संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्| अष्टत्रिंशी पद्धतिः भिक्षाटनकाव्यम् प्रथमा पद्धतिः। द्वितीया पद्धतिः। तृतीया पद्धतिः । चतुर्थी पद्धतिः । पञ्चमी पद्धतिः । षष्ठी पद्धतिः । सप्तमी पद्धतिः । अष्टमी पद्धतिः । नवमी पद्धतिः। दशमी पद्धतिः। एकादशी पद्धतिः द्वादशी पद्धतिः त्रयोदशी पद्धतिः चतुर्दशी पद्धतिः पञ्चदशी पद्धतिः षोडशी पद्धतिः सप्तदशी पद्धतिः अष्टादशी पद्धतिः एकोनविंशी पद्धतिः विंशी पद्धतिः एकविंशी पद्धतिः द्वाविंशी पद्धतिः त्रयोविंशी पद्धतिः चतुर्विंशी पद्धतिः पञ्चविंशी पद्धतिः षड्विंशी पद्धतिः सप्तविंशी पद्धतिः अष्टाविंशी पद्धतिः एकोनत्रिंशी पद्धतिः त्रिंशती पद्धतिः एकत्रिंशी पद्धतिः द्वात्रिंशी पद्धतिः त्रयस्त्रिंशी पद्धतिः चतुस्त्रिंशी पद्धतिः पञ्चत्रिंशी पद्धतिः षटत्रिंशी पद्धतिः सप्तत्रिंशी पद्धतिः अष्टत्रिंशी पद्धतिः एकोनचत्वारिंशी पद्धतिः चत्वारिंशी पद्धतिः भिक्षाटनकाव्यम् - अष्टत्रिंशी पद्धतिः प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : bhikshatankavyamSanskritभिक्षाटनकाव्यमसंस्कृत अष्टत्रिंशी पद्धतिः Translation - भाषांतर नीरन्ध्रमुक्तशरपीडितमानसाना-मेणीदृशामकरुणेन मनोभवेन ।विश्लेषसुप्तिविषयाणि निशाविरामेजातानि यानि चरितानि वदामि तानि ॥१॥निद्रावती गिरिजया कृतदेहसंधि-रप्याजगाम विधुरां स्वयमिन्दुमौलिः ।अप्यन्ययोषिदुपधानपदे निरुद्ध-प्रीत्या ध्रुवं प्रभुजनो भव(ज)तेऽन्यनारीम् ॥२॥वामे विधौ भवति बन्धुजनोऽपि वैरीसुप्तां कथंचिदपि जीवसखीं निशान्ते 1मूर्छाभयाद्विरहिणीं प्रतिबोधयन्तीविच्छन्ति (?)माशु विदधे हरसंगमस्य ॥३॥लाभं परार्थमपरत्र नयेद्विधातासुप्त्यागते विधुरया गिरिशे कयाचित् ।गाढोपगूहनविधेरसकृत्कृतस्यपार्श्वोपधातमभवत्सहसैव पात्रम् ॥४॥रोमाञ्चितैरवयवैः स्फुरिताधरेणकिंचिद्विलग्ननवता च कुचद्वयेन ।ज्ञात्वा सखी हरसमागमनं चरन्तीनिद्रां स्वकीयहरनिर्वहणां ननन्द ॥५॥काचित्कथंचन निशाविरतिप्रसुप्त्यासंमीलिताक्षियुगलापि शिवं ददर्श ।या पुण्डरीकवदना च मृगायताक्षीतस्या विरुद्धचरितास्पदतापि युक्ता ॥६॥साक्षात्कृते पशुपतौ न कदापि शोच्याजायेत मीलनदशा नियतं नराणाम् ।यदृृष्टवद्गिरिशमह्नि तदायताक्ष्यायत्नं विनैव निशि मीलितमक्षियुग्मम् ॥७॥जातप्रबोधजनलभ्यनिजानुभूतिंसुप्यै(प्त्वै)व काप्यनुबभूव शिवं वियुक्ता ।स्नेहः शिवे यदि भवेदमितो नराणांमार्गेण विध्यति न कर्षवतापि शंभुः ॥८॥यत्सुप्तिभङ्गकरणं स्मृतिभिर्निषिद्धंतेनैव सर्वविषयं विरहार्तलक्ष्यम् ।सख्या प्रभातमिति कापि निबोधयन्त्याहा हन्त भञ्जितशिवानुभवा बभूव ॥९॥उद्दिश्य कापि विधुरा गिरिशानुभूतिंसुप्त्यैव लोचननिमीलनमाचकाङ्क्षे ।तस्यास्तदेतदुचितं खलु येन सर्वेपश्यन्ति तं शममना(नो)विनिमीलिताक्षः(क्षा) ॥१०॥आलिङ्गनं किमथवाधरपानमस्यमन्दस्मितं किमुत वा स्थितिरेव तृष्णीम् ।अन्यक्रिया किमपि कापि सखीमपृच्छ-त्स्वनागतेन गिरिशेन रतिं चिकीर्षुः ॥११॥सर्वोऽपि चौर्यमपरा(?) वनितासु कुर्व-न्कामी समीप्सति परस्य जनस्य सुप्तिम् ।आश्चर्यमेतदचलेन्द्रसुताभयेनयत्सुप्तयैव विदधे रसचौर्यमेव ॥१२॥योगप्रबुद्धहरिनाभिसरोजसृष्टौसंभाव्यते न खलु..."गिरिजापरेण ।सृष्ट्यन्तरे कुरु तदागमनप्रधानंसुप्त्येति कापि नयनाम्बुरुहं ययाचे ॥१३॥वामभ्रूवां हरसमानयनाय निद्रानाभ्यर्थिता तदपि सैव न माननीयः ।अभ्यर्थितापि विदधे न सखीति दृष्टंकिं कस्य केन फलमित्युपतर्क्यमेव ॥१४॥पार्श्वे तवेन्दुमुखि शंकरमानयेतिविश्वस्य मां नयनमीलनमाचरेति ।स्वप्ने समागममनेन विबुध्य तन्व्यानिद्रावतीं प्रियसखी विदधे वियुक्ताम् ॥१५॥जाग्रत्प्रपञ्चविपरीतविधानदक्षेदेव्यद्य मे नयनयोः क्षणमात्रमास्व ।काम्यार्थसिद्धिरियतैव ममेति निद्रा-मन्तर्निगद्य विधुरा न च तल्पमाप ॥१६॥इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये स्वप्नपद्धतिरष्टत्रिंशत् । N/A References : N/A Last Updated : September 21, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP