संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्| एकविंशी पद्धतिः भिक्षाटनकाव्यम् प्रथमा पद्धतिः। द्वितीया पद्धतिः। तृतीया पद्धतिः । चतुर्थी पद्धतिः । पञ्चमी पद्धतिः । षष्ठी पद्धतिः । सप्तमी पद्धतिः । अष्टमी पद्धतिः । नवमी पद्धतिः। दशमी पद्धतिः। एकादशी पद्धतिः द्वादशी पद्धतिः त्रयोदशी पद्धतिः चतुर्दशी पद्धतिः पञ्चदशी पद्धतिः षोडशी पद्धतिः सप्तदशी पद्धतिः अष्टादशी पद्धतिः एकोनविंशी पद्धतिः विंशी पद्धतिः एकविंशी पद्धतिः द्वाविंशी पद्धतिः त्रयोविंशी पद्धतिः चतुर्विंशी पद्धतिः पञ्चविंशी पद्धतिः षड्विंशी पद्धतिः सप्तविंशी पद्धतिः अष्टाविंशी पद्धतिः एकोनत्रिंशी पद्धतिः त्रिंशती पद्धतिः एकत्रिंशी पद्धतिः द्वात्रिंशी पद्धतिः त्रयस्त्रिंशी पद्धतिः चतुस्त्रिंशी पद्धतिः पञ्चत्रिंशी पद्धतिः षटत्रिंशी पद्धतिः सप्तत्रिंशी पद्धतिः अष्टत्रिंशी पद्धतिः एकोनचत्वारिंशी पद्धतिः चत्वारिंशी पद्धतिः भिक्षाटनकाव्यम् - एकविंशी पद्धतिः प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : bhikshatankavyamSanskritभिक्षाटनकाव्यमसंस्कृत एकविंशी पद्धतिः Translation - भाषांतर आलोक्य मारजनितां कृपणामवस्थांवामभ्रुवां निजगृहं पुनरागतानाम् ।संदूयमानहृदयो हितवन्धुवर्गोयान्यप्यवोचत वचांसि वदामि तानि ॥१॥हा हन्त दग्धमदनस्तव पुष्पशय्या-शेषं शरीरमकरोदसहाय एव ।रात्रावथास्य नवकैरवगन्धबन्धु-मन्दानिलप्रभृतयो बहवः सहायाः ॥२॥कालानलो यदलिकाङ्क्षि(क्ष) णिरक्षितोऽभू-त्कण्ठे च यद्गरलमर्पितमीश्वरेण ।तत्सर्वमात्मविरहे सति बालिकानांतापं विधातुमिति संप्रति मे वितर्कः ॥३॥अस्या हरेण विरहादतिकर्शितायाहस्तच्युतं वलयमेतदलब्धदेशम् ।आस्ते पुनः स्थितिमगादयमङ्गुलीयंस्थानाच्युतिं मम ह एव भवत्यनर्थः ॥४॥अज्ञातमद्य तनये त्यज शोकशङ्कुंपञ्चायुधः किमपि तत्त्वयि जातकोपः।रागो नवश्चरणयोरनुजातजन्मामुक्तावली विरचिता नयनाम्बुलेशैः ॥५॥अङ्गेष्वयं धवलिमैव यदङ्गरागोदत्तः शिवेन सखि वृज्ज...(2)तैष पोषः ।भैक्षं प्रदातुमनघाय यदोद्यमस्तेतूष्णीं स्थिता सुकृतभङ्गभयादपूर्वम् ॥६॥धत्से तदद्य मम पापमभूत्तवेत्थंयत्संशयस्थितिरियं मदुपेक्षयैव ।सर्वोऽपि वक्ति जन एव शिवाभिधानंभस्मावलीं प(प्र)ति यथेप्सितमङ्गकेषु ॥७॥तन्मे सुता विदधती परिहासपात्रेप्रायेण कामुकजनस्य गुणोऽपि दोषः ।धुर्धूरकं शिरसि नैव सुगन्धि पुष्पंभस्म स्तने न तव कुङ्कुमचन्दनादि ॥८॥यत्ने(त्ते) सुता मम किमन्यदियं वृषाङ्केप्रेम्णा भविष्यति भुजंगमभूषणापि ।यस्य क्षणं स्मरणमेव सुदुस्तराणांसर्वापदामुपशमाय वदन्ति वृद्धाः ॥९॥तत्सत्यमेव खलु यन्नवबन्धुजीव-शोभाहरं सखि हरायनमामनन्ति ।तस्मान्नि(द)तीव रतिमद्य दधासि तेनशोभागतैव तव शंसयितुश्च जीवः ॥१०॥दृष्ट्वापि तं शिवमियं पुनरेवमार्ताप्रायेण पुण्यमपि पुण्यवतां फलाय ।तत्पादपद्मयुगलस्मृतिमेव सर्वेसर्वव्यपायशमनीति वदन्ति वृद्धाः ॥११॥मेधं विना स्थितिमगान्न सरित्तथैवबाला वृषाङ्कमिति भीतिरभूत्पुरा मे ।(?)लोभे महालयमहो यदभूदमुप्या (पुण्य)-प्रायैर्निजैः सह पुनर्भवनप्रवेशः ॥१२॥यस्त्वां क्षिणोति विशिखैः स्वशरण्यभूता-मेवं सदा सुमुखि तेन समः स मारः ।शाखां स्वयं समधिरुह्य महीरुहस्ययस्तां छिनत्ति निशितेन परश्वधेन ॥१३॥यन्न्याय्यवर्त्मगमनं निपुणं त्वयासी-लज्जा च यावदपवादभयं त्वदीयम् ।तत्सर्वमालि कथमेकपदे न(नि)विष्टंसर्वंकषः स खलु तत्रभवाननङ्गः ॥१४॥बालामिमां हतमनोभव पुष्पवाणै-र्मा विध्य संप्रति वदामि तथैव पथ्यम् ।(?)अस्यामरस्य विरतं सवतीन्दुमौलि-स्मर्ता न किं भवसि तेन पराजयं ते ॥१५॥इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये बन्धुवचनपद्धतिरेकविंशतिः । N/A References : N/A Last Updated : September 21, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP