संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्| एकत्रिंशी पद्धतिः भिक्षाटनकाव्यम् प्रथमा पद्धतिः। द्वितीया पद्धतिः। तृतीया पद्धतिः । चतुर्थी पद्धतिः । पञ्चमी पद्धतिः । षष्ठी पद्धतिः । सप्तमी पद्धतिः । अष्टमी पद्धतिः । नवमी पद्धतिः। दशमी पद्धतिः। एकादशी पद्धतिः द्वादशी पद्धतिः त्रयोदशी पद्धतिः चतुर्दशी पद्धतिः पञ्चदशी पद्धतिः षोडशी पद्धतिः सप्तदशी पद्धतिः अष्टादशी पद्धतिः एकोनविंशी पद्धतिः विंशी पद्धतिः एकविंशी पद्धतिः द्वाविंशी पद्धतिः त्रयोविंशी पद्धतिः चतुर्विंशी पद्धतिः पञ्चविंशी पद्धतिः षड्विंशी पद्धतिः सप्तविंशी पद्धतिः अष्टाविंशी पद्धतिः एकोनत्रिंशी पद्धतिः त्रिंशती पद्धतिः एकत्रिंशी पद्धतिः द्वात्रिंशी पद्धतिः त्रयस्त्रिंशी पद्धतिः चतुस्त्रिंशी पद्धतिः पञ्चत्रिंशी पद्धतिः षटत्रिंशी पद्धतिः सप्तत्रिंशी पद्धतिः अष्टत्रिंशी पद्धतिः एकोनचत्वारिंशी पद्धतिः चत्वारिंशी पद्धतिः भिक्षाटनकाव्यम् - एकत्रिंशी पद्धतिः प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : bhikshatankavyamSanskritभिक्षाटनकाव्यमसंस्कृत एकत्रिंशी पद्धतिः Translation - भाषांतर प्राप्तः प्रदोष इति वीक्ष्य निरर्गलेनपुष्पायुधेन भृशपीडितमानसानाम् ।वामभ्रूवां विरहतापविजृम्भितानिवाक्यानि वक्तुमभिवाञ्छति चेतना मे ॥१॥'स्वयमेव भीतिंविध्यन्ति मुग्धहरिणान्विजने पुलिन्दाः ।आचार्यमुच्चरितगोपतिवंशगीतंकामस्तु विध्यति वियोग(गि)जनं प्रपेदे(पद्य) ॥२॥तुभ्यं नमो भवतु वासरलोपसंध्येनान्तःश्लथामनुकरोषि जटां शिवस्य ।आशास्महे वयममी तत एव हेतो-र्मा भूत्कदापि शशिनः शकला........ ॥३॥नेयं निशा हतनिशाचरयोषिदेषाहन्तुं वियोगविधुरं जनमाजगाम ।अस्या मुखे सपदि यः प्रथते प्रकामंरागः स कोपजनितो न तु सांध्यरागः ॥४॥संधुक्षयत्यविरतं हृदयं मदीय-मन्तः प्रविश्य मदनाग्नि1रसौरमीरः (१) ।अस्मिन्नमुष्य विषमास्त्रविमुक्तबाणै-रापाद्यमानविवरे सुकरः प्रवेशः ॥५॥..."पश्चिमे क्षणमदर्शि नभःप्रदेशेरागः क्व यात इति संप्रति मे व(वि)शङ्का ।सत्यं हरेण विरहे हरिणेक्षणानांचित्तेषु पुष्पधनुषा कृतसंविभागः ॥६॥आसन्नचन्द्ररमणप्रणयावि(व)लिप्ताकामव्यथां मनसि कैरविणी करोतु ।अम्भोजिनि त्वमपि संप्रति वल्लभेनविश्लेषिणीमयि(घि) कथं रुजमादधासि ॥७॥दग्धुं जगत्रयमयं किल कोऽपि वह्नि-रुज्जृम्भते वियति सांध्यमहश्छलेन ।इत्थं न चेत्किमपि संप्रति वारि विप्राःसश्रद्धमञ्जलिभिरूर्ध्वममी क्षिपन्ति ॥८॥यस्य प्रयाणसमये प्रकटानुरागःसोऽवश्यमेष्यति पुनः सवितेति सुप्तिम् ।अम्भोजिनी व्रजति सुप्तिकथा कथं स्या-निःसङ्ग एव गिरिशे मम भक्तिमत्याः ॥९॥सास्वे1(?) स वासरपतिर्दिशि पश्चिमायांतेजःक्षयं मयि वशेन बभूव रक्तः ।सा हन्त पातयति सा तमियं वराङ्गीकस्यापदे जगति नान्यतरानुरागः ॥१०॥मन्येऽहमित्थमुदयारुणचन्द्रनामास्वीकारिणः प्रलयकालहुताशनस्य ।धूमोऽयमग्रजनितस्तिमिरच्छलेनविश्लेषिसार्थनयनाश्रुनिपातहेतुः ॥११॥एकस्य रात्रिमुखवेषविषद्रुमस्यसंजातसांध्यकिरणारुणपल्लवस्य ।आगामिपूर्णशशिबिम्बमहाफलस्यतारागणं विगणयामि नवप्रसूनम् ॥१२॥अत्युच्छ्रितादनिल ते मलयात्प्रसूति-र्नित्यं यतः परिचयं सुमनोभिरेव ।दाक्षिण्यवानिति जगद्विदितोऽसि तस्मा-न्मा जातु जारसरणीं व्रज नीचसेव्याम् ॥१३॥पूर्णेन्दुपूरमरुदत्र हिमाम्बुगर्भोगन्धोऽयमस्य मुकुलस्य विजृम्भमाणः ।नाम प्रदोष इति दोषसमग्रभावा-त्स्रष्टा यथार्थमकरोद्रजनीमुखस्य ॥१४॥धन्या हि सा भगवती दिवसान्तसंध्यायामं गतां भुवि सुवीक्ष्य पिनाकपाणिः ।विश्लिष्टबन्धनजटाभरणस्य हर्षा-गौर्याः समक्षमपि कृ(नृत्यति वीतशोकः ॥१५॥इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये प्रदोषोक्त पद्धतिरेकत्रिंशतिः । N/A References : N/A Last Updated : September 21, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP