमः ॐ ।ॐ महोत्साहाय परमोल्लासिन्यै नमः ॐ ।ॐ विश्वभोक्त्रे विश्वतोमुख्यै नमः ॐ ।ॐ विश्वाशापरिपूरकाय विश्वाकारिण्यै नमः ॐ ।ॐ सुलभाय लभ्येतरायै नमः ॐ । ७६०ॐ असुलभाय लक्षणागम्यायै नमः ॐ ।ॐ लभ्याय लब्धकामायै नमः ॐ ।ॐ अलभ्याय लब्धसुखायै नमः ॐ ।ॐ लाभप्रवर्धकाय लाभालाभविवर्जितायै नमः ॐ ।ॐ लाभात्मने लब्धरूपायै नमः ॐ ।ॐ लाभदाय लब्धविभ्रमायै नमः ॐ ।ॐ वक्त्रे विकृत्यै नमः ॐ ।ॐ द्युतिमते ज्ञानविग्रहायै नमः ॐ ।ॐ अनसूयकाय सङ्गहीनायै नमः ॐ ।ॐ ब्रह्मचारिणे महाकन्यायै नमः ॐ । ७७०ॐ दृढाचारिणे नवयौवनायै नमः ॐ ।ॐ देवसिह्माय जगन्नेत्र्यै नमः ॐ ।ॐ धनप्रियाय धन्यायै नमः ॐ ।ॐ वेदपाय आगमादिसन्नुतायै नमः ॐ ।ॐ देवदेवेशाय मुनिसंसेव्यायै नमः ॐ ।ॐ देवदेवाय अमरेशादिवन्दितायै नमः ॐ ।ॐ उत्तमोत्तमाय अनुत्तमायै नमः ॐ ।ॐ बीजराजाय बीजराजप्रियायै नमः ॐ ।ॐ बीजहेतवे पुत्रपौत्रवरप्रदायै नमः ॐ ।ॐ बीजदाय सर्वभोगप्रदायै नमः ॐ । ७८०ॐ बीजवृद्घिदाय वंशवृद्ध्यानुग्रहायै नमः ॐ ।ॐ बीजाधाराय भीषणाकारायै नमः ॐ ।ॐ बीजरूपाय बीजशक्त्यै नमः ॐ ।ॐ निर्बीजाय निष्कामायै नमः ॐ ।ॐ बीजनाशकाय लोभनाशिन्यै नमः ॐ ।ॐ परापरेशाय दृश्यरहितायै नमः ॐ ।ॐ वरदाय सदावरदसङ्कल्पायै नमः ॐ ।ॐ पिङ्गलाय पिङ्गलप्रियायै नमः ॐ ।ॐ अयुग्मलोचनाय त्रिवर्गनिलयायै नमः ॐ ।ॐ पिङ्गलाक्षाय पिङ्गलवर्णायै नमः ॐ । ७९०ॐ सुरगुरवे निखिलविद्येश्वर्यै नमः ॐ ।ॐ गुरवे गिरिराजकुमार्यै नमः ॐ ।ॐ सुरगुरुप्रियाय सुरमुनिदेवाश्रयायै नमः ॐ ।ॐ युगावहाय युगन्धरायै नमः ॐ ।ॐ युगाधीशाय युगधारिण्यै नमः ॐ ।ॐ युगकृते वियदादि जगत्प्रसुवे नमः ॐ ।ॐ युगनाशकाय तिरोधानकर्यै नमः ॐ ।ॐ कर्पूरगौराय शुक्लवर्णायै नमः ॐ ।ॐ गौरीशाय वनजायतनेत्रियै नमः ॐ ।ॐ गौरीगुरुगुहाश्रयाय अनाथरक्षकायै नमः ॐ । ८००ॐ धूर्जटये धूम्रकेश्यै नमः ॐ ।ॐ पिङ्गलजटाय पिङ्गलाक्ष्यै नमः ॐ ।ॐ जटामण्डलमण्डिताय ललिताम्बिकायै नमः ॐ ।ॐ मनोजवाय मानससञ्चरायै नमः ॐ ।ॐ जीवहेतवे जनयित्र्यै नमः ॐ ।ॐ अन्धकासुरसूदनाय भण्डसैन्यवधोद्युक्तायै नमः ॐ ।ॐ लोकबन्धवे सर्वजनेश्वर्यै नमः ॐ ।ॐ कलाधाराय कलावत्यै नमः ॐ ।ॐ पाण्डुराय पुण्डरीकाक्ष्यै नमः ॐ ।ॐ प्रमथाधिपाय सर्वलोकाराध्यायै नमः ॐ । ८१०ॐ अव्यक्तलक्षणाय अनन्तजिते नमः ॐ ।ॐ योगिने योगेश्वर्यै नमः ॐ ।ॐ योगीशाय योगानन्दायै नमः ॐ ।ॐ योगपुङ्गवाय योगीश्वरमनोध्येयायै नमः ॐ ।ॐ श्रितावासाय शारदापीठचक्रवर्तिन्यै नमः ॐ ।ॐ जनावासाय मोक्षेशमहिष्यै नमः ॐ ।ॐ सुरावासाय श्रीमहामेरुचक्रमण्डलायै नमः ॐ ।ॐ सुमण्डलाय सत्यसिद्घेश्वर्यै नमः ॐ ।ॐ भववैद्याय चतुर्वेद्यै नमः ॐ ।ॐ योगिवैद्याय बिन्दुमध्यस्थायै नमः ॐ । ८२०ॐ योगिसिह्महृदासनाय शिवाकारमञ्चस्थितायै नमः ॐ ।ॐ उत्तमाय उत्तमोत्तमायै नमः ॐ ।ॐ अनुत्तमाय निष्परिग्रहायै नमः ॐ ।ॐ अशक्ताय अमितशक्त्यै नमः ॐ ।ॐ कालकण्ठाय कालत्रयायै नमः ॐ ।ॐ विषादनाय हानोपादाननिर्मुक्तायै नमः ॐ ।ॐ आशास्याय कामितार्थदायै नमः ॐ ।ॐ कमनीयात्मने कमनीयायै नमः ॐ ।ॐ शुभाय एधमानप्रभायै नमः ॐ ।ॐ सुन्दरविग्रहाय कान्तायै नमः ॐ । ८३०ॐ भक्तकल्पतरवे सकलेष्टदायै नमः ॐ ।ॐ स्तोत्रे सर्ववेदान्ततत्परायै नमः ॐ ।ॐ स्तव्याय स्तुत्यायै नमः ॐ ।ॐ स्तोत्रवरप्रियाय हल्यवर्जितायै नमः ॐ ।ॐ अप्रमेयगुणाधाराय अहम्ब्रह्मतत्त्वात्मकायै नमः ॐ ।ॐ वेदकृते वेदिकायै नमः ॐ ।ॐ वेदविग्रहाय अद्वैतालयायै नमः ॐ ।ॐ कीर्त्याधाराय प्रियङ्कर्यै नमः ॐ ।ॐ कीर्तिकराय क्लीङ्कार्यै नमः ॐ ।ॐ कीर्तिहेतवे अमेयायै नमः ॐ । ८४०ॐ अहेतुकाय महाग्रासायै नमः ॐ ।ॐ अप्रधृष्याय अदृश्यायै नमः ॐ ।ॐ शान्तभद्राय दौर्भाग्यतूलवातूलायै नमः ॐ ।ॐ कीर्तिस्तम्भाय यशस्विन्यै नमः ॐ ।ॐ मनोमयाय छन्दःसारायै नमः ॐ ।ॐ भूशयाय ह्रींविभूषणायै नमः ॐ ।ॐ अन्नमयाय हरिद्रान्नैकरसिकायै नमः ॐ ।ॐ अभोगाय भोगमोक्षवरदायै नमः ॐ ।ॐ महेष्वासाय हठात्कारहतासुरायै नमः ॐ ।ॐ महीतनवे पर्वतराजकुमार्यै नमः ॐ । ८५०ॐ विज्ञानमयाय ज्ञानविज्ञानजनन्यै नमः ॐ ।ॐ आनन्दमयाय शिवानन्दमय्यै नमः ॐ ।ॐ प्राणमयाय प्राणदात्र्यै नमः ॐ ।ॐ अन्नदाय वसुदायै नमः ॐ ।ॐ सर्वलोकमयाय क्षराक्षरात्मिकायै नमः ॐ ।ॐ यष्ट्रे सर्वगायै नमः ॐ ।ॐ धर्माधर्मप्रवर्तकाय धर्माधर्मविवर्जितायै नमः ॐ ।ॐ अनिर्विण्णाय अरालकेशायै नमः ॐ ।ॐ गुणग्राहिणे सर्वोत्तमोत्तमायै नमः ॐ ।ॐ सर्वधर्मफलप्रदाय सकलधर्मोपदेशकारिण्यै नमः ॐ । ८६०ॐ दयासुधार्द्रनयनाय दयासुधासागरायै नमः ॐ ।ॐ निराशाय निर्ममायै नमः ॐ ।ॐ अपरिग्रहाय चन्द्रकलाधारिण्यै नमः ॐ ।ॐ परार्थवृत्तये मधुराय युगमालिन्यै नमः ॐ ।ॐ मधुरप्रियदर्शनाय निगमागमायै नमः ॐ ।ॐ मुक्तादामपरीताङ्गाय प्राणवरदस्वरूपिण्यै नमः ॐ ।ॐ निःसङ्गाय नवावरणायै नमः ॐ ।ॐ मङ्गलाकाराय सर्वमङ्गलायै नमः ॐ ।ॐ सुखप्रदाय सुखदायिन्यै नमः ॐ ।ॐ सुखाकाराय प्रणवस्वरूपिण्यै नमः ॐ । ८७०ॐ सुखदुःखविवर्जिताय सुखप्रदायै दुःखध्वंसिन्यै नमः ॐ ।ॐ विशृङ्खलाय विविक्तस्थायै नमः ॐ ।ॐ जगते जगदम्बिकायै नमः ॐ ।ॐ कर्त्रे ब्रह्मात्मैक्यस्वरूपिण्यै नमः ॐ ।ॐ जितसर्वाय सर्वावस्थाविवर्जितायै नमः ॐ ।ॐ पितामहाय बालाम्बिकायै नमः ॐ ।ॐ अनपायाय बैन्दवासनायै नमः ॐ ।ॐ अक्षयाय वीणावादिन्यै नमः ॐ ।ॐ मुण्डिने त्रिकूटायै नमः ॐ ।ॐ सुरूपाय लावण्यशालिन्यै नमः ॐ । ८८०ॐ रूपवर्जिताय रूपसौभाग्यकान्त्यै नमः ॐ ।ॐ अतीन्द्रियाय अनवद्याङ्ग्यै नमः ॐ ।ॐ महामायाय मायाबीजस्वरूपिण्यै नमः ॐ ।ॐ मायाविने चिन्मयातीतायै नमः ॐ ।ॐ विगतज्वराय सर्वानवद्यायै नमः ॐ ।ॐ अमृताय अतिगर्वितायै नमः ॐ ।ॐ शाश्वताय शान्ताय शाश्वतैश्वर्यायै नमः ॐ ।ॐ मृत्युघ्ने लयवर्जितायै नमः ॐ ।ॐ मूकनाशनाय महाप्रलयसाक्षिण्यै नमः ॐ ।ॐ महाप्रेतासनासीनाय प्रेतासनस्थितायै नमः ॐ । ८९०ॐ पिशाचानुचरावृताय पिशाचघ्न्यै नमः ॐ ।ॐ गौरीविलाससदनाय ईश्वरवल्लभायै नमः ॐ ।ॐ नानागानविशारदाय भावरागतालविश्वासिन्यै नमः ॐ ।ॐ विचित्रमाल्यवसनाय चित्रमाल्याम्बरविभूषणायै नमः ॐ ।ॐ दिव्यचन्दनचर्चिताय चित्रानुलेपनायै नमः ॐ ।ॐ विष्णुब्रह्मादिवन्द्याङ्घ्रये प्रियदर्शिण्यै नमः ॐ ।ॐ सुरासुरनमस्कृताय सर्वधारिण्यै नमः ॐ ।ॐ किरीटलेढिफालेन्दवे कनकप्रभायै नमः ॐ ।ॐ मणिकङ्कणभूषिताय रत्नमालिन्यै नमः ॐ ।ॐ रत्नाङ्गदाङ्गाय रत्नकिङ्किणिकारम्यरशनादामभूषितायै नमः ॐ । ९००ॐ रत्नेशाय रक्ताम्बरायै नमः ॐ ।ॐ रत्नरञ्जितपादुकाय सर्वाङ्गनवरत्नाभरणभूषितायै नमः ॐ ।ॐ नवरत्नगणोपेतकिरीटिने माणिक्यमुकुटायै नमः ॐ ।ॐ रत्नकञ्चुकाय नीलवर्णायै नमः ॐ ।ॐ नानाविधानेकरत्नलसत्कुण्डलमण्डिताय सुधासागरमध्यस्थायै नमः ॐ ।ॐ दिव्यरत्नगणाकीर्णकण्ठाभरणभूषिताय रत्नकङ्गणभूषणायै नमः ॐ ।ॐ गलव्यालमणये ललामराजदलिकायै नमः ॐ ।ॐ नासापुटभ्राजितमौक्तिकाय नासादण्डविराजितायै नमः ॐ ।ॐ रत्नाङ्गुलीयविलसत्करशाखानखप्रभाय केयूरकिरीटकनकाभरणायै नमः ॐ ।ॐ रत्नभ्राजद्घेमसूत्रलसत्कटितटाय नागरत्नतालपत्रकनकायै नमः ॐ । ९१०ॐ पटवे ह्रीङ्कारमणिदीपार्चिषे नमः ॐ ।ॐ वामाङ्कभागविलसत्पार्वतीवीक्षणप्रियाय महाविद्येश्वरप्रियायै नमः ॐ ।ॐ लीलावलम्बितवपुषे लीलाविग्रहधारिण्यै नमः ॐ ।ॐ भक्तमानसमन्दिराय भक्तरक्षणतत्परायै नमः ॐ ।ॐ मन्दमन्दारपुष्पौघलसद्वायुनिषेवितायचम्पकाशोकपुन्नागसौगन्धिकलसत्कचायै नमः ॐ ।ॐ कस्तूरीविलसत्फालाय कस्तूरितिलकाञ्चितायै नमः ॐ ।ॐ दिव्यवेषविराजिताय दिव्यज्ञाननायिकायै नमः ॐ ।ॐ दिव्यदेहप्रभाकूटसन्दीपितदिगन्तराय सर्वाभरणभूषितायै नमः ॐ ।ॐ देवासुरगुरुस्तव्याय देवताहृतमानस्यै नमः ॐ ।ॐ देवासुरनमस्कृताय देवदानवाश्रयायै नमः ॐ । ९२०ॐ हस्तराजत्पुण्डरीकाय दशमुद्रासमाराध्यायै नमः ॐ ।ॐ पुण्डरीकनिभेक्षणाय अष्टदलपद्मचक्रेश्वर्यै नमः ॐ ।ॐ सर्वाशास्यगुणाय नामपारायणप्रीतायै नमः ॐ ।ॐ अमेयाय अद्भुतचारित्रायै नमः ॐ ।ॐ सर्वलोकेष्टभूषणाय नित्यान्तरप्रकाशिन्यै नमः ॐ ।ॐ सर्वेष्टदात्रे अनाद्यन्तशरणागतपालिन्यै नमः ॐ ।ॐ सर्वेष्टाय मधुरभाषिण्यै नमः ॐ ।ॐ स्फुरन्मङ्गलविग्रहाय श्रीचक्रमातङ्ग्यै नमः ॐ ।ॐ अविद्यालेशरहिताय शोभितवेदिकायै नमः ॐ ।ॐ नानाविद्यैकसंश्रयाय सर्वप्रपञ्चनिर्मात्र्यै नमः ॐ । ९३०ॐ मूर्तिभवाय शोभनायै नमः ॐ ।ॐ कृपापूराय कृपाकटाक्षिण्यै नमः ॐ ।ॐ भक्तेष्टफलपूरकाय भक्तजनवरप्रदायिन्यै नमः ॐ ।ॐ सम्पूर्णकामाय अकाङ्क्ष्यै नमः ॐ ।ॐ सौभाग्यनिधये सर्वलोकाय दिशामङ्गलायै नमः ॐ ।ॐ सौभाग्यदायकाय सकलसौभाग्यदायकाम्भोजशरणायै नमः ॐ ।ॐ हितैषिणे सर्वचित्तिबोधिन्यै नमः ॐ ।ॐ हितकृते सुवेषाढ्यायै नमः ॐ ।ॐ सौम्याय सौम्येभ्यस्त्वतिसुन्दर्यै नमः ॐ ।ॐ परार्थैकप्रयोजनाय भक्तनिधये नमः ॐ । ९४०ॐ शरणागतदीनार्तपरित्राणपरायणाय शरणागतनिजजनवरदायै नमः ॐ ।ॐ जिष्णवे असुरसंहारचरित्रायै नमः ॐ ।ॐ नेत्रे भूमिकायै नमः ॐ ।ॐ वषट्काराय दक्षिणामूर्तिस्वरूपिण्यै नमः ॐ ।ॐ भ्राजिष्णवे उद्यद्भानुसहस्राभायै नमः ॐ ।ॐ भोजनाय पायसान्नप्रियायै नमः ॐ ।ॐ हविषे हविर्भोक्त्र्यै नमः ॐ ।ॐ भोक्त्रे महाभोगायै नमः ॐ ।ॐ भोजयित्रे अन्नदायै नमः ॐ ।ॐ जेत्रे जैत्र्यै नमः ॐ । ९५०ॐ जितारये जितेन्द्रियायै नमः ॐ ।ॐ जितमानसाय जयशालिन्यै नमः ॐ ।ॐ अक्षराय एकानेकाक्षराकृत्यै नमः ॐ ।ॐ कारणाय करुणाकर्यै नमः ॐ ।ॐ क्रुद्घसमराय त्र्यक्षर्यै नमः ॐ ।ॐ शारदप्लवाय शारदप्लवप्रियायै नमः ॐ ।ॐ आज्ञापकेच्छाय आज्ञाचक्राब्जनिलयायै नमः ॐ ।ॐ गम्भीराय गगनान्तस्थायै नमः ॐ ।ॐ कवये कल्पनायै नमः ॐ ।ॐ दुःस्वप्ननाशकाय महादुःस्वप्ननाशिन्यै नमः ॐ । ९६०ॐ पञ्चब्रह्मसमुत्पत्तये पञ्चसङ्ख्योपचारिण्यै नमः ॐ ।ॐ क्षेत्रज्ञाय क्षेत्रेश्यै नमः ॐ ।ॐ क्षेत्रपालकाय हरप्रियायै नमः ॐ ।ॐ व्योमकेशाय व्योमकेश्यै नमः ॐ ।ॐ भीमवेषाय भीमायै नमः ॐ ।ॐ गौरीपतये गङ्गाधरकुटुम्बिन्यै नमः ॐ ।ॐ अनामयाय निरूपप्लवायै नमः ॐ ।ॐ भवाब्धितरणोपायाय रत्नसदनायै नमः ॐ ।ॐ भगवते महाभगवत्यै नमः ॐ ।ॐ भक्तवत्सलाय भक्तभक्तिप्रवर्धिन्यै नमः ॐ । ९७०ॐ वराय वरप्रदायै नमः ॐ ।ॐ वरिष्ठाय लावण्यसुन्दर्यै नमः ॐ ।ॐ नेदिष्ठाय ह्रीङ्कारपेटकमणये नमः ॐ ।ॐ प्रियाय प्रियतमायै नमः ॐ ।ॐ प्रियदेवाय भक्तमानसहंसिकायै नमः ॐ ।ॐ सुधिये तमोऽपहायै नमः ॐ ।ॐ यन्त्रे सुमङ्गल्यै नमः ॐ ।ॐ यविष्ठाय नित्ययौवनायै नमः ॐ ।ॐ क्षोदिष्ठाय कौमोदक्यै नमः ॐ ।ॐ स्थविष्ठाय नादकलावल्यै नमः ॐ । ९८०ॐ यमशासकाय महाचक्रेश्वर्यै नमः ॐ ।ॐ हिरण्यगर्भाय हिरण्यमय्यै नमः ॐ ।ॐ हेमाङ्गाय हैमवत्यम्बिकायै नमः ॐ ।ॐ हेमरूपाय कनकोत्तमभूषणायै नमः ॐ ।ॐ हिरण्यदाय हिरण्यमणिकुण्डलायै नमः ॐ ।ॐ ब्रह्मज्योतिषे ब्रह्मसंहितायै नमः ॐ ।ॐ अनावेक्ष्याय आपालगोपविदितायै नमः ॐ ।ॐ चामुण्डाजनकाय चण्डिकायै नमः ॐ ।ॐ रवये रव्यै नमः ॐ ।ॐ मोक्षार्थिजनसंसेव्याय मोक्षदात्र्यै नमः ॐ । ९९०ॐ मोक्षदाय मोक्षप्रदायिन्यै नमः ॐ ।ॐ मोक्षनायकाय मोक्षदायै नमः ॐ ।ॐ महाश्मशाननिलयाय महाश्मशानेश्वर्यै नमः ॐ ।ॐ वेदाश्वाय वेदवेदान्तप्रकाशिन्यै नमः ॐ ।ॐ भूरथाय कनकरथायै नमः ॐ ।ॐ स्थिराय स्थिरमानसायै नमः ॐ ।ॐ मृगव्याधाय प्रमुख्यै नमः ॐ ।ॐ चर्मधाम्ने शर्मदायै नमः ॐ ।ॐ प्रच्छन्नाय अलङ्कृतपूर्ण्यै नमः ॐ ।ॐ स्फटिकप्रभाय मरकतायै नमः ॐ । १०००ॐ सर्वज्ञाय ज्ञानानन्दकलावत्यै नमः ॐ ।ॐ परमार्थात्मने परमानन्द बैरव्यै नमः ॐ ।ॐ ब्रह्मानन्दाश्रयाय ब्रह्मानन्दपरमेश्वर्यै नमः ॐ ।ॐ विभवे वैभवानन्दविशालाक्ष्यै नमः ॐ ।ॐ महेश्वराय महापुरुषसंहितायै नमः ॐ ।ॐ महादेवाय महानन्ददेवमहिष्यै नमः ॐ ।ॐ परब्रह्मणे सदानन्दशिवायै नमः ॐ ।ॐ सदाशिवाय जगन्मातेश्वरप्रियायै नमः ॐ । १००८ॐ अर्धनारीश्वरं नमः ॐ ।इति श्रीश्रिनिवासविरचिता श्रीअर्धनारीश्वरसहस्रनामावलिः समाप्ता ।जगदम्बा जगत्पिता अर्धनारीश्वर मूर्तिमान् ।महाहरिशङ्कर सर्वसुसम्पदानन्द महालक्ष्म्यै ।महालिङ्गसमुद्भव सर्वतत्वानन्द महामात्रुकायै ।विष्णुब्रह्मसुरसेवित सर्वकलानन्द महासरस्वत्यै ।महामेरु गृहवासा निकिललोक जनेश्वर मूर्तिमान ।श्रीमद् राजराज प्रियङ्कर अर्धनारीश्वरं प्रणमाम्यहम् ॥ N/A References : N/A Last Updated : January 11, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP