संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्|
अष्टादशी पद्धतिः

भिक्षाटनकाव्यम् - अष्टादशी पद्धतिः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


भिक्षाप्रतिग्रहमिषेण मृगेक्षणाना-
मादाय मानमपयायिनि लोकनाथे ।
रथ्यासु दुःसहनवोत्कलिकाकुलानां
तासां चरित्रमहमद्य विजृम्भयामि ॥१॥

हारः क्वचित्वचिदलक्तरसः क्वचिच्च
धम्मिल्लपुष्पनिवहः क्वचिदुत्तरीयम् ।
क्वाप्यर्धभग्नवलयानि मृगेक्षणानां
रथ्या भरेण कृतचंक्रमणा विवत्रुः ॥२॥

क्षोणीतले......"निपातितहारमुक्तां
स्वीकर्तुमादृतवतीव निषण्णमूर्तिः ।
रथ्यारजःसु निहितानि विभो पदानि
काचिद्ददर्श सुचिरं पुरतः सखीनाम् ॥३॥

काचित्पुरारिपदलाञ्छनभूषिताया
वीथ्याविमोक्षविमुखी पुरतः सखीनाम् ।
भूमौ विकीर्य मुषतो(?) निजहारमुक्तां
तासां क(क्र)मग्रहणसंभ्रममाचकार ॥४॥

आदाय शंभुपदमुक्तिमदादरेण(?)
रथ्यापरागमपरा निदधे कचाग्रे ।
कन्दर्पमुक्तशितबाणनवव्रणानां
निर्वापणार्थमिव सिद्धरसस्य चूर्णम् ॥५॥

मार्गे शिवस्य पतितं कृतमालपुष्प-
मादाय कापि बहु संकटमाससाद ।
यत्पुष्पमात्रधृतिभूषितमुत्तमाङ्गा-
नैवाङ्गमस्ति च यदन्यत(द)तो वरिष्ठम् ॥६॥

शंभोः कपर्दगलितं कृतमालपुष्पं
लब्ध्वा सखीं प्रमुदितामवलोक्य काचित् ।
वीथ्यागतप्रणयिना स्वयमप्यवाप्तुं
चूडानदीमलभतैव दृशोः क्षणेन ॥७॥

वीथ्या ययाप ललितां कृतपुष्पमालां
शंभोः कपर्दगलितामपरा वहन्ती ।
तां वीथिकां न विजहौ शशिखण्डलोभा
लब्धेऽप्युपर्युपरि काङ्क्षत एव लोकः ॥८॥

वीथ्यां शिवस्य चरणाम्बुजदत्तमुद्रां
काचिद्विलोकयितुमाननमानमय्य ।
धारात्मना निपतदश्रुजलात्तदानीं
ज्याबन्धनी मदनकार्मुकयष्टिरासीत् ॥९॥

अवस्थितं सुचिरमत्र बलिर्गृहीता
साकूतमत्र गिरिशेन विलोकिताहम् ।
इत्याकुला परिजनैः सह तत्र तत्र
बभ्राम नष्टमिव कापि मनोभवे तु ॥१०॥

स्वीकर्तुमैच्छदपरां हरस्य पदमुद्रितमादरेण ।
विन्यासलोपिचकिता मुहुरीक्षमाणा
नैवाददे न च मुमोच वधाश्चिराय ॥११॥

आदौ वृषस्य खुरधूलिरथास्य घण्टा-
नादः पुरः शिशिरमौलिधुनीसमीरः ।
वीथी स्वयं तदनु भूतपतेः प्रवासे
कस्याश्चिदाश्वसथ हेतुरभूत्क्रमेण ॥१२॥

संबन्धि वस्तु दयितेन यथा कयापि
प्रत्या मनः सुखयति ध्रुवमङ्गनानाम् ।
ईशानवाहनवृषानिङ्घ्रिखुराहतायाः
पृथ्व्या रजोभिरविनिःसृतिमाप काचित् ॥१३॥

वीथ्यां चकार कृतमालमवेक्ष्य काचि-
न्मौले शिवस्य निपतेदिति जाततर्का ।
दैवात्तदास्यपचिचाय पुनः शशाङ्कं
लब्धेऽप्युपर्युपरि काङ्क्षत एव लोकः ॥१४॥

यस्यां विरञ्चिबलसूदनदुर्लभाभ्यां
पद्भ्यां चचार सुचिरं स विहारभिक्षुः ।
खच्छन्दकेलिभवनादपि सैव रथ्या
पथ्येति कापि न कदापि गृहं विवेश ॥१५॥

आत्मीयमेव धवलं वलयस्य खण्ड-
मास्ते शिवस्य पतितं वनिता विलोक्य ।
सद्यः कपर्दगलिता शशिनः कलेति
जग्राह काचिदुपसृत्य कुतृहलेन ॥१६॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये रथ्याचरितपद्धतिरष्टादशी ।

N/A

References : N/A
Last Updated : September 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP