संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्| सप्तमी पद्धतिः । भिक्षाटनकाव्यम् प्रथमा पद्धतिः। द्वितीया पद्धतिः। तृतीया पद्धतिः । चतुर्थी पद्धतिः । पञ्चमी पद्धतिः । षष्ठी पद्धतिः । सप्तमी पद्धतिः । अष्टमी पद्धतिः । नवमी पद्धतिः। दशमी पद्धतिः। एकादशी पद्धतिः द्वादशी पद्धतिः त्रयोदशी पद्धतिः चतुर्दशी पद्धतिः पञ्चदशी पद्धतिः षोडशी पद्धतिः सप्तदशी पद्धतिः अष्टादशी पद्धतिः एकोनविंशी पद्धतिः विंशी पद्धतिः एकविंशी पद्धतिः द्वाविंशी पद्धतिः त्रयोविंशी पद्धतिः चतुर्विंशी पद्धतिः पञ्चविंशी पद्धतिः षड्विंशी पद्धतिः सप्तविंशी पद्धतिः अष्टाविंशी पद्धतिः एकोनत्रिंशी पद्धतिः त्रिंशती पद्धतिः एकत्रिंशी पद्धतिः द्वात्रिंशी पद्धतिः त्रयस्त्रिंशी पद्धतिः चतुस्त्रिंशी पद्धतिः पञ्चत्रिंशी पद्धतिः षटत्रिंशी पद्धतिः सप्तत्रिंशी पद्धतिः अष्टत्रिंशी पद्धतिः एकोनचत्वारिंशी पद्धतिः चत्वारिंशी पद्धतिः भिक्षाटनकाव्यम् - सप्तमी पद्धतिः । उत्प्रेक्षावल्लभकविविरचितं भिक्षाटनकाव्यम् । Tags : bhikshatankavyamSanskritभिक्षाटनकाव्यमसंस्कृत सप्तमी पद्धतिः । Translation - भाषांतर आपादपद्मयुगमा च कपर्दभारा-दङ्गान्यनङ्गदमनस्य पुरन्ध्रिवर्गः ।नेत्रैरपाकृतनिमेषकथैर्विलोक्यकर्णामृतानि वचनानि मिथो बभाषे ॥१॥नैवान्यदस्ति शरणं चरणारविन्दा-द्गौरीसखस्य सखि दुःखजुषां जनानाम् ।यत्पद्मा(?)दुर्बलमपि स्वयमन्तकस्यवक्षो विभेद दृढमाश्रितरक्षणाय ॥२॥तारापतीन्सुदति पश्य पिनाकपाणेःपूर्णानिमान्पदमुपेत्य नखच्छलेन ।अस्यायमङ्घ्रिकमलाश्रयहानिदोषा-दद्यापि हन्त कृश एव कपर्दचन्द्रः ॥३॥जङ्घायुगं सखि विलोकय भूतभर्तुःसंवाहनेषु गिरिजाकरपल्लवेन ।संजातकण्टकतया प्रतिपद्यतेऽयंनित्यं पदाम्बुरुहकोमलनालकक्ष्याम् ॥४॥कक्षोरगेन्द्रमिह पश्य विभोस्तमेन-मावेष्टनेन विपुले कलितं नितम्बे ।येनायमद्य लभते पुरसुन्दरीणांचित्ताम्बुराशिमथने सखि मन्दरत्वम् ॥५॥नाथस्य सुन्दरि विलोकय नाभिगर्त-मस्योत्तमाङ्गकलिता विबुधस्रवन्ती ।आवर्तमाशु विरचय्य पुनःपुनस्तंयत्साम्यदुर्लभतया शिथिलीकरोति ॥६॥अङ्गीकृतं यदमुना वसनत्वपक्षकक्षोरगेन्द्रफणरत्नमरीचिशोणम् ।मातङ्गचर्म चिरकालनिकृत्तमेत-दद्यापि पश्य रुधिराक्तमिवावभाति ॥७॥नैसर्गिकालमणि(?)शालिनि पश्य भिक्षो-हैरण्यगर्भमयि पाणितले कपालम् ।आविष्करोत्यरुणतामरसे विनिद्रेनिद्रावशस्तिमितहंसगतामभिख्याम् ॥८॥आलेपनं यदिदमस्य भुजान्तरालेतद्भस्मदिग्धवपुषो मदनस्य मन्ये ।नो चेत्कथं कथय वीक्षितमात्र एवसंमोहयेत्सखि मनः सकलाङ्गनानाम् ॥९॥गौर्या मनोहरभुजाफणयोग्य एवकण्ठे कथं सखि हरस्य भुजङ्गहारः ।मन्ये तयान्यवनितासु हृतोपगूढ-साशङ्कया वसति तत्र कृताभ्यनुज्ञः ॥१०॥शीतं निसर्गधवलं हृदये विहायहारं भुजङ्गमतिभीषणमेव धत्ते ।स्वातन्त्र्यभङ्गभयतः प्रभवः कदापिकुर्वन्ति हन्त न गुणेष्वपि पारतन्त्र्यम् ॥११॥हारायितः सखि हरस्य महाभुजङ्गःपार्श्वस्थितिं1 मृगदृशां विरुणद्धि भीमः ।रुन्धे विभुष्वधिकवल्लभतां प्रपद्यप्रायः प्रियाश्रयणमाशु भुजङ्गवर्गः ॥१२॥नैल्यं यदम्य गलमूलगतं तदेके(?)मामग्रणं तुरगमाणिममेष तर्कः ।या कापि सिद्धगुलिकैव मृगेक्षणाना-माश्लेषकौतुकनिषेधनिरूढशक्तेः ॥१३॥यो मूर्ध्नि मुग्धशशिभङ्गभयेन सोढापार्थस्य निघृणशरासनताडनानि ।यो वा करोत्युभयदानमपायकालेतं पश्य दक्षिणकरं सखि शंकरस्य ॥१४॥साकूतमन्दहसितोदयलोभनीया-दास्यादिहास्य सखि संप्रति निर्गतानि ।देहीति लोकबहुमानविवर्जितानियाच्ञाक्षराण्यपि महेश्वरतां ध्वनन्ति ॥१५॥आलोकयैतदखिलेक्षणमालि शंभो-र्निर्हेतुनिह्रुतमनोभवरम्यदेहम् ।सर्वेषु जन्तुषु विभुः समदर्शनोऽपिशाठ्येन यस्य विषमेक्षण एव जातः ॥१६॥सत्यार्थमेव खलु तद्यदिहाद्रु(द्भु)तस्यपात्रं भुजङ्गपरिरक्ष(क्षि)तमाहुरार्याः ।पश्याम्बिकाकलवचोमृतपात्रभूतेकण्ठेऽपि कुण्डलभुजङ्गपरिष्क्रियास्य ॥१७॥फा(भा)लेक्षणान्तिकचर सखि पश्य शंभो.श्चूडाशशाङ्कमतिम(क)र्शितगात्रमेनम् ।स्वप्रेमबन्धुमदनप्लुषि हव्यवाहेत्यक्तुं निजामिव तनुं विहितावसायम् ॥१८॥नासीरपूरणविधौ मकरध्वजस्यचक्रुर्वचांसि सुलभानि च यानि नार्यः ।तानीन्दुशेखरभुजं मदनावमानंसद्यो ममार्जुरपि तस्य वपुः पुरारेः ॥१९॥सत्यं समाश्रितजनो बहुमानलाभे-नाप्राप्तवाञ्छितफलोऽपि विभुं जहाति ।पश्येन्दुरेष कुरुते शिरसा धृतोऽसी-त्येतावता पशुपतेः कृश एव सेवाम् ॥२०॥इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्येऽङ्गवर्णनपद्धतिः सप्तमी । N/A References : N/A Last Updated : September 19, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP