संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्|
एकादशी पद्धतिः

भिक्षाटनकाव्यम् - एकादशी पद्धतिः

उत्प्रेक्षावल्लभकविविरचितं भिक्षाटनकाव्यम् ।


भिक्षाप्रदानसमये वनिताजनस्य
शोकेन शंभुमधिकृत्य वचांसि यानि ।
तस्योत्तराण्यपि तया(था)नुनयान्वितानि
वक्ष्यामि तानि विदुषां श्रवणोत्सवाय ॥१॥

भिक्षाटनादिकममङ्गलचेष्टितं ते
किं नाथ सापि सहते गिरिराजपुत्री ।
यद्यत्करोत्यविनयं जगतीह भर्ता
साध्वी वधूरनुगुणैव हि तस्य तस्य ॥२॥

भिक्षाटनं यदि न ते विहृतिप्रवृत्तं
याचस्व भूरि पुरशासनमेव(?) भैक्षम् ।
लोकेऽत्र लोभबहुले मितमेव याच्यं
तावानलाभसमये भविता विषादः ॥३॥

1भिक्षानसाध्यमभियेभिपिनाकपाणे
रुच्यावहं तव तदेव हि कालकूटम् ।
यद्याचितं कृशजनेन तदाशु देयं
दात्रा कदाचिदपि नास्य फलं विचार्यम् ॥४॥

सर्वेष्टसिद्धिफलमीश्वर... धनेशो
याच्यस्त्वया प्रियसखो नतु भिक्षितव्यम् ।
वित्तान्धदुर्मुखनिरीक्षणभीतिभाजां
भिक्षाबलं प्रति निकेतम(न)दैन्यलभ्या ॥५॥

सर्वाः कला वदनतो भवतः प्रवृत्ताः
किं तासु काचिदपि नाथ न पोषहेतुः ।
अन्यैव कापि धनिनां द्रविणात्मिका श्री-
र्विद्यात्मिका च विदुषामपरैव लक्ष्मीः ॥६॥

किंचिन्मुहूर्त्तमिह तिष्ठ विभो मदीयं
गेहं प्रविश्य पुनरेत्य ददामि भिक्षाम् ।
अभ्यर्थिनामभिमतस्य चिरेण लाभा-
दभ्यर्हितः सपदि नास्ति प(य)दस्य लाभः ॥७॥

तां तां समृद्धिममराहवतो 1भवन्ते
भिक्षाटनव्यसनमीश मि(कि)मर्थमेतत् ।
नीचैः कदाचनमस्थिति(?)रन्यदोच्चै-
रप्येकदा भवति देहभृतामवस्था ॥८॥

यत्केवलं तव कराग्रकरोटिपात्र-
मद्याप्यलाभि भवता न किमत्र भैक्षम् ।
उत्साहसंततिकृतामपि देहभाजां
लाभो न यत्नमनुधावति भाग्यहीनम् ॥९॥

मागाः परत्र भवने भव पात्रमद्य
भिक्षोदनैरहमिदं तव पूरयामि ।
वाचां मुधा कुसुमिता विदधाति लोकः
किंचित्तुला फलति नार्थिषु दीर्घतोऽपि ॥१०॥

संपन्नमन्नमखिलेश्वरभैक्षमात्रं
तुभ्यं ददातुमियदेतदपत्रपेऽहम् ।
निर्णीतमेतदखिलार्थिजनेन दाने
देयस्य काललघुता लघुतां क्षिणोति ॥११॥

भैक्षार्थिना प्रतिगृहं चरता त्वयैव
न स्थीयते किमिति हन्त मुहूर्तमात्रम् ।
एकत्र पुष्कलमलब्धवतां स्वकाम्यं
कापि स्थितिर्मधुलिहामिव दुर्लभैव ॥१२॥

दास्यामि भैक्ष्यमखिलेश दिने परस्मिं-
स्तुभ्यं हतेन विधिना गलितोऽन्नकालः ।
संप्रीयतां स खलु नाम तया त्वदुत्त्या
(?)यस्यात्मनः स्थिरमति त्वमिवातनोति ॥१३॥

कालात्ययेऽद्य भवता गृहमागतं मे
नास्त्येव भैक्षमखिलेश किमत्र कृत्यम् ।
नास्तीति यो वदति भिक्षुसमक्षमेव
सद्भावमात्मनि निषेधति नैव देये ॥१४॥

अप्रापणे वदनमेति यथा विकासं
भैक्षस्य नैव हि तथा तव तस्य लाभे ।
वाञ्छाम्यलाभमहना(मा)यतलोचनाभ्यः
सद्यो वियोगविपदाहत एव लाभः ॥१५॥

स्वामिन्मया पुरत एव विखण्डितांशो
भूयोऽपि मां किमनुधावसि भैक्षकामः ।
भृङ्गः परामुकुलनेन विमोधकामः
पुष्पं नु किं पुनरुपैति विकासशङ्की ॥१६॥

तुभ्यं ददामि कथमद्य वरेण्य भिक्षां
तां स्वीकरोति कथमेव भवानलज्जः ।
दाता यथारुचि ददात्यमितं मितं वा
गृह्णाति वस्तु मितमप्यम (ग)तिर्दरिद्रः ॥१७॥

इत्युत्प्रेक्षावल्लभकृती भिक्षाटनकाव्ये दीनोक्तिपद्धतिरेकादशी ।

N/A

References : N/A
Last Updated : September 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP