संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्| पञ्चविंशी पद्धतिः भिक्षाटनकाव्यम् प्रथमा पद्धतिः। द्वितीया पद्धतिः। तृतीया पद्धतिः । चतुर्थी पद्धतिः । पञ्चमी पद्धतिः । षष्ठी पद्धतिः । सप्तमी पद्धतिः । अष्टमी पद्धतिः । नवमी पद्धतिः। दशमी पद्धतिः। एकादशी पद्धतिः द्वादशी पद्धतिः त्रयोदशी पद्धतिः चतुर्दशी पद्धतिः पञ्चदशी पद्धतिः षोडशी पद्धतिः सप्तदशी पद्धतिः अष्टादशी पद्धतिः एकोनविंशी पद्धतिः विंशी पद्धतिः एकविंशी पद्धतिः द्वाविंशी पद्धतिः त्रयोविंशी पद्धतिः चतुर्विंशी पद्धतिः पञ्चविंशी पद्धतिः षड्विंशी पद्धतिः सप्तविंशी पद्धतिः अष्टाविंशी पद्धतिः एकोनत्रिंशी पद्धतिः त्रिंशती पद्धतिः एकत्रिंशी पद्धतिः द्वात्रिंशी पद्धतिः त्रयस्त्रिंशी पद्धतिः चतुस्त्रिंशी पद्धतिः पञ्चत्रिंशी पद्धतिः षटत्रिंशी पद्धतिः सप्तत्रिंशी पद्धतिः अष्टत्रिंशी पद्धतिः एकोनचत्वारिंशी पद्धतिः चत्वारिंशी पद्धतिः भिक्षाटनकाव्यम् - पञ्चविंशी पद्धतिः प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : bhikshatankavyamSanskritभिक्षाटनकाव्यमसंस्कृत पञ्चविंशी पद्धतिः Translation - भाषांतर निष्प्राप एव गिरिशे विहितस्पृहाणांवामभ्रुवामतिविभेदनकारणेन ।आप्तो जनो रहसि यानि जगाद तानिप्रत्यूषिरै (?) सह वदामि पुनस्तदीयैः ॥१॥इन्दीवराक्षि विषमाक्ष इति प्रसिद्धेमा त्वं कृथाः पुरविरोधिनि पक्षपातम् ।वैरूप्यमेव सखि तस्य चिराय काङ्क्षेयेनायमन्यवनिताजनवर्जनीयः ॥२॥कण्ठे हरस्य न वरं परिरम्भणं तेहारोरगेण न कदापि यदेष शून्यः ।त्राता पयोधिगरलादपि येन लोका-स्त्रातुं न मामहिविषातिकिमयं समर्थः ॥३॥यः कामदेहदहनाद्विरसः प्रसिद्ध-स्तस्मै कुतः स्पृहयसि त्रिपुरान्तकाय ।कोऽन्यः क्षमेत मदनुग्रहमन्तरेणरक्षां विधातुमिव मन्मथपीडितानाम् ॥४॥आश्लेषणेषु कथमिच्छसि शंकरस्यभस्मक्रयं सुरभिणा कुचकुङ्कुमेन ।न्यूनार्धमेव भसितादपि कुङ्कुमं त-दर्धस्थितिः परमभिज्ञम(कृ)तैकमन्त्रात् ॥५॥येनार्धगात्रमनुरागवशाद्वितीर्णंकस्यैचिदेनमधिकामर(य)से किमर्थम् ।चक्रे ध्रुवं स पुनरर्धशरीरदाना-दन्याङ्गनाप्रणयसंगमनाभ्यनुज्ञाम् ॥६॥भूलोकभृङ्गवनिता यदि दिव्यपुष्प-माघ्रातुमिच्छति तथा हरसंगमस्ते !अस्माकमक्षिविषयः सहसैव योऽभू-कि संभवेन्न विरहेण समागमोऽपि ॥७॥पाणिं हरेण यदि वाञ्छति गृह्यमाणंभीरु त्वयाप्युरगकौतुकमेव बद्धम् ।सत्यं तदेव दृढकौतुकबन्धिने(न्धनं) मेव्यर्थः करे शिथिलकौतुकतन्तुबन्धः ॥८॥भर्तारमिच्छसि शिवं यदि तेन सार्धंवस्तव्यमालि नियतं पितृकारणे (कानने)षु ।एणीदृशां हृदयवल्लभसंनिधानेसौधस्थलस्य विपिनस्य च को विशेषः ॥९॥हित्वा तपांसि परुषाणि हरो दुरापःकर्तुं क्षमे न खलु तावकमन्तमेतत् ।मुग्धे तदीयविरहानलतीव्रतापा-दस्मादसातरमस्ति तपः किमन्यत् ॥१०॥शैलात्मजैव हरमर्हति कामिनीषुमुग्धे कथं कथय तेन समागमेच्छा ।अर्हेतराणि गणनापरवेषवन्तिसर्वोऽपि सर्वमपि वाञ्छितुमर्ह एव ॥११॥उन्मादिनी त्वमिति निश्चितमालि किंतुतन्मात्रवेषचरिते यदि ते रिरंसा ।उन्मादिनी यदि भवेयमहं तथा त्वंनो मन्त्रशिक्षणविधिः प्रकृतिस्थितानाम् ॥१२॥गौरी विना सखि कदापि न शंभुरास्तेकालोऽन्यया सह न तस्य समागमाय ।रात्र्या सहैव चरि(र)तो दिवसस्य नित्यंकिं संध्यया न सममस्ति मुहूर्तयोगः ॥१३॥व्रीडां तनोति मदिराक्षि विशेषतोऽपिवामभ्रुवामननुरागिणि रागबन्धः ।श्लाघावहो भवति नैव किमापगाना-मम्भोनिधेरुपरि यस्त्वयमेव पातः ॥१४॥कामं हरः सुलभ एव विहाय भूतिंसापत्न्यमिच्छसि कथं जगतां जनन्याः ।अस्थानधावनपरस्य मनोभवस्यप्रायेण नैव हि जलस्थलयोर्विपातः ॥१५॥गौर्याः पुरो वहति यः शिरसैव गङ्गांविसम्भभूमिरियमालि कथं परस्य ।स्त्रीशब्दमात्रतरले तरुणेन्दुमौलौतस्मिन्ममापि खलु पाक्षिकलोभशङ्का ॥१६॥इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्येऽतिदीनोक्तिप्रयुक्तिपद्धतिः पञ्चविंशतिः । N/A References : N/A Last Updated : September 21, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP