संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्| एकोनचत्वारिंशी पद्धतिः भिक्षाटनकाव्यम् प्रथमा पद्धतिः। द्वितीया पद्धतिः। तृतीया पद्धतिः । चतुर्थी पद्धतिः । पञ्चमी पद्धतिः । षष्ठी पद्धतिः । सप्तमी पद्धतिः । अष्टमी पद्धतिः । नवमी पद्धतिः। दशमी पद्धतिः। एकादशी पद्धतिः द्वादशी पद्धतिः त्रयोदशी पद्धतिः चतुर्दशी पद्धतिः पञ्चदशी पद्धतिः षोडशी पद्धतिः सप्तदशी पद्धतिः अष्टादशी पद्धतिः एकोनविंशी पद्धतिः विंशी पद्धतिः एकविंशी पद्धतिः द्वाविंशी पद्धतिः त्रयोविंशी पद्धतिः चतुर्विंशी पद्धतिः पञ्चविंशी पद्धतिः षड्विंशी पद्धतिः सप्तविंशी पद्धतिः अष्टाविंशी पद्धतिः एकोनत्रिंशी पद्धतिः त्रिंशती पद्धतिः एकत्रिंशी पद्धतिः द्वात्रिंशी पद्धतिः त्रयस्त्रिंशी पद्धतिः चतुस्त्रिंशी पद्धतिः पञ्चत्रिंशी पद्धतिः षटत्रिंशी पद्धतिः सप्तत्रिंशी पद्धतिः अष्टत्रिंशी पद्धतिः एकोनचत्वारिंशी पद्धतिः चत्वारिंशी पद्धतिः भिक्षाटनकाव्यम् - एकोनचत्वारिंशी पद्धतिः प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : bhikshatankavyamSanskritभिक्षाटनकाव्यमसंस्कृत एकोनचत्वारिंशी पद्धतिः Translation - भाषांतर संगत्य रात्रिविरतौ कथमप्यवाप्त-निद्राप्रसादसुलभेन महेश्वरेण ।स्वप्नोपभोगमवदन्प्रमदाः प्रमोद-त्सद्यो हरस्य हि मताय सखीजनाय ॥१॥स्वप्नो हरेण रतिमद्य विधातुमीष-सक्तस्त्वयारतकृपया प्रतिबोधिताहम् ।सुप्तिं व्रजेयमधुनास्य समागमायभूयोऽपि नैव सखि मे प्रतिबोधिनी भूः ॥२॥आलिङ्गिताङ्गमभयं शशिभूषणेनस्वप्ने मया तु न स यन्न गले गृहीतः ।ब्रीडावशस्तिमितया सखि हन्त पापा-न्नोऽज्ञासिषं किमिति सुप्तिविजृम्भितं तत् ॥३॥स्वप्ने हरेण विहितेऽपि तथैव भागेनासीत्क्षतं वपुषि मे सखि हा हतास्मि ।यन्नैव कृष्टमधरं न रतिक्षतस्यक्षत्रं तदेवमुभयं फलहीनमेतत् ॥४॥यः प्रस्थितो गतघृणः सखि चन्द्रमौलिःस्वप्नागतः प्रथममेव मयोपगूढः ।वीथीगतो यदि भवेत्रपयाभिभूतातस्याग्रतो नहि यथैव पुरा भवेयम् ॥५॥सुस्वप्नदर्शनफलं भवति प्रबोधेपश्चादिति स्म कथयन्ति तदन्यथापि ।स्वप्ने शिवस्य निशि वीक्षणमालि जातं.तस्योपगृहनविधिं तदसूत सद्यः ॥६॥स्वप्ने हरेण परिभोगरसेप्सुना मेवासो गृहीतमिदमेव तदा विबुद्धम् ।सख्यावयोरुपरि यानि विचेष्टितानिज्ञाता परं विषमसायक एव तेषाम् ॥७॥यन्मे हरेण सह संगमसौख्यहेतौनेत्रोन्निमीलनदशां स्वयमाससाद ।सोढा स्वयं विपदमर्त्यपहारकृत्यंनेत्रोपमस्य चरिते किमुत स्वदृष्टेः ॥८॥स्वप्नोपलम्भनदशा मम सैव नित्यंभूयात्प्रजागरदशा सखि माददापि (१) ।यस्थामवापदचलेन्द्रसुतैकशेषं वक्तुः प्रजागरसुदुर्लभमीश्वरस्य ॥९॥स्वप्ने शिवः सुदति संप्रति देहि भिक्षा-मित्यूचिवानहमदामविलम्ब्य तस्मै ।नैवाददे न गत[वान् ] सितमेव चक्रेदत्ता मयास्य तु गले दृढमङ्कपाली ॥१०॥यो वीक्षितोऽह(नि) निशि..."सुप्रलब्ध-शर्याप्त(?) ..."मधिरिरंसुरिवाससाद ।दृष्ट्वा तमाशु गलता वसनांशुकेनजारायितं चिरनितम्वनिषेविणा'.." ॥११॥आलम्व्यमानवसना सकलेश्वरेणमुञ्चेत्यवोचमपतच्छिथिलोऽस्य हस्तः ।स्वप्ने सखि क्षणत एव हतो भुजो मेजग्राह कण्ठमयमस्तदयस्य तस्य ॥१२॥स्वप्ने हरेण सति निर्दयमारयुद्धेलुप्तो न चन्दनरसः कुचयोरयं मे ।नैवाधरेऽपि दशनक्षतमीक्ष्यते य-ज्जाग्रग्गतादपि वरं सखि सुप्तभोगः ॥१३॥आविस्मितेन गिरिशेन हृता स्म लज्जानिद्रागमे सखि गृहीतकराभ(ह)मासम् ।आमूलकण्टकितपङ्कजनालकल्प-मद्यापि पश्य चरितार्थमिदं प्रकोष्टम् ॥१४॥रत्युत्सवाय मम लम्बितमीश्वरेणवासोऽनिशं रति ....... समागतेन ।बोधेन तद्गलितमैक्षत हन्त गन्तुंसोऽयं पुरा न खलु तिष्ठति चन्द्रमौली(लिः) ॥१५॥निद्रेव जीवितसखीं मनसैव सख्योयूयं मृषाप्रणयसंवरमाचरन्त्यः ।या दुर्लभं गिरिसुतावरमद्य दूरा-दानीय मे शयनमध्यगतं चकार ॥१६॥निम्नीकृतस्तनयुगं विहितोपगृह-स्वप्नागतेन यदहं परमेश्वरेण ।तेनैव हारगलिताः सखि पश्य मुक्ताःसत्यं भवत्यनृतमेव कृतं शिवेन ॥१७॥इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये स्वप्नोक्तिपद्धतिरेकोनचत्वारिंशत् । N/A References : N/A Last Updated : September 21, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP