संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्| षड्विंशी पद्धतिः भिक्षाटनकाव्यम् प्रथमा पद्धतिः। द्वितीया पद्धतिः। तृतीया पद्धतिः । चतुर्थी पद्धतिः । पञ्चमी पद्धतिः । षष्ठी पद्धतिः । सप्तमी पद्धतिः । अष्टमी पद्धतिः । नवमी पद्धतिः। दशमी पद्धतिः। एकादशी पद्धतिः द्वादशी पद्धतिः त्रयोदशी पद्धतिः चतुर्दशी पद्धतिः पञ्चदशी पद्धतिः षोडशी पद्धतिः सप्तदशी पद्धतिः अष्टादशी पद्धतिः एकोनविंशी पद्धतिः विंशी पद्धतिः एकविंशी पद्धतिः द्वाविंशी पद्धतिः त्रयोविंशी पद्धतिः चतुर्विंशी पद्धतिः पञ्चविंशी पद्धतिः षड्विंशी पद्धतिः सप्तविंशी पद्धतिः अष्टाविंशी पद्धतिः एकोनत्रिंशी पद्धतिः त्रिंशती पद्धतिः एकत्रिंशी पद्धतिः द्वात्रिंशी पद्धतिः त्रयस्त्रिंशी पद्धतिः चतुस्त्रिंशी पद्धतिः पञ्चत्रिंशी पद्धतिः षटत्रिंशी पद्धतिः सप्तत्रिंशी पद्धतिः अष्टत्रिंशी पद्धतिः एकोनचत्वारिंशी पद्धतिः चत्वारिंशी पद्धतिः भिक्षाटनकाव्यम् - षड्विंशी पद्धतिः प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : bhikshatankavyamSanskritभिक्षाटनकाव्यमसंस्कृत षड्विंशी पद्धतिः Translation - भाषांतर उद्यानमाशु विविशुर्हरविप्रयुक्तानार्यो निजातिपरिहारमतिभ्रमेण ।पूर्वं निगूढपतनैश्च शरै............स्तस्याथ दृश्यपतनैश्च सुसंस्कृतैव ॥१॥काचिन्निजोपवन एव वियोगरुग्णापुष्पाणि वीक्ष्य विकृपा निभृतं दुदूये(?) ।हस्तो निजस्य निजचापलदर्शनः ससव्यस्मरातुरजनैर्नतु पुष्पहासः ॥२॥आलोलकिंशुकतरोस्तरुणं प्रसून-मापाटलं परिजहार भयेन काचित् ।निर्भिन्नकामिहृदयक्षतजावसक्तंनूनं स्मरास्त्रमिदमित्युपजातबुद्धिः ॥३॥काचिद्वधूः शमय शंभुवियोगताप-मित्यादरेण मलयद्रुममालिलिङ्ग ।लेभे स सिद्धिमतुलां तरुणैरलभ्यांनैषा स्मरार्तिशमनं फलमाप किंचित् ॥४॥कन्दर्पबाणनिकषच्युतचूर्णकल्पंसद्यः परागमवलोक्य दिशासु पौष्पम् ।आसूचिताखिलवियोगिजनव्यपाय-मुप्तातपांसु(१)मपरा गणयांचकार ॥५॥काचिद्गता विरहिणी सहकारमूल-माकर्ण्य शब्दमशनिस्वननिर्विशेषम् ।सद्यः किमित्युपरि लोचनमर्पयन्तीपापादवैक्षत भयंकरमन्यपुष्टम् ॥६॥कण्ठे कयापि करपल्लवमर्पयन्त्याभृङ्गस्वनव्यथितया गृहवाटिकायाम् ।व्याख्यातमेव च सखीजनदीर्घमान-कर्णावतंसनवपल्लवनैव(?) रम्यम् ॥७॥दृष्ट्वा पलाशमुकुलान्कुटिलखभावा-न्काचिद्भयादपससर्प सुदूरतोऽपि ।मिथ्या प्रकाश्य कथने निजसौमनस्यकौटिल्यमात्मनि भवन्परिवर्जनीयः ॥८॥आलम्बितो विरहदुःखितया कयाचि-दाम्रद्रुमस्य सहसा तरुणप्रवालम् ।कृष्णच्छविर्यदभवन्ननु युक्तमस्यप्रागेव पाणितलशोणिमतस्करस्य ॥९॥यस्यैव चम्पकतरोम(र)पनीय(?) पूर्वंमूले ददौ त(वि)मलशीतलवारिधाराम् ।तस्येतराकुसुमितस्य विनिश्चिकायदातुं पुनर्विरहिणी निशितास्त्रधाराम् ॥१०॥भृङ्गस्वनास्य(ढ्य) कुसुमे कुरवे पुरस्थेगाढं निमील्य नयने विरहिण्ययत्नात् ।कर्णद्वये तु निजसिद्धिविधानहीनेकाचिन्ननन्द च निनिन्द च पद्मयोनिम् ॥११॥काचित्पुरा प्रतिदिनं परिवृद्धिहेतो-र्यस्यै दिदेश सलिलं नवमालिकायै ।सा पुष्पितैव जलमश्रुमिषं वियोगेतस्यै प्रदाय कथमप्यनृणा बभूव ॥१२॥पुष्पेषु संस्तुतिमतीं क्वणितालिमाला-मालोक्य कापि महदेव भयं प्रपेदे ।शंभोस्तृतीयनयनानि(न)लधूमनीलासा मन्मथस्य धनुषो यत एव मौर्वी ॥१३॥यो लम्बितो विरहधर्मितया कदाचि-दुद्यानचूतविटपो मधुसंभ्रमश्रीः ।मानप्रवालकुसुमेक्षणमेव जात-स्पर्शोऽपि कामुकजनैः कुरुते विपत्तिम् ॥१४॥.अङ्गारसंचयमतिर्विरहातुरायाःपुष्पेष्वजायत पलाशमहीरुहस्य ।सा स्थापितैव मधुपैः पुनरेव लीनैःकिंचित्प्रशान्त्युचितकार्ष्ण्यधियं विधाय ॥१५॥1मा पुष्पितोऽयमिति नैव चकार काचि-दुद्यानभाजि पदघातमशेषयूनि ।न्यकारकृत्यमपि नाभिलपन्ति कर्तुंप्रायः प्रसादविषयादपरत्र नार्यः ॥१६॥कामास्त्रमेतदिति जातरुषा लतासुविश्लेषिणी सुमनसा हरणे प्रवृत्ता ।कामास्त्ररक्षकजनैरिव सद्य एवसैषा न्यरोषि(धि) कृतहुंकृतिभिर्द्विरेफैः ॥१७॥स्निग्धेन कोकिलरुतेन नवोद्गतेनचूताङ्कुरेण पवनेन च मालयेन ।कालं वसन्तमवलोक्य जनोपकण्ठेकालं वसन्तमपरा कलयांचकार ॥१८॥आलम्बिता विरहधर्मितया कयाचि-त्क्लान्तप्रवालकुसुमाभवदाम्रशाखा।तां वीक्ष्य तादृशदशां प्रणयिन्यथास्यांदीर्घं स्वकीयमजुगुप्सत बन्धुभावम् ॥१९॥आमूलंपुष्पितमवेक्ष्य पलाशमन्याविश्लेषिणी ज्वलितबुद्धिरिमं शशाप ।.अङ्गारकारकरगोचर एव पूर्वंपश्चात्त्वमेवमरुणच्छविराशु भूयाः ॥२०॥यस्याश्चिराय विदधे गृहयूथिकायाःपुष्पोत्तमाय बहुदैवत (त)र्पणानि ।तां पुष्पितेन परिगृह्य चकार काचि-द्विश्लेषिणीयुवतिजातिसमानकक्ष्याम् ॥२१॥अप्याश्मनीपरिहृतेन मुखं समीक्षेदृष्ट्वा वसन्तसमये लकुलं सपुष्पम् ।काचिव्द्यथां विरहिणी महतीं प्रपेदेसत्यं नहि प्रतिनिधिर्भवितव्यतायाः ॥२२॥इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्य उद्यानचरितपद्धतिः षड्विंशतिः । N/A References : N/A Last Updated : September 21, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP