मराठी मुख्य सूची|स्तोत्रे|सहस्रनामावली| अस्य श्री मेधादक्षिणामूर्... सहस्रनामावली ब्रह्मानन्दं परमसुखदं केव... अथ मूलम् । ॐ श्रीं ह्रीं ... ॐ श्रीगणेशाय नमः । श्वेता... श्रीअरुणाचलेश्वरसहस्रनामावली अर्धनारीश्वरसहस्रनामावलिः ॐ हिरण्यबाहवे हिरण्यवर्णा... श्रीहनुमत्सहस्रनामावलिः ॐ श्रीगणेशाय नमः । ॐ ब्र... ॐ इन्द्राय नमः । देवतमाय ... ॐ श्रीगणेशाय नमः । ॐ नमोद... ॐ अस्य श्रीसर्वसाम्राज्यम... ध्यानम् । कान्त्या काञ्चन... ॐ श्रीगणेशाय नमः । ॐ नका... ॐ अस्य कामकलाकालीसहस्रनाम... श्री गणेशाय नमः । श्रीकाम... कालोऽहम् । अस्य श्रीकालना... शिव उवाच- नाम्नां सहस्रं ... ॐ श्मशानकालिकायै नमः । ॐ ... अथ कुञ्चितपादसहस्रनामावलि... धनं दारान्सुतान्क्षेत्रं ... षड्वक्त्रं शिखिवाहनं त्रि... ॐ कृष्णाय नमः । श्रीवल्लभ... ॐ अस्य श्रीपुराणपुरुषोत्त... श्रीगणेशाय नमः । श्रीकेदा... सितमकरनिषण्णां शुभ्रवर्णा... श्रीगणेशाय नमः । श्रीसमर्... ॐ अस्य श्रीगणपतिगकारादिसह... ॐ सुमुखाय नमः । सुवहाय । ... ध्यानम् रक्तश्वेतहिरण्यनी... ध्यानम् - रक्तश्वेतहिरण्य... ॐ शं शां षं ह्रीं क्लीं ग... अथ ध्यानम् । सूर्यस्पर्धि... ॐ श्री गुरुभ्यो नमः । गुर... ॐ श्रीगणेशाय नमः । सर्वत्... अथ श्रीगोपालदिव्यसहस्रनाम... ॐ गवे नमः । ॐ गौविन्द्यै ... श्रीगुरुभ्यो नमः । श्रीका... ॐ अस्य श्रीप्रचण्डचण्डिका... अथ श्रीयोगेश्वरकवि द्वारा... अस्य श्रीज्वालामुखीसहस्रन... विश्वव्यापकवारिमध्यविलसच्... ॐ अस्य श्रीतारासहस्रनामस्... ॐ भुवनेश्यै नमः । ॐ भुवार... ॐ अस्य श्रीमहोग्रतारा दिव... वरिष्ठ उवाच - कथं नामसहस्... ॐ तुलस्यै नमः । ॐ श्रीप्र... ॐ श्रीमत्त्यागमहाराजाय नम... श्रीगणपतये नमः । ॐ अनेजते... ध्यानम् । उद्यद्भानुसहस्र... ॐ योगेशाय नमः । ॐ अमरप्रभ... महाकालभैरव ऋषिस्त्रिष्टुप... अस्य श्रीदक्षिणामूर्तिसहस... ॐ आदिदेवाय नमः । दयासिन्ध... ध्यानम् । स्फटिकरजतवर्णां... ऋषिच्छन्दांसि - अस्य श्री... तन्त्रराजतन्त्रे पूर्वपीठ... ध्यानम् । १. सिंहस्था शशि... महामन्त्रस्य श्रीमहेश्वर ... ध्यानम् - रक्ताभां रक्तवस... ॐ श्रीमते नमः । ॐ धन्वन्त... ॐ नमो भगवते भूतनाथाय । ॐ ... ध्यानम् । विवर्णा चञ्चला ... अस्य श्री शिवकामसुन्दरीसम... ॐ अस्य श्रीनटेशसहस्रनामस्... ॐ श्री गणेशाय नमः । अस्य ... श्री गुरुभ्यो नमः । ॐ श्र... श्री गुरुभ्यो नमः । ॐ श्र... ॥ ध्यानम् ॥ श्रीमित्रेश्... श्रीराधासर्वेश्वरो विजयते... पद्मावतीशतम् ॐ श्री पद्मा... ॐ श्रीगणेशाय नमः । ॐ अस्य... अथ विनियोगः । ॐ अस्य श्री... अथ अकारादि-क्षकारान्तासहस... ॐ शिवायै नमः । उमायै । पर... ॐ श्रीकृष्णाय नमः । सच्चि... अस्य श्रीप्रणवसहस्रनामस्त... ईश्वर उवाच । शृणु देवि प... ॐ ब्रह्मास्त्राय नमः । ॐ ... श्रीमहादेव उवाच - अस्य श्... विनियोगः - ॐ अस्य श्रीबटु... रुद्रयामलोक्तबटुकभैरवसहस्... ॐ अस्य श्रीबलभद्रसहस्रनाम... ॐ ऐं ह्रीं श्रीं-आनन्दसिन... शौनक उवाच - कैलासशिखरे रम... श्रीदेव्युवाच - भगवन्भाषि... ओं ऐं ह्रीं श्रीङ्कल्याण्... ॐ परमात्मने नमः ॐ धर्मक्... ॐ निस्सीमोद्यद्गुणाय नमः ... ॐ क्रकुच्छन्दाय नमः । ॐ क... ध्यानम् - बालार्कमण्डलाभा... विनोयोगः - ॐ अस्य श्रीभुव... प्रणवाय ब्रह्मणे उद्गीथाय... विनियोगः । ॐ अस्य श्रीमहा... श्रीः । ॐ नमश्चण्डिकायै ।... ॐ ह्रीं श्रीं क्लीं गणाध्... ॐ महामार्यै नमः । महामाया... पार्वत्युवाच - भगवन् वेदत... श्रीगणेशाय नमः । श्रीमहाल... ॐ ह्रीं ऐं ह्रीं महावाण्य... ध्यानम् श्रीमच्चन्दनचर्चि... ॐ अद्भुताय नमः । अद्भुतचा... ॐ सुमुख्यै नमः । ॐ शेमुष्... ॐ अम्बायै नमः । ॐ अम्बालि... ॐ अस्यश्री मूकाम्बिकायाः ... श्रीभैरव उवाच । अस्य श्री... अस्य श्री मेधादक्षिणामूर्... ॐ नमो भगवते दक्षिणामूर्तय... गर्गसंहितातः ॐ कालिन्द्य... अस्य श्रीयोगेश्वरीसहस्रना... ॐ योगिन्यै नमः । योगमायाय... देव्युवाच - भगवन्सर्वशास्... सोन्दूर श्रीकृष्ण अवधूतवि... वन्दे वृन्दावनानन्दा राधि... ॐ श्रीराधायै नमः । राधिका... ॐ श्रीराधायै नमः । राधिका... ॐ अस्य श्रीरामसहस्रनाममाल... ॐ आर्यश्रेष्ठाय नमः । धरा... सङ्कल्पः - यजमानः, आचम्य,... ॐ नमो भगवते वासुदेवाय । ॐ... ॐ स्थिराय नमः । स्थाणवे ।... न्यासः । अस्य श्रीरुद्रसह... अथ श्रीरेणुकातन्त्रान्तर्... सिन्दूरारुणविग्रहां त्रिन... ॐ श्रियै नमः । वासुदेवमहि... ॐ नित्यागतायै नमः । ॐ अनन... ॐ श्रीवराहाय नमः । भूवराह... ॐ वल्ल्यै नमः । ॐ वल्लीश्... ॐ श्रीवाग्मत्याः सहस्रनाम... ॐ श्रीगणेशाय नमः । श्रीनन... वराहमुख्यै विद्महे । दण्ड... ध्यानम् - ओङ्कारबीजाक्षरी... शुक्लाम्बरधरं विष्णुं शशि... ॐ क्लीं विट्टलाय नमः । पा... पूर्वन्यासः । श्रीवेदव्या... श्रीविष्णुसहस्रनामावलिः प... रुद्र उवाच । संसारसागराद... ॐ श्रीगणेशाय नमः । ॐ विष... श्रीशिवाय गुरवे श्रीवीरभ... वेङ्कटेशस्य नाम्नां हि सह... ॐ श्री गुरुभ्यो नमः । अथ ... ॐ शङ्कराय नमः । ॐ श्रीधरा... ॐ गाढध्वान्तनिमज्जनप्रमुष... ॐ अमिताभाषिणे नमः । ॐ अघह... ॐ श्रीगणेशाय नमः । ॐ श्री... विनियोगः - अस्य श्रीशारिक... अस्य श्रीशास्तृशवर्णसहस्र... ॐ अस्य श्री शिवकामसुन्दरी... अस्य श्रीशिवकामसुन्दरीसहस... ॐ अखिलेश्वर्यै नमः । अग्न... ॐ स्थिराय नमः । ॐ स्थाणवे... ॐ श्री गणेशाय नमः । अथ श्... ॐ ओङ्कारकण्ठनिलयाय नमः । ... ॐ ॐकारनिलयात्मस्थाय नमः ।... श्री विष्णुरुवाच ॐ भवाय ... अस्य श्रीशिवसहस्रनामस्तोत... ॐ सौभाग्यलक्ष्म्यै नमः । ... ॐ राधिकेशाय नमः । ॐ जगन्न... सद्गुरु श्रीधरस्वामिनाप्र... ईशानमुखपूजा- ॐ जगद्भुवे न... ॐ वचनभुवे नमः । पराय । शङ... ॐ रुद्रभुवनाय नमः । अनन्त... ॐ ब्रह्मभुवे नमः । भवाय ।... अघोर मुखपूजा । ॐ विश्वभुव... ॐ अचिन्त्य शक्तये नमः । अ... जपसाधना ॐ अस्य श्रीमहात्र... ॐ सङ्कटायै नमः । ॐ विजयाय... ॐ सङ्गीतालय-प्रतिष्ठित-भग... ॐ सीतायै नमः । उमायै । पर... ॐ श्रीचक्राय नमः । ॐ श्री... ॐ शुक्लाम्बरधरं विष्णुं श... ॐ श्री गणेशाय नमः । अस्य ... ॐ अस्य श्रीसुब्रह्मण्यसहस... बिल्वैर्वा चम्पकाद्यौर्वा... ध्यानम् - ध्येयः सदा सवित... श्रीरुद्रयामले तन्त्रे श्... श्रीसूर्यसहस्रनामावलिः ॐ सुब्रह्मण्याय । सुरेशान... ॐ नमः । ओङ्कारनमोरूपाय । ... ॐ श्रीहयग्रीवाय नमः । श्र... स्वामिनारायणं कृष्णं भक्त... १. ॐ स्थिराय नमः । २. ॐ ... ॥ श्रीदुर्गादैव्ये नम: ॥ ... १. ॐ राजीवलोचनाय नमः । ... १ ॐ अचिन्त्यलक्षणायै नमः ... १ ॐ कालिन्द्यै नमः । २ ॐ... १ ॐ अन्नपूर्णायै नमः । ... १. ॐ नारसिंहाय नमः । २. ... १ ॐ देवकीनन्दनाय नमः । २... १ ॐ क्लीं देवाय नमः । २ ... १ ॐ श्रियै नमः । २ ॐ पद्... १ ॐ हनुमते नमः । २ ॐ श्र... ॥ श्रीकृष्णाय नमः ॥ १. ॐ ... १. ॐ विश्वविदे नम: । २. ... १. ॐ गणेश्वराय नम: । २.... १. ॐ ऐं ह्रीं श्रीं श्रीम... १ ॐ सीतायै नमः । २ ॐ उमा... १ ॐ ओंकाररूपिण्यै नमः । ... १. ॐ विश्वस्मै नमः । २.ॐ... १. ॐ श्रीराधायै नमः । २.... ॐ गणपतये नमः ॥ ॥ ॐ गणेश्व... श्रीमेधादक्षिणामूर्तिसहस्रनामावलिः - अस्य श्री मेधादक्षिणामूर्... हिंदू देवी देवतांची एक हजार नावे म्हणजेच सहस्त्रनामावली. हिंदू धर्मिय रोज सकाळी संध्याकाळी या नावांचा जप करतात.A sahasranamavali is a type of Hindu scripture in which a diety is referred to by 1000 or more different names.Many devout Hindus chant them every morning or evening. Tags : 1000godgoddesssahasranamavaliसहस्त्रनामावली श्रीमेधादक्षिणामूर्तिसहस्रनामावलिः Translation - भाषांतर अस्य श्री मेधादक्षिणामूर्तिसहस्रनामस्तोत्रस्यब्रह्मा ऋषिः । गायत्री छन्दः । दक्षिणामूर्तिर्देवता ।ओं बीजम् । स्वाहा शक्तिः । नमः कीलकम् ।मेधादक्षिणामूर्तिप्रसादसिद्ध्यर्थे जपे विनियोगः ।ह्राम् इत्यादिना अङ्गन्यासः । ध्यानम् ।सिद्धितोयनिधेर्मध्ये रत्नग्रीवे मनोरमे ।कदम्बवनिकामध्ये श्रीमद्वटतरोरधः ॥१॥आसीनमाद्यं पुरुषमादिमध्यान्तवर्जितम् ।शुद्धस्फटिकगोक्षीरशरत्पूर्णेन्दुशेखरम् ॥२॥दक्षिणे चाक्षमालां च वह्निं वै वामहस्तके ।जटामण्डलसंलग्नशीताम्शुकरमण्डितम् ॥३॥नागहारधरं चारुकङ्कणैः कटिसूत्रकैः ।विराजमानवृषभं व्याघ्रचर्माम्बरावृतम् ॥४॥चिन्तामणिमहावृन्दैः कल्पकैः कामधेनुभिः ।चतुष्षष्टिकलाविद्यामूर्तिभिः श्रुतिमस्तकैः ॥५॥रत्नसिंहासने साधुद्वीपिचर्मसमायुतम् ।तत्राष्टदलपद्मस्य कर्णिकायां सुशोभने ॥६॥वीरासने समासीनं लम्बदक्षपदांबुजम् ।ज्ञानमुद्रां पुस्तकं च वराभीतिधरं हरम् ॥७॥पादमूलसमाक्रान्तमहापस्मारवैभवम् ।रुद्राक्षमालाभरणभूषितं भूतिभासुरम् ॥८॥गजचर्मोत्तरीयं च मन्दस्मितमुखाम्बुजम् ।सिद्धवृन्दैर्योगिवृन्दैर्मुनिवृन्दैर्निषेवितम् ॥९॥आराध्यमानवृषभं अग्नीन्दुरविलोचनम् ।पूरयन्तं कृपादृष्ट्या पुमर्थानाश्रिते जने ॥१०॥एवं विभावयेदीशं सर्वविद्याकलानिधिम् ॥ ११॥लं इत्यादिना पञ्चोपचाराः ॥ ॥ श्री गुरुभ्यो नमः । अथ श्रीमेधादक्षिणामूर्तिसहस्रनामावलिः ।ॐ नाम्ने नमः । १ ॐ देवदेवाय नमः । २ ॐ महादेवाय नमः । ३ ॐ देवानामपि देशिकाय नमः । ४ ॐ दक्षिणामूर्तये नमः । ५ ॐ ईशानाय नमः । ६ ॐ दयापूरितदिङ्मुखाय नमः । । १। ७ ॐ कैलासशिखरोत्तुङ्गकमनीयनिजाकृतये नमः । ८ ॐ वटद्रुमतटीदिव्यकनकासनसंस्थिताय नमः । । २। ९ ॐ कटीतटपटीभूतकरिचर्मोज्ज्वलाकृतये नमः । १० ॐ पाटीरपाण्डुराकारपरिपूर्णसुधाधिपाय नमः । । ३। ११ ॐ जटाकोटीरघटितसुधाकरसुधाप्लुताय नमः । १२ ॐ पश्यल्ललाटसुभगसुन्दरभ्रूविलासवते नमः । । ४। १३ ॐ कटाक्षसरणीनिर्यत्करुणापूर्णलोचनाय नमः । १४ ॐ कर्णालोलतटिद्वर्णकुण्डलोज्ज्वलगण्डभुवे नमः । । ५। १५ ॐ तिलप्रसूनसंकाशनासिकापुरभासुराय नमः । १६ ॐ मन्दस्मितस्फुरन्मुग्धमहनीयमुखांबुजाय नमः । । ६। १७ ॐ कुन्दकुड्मलसंस्फर्धिदन्तपङ्क्तिविराजिताय नमः । १८ ॐ सिन्दूरारुणसुस्निग्धकोमलाधरपल्लवाय नमः । । ७। १९ ॐ शङ्खाटोपगलद्दिव्यगळवैभवमञ्जुलाय नमः । २० ॐ करकन्दलितज्ञानमुद्रारुद्राक्षमालिकाय नमः । । ८। २१ ॐ अन्यहस्ततलन्यस्तवीणापुस्तोल्लसद्वपुषे नमः । २२ ॐ विशालरुचिरोरस्कबलिमत्पल्लवोदराय नमः । । ९। २३ ॐ बृहत्कटिनितंबाढ्याय नमः । २४ ॐ पीवरोरुद्वयान्विताय नमः । २५ ॐ जङ्घाविजिततूणीराय नमः । २६ ॐ तुङ्गगुल्फयुगोज्ज्वलाय नमः । । १०। २७ ॐ मृदुपाटलपादाब्जाय नमः । २८ ॐ चन्द्राभनखदीधितये नमः । २९ ॐ अपसव्योरुविन्यस्तसव्यपादसरोरुहाय नमः । । ११। ३० ॐ घोरापस्मारनिक्षिप्तधीरदक्षपदाम्बुजाय नमः । ३१ ॐ सनकादिमुनिध्येयाय नमः । ३२ ॐ सर्वाभरणभूषिताय नमः । । १२। ३३ ॐ दिव्यचन्दनलिप्ताङ्गाय नमः । ३४ ॐ चारुहासपरिष्कृताय नमः । ३५ ॐ कर्पूरधवलाकाराय नमः । ३६ ॐ कन्दर्पशतसुन्दराय नमः । । १३। ३७ ॐ कात्यायनीप्रेमनिधये नमः । ३८ ॐ करुणारसवारिधये नमः । ३९ ॐ कामितार्थप्रदाय नमः । ४० ॐ श्रीमत्कमलावल्लभप्रियाय नमः । । १४। ४१ ॐ कटाक्षितात्मविज्ञानाय नमः । ४२ ॐ कैवल्यानन्दकन्दलाय नमः । ४३ ॐ मन्दहाससमानेन्दवे नमः । ४४ ॐ छिन्नाज्ञानतमस्ततये नमः । । १५। ४५ ॐ संसारानलसंतप्तजनतामृतसागराय नमः । ४६ ॐ गंभीरहृदयाम्भोजनभोमणिनिभाकृतये नमः । । १६। ४७ ॐ निशाकरकराकारवशीकृतजगत्त्रयाय नमः । ४८ ॐ तापसाराध्यपादाब्जाय नमः । ४९ ॐ तरुणानन्दविग्रहाय नमः । । १७। ५० ॐ भूतिभूषितसर्वाङ्गाय नमः । ५१ ॐ भूताधिपतये नमः । ५२ ॐ ईश्वराय नमः । ५३ ॐ वदनेन्दुस्मितज्योत्स्नानिलीनत्रिपुराकृतये नमः । । १८। ५४ ॐ तापत्रयतमोभानवे नमः । ५५ ॐ पापारण्यदवानलाय नमः । ५६ ॐ संसारसागरोद्धर्त्रे नमः । ५७ ॐ हंसाग्र्योपास्यविग्रहाय नमः । । १९। ५८ ॐ ललाटहुतभुग्दग्धमनोभवशुभाकृतये नमः । ५९ ॐ तुच्छीकृतजगज्जालाय नमः । ६० ॐ तुषारकरशीतलाय नमः । । २०। ६१ ॐ अस्तंगतसमस्तेछाय नमः । ६२ ॐ निस्तुलानन्दमन्थराय नमः । ६३ ॐ धीरोदात्तगुणाधाराय नमः । ६४ ॐ उदारवरवैभवाय नमः । । २१। ६५ ॐ अपारकरुणामूर्तये नमः । ६६ ॐ अज्ञानध्वान्तभास्कराय नमः । ६७ ॐ भक्तमानसहंसाग्र्याय नमः । ६८ ॐ भवामयभिषक्तमाय नमः । । २२। ६९ ॐ योगीन्द्रपूज्यपादाब्जाय नमः । ७० ॐ योगपट्टोल्लसत्कटये नमः । ७१ ॐ शुद्धस्फटिकसङ्काशाय नमः । ७२ ॐ बद्धपन्नगभूषणाय नमः । । २३। ७३ ॐ नानामुनिसमाकीर्णाय नमः । ७४ ॐ नासाग्रन्यस्तलोचनाय नमः । ७५ ॐ वेदमूर्धैकसंवेद्याय नमः । ७६ ॐ नादध्यानपरायणाय नमः । । २४। ७७ ॐ धराधरेन्दवे नमः । ७८ ॐ आनन्दसंदोहरससागराय नमः । ७९ ॐ द्वैतवृन्दविमोहान्ध्यपराकृतदृगद्भुताय नमः । । २५। ८० ॐ प्रत्यगात्मने नमः । ८१ ॐ परस्मै ज्योतिषे नमः । ८२ ॐ पुराणाय नमः । ८३ ॐ परमेश्वराय नमः । ८४ ॐ प्रपञ्चोपशमाय नमः । ८५ ॐ प्राज्ञाय नमः । ८६ ॐ पुण्यकीर्तये नमः । ८७ ॐ पुरातनाय नमः । । २६। ८८ ॐ सर्वाधिष्ठानसन्मात्राय नमः । ८९ ॐ स्वात्मबन्धहराय नमः । ९० ॐ हराय नमः । ९१ ॐ सर्वप्रेमनिजाहासाय नमः । ९२ ॐ सर्वानुग्रहकृते नमः । ९३ ॐ शिवाय नमः । । २७। ९४ ॐ सर्वेन्द्रियगुणाभासाय नमः । ९५ ॐ सर्वभूतगुणाश्रयाय नमः । ९६ ॐ सच्चिदानन्दपूर्णात्मने नमः । ९७ ॐ स्वे महिम्नि प्रतिष्ठिताय नमः । । २८। ९८ ॐ सर्वभूतान्तराय नमः । ९९ ॐ साक्षिणे नमः । १०० ॐ सर्वज्ञाय नमः । १०१ ॐ सर्वकामदाय नमः । १०२ ॐ सनकादिमहायोगिसमाराधितपादुकाय नमः । । २९। १०३ ॐ आदिदेवाय नमः । १०४ ॐ दयासिन्धवे नमः । १०५ ॐ शिक्षितासुरविग्रहाय नमः । १०६ ॐ यक्षकिन्नरगन्धर्वस्तूयमानात्मवैभवाय नमः । । ३०। १०७ ॐ ब्रह्मादिदेवविनुताय नमः । १०८ ॐ योगमायानियोजकाय नमः । १०९ ॐ शिवयोगिने नमः । ११० ॐ शिवानन्दाय नमः । १११ ॐ शिवभक्तसमुद्धराय नमः । । ३१। ११२ ॐ वेदान्तसारसन्दोहाय नमः । ११३ ॐ सर्वसत्त्वावलंबनाय नमः । ११४ ॐ वटमूलाश्रयाय नमः । ११५ ॐ वाग्मिने नमः । ११६ ॐ मान्याय नमः । ११७ ॐ मलयजप्रियाय नमः । । ३२। ११८ ॐ सुशीलाय नमः । ११९ ॐ वाञ्छितार्थज्ञाय नमः । १२० ॐ प्रसन्नवदनेक्षणाय नमः । १२१ ॐ नृत्तगीतकलाभिज्ञाय नमः । १२२ ॐ कर्मविदे नमः । १२३ ॐ कर्ममोचकाय नमः । । ३३। १२४ ॐ कर्मसाक्षिणे नमः । १२५ ॐ कर्ममयाय नमः । १२६ ॐ कर्मणां फलप्रदाय नमः । १२७ ॐ ज्ञानदात्रे नमः । १२८ ॐ सदाचाराय नमः । १२९ ॐ सर्वोपद्रवमोचकाय नमः । । ३४। १३० ॐ अनाथनाथाय नमः । १३१ ॐ भगवते नमः । १३२ ॐ आश्रितामरपादपाय नमः । १३३ ॐ वरप्रदाय नमः । १३४ ॐ प्रकाशात्मने नमः । १३५ ॐ सर्वभूतहिते रताय नमः । । ३५। १३६ ॐ व्याघ्रचर्मासनासीनाय नमः । १३७ ॐ आदिकर्त्रे नमः । १३८ ॐ महेश्वराय नमः । १३९ ॐ सुविक्रमाय नमः । १४० ॐ सर्वगताय नमः । १४१ ॐ विशिष्टजनवत्सलाय नमः । । ३६। १४२ ॐ चिन्ताशोकप्रशमनाय नमः । १४३ ॐ जगदानन्दकारकाय नमः । १४४ ॐ रश्मिमते नमः । १४५ ॐ भुवनेशाय नमः । १४६ ॐ देवासुरपूजिताय नमः । । ३७। १४७ ॐ मृत्युञ्जयाय नमः । १४८ ॐ व्योमकेशाय नमः । १४९ ॐ षट्त्रिंशत्तत्त्वसङ्ग्रहाय नमः । १५० ॐ अज्ञातसंभवाय नमः । १५१ ॐ भिक्षवे नमः । १५२ ॐ अद्वितीयाय नमः । १५३ ॐ दिगंबराय नमः । । ३८। १५४ ॐ समस्तदेवतामूर्तये नमः । १५५ ॐ सोमसूर्याग्निलोचनाय नमः । १५६ ॐ सर्वसाम्राज्यनिपुणाय नमः । १५७ ॐ धर्ममार्गप्रवर्तकाय नमः । । ३९। १५८ ॐ विश्वाधिकाय नमः । १५९ ॐ पशुपतये नमः । १६० ॐ पशुपाशविमोचकाय नमः । १६१ ॐ अष्टमूर्तये नमः । १६२ ॐ दीप्तमूर्तये नमः । १६३ ॐ नामोच्चारणमुक्तिदाय नमः । । ४०। १६४ ॐ सहस्रादित्यसंकाशाय नमः । १६५ ॐ सदाषोडशवार्षिकाय नमः । १६६ ॐ दिव्यकेलीसमायुक्ताय नमः । १६७ ॐ दिव्यमाल्याम्बरावृताय नमः । । ४१। १६८ ॐ अनर्घरत्नसम्पूर्णाय नमः । १६९ ॐ मल्लिकाकुसुमप्रियाय नमः । १७० ॐ तप्तचामीकराकाराय नमः । १७१ ॐ जितदावानलाकृतये नमः । । ४२। १७२ ॐ निरञ्जनाय नमः । १७३ ॐ निर्विकाराय नमः । १७४ ॐ निजावासाय नमः । १७५ ॐ निराकृतये नमः । १७६ ॐ जगद्गुरवे नमः । १७७ ॐ जगत्कर्त्रे नमः । १७८ ॐ जगदीशाय नमः । १७९ ॐ जगत्पतये नमः ॥ ४३। १८० ॐ कामहन्त्रे नमः । १८१ ॐ काममूर्तये नमः । १८२ ॐ कल्याणवृषवाहनाय नमः । १८३ ॐ गङ्गाधराय नमः । १८४ ॐ महादेवाय नमः । १८५ ॐ दीनबन्धविमोचकाय नमः । । ४४। १८६ ॐ धूर्जतये नमः । १८७ ॐ खण्डपरशवे नमः । १८८ ॐ सद्गुणाय नमः । १८९ ॐ गिरिजासखाय नमः । १९० ॐ अव्ययाय नमः । १९१ ॐ भूतसेनेशाय नमः । १९२ ॐ पापघ्नाय नमः । १९३ ॐ पुण्यदायकाय नमः । । ४५। १९४ ॐ उपदेष्ट्रे नमः । १९५ ॐ दृढप्र्ज्ञाय नमः । १९६ ॐ रुद्राय नमः । १९७ ॐ रोगविनाशनाय नमः । १९८ ॐ नित्यानन्दाय नमः । १९९ ॐ निराधाराय नमः । २०० ॐ हराय नमः । २०१ ॐ देवशिखामणये नमः । । ४६। २०२ ॐ प्रणतार्तिहराय नमः । २०३ ॐ सोमाय नमः । २०४ ॐ सान्द्रानन्दाय नमः । २०५ ॐ महामतये नमः । २०६ ॐ आश्चर्यवैभवाय नमः । २०७ ॐ देवाय नमः । २०८ ॐ संसारार्णवतारकाय नमः । । ४७। २०९ ॐ यज्ञेशाय नमः । २१० ॐ राजराजेशाय नमः । २११ ॐ भस्मरुद्राक्षलाञ्छनाय नमः । २१२ ॐ अनन्ताय नमः । २१३ ॐ तारकाय नमः । २१४ ॐ स्थाणवे नमः । २१५ ॐ सर्वविद्येश्वराय नमः । २१६ ॐ हरये नमः । । ४८। २१७ ॐ विश्वरूपाय नमः । २१८ ॐ विरूपाक्षाय नमः । २१९ ॐ प्रभवे नमः । २२० ॐ परिबृडाय नमः । २२१ ॐ दृढाय नमः । २२२ ॐ भव्याय नमः । २२३ ॐ जितारिषड्वर्गाय नमः । २२४ ॐ महोदाराय नमः । २२५ ॐ विषाशनाय नमः । । ४९। २२६ ॐ सुकीर्तये नमः । २२७ ॐ आदिपुरुषाय नमः । २२८ ॐ जरामरणवर्जिताय नमः । २२९ ॐ प्रमाणभूताय नमः । २३० ॐ दुर्ज्ञेयाय नमः । २३१ ॐ पुण्याय नमः । २३२ ॐ परपुरञ्जयाय नमः । । ५०। २३३ ॐ गुणाकराय नमः । २३४ ॐ गुणश्रेष्ठाय नमः । २३५ ॐ सच्चिदानन्दविग्रहाय नमः । २३६ ॐ सुखदाय नमः । २३७ ॐ कारणाय नमः । २३८ ॐ कर्त्रे नमः । २३९ ॐ भवबन्धविमोचकाय नमः । । ५१। २४० ॐ अनिर्विण्णाय नमः । २४१ ॐ गुणग्राहिणे नमः । २४२ ॐ निष्कलङ्काय नमः । २४३ ॐ कलङ्कघ्ने नमः । २४४ ॐ पुरुषाय नमः । २४५ ॐ शाश्वताय नमः । २४६ ॐ योगिने नमः । २४७ ॐ व्यक्ताव्यक्ताय नमः । २४८ ॐ सनातनाय नमः । । ५२। २४९ ॐ चराचरात्मने नमः । २५० ॐ सूक्ष्मात्मने नमः । २५१ ॐ विश्वकर्मणे नमः । २५२ ॐ तमोऽपहृते नमः । २५३ ॐ भुजङ्गभूषणाय नमः । २५४ ॐ भर्गाय नमः । २५५ ॐ तरुणाय नमः । २५६ ॐ करुणालयाय नमः । । ५३। २५७ ॐ अणिमादिगुणोपेताय नमः । २५८ ॐ लोकवश्यविधायकाय नमः । २५९ ॐ योगपट्टधराय नमः । २६० ॐ मुक्ताय नमः । २६१ ॐ मुक्तानं परमायै गतये नमः । । ५४। २६२ ॐ गुरुरूपधराय नमः । २६३ ॐ श्रीमत्परमानन्दसागराय नमः । २६४ ॐ सहस्रबाहवे नमः । २६५ ॐ सर्वेशाय नमः । २६६ ॐ सहस्रावयवान्विताय नमः । । ५५। २६७ ॐ सहस्रमूर्ध्ने नमः । २६८ ॐ सर्वात्मने नमः । २६९ ॐ सहस्राक्षाय नमः । २७० ॐ सहस्रपदे नमः । २७१ ॐ निराभासाय नमः । २७२ ॐ सुक्ष्मतनवे नमः । २७३ ॐ हृदि ज्ञाताय नमः । २७४ ॐ परात्पराय नमः । । ५६। २७५ ॐ सर्वात्मगाय नमः । २७६ ॐ सर्वसाक्षिणे नमः । २७७ ॐ निःसङ्गाय नमः । २७८ ॐ निरुपद्रवाय नमः । २७९ ॐ निष्कलाय नमः । २८० ॐ सकलाध्यक्षाय नमः । २८१ ॐ चिन्मयाय नमः । २८२ ॐ तमसः पराय नमः । । ५७। २८३ ॐ ज्ञानवैराग्यसम्पन्नाय नमः । २८४ ॐ योगानन्दमयाय शिवाय नमः । २८५ ॐ शाश्वतैश्वर्यसम्पूर्णाय नमः । २८६ ॐ महायोगीश्वरेश्वराय नमः । । ५८। २८७ ॐ सहस्रशक्तिसंयुक्ताय नमः । २८८ ॐ पुण्यकायाय नमः । २८९ ॐ दुरासदाय नमः । २९० ॐ तारकब्रह्मसम्पूर्णाय नमः । २०१ ॐ तपस्विजनसंवृताय नमः । । ५९। २९२ ॐ विधीन्द्रामरसम्पूज्याय नमः । २९३ ॐ ज्योतिषां ज्योतिषे नमः । २९४ ॐ उत्तमाय नमः । २९५ ॐ निरक्षराय नमः । २९६ ॐ निरालम्बाय नमः । २९७ ॐ स्वात्मारामाय नमः । २९८ ॐ विकर्तनाय नमः । । ६०। २९९ ॐ निरवद्याय नमः । ३०० ॐ निरातङ्काय नमः । ३०१ ॐ भीमाय नमः । ३०२ ॐ भीमपराक्रमाय नमः । ३०३ ॐ वीरभद्राय नमः । ३०४ ॐ पुरारातये नमः । ३०५ ॐ जलन्धरशिरोहराय नमः । । ६१। ३०६ ॐ अन्धकासुरसंहर्त्रे नमः । ३०७ ॐ भगनेत्रभिदे नमः । ३०८ ॐ अद्भुताय नमः । ३०९ ॐ विश्वग्रासाय नमः । ३१० ॐ अधर्मशत्रवे नमः । ३११ ॐ ब्रह्मज्ञानैकमन्थराय नमः । । ६२। ३१२ ॐ अग्रेसराय नमः । ३१३ ॐ तीर्थभूताय नमः । ३१४ ॐ सितभस्मावकुण्ठनाय नमः । ३१५ ॐ अकुण्ठमेधसे नमः । ३१६ ॐ श्रीकण्ठाय नमः । ३१७ ॐ वैकुण्ठपरमप्रियाय नमः । । ६३। ३१८ ॐ ललाटोज्ज्वलनेत्राब्जाय नमः । ३१९ ॐ तुषारकरशेखराय नमः । ३२० ॐ गजासुरशिरश्छेत्रे नमः । ३२१ ॐ गङ्गोद्भासितमूर्धजाय नमः । । ६४। ३२२ ॐ कल्याणाचलकोदण्डाय नमः । ३२३ ॐ कमलापतिसायकाय नमः । ३२४ ॐ वारांशेवधितूणीराय नमः । ३२५ ॐ सरोजासनसारथये नमः । । ६५। ३२६ ॐ त्रयीतुरङ्गसंक्रान्ताय नमः । ३२७ ॐ वासुकिज्याविराजिताय नमः । ३२८ ॐ रवीन्दुचरणाचारिधरारथविराजिताय नमः । । ६६। ३२९ ॐ त्रय्यन्तप्रग्रहोदारचारुघण्टारवोज्ज्वलाय नमः । ३३० ॐ उत्तानपर्वलोमाढ्याय नमः । ३३१ ॐ लीलाविजितमन्मथाय नमः । । ६७। ३३२ ॐ जातुप्रपन्नजनताजीवनोपायनोत्सुकाय नमः । ३३३ ॐ संसारार्णवनिर्मग्नसमुद्धरणपण्डिताय नमः । । ६८। ३३४ ॐ मदद्विरदधिक्कारिगतिमञ्जुलवैभवाय नमः । ३३५ ॐ मत्तकोकिलमाधुर्यरसनिर्भरगीर्गणाय नमः । । ६९। ३३६ ॐ कैवल्योदधिकल्लोललीलाताण्डवपण्डिताय नमः । ३३७ ॐ विष्णवे नमः । ३३८ ॐ जिष्णवे नमः । ३३९ ॐ वासुदेवाय नमः । ३४० ॐ प्रभविष्णवे नमः । ३४१ ॐ पुरातनाय नमः ॥ ७०। ३४२ ॐ वर्धिष्णवे नमः । ३४३ ॐ वरदाय नमः । ३४४ ॐ वैद्याय नमः । ३४५ ॐ हरये नमः । ३४६ ॐ नारायणाय नमः । ३४७ ॐ अच्युताय नमः । ३४८ ॐ अज्ञानवनदावाग्नये नमः । ३४९ ॐ प्रज्ञाप्रासादभूपतये नमः । । ७१। ३५० ॐ सर्पभूषितसर्वाङ्गाय नमः । ३५१ ॐ कर्पूरोज्ज्वलिताकृतये नमः । ३५२ ॐ अनादिमध्यनिधनाय नमः । ३५३ ॐ गिरीशाय नमः । ३५४ ॐ गिरिजापतये नमः । । ७२। ३५५ ॐ वीतरागाय नमः । ३५६ ॐ विनीताय्मने नमः । ३५७ ॐ तपस्विने नमः । ३५८ ॐ भूतभावनाय नमः । ३५९ ॐ देवासुरगुरुध्येयाय नमः । ३६० ॐ देवासुरनमस्कृताय नमः । । ७३। ३६१ ॐ देवादिदेवाय नमः । ३६२ ॐ देवर्षये नमः । ३६३ ॐ देवासुरवरप्रदायय नमः । ३६४ ॐ सर्वदेवमयाय नमः । ३६५ ॐ अचिन्त्याय नमः । ३६६ ॐ देवात्मने नमः । ३६७ ॐ आत्मसंभवाय नमः । । ७४। ३६८ ॐ निर्लेपाय नमः । ३६९ ॐ निष्प्रपञ्चात्मने नमः । ३७० ॐ निविघ्नाय नमः । ३७१ ॐ विघ्ननाशकाय नमः । ३७२ ॐ एकज्योतिषे नमः । ३७३ ॐ निरातङ्काय नमः । ३७४ ॐ व्याप्तमूर्तये नमः । ३७५ ॐ अनाकुलाय नमः । । ७५। ३७६ ॐ निरवद्यपदोपाधये नमः । ३७७ ॐ विद्याराशये नमः । ३७८ ॐ अनुत्तमाय नमः । ३७९ ॐ नित्यानन्दाय नमः । ३८० ॐ सुराध्यक्षाय नमः । ३८१ ॐ निःसंकल्पाय नमः । ३८२ ॐ निरञ्जनाय नमः । । ७६। ३८३ ॐ निष्कलङ्काय नमः । ३८४ ॐ निराकाराय नमः । ३८५ ॐ निष्प्रपञ्चाय नमः । ३८६ ॐ निरामयाय नमः । ३८७ ॐ विद्याधराय नमः । ३८८ ॐ वितत्केशाय नमः । ३८९ ॐ मार्कण्डेयवरप्रदाय नमः । । ७७। ३९० ॐ भैरवाय नमः । ३९१ ॐ भैरवीनाथाय नमः । ३९२ ॐ कामदाय नमः । ३९३ ॐ कमलासनाय नमः । ३९४ ॐ वेदवेद्याय नमः । ३९५ ॐ सुरानन्दाय नमः । ३९६ ॐ लसज्ज्योतिषे नमः । ३९७ ॐ प्रभाकराय नमः । । ७८। ३९८ ॐ चूडामणये नमः । ३९९ ॐ सुराधीशाय नमः । ४०० ॐ यज्ञगेयाय नमः । ४०१ ॐ हरिप्रियाय नमः । ४०२ ॐ निर्लेपाय नमः । ४०३ ॐ नीतिमते नमः । ४०४ ॐ सूत्रिणे नमः । ४०५ ॐ श्रीहालाहलसुन्दराय नमः । । ७९। ४०६ ॐ धर्मदक्षाय नमः । ४०७ ॐ महाराजाय नमः । ४०८ ॐ किरीटिणे नमः । ४०९ ॐ वन्दिताय नमः । ४१० ॐ गुहाय नमः । ४११ ॐ माधवाय नमः । ४१२ ॐ यामिनीनाथाय नमः । ४१३ ॐ शंबराय नमः । ४१४ ॐ शबरीप्रियाय नमः । । ८०। ४१५ ॐ सङ्गीतवेत्रे नमः । ४१६ ॐ लोकज्ञाय नमः । ४१७ ॐ शान्ताय नमः । ४१८ ॐ कलशसंभवाय नमः । ४१९ ॐ ब्रह्मण्याय नमः । ४२० ॐ वरदाय नमः । ४२१ ॐ नित्याय नमः । ४२२ ॐ शूलिने नमः । ४२३ ॐ गुरुवराय हराय नमः । । ८१। ४२४ ॐ मार्ताण्डाय नमः । ४२५ ॐ पुण्डरीकाक्षाय नमः । ४२६ ॐ लोकनायकविक्रमाय नमः । ४२७ ॐ मुकुन्दार्च्याय नमः । ४२८ ॐ वैद्यनाथाय नमः । ४२९ ॐ पुरन्दरवरप्रदाय नमः । । ८२। ४३० ॐ भाषाविहीनाय नमः । ४३१ ॐ भाषाज्ञाय नमः । ४३२ ॐ विघ्नेशाय नमः । ४३३ ॐ विघ्ननाशनाय नमः । ४३४ ॐ किन्नरेशाय नमः । ४३५ ॐ बृहद्भानवे नमः । ४३६ ॐ श्रीनिवासाय नमः । ४३७ ॐ कपालभृते नमः ॥ ८३। ४३८ ॐ विजयाय नमः । ४३९ ॐ भूतभावज्ञाय नमः । ४४० ॐ भीमसेनाय नमः । ४४१ ॐ दिवाकराय नमः । ४४२ ॐ बिल्वप्रियाय नमः । ४४३ ॐ वसिष्ठेशाय नमः । ४४४ ॐ सर्वमार्गप्रवर्तकाय नमः । । ८४। ४४५ ॐ ओषधीशाय नमः । ४४६ ॐ वामदेवाय नमः । ४४७ ॐ गोविन्दाय नमः । ४४८ ॐ नीललोहिताय नमः । ४४९ ॐ षदर्धनयनाय नमः । ४५० ॐ श्रीमन्महादेवाय नमः । ४५१ ॐ वृषध्वजाय नमः । । ८५। ४५२ ॐ कर्पूरदीपिकालोलाय नमः । ४५३ ॐ कर्पूररसचर्चिताय नमः । ४५४ ॐ अव्याजकरुणामूर्तये नमः । ४५५ ॐ त्यागराजाय नमः । ४५६ ॐ क्षपाकराय नमः । । ८६। ४५७ ॐ आश्चर्यविग्रहाय नमः । ४५८ ॐ सूक्ष्माय नमः । ४५९ ॐ सिद्धेशाय नमः । ४६० ॐ स्वर्णभैरवाय नमः । ४६१ ॐ देवराजाय नमः । ४६२ ॐ कृपासिन्धवे नमः । ४६३ ॐ अद्वयाय नमः । ४६४ ॐ अमितविक्रमाय नमः । । ८७। ४६५ ॐ निर्भेदाय नमः । ४६६ ॐ नित्यसत्त्वस्थाय नमः । ४६७ ॐ निर्योगक्षेमाय नमः । ४६८ ॐ आत्मवते नमः । ४६९ ॐ निरपायाय नमः । ४७० ॐ निरासङ्गाय नमः । ४७१ ॐ निःशब्दाय नमः । ४७२ ॐ निरुपाधिकाय नमः । । ८८। ४७३ ॐ भवाय नमः । ४७४ ॐ सर्वेश्वराय नमः । ४७५ ॐ स्वामिने नमः । ५७६ ॐ भवभीतिविभञ्जनाय नमः । ४७७ ॐ दारिद्र्यतृणकूटाग्नये नमः । ४७८ ॐ दारितासुरसन्ततये नमः । । ८९। ४७९ ॐ मुक्तिदाय नमः । ४८० ॐ मुदिताय नमः । ४८१ ॐ अकुब्जाय नमः । ४८२ ॐ धार्मिकाय नमः । ४८३ ॐ भक्तवत्सलाय नमः । ४८४ ॐ अभ्यासातिशयज्ञेयाय नमः । ५८५ ॐ चन्द्रमौलये नमः । ४८६ ॐ कलाधराय नमः ॥ ९०। ४८७ ॐ महाबलाय नमः । ४८८ ॐ महावीर्याय नमः । ४८९ ॐ विभवे नमः । ४९० ॐ श्रीशाय नमः । ४९१ ॐ शुभप्रदाय नमः । ४९२ ॐ सिद्धाय नमः । ४९३ ॐ पुराणपुरुषाय नमः । ४९४ ॐ रणमण्डलभैरवाय नमः । । ९१। ४९५ ॐ सद्योजाताय नमः । ४९६ ॐ वटारण्यवासिने नमः । ४९७ ॐ पुरुषवल्लभाय नमः । ४९८ ॐ हरिकेशाय नमः । ४९९ ॐ महात्रात्रे नमः । ५०० ॐ नीलग्रीवाय नमः । ५०१ ॐ सुमङ्गलाय नमः । । ९२। ५०२ ॐ हिरण्यबाहवे नमः । ५०३ ॐ तीक्ष्णांशवे नमः । ५०४ ॐ कामेशाय नमः । ५०५ ॐ सोमविग्रहाय नमः । ५०६ ॐ सर्वात्मने नमः । ५०७ ॐ सर्वकर्त्रे नमः । ५०८ ॐ ताण्डवाय नमः । ५०९ ॐ मुण्डमालिकाय नमः ॥ ९३। ५१० ॐ अग्रगण्याय नमः । ५११ ॐ सुगंभीराय नमः । ५१२ ॐ देशिकाय नमः । ५१३ ॐ वैदिकोत्तमाय नमः । ५१४ ॐ प्रसन्नदेवाय नमः । ५१५ ॐ वागीशाय नमः । ५१६ ॐ चिन्तातिमिरभास्कराय नमः । । ९४। ५१७ ॐ गौरीपतये नमः । ५१८ ॐ तुङ्गमौलये नमः । ५१९ ॐ मखराजाय नमः । ५२० ॐ महाकवये नमः । ५२१ ॐ श्रीधराय नमः । ५२२ ॐ सर्वसिद्धेशाय नमः । ५२३ ॐ विश्वनाथाय नमः । ५२४ ॐ दयानिधये नमः । । ९५। ५२५ ॐ अन्तर्मुखाय नमः । ५२६ ॐ बहिर्दृष्टये नमः । ५२७ ॐ सिद्धवेषमनोहराय नमः । ५२८ ॐ कृत्तिवाससे नमः । ५२९ ॐ कृपासिन्धवे नमः । ५३० ॐ मन्त्रसिद्धाय नमः । ५३१ ॐ मतिप्रदाय नमः । । ९६। ५३२ ॐ महोत्कृष्टाय नमः । ५३३ ॐ पुण्यकराय नमः । ५३४ ॐ जगत्साक्षिणे नमः । ५३५ ॐ सदाशिवाय नमः । ५३६ ॐ महाक्रतवे नमः । ५३७ ॐ महायज्वने नमः । ५३८ ॐ विश्वकर्मणे नमः । ५३९ ॐ तपोनिधये नमः ॥ ९७॥ ५४० ॐ छन्दोमयाय नमः । ५४१ ॐ महाज्ञानिने नमः । ५४२ ॐ सर्वज्ञाय नमः । ५४३ ॐ देववन्दिताय नमः । ५४४ ॐ सार्वभौमाय नमः । ५४५ ॐ सदानन्दाय नमः । ५४६ ॐ करुणामृतवारिधये नमः । । ९८। ५४७ ॐ कालकालाय नमः । ५४८ ॐ कलिध्वंसिने नमः । ५४९ ॐ जरामरणनाशकाय नमः । ५५० ॐ शितिकण्ठाय नमः । ५५१ ॐ चिदानन्दाय नमः । ५५२ ॐ योगिनीगणसेविताय नमः । । ९९। ५५३ ॐ चण्डीशाय नमः । ५५४ ॐ शुकसंवेद्याय नमः । ५५५ ॐ पुण्यश्लोकाय नमः । ५५६ ॐ दिवस्पतये नमः । ५५७ ॐ स्थायिने नमः । ५५८ ॐ सकलतत्त्वात्मने नमः । ५५९ ॐ सदासेवकवर्धनाय नमः । । १००। ५६० ॐ रोहिताश्वाय नमः । ५६१ ॐ क्षमारूपिणे नमः । ५६२ ॐ तप्तचामीकरप्रभाय नमः । ५६३ ॐ त्रियम्बकाय नमः । ५६४ ॐ वररुचये नमः । ५६५ ॐ देवदेवाय नमः । ५६६ ॐ चतुर्भुजाय नमः । । १०१। ५६७ ॐ विश्वम्भराय नमः । ५६८ ॐ विचित्राङ्गाय नमः । ५६९ ॐ विधात्रे नमः । ५७० ॐ पुरुशासनाय नमः । ५७१ ॐ सुब्रह्मण्याय नमः । ५७२ ॐ जगत्स्वामिने नमः । ५७३ ॐ रोहिताक्षाय नमः । ५७४ ॐ शिवोत्तमाय नमः । । १०२। ५७५ ॐ नक्षत्रमालाभरणाय नमः । ५७६ ॐ मघवते नमः । ५७७ ॐ अघनाशनाय नमः । ५७८ ॐ विधिकर्त्रे नमः । ५७९ ॐ विधानज्ञाय नमः । ५८० ॐ प्रधानपुरुषेश्वराय नमः । । १०३। ५८१ ॐ चिन्तामणये नमः । ५८२ ॐ सुरगुरवे नमः । ५८३ ॐ ध्येयाय नमः । ५८४ ॐ नीराजनप्रियाय नमः । ५८५ ॐ गोविन्दाय नमः । ५८६ ॐ राजराजेशाय नमः । ५८७ ॐ बहुपुष्पार्चनप्रियाय नमः । । १०४। ५८८ ॐ सर्वानन्दाय नमः । ५८९ ॐ दयारूपिणे नमः । ५९० ॐ शैलजासुमनोहराय नमः । ५९१ ॐ सुविक्रमाय नमः । ५९२ ॐ सर्वगताय नमः । ५९३ ॐ हेतुसाधनवर्जिताय नमः । । १०५। ५९४ ॐ वृषाङ्काय नमः । ५९५ ॐ रमणीयाङ्गाय नमः । ५९६ ॐ सदङ्घ्रये नमः ।]५९७ ॐ सामपारगाय नमः । ५९८ ॐ मन्त्रात्मने नमः । ५९९ ॐ कोटिकन्दर्पसौन्दर्यरसवारिधये नमः । । १०६। ६०० ॐ यज्ञेशाय नमः । ६०१ ॐ यज्ञपुरुषाय नमः । ६०२ ॐ सृष्टिस्थित्यन्तकारणाय नमः । ६०३ ॐ परहंसैकजिज्ञास्याय नमः । ६०४ ॐ स्वप्रकाशस्वरूपवते नमः । । १०७। ६०५ ॐ मुनिमृग्याय नमः । ६०६ ॐ देवमृग्याय नमः । ६०७ ॐ मृगहस्ताय नमः । ६०८ ॐ मृगेश्वराय नमः । ६०९ ॐ मृगेन्द्रचर्मवसनाय नमः । ६१० ॐ नरसिंहनिपातनाय नमः । । १०८। ६११ ॐ मुनिवन्द्याय नमः । ६१२ ॐ मुनिश्रेष्ठाय नमः । ६१३ ॐ मुनिवृन्दनिषेविताय नमः । ६१४ ॐ दुष्टमृत्यवे नमः । ६१५ ॐ अदुष्टेहाय नमः । ६१५ ॐ मृत्युघ्ने नमः । ६१७ ॐ मृत्युपूजिताय नमः । । १०९। ६१८ ॐ अव्यक्ताय नमः । ६१९ ॐ अम्बुजजन्मादिकोटिकोटिसुपूजिताय नमः । ६२० ॐ लिङ्गमूर्तये नमः । ६२१ ॐ अलिङ्गात्मने नमः । ६२२ ॐ लिङ्गात्मने नमः । ६२३ ॐ लिङ्गविग्रहाय नमः । । ११०। ६२४ ॐ यजुर्मूर्तये नमः । ६२५ ॐ साममूर्तये नमः । ६२६ ॐ ऋङ्मूर्तये नमः । ६२७ ॐ मूर्तिवर्जिताय नमः । ६२८ ॐ विश्वेशाय नमः । ६२९ ॐ गजचर्मैकचेलाञ्चितकटीतटाय नमः । । १११। ६३० ॐ पावनान्तेवसद्योगिजनसार्थसुधाकराय नमः । ६३१ ॐ अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभाय नमः । । ११२। ६३२ ॐ चिन्ताशोकप्रशमनाय नमः । ६३३ ॐ सर्वविद्याविशारदाय नमः । ६३४ ॐ भक्तविज्ञप्तिसंधात्रे नमः । ६३५ ॐ कर्त्रे नमः । ६३६ ॐ गिरिवराकृतये नमः ॥ ११३। ६३७ ॐ ज्ञानप्रदाय नमः । ६३८ ॐ मनोवासाय नमः । ६३९ ॐ क्षेम्याय नमः । ६४० ॐ मोहविनाशनाय नमः । ६४१ ॐ सुरोत्तमाय नमः । ६४२ ॐ चित्रभानवे नमः । ६४३ ॐ सदावैभवतत्पराय नमः । । ११४। ६४४ ॐ सुहृदग्रेसराय नमः । ६४५ ॐ सिद्धज्ञानमुद्राय नमः । ६४६ ॐ गणाधिपाय नमः । ६४७ ॐ आगमाय नमः । ६४८ ॐ चर्मवसनाय नमः । ६४९ ॐ वाञ्छितार्थफलप्रदाय नमः । । ११५। ६५० ॐ अन्तर्हिताय नमः । ६५१ ॐ असमानाय नमः । ६५२ ॐ देवसिंहासनाधिपाय नमः । ६५३ ॐ विवादहन्त्रे नमः । ६५४ ॐ सर्वात्मने नमः । ६५५ ॐ कालाय नमः । ६५६ ॐ कालविवर्जिताय नमः ॥ ११६। ६५७ ॐ विश्वातीताय नमः । ६५८ ॐ विश्वकर्त्रे नमः । ६५९ ॐ विश्वेशाय नमः । ६६० ॐ विश्वकारणाय नमः । ६६१ ॐ योगिध्येयाय नमः । ६६२ ॐ योगनिष्ठाय नमः । ६६३ ॐ योगात्मने नमः । ६६४ ॐ योगवित्तमाय नमः । । ११७। ६६५ ॐ ओंकाररूपाय नमः । ६६६ ॐ भगवते नमः । ६६७ ॐ बिन्दुनादमयाय शिवाय नमः । ६६८ ॐ चतुर्मुखादिसंस्तुताय नमः । ६६९ ॐ चतुर्वर्गफलप्रदाय नमः । । ११८। ६७० ॐ सह्याचलगुहावासिने नमः । ६७१ ॐ साक्षान्मोक्षरसामृताय नमः । ६७२ ॐ दक्षाध्वरसमुच्छेत्रे नमः । ६७३ ॐ पक्षपातविवर्जिताय नमः । । ११९ ६७४ ॐ ओंकारवाचकाय नमः । ६७५ ॐ शंभवे नमः । ६७६ ॐ शङ्कराय नमः । ६७७ ॐ शशिशीतलाय नमः । ६७८ ॐ पङ्कजासनसंसेव्याय नमः । ६७९ ॐ किङ्करामरवत्सलाय नमः ॥ १२०। ६८० ॐ नतदौर्भाग्यतूलाग्रये नमः । ६८१ ॐ कृतकौतुकमङ्गलाय नमः । ६८२ ॐ त्रिलोकमोहनाय नमः । ६८३ ॐ श्रीमत्त्रिपुण्ड्राङ्कितमस्तकाय नमः । । १२१। ६८४ ॐ क्रौञ्चारिजनकाय नमः । ६८५ ॐ श्रीमद्गणनाथसुतान्विताय नमः । ६८६ ॐ अद्भुतानन्तवरदाय नमः । ६८७ ॐ अपरिच्छिन्नात्मवैभवाय नमः । । १२२। ६८८ ॐ इष्टापूर्तप्रियाय नमः । ६८९ ॐ शर्वाय नमः । ६९० ॐ एकवीराय नमः । ६९१ ॐ प्रियंवदाय नमः । ६९२ ॐ ऊहापोहविनिर्मुक्ताय नमः । ६९३ ॐ ओंकारेश्वरपूजिताय नमः । । १२३। ६९४ ॐ रुद्राक्षवक्षसे नमः । ६९५ ॐ रुद्राक्षरूपाय नमः । ६९६ ॐ रुद्राक्षपक्षकाय नमः । ६९७ ॐ भुजगेन्द्रलसत्कण्ठाय नमः । ६९८ ॐ भुजङ्गाभरणप्रियाय नमः । । १२४। ६९९ ॐ कल्याणरूपाय नमः । ७०० ॐ कल्याणाय नमः । ७०१ ॐ कल्याणगुणसंश्रयाय नमः । ७०२ ॐ सुन्दरभ्रुवे नमः । ७०३ ॐ सुनयनाय नमः । ७०४ ॐ सुललाटाय नमः । ७०५ ॐ सुकन्धराय नमः । । १२५। ७०६ ॐ विद्वज्जनाश्रयाय नमः । ७०७ ॐ विद्वज्जनस्तव्यपराक्रमाय नमः । ७०८ ॐ विनीतवत्सलाय नमः । ७०९ ॐ नीतिस्वरूपाय नमः । ७१० ॐ नीतिसंश्रयाय नमः । । १२६। ७११ ॐ अतिरागिणे नमः । ७१२ ॐ वीतरागिणे नमः । ७१३ ॐ रागहेतवे नमः । ७१४ ॐ विरागविदे नमः । ७१५ ॐ रागघ्ने नमः । ७१६ ॐ रागशमनाय नमः । ७१७ ॐ रागदाय नमः । ७१८ ॐ रागिरागविदे नमः । । १२७। ७१९ ॐ मनोन्मनाय नमः । ७२० ॐ मनोरूपाय नमः । ७२१ ॐ बलप्रमथनाय नमः । ७२२ ॐ बलाय नमः । ७२३ ॐ विद्याकराय नमः । ७२४ ॐ महाविद्याय नमः । ७२५ ॐ विद्याविद्याविशारदाय नमः । । १२८। ७२६ ॐ वसन्तकृते नमः । ७२७ ॐ वसन्तात्मने नमः । ७२८ ॐ वसन्तेशाय नमः । ७२९ ॐ वसन्तदाय नमः । ७३० ॐ प्रावृट्कृते नमः । ७३१ ॐ प्रावृडाकाराय नमः । ७३२ ॐ प्रावृट्कालप्रवर्तकाय नमः । । १२९। ७३३ ॐ शरन्नाथाय नमः । ७३४ ॐ शरत्कालनाशकाय नमः । ७३५ ॐ शरदाश्रयाय नमः । ७३६ ॐ कुन्दमन्दारपुष्पौघलसद्वायुनिषेविताय नमः । । १३०। ७३७ ॐ दिव्यदेहप्रभाकूटसंदीपितदिगन्तराय नमः । ७३८ ॐ देवासुरगुरुस्तव्याय नमः । ७३९ ॐ देवासुरनमस्कृताय नमः । । १३१। ७४० ॐ वामाङ्गभागविलसच्छ्यामलावीक्षणप्रियाय नमः । ७४१ ॐ कीर्त्याधाराय नमः । ७४२ ॐ कीर्तिकराय नमः । ७४३ ॐ कीर्तिहेतवे नमः । ७४४ ॐ अहेतुकाय नमः । । १३२। ७४५ ॐ शरणागतदीनार्तपरित्राणपरायणाय नमः । ७४६ ॐ महाप्रेतासनासीनाय नमः । ७४७ ॐ जितसर्वपितामहाय नमः । । १३३। ७४८ ॐ मुक्तादामपरीताङ्गाय नमः । ७४९ ॐ नानागानविशारदाय नमः । ७५० ॐ विष्णुब्रह्मादिवन्द्याङ्घ्रये नमः । ७५१ ॐ नानादेशैकनायकाय नमः । । १३४। ७५२ ॐ धीरोदात्ताय नमः । ७५३ ॐ महाधीराय नमः । ७५४ ॐ धैर्यदाय नमः । ७५५ ॐ धैर्यवर्धकाय नमः । ७५६ ॐ विज्ञानमयाय नमः । ७५७ ॐ आनन्दमयाय नमः । ७५८ ॐ प्राणमयाय नमः । ७५९ ॐ अन्नदाय नमः । । १३५। ७६० ॐ भवाब्धितरणोपायाय नमः । ७६१ ॐ कवये नमः । ७६२ ॐ दुःस्वप्ननाशनाय नमः । ७६३ ॐ गौरीविलाससदनाय नमः । ७६४ ॐ पिशाचानुसरावृताय नमः । । १३६। ७६५ ॐ दक्षिणाप्रेमसंतुष्टाय नमः । ७६६ ॐ दारिद्र्यवडवानलाय नमः । ७६७ ॐ अद्भुतानन्तसंग्रामाय नमः । ७६८ ॐ ढक्कावादनतत्पराय नमः । । १३७। ७६९ ॐ प्राच्यात्मने नमः । ७७० ॐ दक्षिणाकाराय नमः । ७७१ ॐ प्रतीच्यात्मने नमः । ७७२ ॐ उत्तराकृतये नमः । ७७३ ॐ ऊर्ध्वाद्यन्यदिगाकाराय नमः । ७७४ ॐ मर्मज्ञाय नमः । ७७५ ॐ सर्वशिक्षकाय नमः । । १३८। ७७६ ॐ युगावहाय नमः । ७७७ ॐ युगाधीशाय नमः । ७७८ ॐ युगात्मने नमः । ७७९ ॐ युगनायकाय नमः । ७८० ॐ जङ्गमाय नमः । ७८१ ॐ स्थावराकाराय नमः । ७८२ ॐ कैलासशिखरप्रियाय नमः । । १३९। ७८३ ॐ हस्तराजत्पुण्डरीकाय नमः । ७८४ ॐ पुण्डरीकनिभेक्षणाय नमः । ७८५ ॐ लीलाविडंबितवपुषे नमः । ७८६ ॐ भक्तमानसमण्डिताय नमः । । १४०। ७८७ ॐ वृन्दारकप्रियतमाय नमः । ७८८ ॐ वृन्दारकवरार्चिताय नमः । ७८९ ॐ नानाविधानेकरत्नलसत्कुण्डलमण्डिताय नमः । । १४१। ७९० ॐ निःसीममहिम्ने नमः । ७९१ ॐ नित्यलीलाविग्रहरूपधृते नमः । ७९२ ॐ चन्दनद्रवदिग्धाङ्गाय नमः । ७९३ ॐ चाम्पेयकुसुमार्चिताय नमः । । १४२। ७९४ ॐ समस्तभक्तसुखदाय नमः । ७९५ ॐ परमाणवे नमः । ७९६ ॐ महाह्रदाय नमः । ७९७ ॐ अलौकिकाय नमः । ७९८ ॐ दुष्प्रधर्षाय नमः । ७९९ ॐ कपिलाय नमः । ८०० ॐ कालकन्धराय नमः ॥ १४३। ८०१ ॐ कर्पूरगौराय नमः । ८०२ ॐ कुशलाय नमः । ८०३ ॐ सत्यसन्धाय नमः । ८०४ ॐ जितेन्द्रियाय नमः । ८०५ ॐ शाश्वतैश्वर्यविभवाय नमः । ८०६ ॐ पोषकाय नमः । ८०७ ॐ सुसमाहिताय नमः ॥ १४४। ८०८ ॐ महर्षिनाथिताय नमः । ८०९ ॐ ब्रह्मयोनये नमः । ८१० ॐ सर्वोत्तमोत्तमाय नमः । ८११ ॐ भूमिभारार्तिसंहर्त्रे नमः । ८१२ ॐ षडूर्मिरहिताय नमः । ८१३ ॐ मृडाय नमः । । १४५। ८१४ ॐ त्रिविष्टपेश्वराय नमः । ८१५ ॐ सर्वहृदयाम्बुजमध्यगाय नमः । ८१६ ॐ सहस्रदलपद्मस्थाय नमः । ८१७ ॐ सर्ववर्णोपशोभिताय नमः ॥ १४६। ८१८ ॐ पुण्यमूर्तये नमः । ८१९ ॐ पुण्यलभ्याय नमः । ८२० ॐ पुण्यश्रवणकीर्तनाय नमः । ८२१ ॐ सूर्यमण्डलमध्यस्थाय नमः । ८२२ ॐ चन्द्रमण्डलमध्यगाय नमः । । १४७। ८२३ ॐ सद्भक्तध्याननिगलाय नमः । ८३४ ॐ शरणागतपालकाय नमः । ८२५ ॐ श्वेतातपत्ररुचिराय नमः । ८२६ ॐ श्वेतचामरवीजिताय नमः । । १४८। ८२७ ॐ सर्वावयवसम्पूर्णाय नमः । ८२८ ॐ सर्वलक्षणलक्षिताय नमः । ८२९ ॐ सर्वमङ्गलमाङ्गल्याय नमः । ८३० ॐ सर्वकारणकारणाय नमः । । १४९। ८३१ ॐ आमोदाय नमः । ८३२ ॐ मोदजनकाय नमः । ८३३ ॐ सर्पराजोत्तरीयकाय नमः । ८३४ ॐ कपालिने नमः । ८३५ ॐ कोविदाय नमः । ८३६ ॐ सिद्धकान्तिसंवलिताननाय नमः । । १५०। ८३७ ॐ सर्वसद्गुरुसंसेव्याय नमः । ८३८ ॐ दिव्यचन्दनचर्चिताय नमः । ८३९ ॐ विलासिनीकृतोल्लासाय नमः । ८४० ॐ इच्छाशक्तिनिषेविताय नमः ॥ १५१। ८४१ ॐ अनन्तानन्दसुखदाय नमः । ८४२ ॐ नन्दनाय नमः । ८४३ ॐ श्रीनिकेतनाय नमः । ८४४ ॐ अमृताब्धिकृतावासाय नमः । ८४५ ॐ नित्यक्लीबाय नमः । ८४६ ॐ निरामयाय नमः । । १५२। ८४७ ॐ अनपायाय नमः । ८४८ ॐ अनन्तदृष्टये नमः । ८४९ ॐ अप्रमेयाय नमः । ८५० ॐ अजराय नमः । ८५१ ॐ अमराय नमः । ८५२ ॐ तमोमोहप्रतिहतये नमः । ८५३ ॐ अप्रतर्क्याय नमः । ८५४ ॐ अमृताय नमः । ८५५ ॐ अक्षराय नमः ॥ १५३। ८५६ ॐ अमोघबुद्धये नमः । ८५७ ॐ आधाराय नमः । ८५८ ॐ आधाराधेयवर्जिताय नमः । ८५९ ॐ ईषणात्रयनिर्मुक्ताय नमः । ८६० ॐ इहामुत्रविवर्जिताय नमः । । १५४। ८६१ ॐ ऋग्यजुःसामनयनाय नमः । ८६२ ॐ बुद्धिसिद्धिसमृद्धिदाय नमः । ८६३ ॐ औदार्यनिधये नमः । ८६४ ॐ आपूर्णाय नमः । ८६५ ॐ ऐहिकामुष्मिकप्रदाय नमः ॥ १५५। ८६६ ॐ शुद्धसन्मात्रसंविद्धी-स्वरूपसुखविग्रहाय नमः । ८६७ ॐ दर्शनप्रथमाभासाय नमः । ८६८ ॐ दृष्टिदृश्यविवर्जिताय नमः । । १५६। ८६९ ॐ अग्रगण्याय नमः । ८७० ॐ अचिन्त्यरूपाय नमः । ८७१ ॐ कलिकल्मषनाशनाय नमः । ८७२ ॐ विमर्शरूपाय नमः । ८७३ ॐ विमलाय नमः । ८७४ ॐ नित्यरूपाय नमः । ८७५ ॐ निराश्रयाय नमः ॥ १५७। ८७६ ॐ नित्यशुद्धाय नमः । ८७७ ॐ नित्यबुद्धाय नमः । ८७८ ॐ नित्यमुक्ताय नमः । ८७९ ॐ अपराकृताय नमः । ८८० ॐ मैत्र्यादिवासनालभ्याय नमः । ८८१ ॐ महाप्रलयसंस्थिताय नमः ॥ १५८। ८८२ ॐ महाकैलासनिलयाय नमः । ८८३ ॐ प्रज्ञानघनविग्रहाय नमः । ८८४ ॐ श्रीमते नमः । ८८५ ॐ व्याघ्रपुरावासाय नमः । ८८६ ॐ भुक्तिमुक्तिप्रदायकाय नमः ॥ १५९। ८८७ ॐ जगद्योनये नमः । ८८८ ॐ जगत्साक्षिणे नमः । ८८९ ॐ जगदीशाय नमः । ८९० ॐ जगन्मयाय नमः । ८९१ ॐ जपाय नमः । ८९२ ॐ जपपराय नमः । ८९३ ॐ जप्याय नमः । ८९४ ॐ विद्यासिंहासनप्रभवे नमः । । १६०। ८९५ ॐ तत्त्वानां प्रकृतये नमः । ८९६ ॐ तत्त्वाय नमः । ८९७ ॐ तत्त्वंपदनिरूपिताय नमः । ८९८ ॐ दिक्कालाद्यनवच्छिन्नाय नमः । ८९९ ॐ सहजानन्दसागराय नमः ॥ १६१। ९०० ॐ प्रकृतये नमः । ९०१ ॐ प्राकृतातीताय नमः । ९०२ ॐ विज्ञानैकरसाकृतये नमः । ९०३ ॐ निःशङ्कमतिदूरस्थाय नमः । ९०४ ॐ चैत्यचेतनचिन्तनाय नमः । । १६२। ९०५ ॐ तारकाणां हृदन्तस्थाय नमः । ९०६ ॐ तारकाय नमः । ९०७ ॐ तारकान्तकाय नमः । ९०८ ॐ ध्यानैकप्रकटाय नमः । ९०९ ॐ ध्येयाय नमः । ९१० ॐ ध्यानिने नमः । ९११ ॐ ध्यानविभूषणाय नमः । । १६३। ९१२ ॐ परस्मै व्योम्ने नमः । ९१३ ॐ परस्मै धाम्ने नमः । ९१४ ॐ परमात्मने नमः । ९१५ ॐ परस्मै पदाय नमः । ९१६ ॐ पूर्णानन्दाय नमः । ९१७ ॐ सदानन्दाय नमः । ९१८ ॐ नादमध्यप्रतिष्ठिताय नमः ॥ १६४। ९१९ ॐ प्रभाविपर्ययातीताय नमः । ९२० ॐ प्रणताज्ञाननाशकाय नमः । ९२१ ॐ बाणार्चिताङ्घ्रये नमः । ९२२ ॐ बहुदाय नमः । ९२३ ॐ बालकेलिकुतूहलिने नमः । । १६५। ९२४ ॐ ब्रह्मरूपिणे नमः । ९२५ ॐ ब्रह्मपदाय नमः । ९२६ ॐ ब्रह्मविदे नमः । ९२७ ॐ ब्राह्मणप्रियाय नमः । ९२८ ॐ भूक्षेपदत्तलक्ष्मीकाय नमः । ९२९ ॐ भूमध्यध्यानलक्षिताय नमः । । १६६। ९३० ॐ यशस्कराय नमः । ९३१ ॐ रत्नगर्भाय नमः । ९३२ ॐ महाराज्यसुखप्रदाय नमः । ९३३ ॐ शब्दब्रह्मणे नमः । ९३४ ॐ शमप्राप्याय नमः । ९३५ ॐ लाभकृते नमः । ९३६ ॐ लोकविश्रुताय नमः । । १६७। ९३७ ॐ शास्त्रे नमः । ९२८ ॐ शिवाद्रिनिलयाय नमः । ९३९ ॐ शरण्याय नमः । ९४० ॐ याजकप्रियाय नमः । ९४१ ॐ स्ंसारवैद्याय नमः । ९४२ ॐ सर्वज्ञाय नमः । ९४३ ॐ सभेषजविभेषजाय नमः । । १६८। ९४४ ॐ मनोवचोभिरग्राह्याय नमः । ९४५ ॐ पञ्चकोशविलक्षणाय नमः । ९४६ ॐ अवस्थात्रयनिर्मुक्ताय नमः । ९४७ ॐ अवस्थासाक्षितुर्यकाय नमः । । १६९। ९४८ ॐ पञ्चभूतादिदूरस्थाय नमः । ९४९ ॐ प्रत्यगेकरसाय नमः । ९५० ॐ अव्ययाय नमः । ९५१ ॐ षट्चक्रान्तर्गतोल्लासिने नमः । ९५२ ॐ षड्विकारविवर्जिताय नमः ॥ १७०। ९५३ ॐ विज्ञानघनसम्पूर्णाय नमः । ९५४ ॐ वीणावादनतत्पराय नमः । ९५५ ॐ नीहाराकारगौराङ्गाय नमः । ९५६ ॐ महालावण्यवारिधये नमः । । १७१। ९५७ ॐ पराभिचारशमनाय नमः । ९५८ ॐ षडध्वोपरिसंस्थिताय नमः । ९५९ ॐ सुषुम्नामार्गसंचारिणे नमः । ९६० ॐ बिसतन्तुनिभाकृतये नमः । । १७२। ९६१ ॐ पिनाकिने नमः । ९६२ ॐ लिङ्गरूपश्रिये नमः । ९६३ ॐ मङ्गलावयवोज्ज्वलाय नमः । ९६४ ॐ क्षेत्राधिपाय नमः । ९६५ ॐ सुसंवेद्याय नमः । ९६६ ॐ श्रीप्रदाय नमः । ९६७ ॐ विभवप्रदाय नमः । । १७३। ९६८ ॐ सर्ववश्यकराय नमः । ९६९ ॐ सर्वदोषघ्ने नमः । ९७० ॐ पुत्रपौत्रदाय नमः । ९७१ ॐ तैलदीपप्रियाय नमः । ९७२ ॐ तैलपक्वान्नप्रीतमानसाय नमः । । १७४। ९७३ ॐ तैलाभिषेकसंतुष्टाय नमः । ९७४ ॐ तिलभक्षणतत्पराय नमः । ९७५ ॐ आपादकणिकामुक्ताभूषाशतमनोहराय नमः । । १७५। ९७६ ॐ शाणोल्लीढमणिश्रेणीरम्याङ्घ्रिनखमण्डलाय नमः । ९७७ ॐ मणिमञ्जीरकिरणकिञ्जल्कितपदाम्बुजाय नमः । । १७६। ९७८ ॐ अपस्मारोपरिन्यस्तसव्यपादसरोरुहाय नमः । ९७९ ॐ कन्दर्पतूणाभजङ्घाय नमः । ९८० ॐ गुल्फोदञ्चितनूपुराय नमः । । १७७। ९८१ ॐ करिहस्तोपमेयोरवे नमः । ९८२ ॐ आदर्शोज्ज्वलजानुभृते नमः । ९८३ ॐ विशंकटकटिन्यस्तवाचालमणिमेखलाय नमः ॥ १७८। ९८४ ॐ आवर्तनाभिरोमालिवलिमत्पल्लवोदराय नमः । ९८५ ॐ मुक्ताहारलसत्तुङ्गविपुलोरस्करञ्जिताय नमः । । १७९। ९८६ ॐ वीरासनसमासीनाय नमः । ९८७ ॐ वीणापुस्तोल्लसत्कराय नमः । ९८८ ॐ अक्षमालालसत्पाणये नमः । ९८९ ॐ चिन्मुद्रितकरांबुजाय नमः । । १८०। ९९० ॐ माणिक्यकङ्कणोल्लासिकराम्बुजविराजिताय नमः । ९९१ ॐ अनर्घरत्नग्रैवेयविलसत्कंबुकन्धराय नमः । । १८१। ९९२ ॐ अनाकलितसादृश्यचुबुकश्रीविराजिताय नमः । ९९३ ॐ मुग्धस्मितपरीपाकप्रकाशितरदाङ्कुराय नमः ॥ १८२। ९९४ ॐ चारुचांपेयपुष्पाभनासिकापुटरञ्जिताय नमः । ९९५ ॐ वरवज्रशिलादर्शपरिभाविकपोलभुवे नमः ॥ १८३। ९९६ ॐ कर्णद्वयोल्लसद्दिव्यमणिकुण्डलमण्डिताय नमः । ९९७ ॐ करुणालहरीपूर्णकर्णान्तायतलोचनाय नमः । । १८४। ९९८ ॐ अर्धचन्द्राभनिटिलपाटीरतिलकोज्ज्वलाय नमः । ९९९ ॐ चारुचामीकराकारजटाचर्चितचन्दनाय नमः ।१००० ॐ ओं कैलासशिखरस्फर्धिकमनीयनिजाकृतये नमः । । १८५।॥इति श्री दक्षिणामूर्ति सहस्रनामावलिः समाप्ता ॥ N/A References : N/A Last Updated : January 18, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP