संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्| द्वात्रिंशी पद्धतिः भिक्षाटनकाव्यम् प्रथमा पद्धतिः। द्वितीया पद्धतिः। तृतीया पद्धतिः । चतुर्थी पद्धतिः । पञ्चमी पद्धतिः । षष्ठी पद्धतिः । सप्तमी पद्धतिः । अष्टमी पद्धतिः । नवमी पद्धतिः। दशमी पद्धतिः। एकादशी पद्धतिः द्वादशी पद्धतिः त्रयोदशी पद्धतिः चतुर्दशी पद्धतिः पञ्चदशी पद्धतिः षोडशी पद्धतिः सप्तदशी पद्धतिः अष्टादशी पद्धतिः एकोनविंशी पद्धतिः विंशी पद्धतिः एकविंशी पद्धतिः द्वाविंशी पद्धतिः त्रयोविंशी पद्धतिः चतुर्विंशी पद्धतिः पञ्चविंशी पद्धतिः षड्विंशी पद्धतिः सप्तविंशी पद्धतिः अष्टाविंशी पद्धतिः एकोनत्रिंशी पद्धतिः त्रिंशती पद्धतिः एकत्रिंशी पद्धतिः द्वात्रिंशी पद्धतिः त्रयस्त्रिंशी पद्धतिः चतुस्त्रिंशी पद्धतिः पञ्चत्रिंशी पद्धतिः षटत्रिंशी पद्धतिः सप्तत्रिंशी पद्धतिः अष्टत्रिंशी पद्धतिः एकोनचत्वारिंशी पद्धतिः चत्वारिंशी पद्धतिः भिक्षाटनकाव्यम् - द्वात्रिंशी पद्धतिः प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : bhikshatankavyamSanskritभिक्षाटनकाव्यमसंस्कृत द्वात्रिंशी पद्धतिः Translation - भाषांतर कंदर्पशासनविलविजनेषु रोषा-द्रूपादिवेन्दुमुदयस्थमवेक्ष्य ताग्रम् ।जज्ञे हरेण विरहे वनिताजनस्ययच्चेष्टितं तदधुना कथनीयमास्ते ॥१॥उष्णायमानमुदयारुणमिन्दुबिम्बंकाचिद्रवे(?)विरहिणी न शशाक भत्तुम् ।तस्या विवेकमतिदायितया तदानींतस्योपयोगमहितं शशलाञ्छनत्वम् ॥२॥अन्या बिहाय मदनातुर(?)जीविताशाजातस्पृहा मरणशब्दितमङ्गलाय ।लब्धः शिवो भवतु मे परजन्मनीतिचन्द्रातपे विरहिणी सहसा पपात ॥३॥आलोक्य काचिदुदयारुणमिन्दुबिम्बंविश्लेषिणामविषहं शिशिरं परेषाम् ।द्रोही न वा खलु ममेति जनं विभित्सोःकामास्त्रतः परगवीगणनां चकार ॥४॥ज्ञातो जनैर्विरहतापजुषः परस्यनेत्रद्वयस्य नलिनस्य च ...ति भेदः ।पद्मेषु चन्द्रकिरणैर्मुकुलीकृतेषुयज्जागरूंकमभवन्निशि नेत्रयुग्मम् ॥५॥चूडामणे पशुपतेरिति जृम्भितास्ता(?)तापावहो विरहिणामिति जातभीतः ।चन्द्रस्य काचिदुभ(द)ये विधुरा निजाक्ष्णो-रुन्मीलनेऽपि न शशाक निमीलनेऽपि ॥६॥भिक्षाटनं पशुपतिः कृतवानिहेतियां हातुमह्नि गलितेऽपि हि न क्षमाभूत् ।तां वीथिका निशि मयूखभयाद्विहायछायेव कापि शनकैर्वसतिं विवेश ॥७॥कस्याश्चिदीशविरहव्यथिताशयायाःकामं वदन्तु मुखमेव हि चन्द्रकान्तम् ।तस्या दृशो युगलमप्युदये हिमांशो-र्निर्दिश्यमानबहलोदकमिन्दुकान्ति(न्त)म् ॥८॥यावान्दिनेशपतने विरहातुराया-स्तावान्हिमत्विषि मनागुदिते वितापः ।पातो यथा परहिताय यथार्तिभाजांखेदाय नूनमुदयो मलिनाशयस्य ॥९॥प्लुष्टिर्मनाविरहिणीस्तनमिन्दुपातैःकाचिद्ददौ प्रियसखीमुखमारुताय ।पारब्धमन्यदपरं पलितेक्षणेनजज्वाल हन्त हृदये मदनाग्मिरस्याः ॥१०॥एका शशाङ्ककिरणोपनिपातभीत्यावातायनान्तरविधा न कृतप्रयत्ना ।आमीलनव्यवहृतेन्दुकरप्रयत्ना-ललक्ष्म्या सरोजवसतिं मनसा निनिन्द ॥११॥स्पष्टं मुहुर्भुवनजालकृतप्रवेशै-रिन्दोः करैर्विरहिणी व्यथयांचकार ।स्पष्टं जगत्प्रकृति राजति कामिनीना-(१)मङ्गं मनस्थितिमनाकलयान्करण ॥१२॥इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये चन्द्रोदयपद्धतिर्द्वात्रिंशतिः । N/A References : N/A Last Updated : September 21, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP