संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्| द्वितीया पद्धतिः। भिक्षाटनकाव्यम् प्रथमा पद्धतिः। द्वितीया पद्धतिः। तृतीया पद्धतिः । चतुर्थी पद्धतिः । पञ्चमी पद्धतिः । षष्ठी पद्धतिः । सप्तमी पद्धतिः । अष्टमी पद्धतिः । नवमी पद्धतिः। दशमी पद्धतिः। एकादशी पद्धतिः द्वादशी पद्धतिः त्रयोदशी पद्धतिः चतुर्दशी पद्धतिः पञ्चदशी पद्धतिः षोडशी पद्धतिः सप्तदशी पद्धतिः अष्टादशी पद्धतिः एकोनविंशी पद्धतिः विंशी पद्धतिः एकविंशी पद्धतिः द्वाविंशी पद्धतिः त्रयोविंशी पद्धतिः चतुर्विंशी पद्धतिः पञ्चविंशी पद्धतिः षड्विंशी पद्धतिः सप्तविंशी पद्धतिः अष्टाविंशी पद्धतिः एकोनत्रिंशी पद्धतिः त्रिंशती पद्धतिः एकत्रिंशी पद्धतिः द्वात्रिंशी पद्धतिः त्रयस्त्रिंशी पद्धतिः चतुस्त्रिंशी पद्धतिः पञ्चत्रिंशी पद्धतिः षटत्रिंशी पद्धतिः सप्तत्रिंशी पद्धतिः अष्टत्रिंशी पद्धतिः एकोनचत्वारिंशी पद्धतिः चत्वारिंशी पद्धतिः भिक्षाटनकाव्यम् - द्वितीया पद्धतिः। उत्प्रेक्षावल्लभकविविरचितं भिक्षाटनकाव्यम् । Tags : bhikshatankavyamSanskritभिक्षाटनकाव्यमसंस्कृत द्वितीया पद्धतिः। Translation - भाषांतर भिक्षाटनेन पुरुहूतपुराङ्गनाना-माकस्मिकोत्सवविधायिनि भूतनाथे ।तासामनङ्गशरजर्जरमानसानांनानाविधानि चरितानि वयं वदामः ॥१॥रथ्यागतस्य गिरिशस्य विलोकनायनिर्गन्तुकाममनसो(?) वनितागृहेभ्यः ।नैजाभिरूप्यगुणदर्शितपौनरुक्त्य-माचार इत्यभिमतं परिकर्म चक्रुः ॥२॥चन्द्रस्य संचितकलस्य शरत्प्रसादोगन्धद्विपस्य च पुनर्मदिरोपयोगः ।प्रागेव यौवनपरिष्करणे शरीरेभूरोऽपि भूषणविधिः प्रमदाजनस्य ॥३॥लाक्षानियतुमवलम्बितमात्र एवसख्या रेण तरुणाम्बुजकोमलेन ।ईशान्तिकब्रजविघ्नभुवा रुषेवकस्याश्चिदग्रदमाशु बभूव रक्तम् ॥४॥कस्याश्चिदग्रपदमाशु सखी विधायलाक्षाक्र(क्त)मेकमारग्रहणे प्रसक्ते ।आरञ्जितेतरविवेकमपारयन्तीकर्तुं मुहूर्तमनयोः स्तिमितावतस्थे ॥५॥कस्याश्चिता(दा)यतदृशश्चरणारविन्देनैपथ्यकर्मनिपुणेन सखीजनेन ।आमुक्तमेव मणिनूपुरमुन्मदस्यमुक्तक्षणेन निगलो मदनद्विपस्य ॥६॥काचिद्गतित्वरणलुप्तमतिश्चकारचूडामणिं चरण एव चकोरदृष्टिः ।यः स्थापयत्यसम एव पदे स्वमूर्ध्नासंभाव्यमस्य किमहो न जनस्य हास्यम् ॥७॥उद्दामदामकरचापविकल्पमौष्टिंपुंवर्गचित्तमृगवञ्चनमार्गरज्जुम् ।काञ्ची मदीयवलयान्न बहिः पुमर्थइत्यूचि(चु)षी कलरवेण बबन्ध काचित् ॥८॥तां दिव्यसिन्धुपुलिनाकृतिभाजि काचि-त्काञ्चीं नितम्बफलके कलयांचकार ।उत्तीर्णभीमजननाम्बुधयोऽपि मुक्तायामाश्रिता जघनसंगमकौतुकेन ॥९॥मुक्तेरपि प्रियतमाजघनोपभोगःश्रेयान्न मृग्यमिह वस्तुनि नः प्रमाणम् ।तत्पश्यतायतदृशा रशनाकलापेमुक्ता अपि स्वयमहो पुनरेव बद्धाः ॥१०॥पीनस्तनद्वितयधारणकर्शितस्यमध्यस्य मण्डनविधीन्न चकार काचित् ।निःशङ्कमन्यभरनिर्वहणैकजाता-कार्यात्परं न खलु भूषणमस्ति किंचित् ॥११॥हारेण च स्तनयुगं परिभूष्य पीन-मत्यायतं च जघनं रशनागुणेन ।मध्यस्तु हन्त न कयापि विभूषितोऽभू-द्रिक्तिः सतां हि रविनैव हि माननीयः ॥१२॥पङ्कोद्भवत्वपरिवादभयान्मृगाक्ष्याजातं सरोजयुगलं कुचवेशधारी ।शक्यं न धातृविहितं परिहर्तुमस्यभूयोऽपि येन घनचन्दनपङ्कलेपः ॥१३॥तस्मानि(?) शङ्खवलयानि करे कयाचि-त्तानीन्दुखण्डघटितानि ममैष तर्कः ।यस्या निसर्गमृदुपाणिसरोजमेषा-मामोचने झटिति यन्मुकुलीवभूव ॥१४॥एकावलीकलितमौक्तिककैतवेनकस्याश्चिदुन्नतपयोधरयुग्मसेवाम्॥चक्रुर्मनांसि यमिनामतिनिर्मलानिकंदर्पमुक्तशरपातकृतान्तराणि ॥१५॥दास्यामि हारहरिचन्दनकुङ्कुमानिदाक्ष्यं यदा हरवशीकरणं तदा ते ।इत्यात्मनः स्तनमुपांशु निगद्य काचि-त्सर्वेतराङ्गपरिकर्मविधिं चकार ॥१६॥नूनं विदग्धजनकृत्यमतर्क्यपाकंलाक्षारसप्रणयिना वनिताजनेन ।कस्याश्चिदोष्ठपुट एव कृतः समस्तंयूनां मनः सपदि लम्भितरागमासीत् ॥१७॥काचित्स्वकीयदशनानि विशोधयन्तीबिम्बाधरोष्ठरुचिसंगमपाटलानि ।आदर्श एव परिवारजनोपनीतेदृष्ट्वा न जात्वपि पुनर्विरराम रामा ॥१८॥प्रागेव मोहनमथाञ्जनयोजनेनचक्रे तथा मृगदृशो नयनं सखीभिः ।पश्यन्यथा युवजनो गलमीश्वरस्यनिःशेषलुप्तगरलं गणयेदशेषः ॥१९॥साम्ये मिथः स्थितवतोऽभ्युपने(?) नराणांवैषम्यबुद्धिरुभयोः समदर्शनेन ।इत्याकलय्य किल कापि विलोचनान्तेकर्णद्वये गलितमुत्पलमाततान ॥२०॥नामार्द्रचन्दनरसेन सखीललाटेलेखां मदालसदृशो विदधे विदग्धा ।यां वीक्ष्य शंभुरपि मुग्धजटाशशाङ्केशङ्काकुलीकृतमनाः स्वकरं चकार ॥२१॥मा जातु राहुपरिभूतिरतर्क्ययोगा-न्मा भूत्क्षयः किमपि मा च कलङ्कयोगः ।कस्याश्चिदेवमभिधाय मुखेन्दुबिम्बंरक्षामयं तिलकमाप्तजनश्चकार ॥२२॥कस्याश्चन प्रचुरकेशभरे जलाद्रेजाड्यास्पदं तरुणवर्गमनो बभूव ।कालेयधूपजुषु(षि) धूपितमात्तपुष्पेपुष्पाविद्धमथमङ्घ्री(?)निबद्धमेव ॥२३॥इत्युत्प्रेक्षाबलभकृती भिक्षाटनकाव्ये मण्डणपद्धतिद्वितीया । N/A References : N/A Last Updated : September 19, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP