संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्| विंशी पद्धतिः भिक्षाटनकाव्यम् प्रथमा पद्धतिः। द्वितीया पद्धतिः। तृतीया पद्धतिः । चतुर्थी पद्धतिः । पञ्चमी पद्धतिः । षष्ठी पद्धतिः । सप्तमी पद्धतिः । अष्टमी पद्धतिः । नवमी पद्धतिः। दशमी पद्धतिः। एकादशी पद्धतिः द्वादशी पद्धतिः त्रयोदशी पद्धतिः चतुर्दशी पद्धतिः पञ्चदशी पद्धतिः षोडशी पद्धतिः सप्तदशी पद्धतिः अष्टादशी पद्धतिः एकोनविंशी पद्धतिः विंशी पद्धतिः एकविंशी पद्धतिः द्वाविंशी पद्धतिः त्रयोविंशी पद्धतिः चतुर्विंशी पद्धतिः पञ्चविंशी पद्धतिः षड्विंशी पद्धतिः सप्तविंशी पद्धतिः अष्टाविंशी पद्धतिः एकोनत्रिंशी पद्धतिः त्रिंशती पद्धतिः एकत्रिंशी पद्धतिः द्वात्रिंशी पद्धतिः त्रयस्त्रिंशी पद्धतिः चतुस्त्रिंशी पद्धतिः पञ्चत्रिंशी पद्धतिः षटत्रिंशी पद्धतिः सप्तत्रिंशी पद्धतिः अष्टत्रिंशी पद्धतिः एकोनचत्वारिंशी पद्धतिः चत्वारिंशी पद्धतिः भिक्षाटनकाव्यम् - विंशी पद्धतिः प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : bhikshatankavyamSanskritभिक्षाटनकाव्यमसंस्कृत विंशी पद्धतिः Translation - भाषांतर गौरीवरस्य पदपातपवित्रपांशुंरथ्याः कथंचिदपहाय शनैः प्रवृत्तैः ।गेहे प्रवेशचरितैः पुरमानिनीनांवाणीमिमां वयममी चरितार्थयामः ॥१॥काचित्सखीविहृतपथ्यवचोङ्कुशानांपातैः प्रवृत्तिविपरीतशिरोविधूतिः ।पार्थस्थितैः परिजनैः परिणुद्यमानाकृच्छ्रेण दुष्टकरिणीव निकेतमाप ॥२॥अच्छिन्नया श्रुति(?)परम्परयैव वीर्यांगौरीपतिं विहितसन्निधिमीक्षमाणा ।सर्वास्वपीह निलयं प्रति कामिनीषुयातासु कापि च न कापि गृहप्रवेशम् ॥३॥प्राक्संगमे पुरजिता मदशोणरूपंशोकेन पाण्डुरमतो नु गृहप्रवेशम् ।कस्याश्चिदाननमभूदुदयाद्रिमेत्यभूयः क्रमाद्विजहता शशिना समानम् ॥४॥आश्रित्य यं भवनतोरणदीर्घदस्म (?)पूर्वं पुरारिमवलोकयति स्म काचित् ।तन्मोक्तुमेव न शशाक गृहप्रवेशेप्राप्ते तदा कलितमूर्तिरिव स्मरास्त्रैः ॥५॥नीतां कथंचन गृहं प्रियबन्धुवर्गोभूयोऽपि निर्जिगमिषुं सहसा रुरोध ।(?)स्निह्यन्ति कारणमपूर्वकपालिनीतिकस्यां कथा झटिति हन्त बहिर्गतैव ॥६॥आपाण्डुगण्डयुगला गलदश्रुनेत्रास्वस्थानविच्युतकटीगुणवन्धपादा ।आलीजनेन परितः परिरक्ष्यमाणाबन्दीव कापि शनकैर्वसतिं विवेश ॥७॥पूर्वं गृहात्प्रचलिता हरदर्शनायवामाङ्घ्रियावकरसैररुणीचकार ।बाष्पैर्मपीमलिनितैर्विनिवर्तमानातामेव कापि पदवीं मलिनीचकार ॥८॥काचित्कथंचन सखीजनसान्त्ववादै-र्द्वारं गतापि हरमार्गविलोकनेच्छुः ।वाणी मनस्विन इवार्थनदैन्यकालेनान्तर्गता च वनिता न बहिर्गता च ॥९॥या पूर्वमुन्नतपयोधरगौरवेणक्लान्ताप्यवाप हरमीक्षितुमाशु रथ्याम् ।तस्यैव सा हृदयदेशजुषा गरिम्णागेहप्रवेशमशकन्न पुनर्विधाना ॥१०॥नाथे चिरेण पतितामनिवर्त्य बुद्धिंकाचित्स्वयं निववृते गुरुवश्यबुद्धिः ।तस्याः पुनर्बहुविचारसखीं विनैवबुद्धिं कृतं मदनु(?)हास्यमभूच्चरित्रम् ॥११॥काचित्कथंचिदपि नैव गृहं विवेशरथ्यां विहाय बहुभिः कृतसान्त्वनापि ।कामातुरस्य हृ(ह)तबन्धुजनावकीर्णेकारानिवाससम एव गृहे निवासः ॥१२॥गेहं प्रविश्य पुनरप्ययमागतस्य (:स)वीथ्यां वृषाङ्क इति कापि विनिर्जगाम ।रथ्यासु भैक्षचरणादपरं न कृत्यंतस्योरसो मृदुमना गणयांचकार ॥१३॥काचित्प्रदक्षिणवि(नि)दर्शनदुर्बलाङ्गीवीथ्यां निपात्य निजभूषणमेकमेकम् ।यावद्गृहोपगमनं ननु तावदेवरथ्यावशेषसकलाभरणा बभूव ॥१४॥वीथ्या कथंचन गृहं वचनप्रभेदैःप्रावेशयद्विरहिणीं प्रियबन्धुवर्गः ।चित्तं तदीयमसमाक्षि(क्ष)विरक्तपाशं(?)नालं प्रवेशय(यि)तुमेव पुनर्बभूव ॥१५॥काचिद्विवेश शयनालयमाप्तसख्यारथ्यां विहाय हरवीक्षणहानिदूना ।तस्या मनश्च विरहव्यथया सहैवश्रीकण्ठसंगममहोत्सवलम्भचिन्ताम् ॥१६॥हस्तच्युतैश्च बलयैश्चिकि(कु)रप्रमुक्तैःपुष्पैश्च यावकरसैश्च पदाग्रमुक्तैः ।कीर्त्यैश्च भा(हा)रमणिभिर्गिरिशस्य रथ्या-माकल्प्य कापि शनकैर्वसतिं विवेश ॥१७॥इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये गृहप्रवेशपद्धतिविंशतिः । N/A References : N/A Last Updated : September 21, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP