संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्| पञ्चदशी पद्धतिः भिक्षाटनकाव्यम् प्रथमा पद्धतिः। द्वितीया पद्धतिः। तृतीया पद्धतिः । चतुर्थी पद्धतिः । पञ्चमी पद्धतिः । षष्ठी पद्धतिः । सप्तमी पद्धतिः । अष्टमी पद्धतिः । नवमी पद्धतिः। दशमी पद्धतिः। एकादशी पद्धतिः द्वादशी पद्धतिः त्रयोदशी पद्धतिः चतुर्दशी पद्धतिः पञ्चदशी पद्धतिः षोडशी पद्धतिः सप्तदशी पद्धतिः अष्टादशी पद्धतिः एकोनविंशी पद्धतिः विंशी पद्धतिः एकविंशी पद्धतिः द्वाविंशी पद्धतिः त्रयोविंशी पद्धतिः चतुर्विंशी पद्धतिः पञ्चविंशी पद्धतिः षड्विंशी पद्धतिः सप्तविंशी पद्धतिः अष्टाविंशी पद्धतिः एकोनत्रिंशी पद्धतिः त्रिंशती पद्धतिः एकत्रिंशी पद्धतिः द्वात्रिंशी पद्धतिः त्रयस्त्रिंशी पद्धतिः चतुस्त्रिंशी पद्धतिः पञ्चत्रिंशी पद्धतिः षटत्रिंशी पद्धतिः सप्तत्रिंशी पद्धतिः अष्टत्रिंशी पद्धतिः एकोनचत्वारिंशी पद्धतिः चत्वारिंशी पद्धतिः भिक्षाटनकाव्यम् - पञ्चदशी पद्धतिः प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : bhikshatankavyamSanskritभिक्षाटनकाव्यमसंस्कृत पञ्चदशी पद्धतिः Translation - भाषांतर स्था(स्थि)त्वा विभोर्जिगमिषोः पथि कातराक्ष्या-स्तत्प्रस्थितिक्षणनिवारणकारणेन ।(।) अप्यल्पकां विविपदामहवं य एव(१)प्रश्नात्मिकानि ललितानि वचांसि चक्रुः ॥१॥स त्वं पुराण कथयेह ममाद्य रूपंसख्या सहैव चिरकालकृतो विवादः ।यद्भस्म ते वपुषि तद्भवता गृहीतंदाहे स्मरस्य किमथो न पुरत्रयस्य ॥२॥शङ्कामिमां शमय नाथ पुनर्यथेष्टंदेशं भवान्व्रजतु केन तथा विरोधः ।दाक्षायणीपरिणयप्रणयेऽपि किं तेपाणिः फणीन्द्रपु(प)रुषोऽयमथान्यथा वा ॥३॥पृच्छाम्यहं किमपि नाथ भवन्तमेत-द्ब्रूहि द्वयोरपि तयोरधिकः क एव ।अन्विष्य यस्तव वराहमलाभखेदोव्याधाकृतेः सुचिरमस्य च यो भवन्तम् ॥४॥स्वामिन्मदीयहृदये चिरकाङ्क्षितोऽयंकार्यस्त्वया सपदि विप्रतिपत्तिलोपः ।देहीति यत्पथमथाब्धिभवं विषं वाजिह्वाग्रदुःसहमुदीरय किं तयोस्ते ॥५॥जिज्ञासया हृदयमाकुलितं तथापिपृच्छामि तत्कथय नायक तथ्यमेव ।किं ते कपालमनिशं दयतः करस्यकिं वानुगेहमदतश्चरणस्य यत्नः ॥६॥याचे भवन्तमधुना मधुबन्धुशत्रोशङ्कामिमां प्रशमयातिचिरानुषक्ताम् ।त्वद्भक्तयोर्वद पुलिन्दमुकुन्दयोस्तेनेत्रं यदेतदधिकं कतरेण दत्तम् ॥७॥अभ्यर्थये भव भवन्तमपाकुरुवदीर्घं विवादमनुयुक्तविबोधनेन ।का वल्लभा तव हिमालयजह्नुपुत्र्यो-र्भागेन किं परिणता शिरसा धृता वा ॥८॥अस्त्येव यानविहतीभ(तिर्भ)वतस्तथापिसंदेहमद्य निरवद्य निराकुरुष्व ।सर्पैरलंकृतिरियं किमु कान्तिदर्पा-त्किं सर्वयोषिदुपगूहनशङ्कया वा ॥९॥पृच्छाम्यहं किमपि नाथ भवन्तमद्यतथ्यं निगद्य कुरु मामपि वीतशङ्काम् ।चापाहतिः किमनतिः शिरसा स्वयं वाकामस्य दाहसमये तव कोपहेतुः ॥१०॥यत्सत्यमत्र वद निश्चयहेतुहान्यासोद्यो(दी)यते मम मतिश्चिरकालसे(मे)व ।किं ते श्मशानमसिते किमु सर्पहारेसर्वस्वबुद्धिरुत भैक्षकपाल एव ॥११॥एतत्कुतूहलवशेन ममास्ति किंचि-द्विज्ञाप्यमद्य भगवन्भव सावधानः ।किं ते गलस्य यदि वा विबुधाङ्गनानांकण्ठस्य भूषणमवेक्ष्य विषोपयोगः ॥१२॥वा मिश्रणं कुरु मदीयवचोभिरद्यसंदिग्धवस्तुकथनेन शशाङ्कमौले ।मूर्धा नतिस्तदपि लोप्तुमलक्तरागंगौर्यः पदे किमुत वज्रशिखोपरागम् ॥१३॥इत्युप्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये प्रश्नोक्तिपद्धतिः पञ्चदशी । N/A References : N/A Last Updated : September 21, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP