संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्| एकोनविंशी पद्धतिः भिक्षाटनकाव्यम् प्रथमा पद्धतिः। द्वितीया पद्धतिः। तृतीया पद्धतिः । चतुर्थी पद्धतिः । पञ्चमी पद्धतिः । षष्ठी पद्धतिः । सप्तमी पद्धतिः । अष्टमी पद्धतिः । नवमी पद्धतिः। दशमी पद्धतिः। एकादशी पद्धतिः द्वादशी पद्धतिः त्रयोदशी पद्धतिः चतुर्दशी पद्धतिः पञ्चदशी पद्धतिः षोडशी पद्धतिः सप्तदशी पद्धतिः अष्टादशी पद्धतिः एकोनविंशी पद्धतिः विंशी पद्धतिः एकविंशी पद्धतिः द्वाविंशी पद्धतिः त्रयोविंशी पद्धतिः चतुर्विंशी पद्धतिः पञ्चविंशी पद्धतिः षड्विंशी पद्धतिः सप्तविंशी पद्धतिः अष्टाविंशी पद्धतिः एकोनत्रिंशी पद्धतिः त्रिंशती पद्धतिः एकत्रिंशी पद्धतिः द्वात्रिंशी पद्धतिः त्रयस्त्रिंशी पद्धतिः चतुस्त्रिंशी पद्धतिः पञ्चत्रिंशी पद्धतिः षटत्रिंशी पद्धतिः सप्तत्रिंशी पद्धतिः अष्टत्रिंशी पद्धतिः एकोनचत्वारिंशी पद्धतिः चत्वारिंशी पद्धतिः भिक्षाटनकाव्यम् - एकोनविंशी पद्धतिः प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : bhikshatankavyamSanskritभिक्षाटनकाव्यमसंस्कृत एकोनविंशी पद्धतिः Translation - भाषांतर आत्मीयनेत्रपथलम्बिनि वृत्तनाथेरथ्यागता हरवियोगविषादशान्त्यै ।वामेक्षणा जगदुरस्य कथाप्रसङ्गा-दाविष्कृतादृतरसानि मिथो वचांसि ॥१॥कस्मादयं सखि करेण सिभक्ति शंभु-र्भिक्षाटने विधिशिरोमयमेव पात्रम् ।कार्या कदाचिदपि नार्थितकालहानांदीर्घायुषामपि दशेयमितीव शास्ति ॥२॥कोऽन्यो ददाति हिमसानुमतस्तनूनांमारद्रुहे च जगति श्वशुरद्रुहे च ।तं लब्धुमद्रितनयामपहाय कन्यांका वा करोति सुकुमारतनुस्तवांसि ॥३॥कैवापरा गिरिसुतामपहाय कन्यांकामद्रुहं जगति कामयती वृषाङ्कम् ।तस्याः पितुर्हिमवतः श्वशुरद्रुहेऽस्मैकोऽन्यो ददाति तनयामपहाय भीतः ॥४॥अभ्यर्थितः सुरगणेन........(?)विशङ्क(1)चक्रे हरः किमिति तीव्रविषोपयोगम् ।मन्येऽहमुक्तमगुणा गणयन्ति पथ्यंयाच्या विहङ्गकरणाद्विषपानमेव ॥५॥नेत्रानलार्चिषि विभोर्मदनेन साकंप्लोषोत्सवं किमिति नैव रतिः प्रपेदे ।सा तत्र गन्तुमकरोदधभाग्यहान्यातस्या बभूव नयनोदकमन्तरायः ॥६॥कामप्रिया मदनमेव विभोर्वितन्वंदग्धस्तदा किमिति नैव हुताशनेन ।दाह्यो न किं व्यतिकरं शिवया शिवस्यमूढः स्वकृत्यमिति दर्शयितुं प्रवृत्तः ॥७॥शैलात्मजासहचरोऽपि हरः किमर्थंमन्दाकिनीं शिरसि सादरमेव धत्ते ।इत्थं न चेत्कथमयं बहुशो भवान्याःपादप्रहारफलदं कलहं लभेत ॥८॥देहीति दीनपदमाहितपात्रपाणिःकेनार्थिवेषमयमायने(द्रियते) वृषाङ्कः ।सर्वो यथा विभवमाद्रियते जनोऽन्यःकार्श्यं तथा प्रकृतिदुर्लभमीश्वरोऽपि ॥९॥भिक्षैव वृत्तिरजिनं वसनं यदस्यवाहो बृपस्तदयमिच्छति किं महेशः ।सर्वो यथा विभवमाद्रियते जनोऽन्यःकार्श्यं तथा प्रकृतिदुर्लभमीश्वरोऽपि ॥१०॥निद्रानिमीलितविलोचनमूल्यमेषशंभुः स्वदर्शनमदाद्गरुडध्वजाय ।कालान्त एव विभवः कुटिलस्वभावै-र्वृत्त्यैः प्रसाधितधियो महते फलाय ॥११॥कैलासचालनकृतांहस एव कस्मा-दीशः कृपाणमदिशदशकन्धराय ।संत्रासिताद्रितनयादृढकण्ठपांश-लाभेन तुष्टहृदयः स न किं ददाति ॥१२॥आराध्य दुग्धजलधिः सुधयैव देवा-न्देवाय हन्त महते गरलं विदेश ।एवं ध्रुवं प्रकृतिरेव कुलाशयानांनीचेषु संमतिरसंमतिरुत्तमेषु ॥१३॥विद्वज्जनो जगति येन पितामहेनभिक्षाप्रतिग्रहणपात्रमकारि सर्वः ।तस्योत्तमाङ्गमपि शंकरपाणिपद्मेभिक्षाप्रतिग्रहणपात्रमहो बभूव ॥१४॥बाणाहवे मुरजिता विजितः पुरारि-रित्येव विश्वगदितः सखि भूतवादः ।सत्या स एव स यतः प्रभवो लयानांभूत्यै पराक्रमणकृत्यमतीव हास्यम् ॥१५॥शंभो पुरा यदभवन्मदनेन साक-मद्यापि वैरमनुवर्तत एव किं तत् ।गौर्या सहैव कृतविग्रहसंधिना वापुष्पायुधो विकृतविग्रहसंधिरेव ॥१६॥इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये चरितोपलालनपद्धतिरेकोनविंशतिः । N/A References : N/A Last Updated : September 21, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP