संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्| अष्टाविंशी पद्धतिः भिक्षाटनकाव्यम् प्रथमा पद्धतिः। द्वितीया पद्धतिः। तृतीया पद्धतिः । चतुर्थी पद्धतिः । पञ्चमी पद्धतिः । षष्ठी पद्धतिः । सप्तमी पद्धतिः । अष्टमी पद्धतिः । नवमी पद्धतिः। दशमी पद्धतिः। एकादशी पद्धतिः द्वादशी पद्धतिः त्रयोदशी पद्धतिः चतुर्दशी पद्धतिः पञ्चदशी पद्धतिः षोडशी पद्धतिः सप्तदशी पद्धतिः अष्टादशी पद्धतिः एकोनविंशी पद्धतिः विंशी पद्धतिः एकविंशी पद्धतिः द्वाविंशी पद्धतिः त्रयोविंशी पद्धतिः चतुर्विंशी पद्धतिः पञ्चविंशी पद्धतिः षड्विंशी पद्धतिः सप्तविंशी पद्धतिः अष्टाविंशी पद्धतिः एकोनत्रिंशी पद्धतिः त्रिंशती पद्धतिः एकत्रिंशी पद्धतिः द्वात्रिंशी पद्धतिः त्रयस्त्रिंशी पद्धतिः चतुस्त्रिंशी पद्धतिः पञ्चत्रिंशी पद्धतिः षटत्रिंशी पद्धतिः सप्तत्रिंशी पद्धतिः अष्टत्रिंशी पद्धतिः एकोनचत्वारिंशी पद्धतिः चत्वारिंशी पद्धतिः भिक्षाटनकाव्यम् - अष्टाविंशी पद्धतिः प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : bhikshatankavyamSanskritभिक्षाटनकाव्यमसंस्कृत अष्टाविंशी पद्धतिः Translation - भाषांतर उद्रिक्तशंकरवियोगविषादशान्त्यैनानाविधे सपदि बन्धुजनैः प्रवृत्ते ।शीतक्रियाप्रकरणे वरवर्णिता(नी)नांयद्यद्बभूव चरितं कथयामि तत्तत् ॥१॥संचारितैश्च कदलीदलतालवृन्तै-रुत्थापितः परिजनैः शिशिरः समीरः ।नान्तर्ज्वरं मृगदृशां शमयांबभूवु-र्यत्ने कृतेऽपि न फलाय दुदुःखवादः(१) ॥२॥मालां नवोत्पलमयीं विरहोष्मितायाःसख्या निधाय हृदये कृतमानुकूल्यम् ।पुष्पास्त्रमोचनपरस्य मनोभवस्यविस्रम्भणं न वनितासु कदापि कार्यम् ॥३॥यः कल्पितः कुचतटे विरहातुरायाःशैत्याय सान्द्रतरचन्दनपङ्कलेपः ।अन्तः सतामधिकृतं जनयन्नयासी-दापाकलास्यनवकर्दमलेपकक्ष्याम् ॥४॥कस्याश्चिदीशविरहे शयनीकृतानिपङ्केरुहाण्यपि तया सह शोकमापुः ।अन्यार्तिनिर्वृतिमशक्नुवतां विधातु-र्मानिष्वयं सुमनसामुचितैव वृत्तिः ॥५॥धारागृहं विरहवह्निशमाय तन्व्याभूयोऽपि मुग्धपरिवारजनश्चकार ।तस्याः सदा कुचतटे पतिताम्बुधारेधारागृहत्वमधिकुर्वति नेत्र एव ॥६॥हारः पयोधरयुगे विहितः कयापिविश्लेषितापजुषि नीलदृशामवापुः ।संतापशान्तिकरणाक्षमतापवाद-माधातुमिन्द्रमणिमूर्धनि बन्ध एव ॥७॥विस्रम्भिता प्रियसखीवचनेषु रम्भा-माश्लिष्यति स्म विरहोष्मशमाय काचित् ।कस्याश्चन स्तनयुगे निशितं मृणाल-सांनिध्यतेन(?) सुषुवेऽम्बुजमाननस्य ॥८॥आपीतरक्तकपिशा किमु जालजिह्वाज्वाला किमद्य जगतः किमुत क्षयाग्नेः ।आलोक्य काचिदतिसंदिदिहे सखीभि-र्नीतानि शंभुविरहे नवपल्लवानि ॥९॥हारादिभूषणविधिः सरसैर्मृणालैःपत्रैर्नितान्तपृथुभिर्व्यजनोपयोगः ।पद्मैश्च कल्य(ल्प) रचना विरहातुराया-स्तत्पद्मिनीविधिरहो विरहैकशेषः ॥१०॥कस्याश्चिदान्तरघनज्वरशान्तिहेतो-रालीजनेन विहिते शिशिरोपचारे ।रेजे कुचोपचितचन्दनपङ्कलग्नामुक्तावली बिसलतेव मुखाम्बुजस्य ॥११॥सख्यार्पितेन कुचयोर्नवचन्दनेनभूरिज्वला विरहिणी कुपिता क्षणेन ।तस्यास्तु देवघनसंनहनावि(दि)लेप्तुंकाचित्कृपामृदुमना न वृथा चकार ॥१२॥कस्याश्चिदीशविरहानलतापशान्त्यैवाञ्छां विभोर्बहुमते भसिते वहन्त्या ।भस्मात्मना परिणतः क्वथितोऽङ्गसङ्गा-त्सख्या कृतः सरसचन्दनलेप एव ॥१३॥कह्णारसारघनसारहिमादि वस्तुयत्पठ्यते हृदयतापहरं विदग्धे ।तत्सर्व(मेव स]मभूत्कुचयोः परस्याःकिं चौषधं गिरिशशब्दितमेव शिष्टम् ॥१४॥जित्वा सरोजनिलयामलयागृहीतांसौर्यं तमः कमलिनीनियतं परस्याः ।पद्मैरकारि शयनं व्यजनं विशालैःपत्रैर्मृणालरचितानि विभूषणानि ॥१५॥इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये शिशिरोपचारपद्धतिरष्टाविंशतिः । N/A References : N/A Last Updated : September 21, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP